| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच।
एकदा देवयात्रायां गोपाला जातकौतुकाः। अनोभिरनडुद्युक्तैः प्रययुस्तेऽम्बिकावनम् १।
एकदा देव-यात्रायाम् गोपालाः जात-कौतुकाः। अनोभिः अनडुह्-युक्तैः प्रययुः ते अम्बिका-वनम्।
ekadā deva-yātrāyām gopālāḥ jāta-kautukāḥ. anobhiḥ anaḍuh-yuktaiḥ prayayuḥ te ambikā-vanam.
तत्र स्नात्वा सरस्वत्यां देवं पशुपतिं विभुम्। आनर्चुरर्हणैर्भक्त्या देवीं च णृपतेऽम्बिकाम् २।
तत्र स्नात्वा सरस्वत्याम् देवम् पशुपतिम् विभुम्। आनर्चुः अर्हणैः भक्त्या देवीम् च णृपते अम्बिकाम्।
tatra snātvā sarasvatyām devam paśupatim vibhum. ānarcuḥ arhaṇaiḥ bhaktyā devīm ca ṇṛpate ambikām.
गावो हिरण्यं वासांसि मधु मध्वन्नमादृताः। ब्राह्मणेभ्यो ददुः सर्वे देवो नः प्रीयतामिति ३।
गावः हिरण्यम् वासांसि मधु मधु अन्नम् आदृताः। ब्राह्मणेभ्यः ददुः सर्वे देवः नः प्रीयताम् इति।
gāvaḥ hiraṇyam vāsāṃsi madhu madhu annam ādṛtāḥ. brāhmaṇebhyaḥ daduḥ sarve devaḥ naḥ prīyatām iti.
ऊषुः सरस्वतीतीरे जलं प्राश्य यतव्रताः। रजनीं तां महाभागा नन्दसुनन्दकादयः ४।
ऊषुः सरस्वती-तीरे जलम् प्राश्य यत-व्रताः। रजनीम् ताम् महाभागाः नन्द-सुनन्दक-आदयः।
ūṣuḥ sarasvatī-tīre jalam prāśya yata-vratāḥ. rajanīm tām mahābhāgāḥ nanda-sunandaka-ādayaḥ.
कश्चिन्महानहिस्तस्मिन्विपिनेऽतिबुभुक्षितः। यदृच्छयागतो नन्दं शयानमुरगोऽग्रसीत् ५।
कश्चिद् महान् अहिः तस्मिन् विपिने अति बुभुक्षितः। यदृच्छया आगतः नन्दम् शयानम् उरगः अग्रसीत्।
kaścid mahān ahiḥ tasmin vipine ati bubhukṣitaḥ. yadṛcchayā āgataḥ nandam śayānam uragaḥ agrasīt.
स चुक्रोशाहिना ग्रस्तः कृष्ण कृष्ण महानयम्। सर्पो मां ग्रसते तात प्रपन्नं परिमोचय ६।
स चुक्रोश अहिना ग्रस्तः कृष्ण कृष्ण महान् अयम्। सर्पः माम् ग्रसते तात प्रपन्नम् परिमोचय।
sa cukrośa ahinā grastaḥ kṛṣṇa kṛṣṇa mahān ayam. sarpaḥ mām grasate tāta prapannam parimocaya.
तस्य चाक्रन्दितं श्रुत्वा गोपालाः सहसोत्थिताः। ग्रस्तं च दृष्ट्वा विभ्रान्ताः सर्पं विव्यधुरुल्मुकैः ७।
तस्य च आक्रन्दितम् श्रुत्वा गोपालाः सहसा उत्थिताः। ग्रस्तम् च दृष्ट्वा विभ्रान्ताः सर्पम् विव्यधुः उल्मुकैः।
tasya ca ākranditam śrutvā gopālāḥ sahasā utthitāḥ. grastam ca dṛṣṭvā vibhrāntāḥ sarpam vivyadhuḥ ulmukaiḥ.
अलातैर्दह्यमानोऽपि नामुञ्चत्तमुरङ्गमः। तमस्पृशत्पदाभ्येत्य भगवान्सात्वतां पतिः ८।
अलातैः दह्यमानः अपि ना अमुञ्चत् तम् उरङ्गमः। तम् अस्पृशत् पदा अभ्येत्य भगवान् सात्वताम् पतिः।
alātaiḥ dahyamānaḥ api nā amuñcat tam uraṅgamaḥ. tam aspṛśat padā abhyetya bhagavān sātvatām patiḥ.
