| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच - ( अनुष्टुप् )
गोप्यः कृष्णे वनं याते तमनुद्रुतचेतसः । कृष्णलीलाः प्रगायन्त्यो निन्युर्दुःखेन वासरान् ॥ १ ॥
गोप्यः कृष्णे वनम् याते तम् अनुद्रुत-चेतसः । कृष्ण-लीलाः प्रगायन्त्यः निन्युः दुःखेन वासरान् ॥ १ ॥
gopyaḥ kṛṣṇe vanam yāte tam anudruta-cetasaḥ . kṛṣṇa-līlāḥ pragāyantyaḥ ninyuḥ duḥkhena vāsarān .. 1 ..
श्रीगोप्य ऊचुः - ( स्वागता )
वामबाहुकृतवामकपोलो वल्गितभ्रुरधरार्पितवेणुम् । कोमलाङ्गुलिभिराश्रितमार्गं गोप्य ईरयति यत्र मुकुन्दः ॥ २ ॥
वाम-बाहु-कृत-वाम-कपोलः वल्गित-भ्रुः अधर-अर्पित-वेणुम् । कोमल-अङ्गुलिभिः आश्रित-मार्गम् गोप्यः ईरयति यत्र मुकुन्दः ॥ २ ॥
vāma-bāhu-kṛta-vāma-kapolaḥ valgita-bhruḥ adhara-arpita-veṇum . komala-aṅgulibhiḥ āśrita-mārgam gopyaḥ īrayati yatra mukundaḥ .. 2 ..
व्योमयानवनिताः सह सिद्धैः विस्मितास्तदुपधार्य सलज्जाः । काममार्गणसमर्पितचित्ताः कश्मलं ययुरपस्मृतनीव्यः ॥ ३ ॥
व्योम-यान-वनिताः सह सिद्धैः विस्मिताः तत् उपधार्य स लज्जाः । काम-मार्गण-समर्पित-चित्ताः कश्मलम् ययुः अपस्मृत-नीव्यः ॥ ३ ॥
vyoma-yāna-vanitāḥ saha siddhaiḥ vismitāḥ tat upadhārya sa lajjāḥ . kāma-mārgaṇa-samarpita-cittāḥ kaśmalam yayuḥ apasmṛta-nīvyaḥ .. 3 ..
हन्त चित्रमबलाः श्रृणुतेदं हारहास उरसि स्थिरविद्युत् । नन्दसूनुरयमार्तजनानां नर्मदो यर्हि कूजितवेणुः ॥ ४ ॥
हन्त चित्रम् अबलाः श्रृणुत इदम् हार-हासे उरसि स्थिर-विद्युत् । नन्द-सूनुः अयम् आर्त-जनानाम् नर्मदः यर्हि कूजित-वेणुः ॥ ४ ॥
hanta citram abalāḥ śrṛṇuta idam hāra-hāse urasi sthira-vidyut . nanda-sūnuḥ ayam ārta-janānām narmadaḥ yarhi kūjita-veṇuḥ .. 4 ..
वृन्दशो व्रजवृषा मृगगावो वेणुवाद्यहृतचेतस आरात् । दन्तदष्टकवला धृतकर्णा निद्रिता लिखितचित्रमिवासन् ॥ ५ ॥
वृन्दशस् व्रज-वृषाः मृग-गावः वेणु-वाद्य-हृत-चेतसः आरात् । दन्त-दष्ट-कवलाः धृत-कर्णाः निद्रिताः लिखित-चित्रम् इव आसन् ॥ ५ ॥
vṛndaśas vraja-vṛṣāḥ mṛga-gāvaḥ veṇu-vādya-hṛta-cetasaḥ ārāt . danta-daṣṭa-kavalāḥ dhṛta-karṇāḥ nidritāḥ likhita-citram iva āsan .. 5 ..
