| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्री शुक उवाच - ( अनुष्टुप् )
अथ तर्ह्यागतो गोष्ठं अरिष्टो वृषभासुरः । महीं महाककुत्कायः कम्पयन् खुरविक्षताम् ॥ १ ॥
अथ तर्हि आगतः गोष्ठम् अरिष्टः वृषभ-असुरः । महीम् महा-ककुद्-कायः कम्पयन् खुर-विक्षताम् ॥ १ ॥
atha tarhi āgataḥ goṣṭham ariṣṭaḥ vṛṣabha-asuraḥ . mahīm mahā-kakud-kāyaḥ kampayan khura-vikṣatām .. 1 ..
रम्भमाणः खरतरं पदा च विलिखन् महीम् । उद्यम्य पुच्छं वप्राणि विषाणाग्रेण चोद्धरन् ॥ २ ॥
रम्भमाणः खरतरम् पदा च विलिखन् महीम् । उद्यम्य पुच्छम् वप्राणि विषाण-अग्रेण च उद्धरन् ॥ २ ॥
rambhamāṇaḥ kharataram padā ca vilikhan mahīm . udyamya puccham vaprāṇi viṣāṇa-agreṇa ca uddharan .. 2 ..
किञ्चित्किञ्चित् शकृन् मुञ्चन् मूत्रयन् स्तब्धलोचनः । यस्य निर्ह्रादितेनाङ्ग निष्ठुरेण गवां नृणाम् ॥ ३ ॥
किञ्चिद् किञ्चिद् शकृत् मुञ्चन् मूत्रयन् स्तब्ध-लोचनः । यस्य निर्ह्रादितेन अङ्ग निष्ठुरेण गवाम् नृणाम् ॥ ३ ॥
kiñcid kiñcid śakṛt muñcan mūtrayan stabdha-locanaḥ . yasya nirhrāditena aṅga niṣṭhureṇa gavām nṛṇām .. 3 ..
पतन्त्यकालतो गर्भाः स्रवन्ति स्म भयेन वै । निर्विशन्ति घना यस्य ककुद्यचलशङ्कया ॥ ४ ॥
पतन्ति अकालतः गर्भाः स्रवन्ति स्म भयेन वै । निर्विशन्ति घनाः यस्य ककुदि अचल-शङ्कया ॥ ४ ॥
patanti akālataḥ garbhāḥ sravanti sma bhayena vai . nirviśanti ghanāḥ yasya kakudi acala-śaṅkayā .. 4 ..
तं तीक्ष्णशृङ्गमुद्वीक्ष्य गोप्यो गोपाश्च तत्रसुः । पशवो दुद्रुवुर्भीता राजन् संत्यज्य गोकुलम् ॥ ५ ॥
तम् तीक्ष्ण-शृङ्गम् उद्वीक्ष्य गोप्यः गोपाः च तत्रसुः । पशवः दुद्रुवुः भीताः राजन् संत्यज्य गोकुलम् ॥ ५ ॥
tam tīkṣṇa-śṛṅgam udvīkṣya gopyaḥ gopāḥ ca tatrasuḥ . paśavaḥ dudruvuḥ bhītāḥ rājan saṃtyajya gokulam .. 5 ..
कृष्ण कृष्णेति ते सर्वे गोविन्दं शरणं ययुः । भगवानपि तद्वीक्ष्य गोकुलं भयविद्रुतम् ॥ ६ ॥
कृष्ण कृष्ण इति ते सर्वे गोविन्दम् शरणम् ययुः । भगवान् अपि तत् वीक्ष्य गोकुलम् भय-विद्रुतम् ॥ ६ ॥
kṛṣṇa kṛṣṇa iti te sarve govindam śaraṇam yayuḥ . bhagavān api tat vīkṣya gokulam bhaya-vidrutam .. 6 ..
मा भैष्टेति गिराश्वास्य वृषासुरमुपाह्वयत् । गोपालैः पशुभिर्मन्द त्रासितैः किमसत्तम ॥ ७ ॥
मा भैष्ट इति गिरा आश्वास्य वृष-असुरम् उपाह्वयत् । गोपालैः पशुभिः मन्द त्रासितैः किम् असत्तम ॥ ७ ॥
mā bhaiṣṭa iti girā āśvāsya vṛṣa-asuram upāhvayat . gopālaiḥ paśubhiḥ manda trāsitaiḥ kim asattama .. 7 ..