स वै भगवतः श्रीमत्पादस्पर्शहताशुभः। भेजे सर्पवपुर्हित्वा रूपं विद्याधरार्चितम् ९।
स वै भगवतः श्रीमत्-पाद-स्पर्श-हत-अशुभः। भेजे सर्प-वपुः हित्वा रूपम् विद्याधर-अर्चितम्।
sa vai bhagavataḥ śrīmat-pāda-sparśa-hata-aśubhaḥ. bheje sarpa-vapuḥ hitvā rūpam vidyādhara-arcitam.
तमपृच्छद्धृषीकेशः प्रणतं समवस्थितम्। दीप्यमानेन वपुषा पुरुषं हेममालिनम् १०।
तम् अपृच्छत् हृषीकेशः प्रणतम् समवस्थितम्। दीप्यमानेन वपुषा पुरुषम् हेम-मालिनम्।
tam apṛcchat hṛṣīkeśaḥ praṇatam samavasthitam. dīpyamānena vapuṣā puruṣam hema-mālinam.
को भवान्परया लक्ष्म्या रोचतेऽद्भुतदर्शनः। कथं जुगुप्सितामेतां गतिं वा प्रापितोऽवशः ११।
कः भवान् परया लक्ष्म्या रोचते अद्भुत-दर्शनः। कथम् जुगुप्सिताम् एताम् गतिम् वा प्रापितः अवशः।
kaḥ bhavān parayā lakṣmyā rocate adbhuta-darśanaḥ. katham jugupsitām etām gatim vā prāpitaḥ avaśaḥ.
सर्प उवाच।
अहं विद्याधरः कश्चित्सुदर्शन इति श्रुतः। श्रिया स्वरूपसम्पत्त्या विमानेनाचरन्दिशः १२।
अहम् विद्याधरः कश्चिद् सुदर्शनः इति श्रुतः। श्रिया स्व-रूप-सम्पत्त्या विमानेन आचरन् दिशः।
aham vidyādharaḥ kaścid sudarśanaḥ iti śrutaḥ. śriyā sva-rūpa-sampattyā vimānena ācaran diśaḥ.
ऋषीन्विरूपाङ्गिरसः प्राहसं रूपदर्पितः। तैरिमां प्रापितो योनिं प्रलब्धैः स्वेन पाप्मना १३।
ऋषीन् विरूप-अङ्गिरसः प्राहसम् रूप-दर्पितः। तैः इमाम् प्रापितः योनिम् प्रलब्धैः स्वेन पाप्मना।
ṛṣīn virūpa-aṅgirasaḥ prāhasam rūpa-darpitaḥ. taiḥ imām prāpitaḥ yonim pralabdhaiḥ svena pāpmanā.
शापो मेऽनुग्रहायैव कृतस्तैः करुणात्मभिः। यदहं लोकगुरुणा पदा स्पृष्टो हताशुभः १४।
शापः मे अनुग्रहाय एव कृतः तैः करुण-आत्मभिः। यत् अहम् लोकगुरुणा पदा स्पृष्टः हत-अशुभः।
śāpaḥ me anugrahāya eva kṛtaḥ taiḥ karuṇa-ātmabhiḥ. yat aham lokaguruṇā padā spṛṣṭaḥ hata-aśubhaḥ.
तं त्वाहं भवभीतानां प्रपन्नानां भयापहम्। आपृच्छे शापनिर्मुक्तः पादस्पर्शादमीवहन् १५।
तम् त्वा अहम् भव-भीतानाम् प्रपन्नानाम् भय-अपहम्। आपृच्छे शाप-निर्मुक्तः पाद-स्पर्शात् अमीव-हन्।
tam tvā aham bhava-bhītānām prapannānām bhaya-apaham. āpṛcche śāpa-nirmuktaḥ pāda-sparśāt amīva-han.
प्रपन्नोऽस्मि महायोगिन्महापुरुष सत्पते। अनुजानीहि मां देव सर्वलोकेश्वरेश्वर १६।
प्रपन्नः अस्मि महायोगिन् महापुरुष सत्पते। अनुजानीहि माम् देव सर्व-लोक-ईश्वर-ईश्वर।
prapannaḥ asmi mahāyogin mahāpuruṣa satpate. anujānīhi mām deva sarva-loka-īśvara-īśvara.
ब्रह्मदण्डाद्विमुक्तोऽहं सद्यस्तेऽच्युत दर्शनात्। यन्नाम गृह्णन्नखिलान्श्रोतॄनात्मानमेव च। सद्यः पुनाति किं भूयस्तस्य स्पृष्टः पदा हि ते १७।
ब्रह्मदण्डात् विमुक्तः अहम् सद्यस् ते अच्युत दर्शनात्। यद्-नाम गृह्णन् अखिलान् श्रोतॄन् आत्मानम् एव च। सद्यस् पुनाति किम् भूयस् तस्य स्पृष्टः पदा हि ते।
brahmadaṇḍāt vimuktaḥ aham sadyas te acyuta darśanāt. yad-nāma gṛhṇan akhilān śrotṝn ātmānam eva ca. sadyas punāti kim bhūyas tasya spṛṣṭaḥ padā hi te.