बर्हिणस्तबकधातुपलाशैः बद्धमल्लपरिबर्हविडम्बः । कर्हिचित्सबल आलि स गोपैः गाः समाह्वयति यत्र मुकुन्दः ॥ ६ ॥
बर्हिण-स्तबक-धातु-पलाशैः बद्ध-मल्ल-परिबर्ह-विडम्बः । कर्हिचित् सबल-आलि स गोपैः गाः समाह्वयति यत्र मुकुन्दः ॥ ६ ॥
barhiṇa-stabaka-dhātu-palāśaiḥ baddha-malla-paribarha-viḍambaḥ . karhicit sabala-āli sa gopaiḥ gāḥ samāhvayati yatra mukundaḥ .. 6 ..
तर्हि भग्नगतयः सरितो वै तत्पदाम्बुजरजोऽनिलनीतम् । स्पृहयतीर्वयमिवाबहुपुण्याः प्रेमवेपितभुजाः स्तिमितापः ॥ ७ ॥
तर्हि भग्न-गतयः सरितः वै तद्-पद-अम्बुज-रजः-अनिल-नीतम् । स्पृहयतीः वयम् इव अबहु-पुण्याः प्रेम-वेपित-भुजाः स्तिमित-अपः ॥ ७ ॥
tarhi bhagna-gatayaḥ saritaḥ vai tad-pada-ambuja-rajaḥ-anila-nītam . spṛhayatīḥ vayam iva abahu-puṇyāḥ prema-vepita-bhujāḥ stimita-apaḥ .. 7 ..
( मिश्र )
अनुचरैः समनुवर्णितवीर्य आदिपूरुष इवाचलभूतिः । वनचरो गिरितटेषु चरन्तीः वेणुनाह्वयति गाः स यदा हि ॥ ८ ॥
अनुचरैः समनुवर्णित-वीर्यः आदिपूरुषः इव अचलभूतिः । वन-चरः गिरि-तटेषु चरन्तीः वेणुना आह्वयति गाः स यदा हि ॥ ८ ॥
anucaraiḥ samanuvarṇita-vīryaḥ ādipūruṣaḥ iva acalabhūtiḥ . vana-caraḥ giri-taṭeṣu carantīḥ veṇunā āhvayati gāḥ sa yadā hi .. 8 ..
वनलतास्तरव आत्मनि विष्णुं व्यञ्जयन्त्य इव पुष्पफलाढ्याः । प्रणतभारविटपा मधुधाराः प्रेमहृष्टतनवः ससृजुः स्म ॥ ९ ॥
वन-लताः तरवः आत्मनि विष्णुम् व्यञ्जयन्त्यः इव पुष्प-फल-आढ्याः । प्रणत-भार-विटपाः मधु-धाराः प्रेम-हृष्ट-तनवः ससृजुः स्म ॥ ९ ॥
vana-latāḥ taravaḥ ātmani viṣṇum vyañjayantyaḥ iva puṣpa-phala-āḍhyāḥ . praṇata-bhāra-viṭapāḥ madhu-dhārāḥ prema-hṛṣṭa-tanavaḥ sasṛjuḥ sma .. 9 ..
दर्शनीयतिलको वनमाला दिव्यगन्धतुलसीमधुमत्तैः । अलिकुलैरलघु गीतामभीष्टं आद्रियन् यर्हि सन्धितवेणुः ॥ १० ॥
दर्शनीय-तिलकः वनमाला दिव्य-गन्ध-तुलसी-मधु-मत्तैः । अलि-कुलैः अलघु गीताम् अभीष्टम् यर्हि सन्धित-वेणुः ॥ १० ॥
darśanīya-tilakaḥ vanamālā divya-gandha-tulasī-madhu-mattaiḥ . ali-kulaiḥ alaghu gītām abhīṣṭam yarhi sandhita-veṇuḥ .. 10 ..
सरसि सारसहंसविहङ्गाः चारुगीतहृतचेतस एत्य । हरिमुपासत ते यतचित्ता हन्त मीलितदृशो धृतमौनाः ॥ ११ ॥
सरसि सारस-हंस-विहङ्गाः चारु-गीत-हृत-चेतसः एत्य । हरिम् उपासत ते यत-चित्ताः हन्त मीलित-दृशः धृत-मौनाः ॥ ११ ॥
sarasi sārasa-haṃsa-vihaṅgāḥ cāru-gīta-hṛta-cetasaḥ etya . harim upāsata te yata-cittāḥ hanta mīlita-dṛśaḥ dhṛta-maunāḥ .. 11 ..