इत्यनुज्ञाप्य दाशार्हं परिक्रम्याभिवन्द्य च। सुदर्शनो दिवं यातः कृच्छ्रान्नन्दश्च मोचितः १८।
इति अनुज्ञाप्य दाशार्हम् परिक्रम्य अभिवन्द्य च। सुदर्शनः दिवम् यातः कृच्छ्रात् नन्दः च मोचितः।
iti anujñāpya dāśārham parikramya abhivandya ca. sudarśanaḥ divam yātaḥ kṛcchrāt nandaḥ ca mocitaḥ.
निशाम्य कृष्णस्य तदात्मवैभवं। व्रजौकसो विस्मितचेतसस्ततः। समाप्य तस्मिन्नियमं पुनर्व्रजं। नृपाययुस्तत्कथयन्त आदृताः १९।
निशाम्य कृष्णस्य तदा आत्म-वैभवम्। व्रज-ओकसः विस्मित-चेतसः ततस्। समाप्य तस्मिन् नियमम् पुनर् व्रजम्। नृप-आययुः तत् कथयन्तः आदृताः।
niśāmya kṛṣṇasya tadā ātma-vaibhavam. vraja-okasaḥ vismita-cetasaḥ tatas. samāpya tasmin niyamam punar vrajam. nṛpa-āyayuḥ tat kathayantaḥ ādṛtāḥ.
कदाचिदथ गोविन्दो रामश्चाद्भुतविक्रमः। विजह्रतुर्वने रात्र्यां मध्यगौ व्रजयोषिताम् २०।
कदाचिद् अथ गोविन्दः रामः च अद्भुत-विक्रमः। विजह्रतुः वने रात्र्याम् मध्य-गौ व्रज-योषिताम्।
kadācid atha govindaḥ rāmaḥ ca adbhuta-vikramaḥ. vijahratuḥ vane rātryām madhya-gau vraja-yoṣitām.
उपगीयमानौ ललितं स्त्रीजनैर्बद्धसौहृदैः। स्वलङ्कृतानुलिप्ताङ्गौ स्रग्विनौ विरजोऽम्बरौ २१।
उपगीयमानौ ललितम् स्त्री-जनैः बद्ध-सौहृदैः। सु अलङ्कृत-अनुलिप्त-अङ्गौ स्रग्विनौ विरजः-अम्बरौ।
upagīyamānau lalitam strī-janaiḥ baddha-sauhṛdaiḥ. su alaṅkṛta-anulipta-aṅgau sragvinau virajaḥ-ambarau.
निशामुखं मानयन्तावुदितोडुपतारकम्। मल्लिकागन्धमत्तालि जुष्टं कुमुदवायुना २२।
निशा-मुखम् मानयन्तौ उदित-उडुप-तारकम्। मल्लिका-गन्ध-मत्त-अलि जुष्टम् कुमुद-वायुना।
niśā-mukham mānayantau udita-uḍupa-tārakam. mallikā-gandha-matta-ali juṣṭam kumuda-vāyunā.
जगतुः सर्वभूतानां मनःश्रवणमङ्गलम्। तौ कल्पयन्तौ युगपत्स्वरमण्डलमूर्च्छितम् २३।
जगतुः सर्व-भूतानाम् मनः-श्रवण-मङ्गलम्। तौ कल्पयन्तौ युगपद् स्वर-मण्डल-मूर्च्छितम्।
jagatuḥ sarva-bhūtānām manaḥ-śravaṇa-maṅgalam. tau kalpayantau yugapad svara-maṇḍala-mūrcchitam.
गोप्यस्तद्गीतमाकर्ण्य मूर्च्छिता नाविदन्नृप। स्रंसद्दुकूलमात्मानं स्रस्तकेशस्रजं ततः २४।
गोप्यः तत् गीतम् आकर्ण्य मूर्च्छिताः न अविदत् नृप। स्रंसत्-दुकूलम् आत्मानम् स्रस्त-केश-स्रजम् ततस्।
gopyaḥ tat gītam ākarṇya mūrcchitāḥ na avidat nṛpa. sraṃsat-dukūlam ātmānam srasta-keśa-srajam tatas.