सहबलः स्रगवतंसविलासः सानुषु क्षितिभृतो व्रजदेव्यः । हर्षयन् यर्हि वेणुरवेण जातहर्ष उपरम्भति विश्वम् ॥ १२ ॥
सहबलः स्रज्-अवतंस-विलासः सानुषु क्षितिभृतः व्रज-देव्यः । हर्षयन् यर्हि वेणु-रवेण जात-हर्षः उपरम्भति विश्वम् ॥ १२ ॥
sahabalaḥ sraj-avataṃsa-vilāsaḥ sānuṣu kṣitibhṛtaḥ vraja-devyaḥ . harṣayan yarhi veṇu-raveṇa jāta-harṣaḥ uparambhati viśvam .. 12 ..
महदतिक्रमणशङ्कितचेता मन्दमन्दमनुगर्जति मेघः । सुहृदमभ्यवर्षत् सुमनोभिः छायया च विदधत्प्रतपत्रम् ॥ १३ ॥
महत्-अतिक्रमण-शङ्कित-चेताः मन्द-मन्दम् अनुगर्जति मेघः । सुहृदम् अभ्यवर्षत् सुमनोभिः छायया च विदधत् प्रतपत्रम् ॥ १३ ॥
mahat-atikramaṇa-śaṅkita-cetāḥ manda-mandam anugarjati meghaḥ . suhṛdam abhyavarṣat sumanobhiḥ chāyayā ca vidadhat pratapatram .. 13 ..
विविधगोपचरणेषु विदग्धो वेणुवाद्य उरुधा निजशिक्षाः । तव सुतः सति यदाधरबिम्बे दत्तवेणुरनयत् स्वरजातीः ॥ १४ ॥
विविध-गोप-चरणेषु विदग्धः वेणु-वाद्यः उरुधा निज-शिक्षाः । तव सुतः सति यदा अधर-बिम्बे दत्त-वेणुः अनयत् स्वर-जातीः ॥ १४ ॥
vividha-gopa-caraṇeṣu vidagdhaḥ veṇu-vādyaḥ urudhā nija-śikṣāḥ . tava sutaḥ sati yadā adhara-bimbe datta-veṇuḥ anayat svara-jātīḥ .. 14 ..
सवनशस्तदुपधार्य सुरेशाः शक्रशर्वपरमेष्ठिपुरोगाः । कवय आनतकन्धरचित्ताः कश्मलं ययुरनिश्चिततत्त्वाः ॥ १५ ॥
सवनशस् तत् उपधार्य सुर-ईशाः शक्र-शर्व-परमेष्ठि-पुरोगाः । कवयः आनत-कन्धर-चित्ताः कश्मलम् ययुः अनिश्चित-तत्त्वाः ॥ १५ ॥
savanaśas tat upadhārya sura-īśāḥ śakra-śarva-parameṣṭhi-purogāḥ . kavayaḥ ānata-kandhara-cittāḥ kaśmalam yayuḥ aniścita-tattvāḥ .. 15 ..
निजपदाब्जदलैर्ध्वजवज्र नीरजाङ्कुशविचित्रललामैः । व्रजभुवः शमयन् खुरतोदं वर्ष्मधुर्यगतिरीडितवेणुः ॥ १६ ॥
निज-पद-अब्ज-दलैः ध्वज-वज्र-नीरज-अङ्कुश-विचित्र-ललामैः । व्रज-भुवः शमयन् खुर-तोदम् वर्ष्म-धुर्य-गतिः ईडित-वेणुः ॥ १६ ॥
nija-pada-abja-dalaiḥ dhvaja-vajra-nīraja-aṅkuśa-vicitra-lalāmaiḥ . vraja-bhuvaḥ śamayan khura-todam varṣma-dhurya-gatiḥ īḍita-veṇuḥ .. 16 ..
व्रजति तेन वयं सविलास वीक्षणार्पितमनोभववेगाः । कुजगतिं गमिता न विदामः कश्मलेन कवरं वसनं वा ॥ १७ ॥
व्रजति तेन वयम् सविलास वीक्षण-अर्पित-मनोभव-वेगाः । कुज-गतिम् गमिताः न विदामः कश्मलेन कवरम् वसनम् वा ॥ १७ ॥
vrajati tena vayam savilāsa vīkṣaṇa-arpita-manobhava-vegāḥ . kuja-gatim gamitāḥ na vidāmaḥ kaśmalena kavaram vasanam vā .. 17 ..
मणिधरः क्वचिदागणयन् गा मालया दयितगन्धतुलस्याः । प्रणयिनोऽनुचरस्य कदांसे प्रक्षिपन् भुजमगायत यत्र ॥ १८ ॥
मणिधरः क्वचिद् आगणयन् गाः मालया दयित-गन्ध-तुलस्याः । प्रणयिनः अनुचरस्य प्रक्षिपन् भुजम् अगायत यत्र ॥ १८ ॥
maṇidharaḥ kvacid āgaṇayan gāḥ mālayā dayita-gandha-tulasyāḥ . praṇayinaḥ anucarasya prakṣipan bhujam agāyata yatra .. 18 ..
क्वणितवेणुरववञ्चितचित्ताः कृष्णमन्वसत कृष्णगृहिण्यः । गुणगणार्णमनुगत्य हरिण्यो गोपिका इव विमुक्तगृहाशाः ॥ १९ ॥
क्वणित-वेणु-रव-वञ्चित-चित्ताः कृष्णम् अन्वसत कृष्ण-गृहिण्यः । गुण-गण-अर्णम् अनुगत्य हरिण्यः गोपिकाः इव विमुक्त-गृह-आशाः ॥ १९ ॥
kvaṇita-veṇu-rava-vañcita-cittāḥ kṛṣṇam anvasata kṛṣṇa-gṛhiṇyaḥ . guṇa-gaṇa-arṇam anugatya hariṇyaḥ gopikāḥ iva vimukta-gṛha-āśāḥ .. 19 ..
( स्वागता )
कुन्ददामकृतकौतुकवेषो गोपगोधनवृतो यमुनायाम् । नन्दसूनुरनघे तव वत्सो नर्मदः प्रणयिणां विजहार ॥ २० ॥
कुन्द-दाम-कृत-कौतुक-वेषः गोप-गो-धन-वृतः यमुनायाम् । नन्द-सूनुः अनघे तव वत्सः नर्मदः प्रणयिणाम् विजहार ॥ २० ॥
kunda-dāma-kṛta-kautuka-veṣaḥ gopa-go-dhana-vṛtaḥ yamunāyām . nanda-sūnuḥ anaghe tava vatsaḥ narmadaḥ praṇayiṇām vijahāra .. 20 ..
मन्दवायुरुपवात्यनकूलं मानयन् मलयजस्पर्शेन । वन्दिनस्तमुपदेवगणा ये वाद्यगीतबलिभिः परिवव्रुः ॥ २१ ॥
मन्द-वायुः उपवाति अनकूलम् मानयन् मलयज-स्पर्शेन । वन्दिनः तम् उपदेव-गणाः ये वाद्य-गीत-बलिभिः परिवव्रुः ॥ २१ ॥
manda-vāyuḥ upavāti anakūlam mānayan malayaja-sparśena . vandinaḥ tam upadeva-gaṇāḥ ye vādya-gīta-balibhiḥ parivavruḥ .. 21 ..
वत्सलो व्रजगवां यदगध्रो वन्द्यमानचरणः पथि वृद्धैः । कृत्स्नगोधनमुपोह्य दिनान्ते गीतवेणुरनुगेडितकीर्तिः ॥ २२ ॥
वत्सलः व्रज-गवाम् यत् अगध्रः वन्द्यमान-चरणः पथि वृद्धैः । कृत्स्न-गो-धनम् उपोह्य दिन-अन्ते गीत-वेणुः अनुगेडित-कीर्तिः ॥ २२ ॥
vatsalaḥ vraja-gavām yat agadhraḥ vandyamāna-caraṇaḥ pathi vṛddhaiḥ . kṛtsna-go-dhanam upohya dina-ante gīta-veṇuḥ anugeḍita-kīrtiḥ .. 22 ..