एवं विक्रीडतोः स्वैरं गायतोः सम्प्रमत्तवत्। शङ्खचूड इति ख्यातो धनदानुचरोऽभ्यगात् २५।
एवम् विक्रीडतोः स्वैरम् गायतोः सम्प्रमत्त-वत्। शङ्खचूडः इति ख्यातः धनद-अनुचरः अभ्यगात्।
evam vikrīḍatoḥ svairam gāyatoḥ sampramatta-vat. śaṅkhacūḍaḥ iti khyātaḥ dhanada-anucaraḥ abhyagāt.
तयोर्निरीक्षतो राजंस्तन्नाथं प्रमदाजनम्। क्रोशन्तं कालयामास दिश्युदीच्यामशङ्कितः २६।
तयोः निरीक्षतः राजन् तद्-नाथम् प्रमदा-जनम्। क्रोशन्तम् कालयामास दिशि उदीच्याम् अशङ्कितः।
tayoḥ nirīkṣataḥ rājan tad-nātham pramadā-janam. krośantam kālayāmāsa diśi udīcyām aśaṅkitaḥ.
क्रोशन्तं कृष्ण रामेति विलोक्य स्वपरिग्रहम्। यथा गा दस्युना ग्रस्ता भ्रातरावन्वधावताम् २७।
क्रोशन्तम् कृष्ण राम इति विलोक्य स्व-परिग्रहम्। यथा गाः दस्युना ग्रस्ताः भ्रातरौ अन्वधावताम्।
krośantam kṛṣṇa rāma iti vilokya sva-parigraham. yathā gāḥ dasyunā grastāḥ bhrātarau anvadhāvatām.
मा भैष्टेत्यभयारावौ शालहस्तौ तरस्विनौ। आसेदतुस्तं तरसा त्वरितं गुह्यकाधमम् २८।
मा भैष्ट इति अभय-आरावौ शाल-हस्तौ तरस्विनौ। आसेदतुः तम् तरसा त्वरितम् गुह्यक-अधमम्।
mā bhaiṣṭa iti abhaya-ārāvau śāla-hastau tarasvinau. āsedatuḥ tam tarasā tvaritam guhyaka-adhamam.
स वीक्ष्य तावनुप्राप्तौ कालमृत्यू इवोद्विजन्। विसृज्य स्त्रीजनं मूढः प्राद्रवज्जीवितेच्छया २९।
स वीक्ष्य तौ अनुप्राप्तौ काल-मृत्यू इव उद्विजन्। विसृज्य स्त्री-जनम् मूढः प्राद्रवत् जीवित-इच्छया।
sa vīkṣya tau anuprāptau kāla-mṛtyū iva udvijan. visṛjya strī-janam mūḍhaḥ prādravat jīvita-icchayā.
तमन्वधावद्गोविन्दो यत्र यत्र स धावति। जिहीर्षुस्तच्छिरोरत्नं तस्थौ रक्षन्स्त्रियो बलः ३०।
तम् अन्वधावत् गोविन्दः यत्र यत्र स धावति। जिहीर्षुः तद्-शिरः-रत्नम् तस्थौ रक्षन् स्त्रियः बलः।
tam anvadhāvat govindaḥ yatra yatra sa dhāvati. jihīrṣuḥ tad-śiraḥ-ratnam tasthau rakṣan striyaḥ balaḥ.
अविदूर इवाभ्येत्य शिरस्तस्य दुरात्मनः। जहार मुष्टिनैवाङ्ग सहचूडमणिं विभुः ३१।
अविदूरे इव अभ्येत्य शिरः तस्य दुरात्मनः। जहार मुष्टिना एव अङ्ग सहचूड-मणिम् विभुः।
avidūre iva abhyetya śiraḥ tasya durātmanaḥ. jahāra muṣṭinā eva aṅga sahacūḍa-maṇim vibhuḥ.
शङ्खचूडं निहत्यैवं मणिमादाय भास्वरम्। अग्रजायाददात्प्रीत्या पश्यन्तीनां च योषिताम् ३२।
शङ्खचूडम् निहत्य एवम् मणिम् आदाय भास्वरम्। अग्र-जाया अददात् प्रीत्या पश्यन्तीनाम् च योषिताम्।
śaṅkhacūḍam nihatya evam maṇim ādāya bhāsvaram. agra-jāyā adadāt prītyā paśyantīnām ca yoṣitām.
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे शङ्खचूडवधो नाम चतुस्त्रिंशोऽध्यायः।
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् दशम-स्कन्धे पूर्व-अर्धे शङ्खचूडवधः नाम चतुस्त्रिंशः अध्यायः।
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām daśama-skandhe pūrva-ardhe śaṅkhacūḍavadhaḥ nāma catustriṃśaḥ adhyāyaḥ.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In