उत्सवं श्रमरुचापि दृशीनां उन्नय खुररजश्छुरितस्रक् । दित्सयैति सुहृदासिष एष देवकीजठरभूरुडुराजः ॥ २३ ॥
उत्सवम् श्रम-रुचा अपि दृशीनाम् उन्नय खुर-रजः-छुरित-स्रज् । दित्सया एति एष देवकी-जठर-भूरुडु-राजः ॥ २३ ॥
utsavam śrama-rucā api dṛśīnām unnaya khura-rajaḥ-churita-sraj . ditsayā eti eṣa devakī-jaṭhara-bhūruḍu-rājaḥ .. 23 ..
( मिश्र )
मदविघूर्णितलोचन ईषन् मानदः स्वसुहृदां वनमाली । बदरपाण्डुवदनो मृदुगण्डं मण्डयन् कनककुण्डललक्ष्म्या ॥ २४ ॥
मद-विघूर्णित-लोचनः ईषत् मानदः स्व-सुहृदाम् वनमाली । बदर-पाण्डु-वदनः मृदु-गण्डम् मण्डयन् कनक-कुण्डल-लक्ष्म्या ॥ २४ ॥
mada-vighūrṇita-locanaḥ īṣat mānadaḥ sva-suhṛdām vanamālī . badara-pāṇḍu-vadanaḥ mṛdu-gaṇḍam maṇḍayan kanaka-kuṇḍala-lakṣmyā .. 24 ..
यदुपतिर्द्विरदराजविहारो यामिनीपतिरिवैष दिनान्ते । मुदितवक्त्र उपयाति दुरन्तं मोचयन् व्रजगवां दिनतापम् ॥ २५ ॥
यदु-पतिः द्विरद-राज-विहारः यामिनीपतिः इव एष दिन-अन्ते । मुदित-वक्त्रः उपयाति दुरन्तम् मोचयन् व्रज-गवाम् दिन-तापम् ॥ २५ ॥
yadu-patiḥ dvirada-rāja-vihāraḥ yāminīpatiḥ iva eṣa dina-ante . mudita-vaktraḥ upayāti durantam mocayan vraja-gavām dina-tāpam .. 25 ..
श्रीशुक उवाच - ( अनुष्टुप् )
एवं व्रजस्त्रियो राजन् कृष्णलीलानुगायतीः । रेमिरेऽहःसु तच्चित्ताः तन्मनस्का महोदयाः ॥ २६ ॥
एवम् व्रज-स्त्रियः राजन् कृष्ण-लीला-अनुगायतीः । रेमिरे अहःसु तद्-चित्ताः तद्-मनस्काः महा-उदयाः ॥ २६ ॥
evam vraja-striyaḥ rājan kṛṣṇa-līlā-anugāyatīḥ . remire ahaḥsu tad-cittāḥ tad-manaskāḥ mahā-udayāḥ .. 26 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे गोपिकायुगलगीतं नाम पञ्चत्रिंशोऽध्यायः ॥ ३५ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् दशम-स्कन्धे पूर्व-अर्धे गोपिकायुगलगीतम् नाम पञ्चत्रिंशः अध्यायः ॥ ३५ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām daśama-skandhe pūrva-ardhe gopikāyugalagītam nāma pañcatriṃśaḥ adhyāyaḥ .. 35 ..
संहितायां दशमस्कन्धे पूर्वार्धे गोपिकायुगलगीतं नाम पञ्चत्रिंशोऽध्यायः ॥ ३५ ॥ हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
संहितायाम् दशम-स्कन्धे पूर्व-अर्धे गोपिकायुगलगीतम् नाम पञ्चत्रिंशः अध्यायः ॥ ३५ ॥ हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
saṃhitāyām daśama-skandhe pūrva-ardhe gopikāyugalagītam nāma pañcatriṃśaḥ adhyāyaḥ .. 35 .. hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In