बलदर्पहाहं दुष्टानां त्वद्विधानां दुरात्मनाम् । इत्यास्फोट्याच्युतोऽरिष्टं तलशब्देन कोपयन् ॥ ८ ॥
बल-दर्प-हा अहम् दुष्टानाम् त्वद्विधानाम् दुरात्मनाम् । इति आस्फोट्य अच्युतः अरिष्टम् तल-शब्देन कोपयन् ॥ ८ ॥
bala-darpa-hā aham duṣṭānām tvadvidhānām durātmanām . iti āsphoṭya acyutaḥ ariṣṭam tala-śabdena kopayan .. 8 ..
सख्युरंसे भुजाभोगं प्रसार्यावस्थितो हरिः । सोऽप्येवं कोपितोऽरिष्टः खुरेणावनिमुल्लिखन् । उद्यत्पुच्छभ्रमन्मेघः क्रुद्धः कृष्णमुपाद्रवत् ॥ ९ ॥
सख्युः अंसे भुज-आभोगम् प्रसार्य अवस्थितः हरिः । सः अपि एवम् कोपितः अरिष्टः खुरेण अवनिम् उल्लिखन् । उद्यत्-पुच्छ-भ्रमत्-मेघः क्रुद्धः कृष्णम् उपाद्रवत् ॥ ९ ॥
sakhyuḥ aṃse bhuja-ābhogam prasārya avasthitaḥ hariḥ . saḥ api evam kopitaḥ ariṣṭaḥ khureṇa avanim ullikhan . udyat-puccha-bhramat-meghaḥ kruddhaḥ kṛṣṇam upādravat .. 9 ..
अग्रन्यस्तविषाणाग्रः स्तब्धासृग् लोचनोऽच्युतम् । कटाक्षिप्याद्रवत् तूर्ण् इन्द्रमुक्तोऽशनिर्यथा ॥ १० ॥
अग्र-न्यस्त-विषाण-अग्रः स्तब्ध-असृज् लोचनः अच्युतम् । कट-आक्षिप्य अद्रवत् तूर्ण् इन्द्र-मुक्तः अशनिः यथा ॥ १० ॥
agra-nyasta-viṣāṇa-agraḥ stabdha-asṛj locanaḥ acyutam . kaṭa-ākṣipya adravat tūrṇ indra-muktaḥ aśaniḥ yathā .. 10 ..
गृहीत्वा शृङ्गयोस्तं वा अष्टादश पदानि सः । प्रत्यपोवाह भगवान् गजः प्रतिगजं यथा ॥ ११ ॥
गृहीत्वा शृङ्गयोः तम् वै अष्टादश पदानि सः । प्रत्यपोवाह भगवान् गजः प्रतिगजम् यथा ॥ ११ ॥
gṛhītvā śṛṅgayoḥ tam vai aṣṭādaśa padāni saḥ . pratyapovāha bhagavān gajaḥ pratigajam yathā .. 11 ..
सोऽपविद्धो भगवता पुनरुत्थाय सत्वरम् । आपतत् स्विन्नसर्वाङ्गो निःश्वसन् क्रोधमूर्च्छितः ॥ १२ ॥
सः अपविद्धः भगवता पुनर् उत्थाय स त्वरम् । आपतत् स्विन्न-सर्व-अङ्गः निःश्वसन् क्रोध-मूर्च्छितः ॥ १२ ॥
saḥ apaviddhaḥ bhagavatā punar utthāya sa tvaram . āpatat svinna-sarva-aṅgaḥ niḥśvasan krodha-mūrcchitaḥ .. 12 ..
( मिश्र )
तं आपतन्तं स निगृह्य शृङ्गयोः पदा समाक्रम्य निपात्य भूतले । निष्पीडयामास यथाऽऽर्द्रमम्बरं कृत्वा विषाणेन जघान सोऽपतत् ॥ १३ ॥
तम् आपतन्तम् स निगृह्य शृङ्गयोः पदा समाक्रम्य निपात्य भू-तले । निष्पीडयामास यथा आर्द्रम् अम्बरम् कृत्वा विषाणेन जघान सः अपतत् ॥ १३ ॥
tam āpatantam sa nigṛhya śṛṅgayoḥ padā samākramya nipātya bhū-tale . niṣpīḍayāmāsa yathā ārdram ambaram kṛtvā viṣāṇena jaghāna saḥ apatat .. 13 ..
असृग् वमन् मूत्रशकृत् समुत्सृजन् क्षिपंश्च पादाननवस्थितेक्षणः । जगाम कृच्छ्रं निर्ऋतेरथ क्षयं पुष्पैः किरन्तो हरिमीडिरे सुराः ॥ १४ ॥
असृज् वमन् मूत्र-शकृत् समुत्सृजन् क्षिपन् च पादान् अनवस्थित-ईक्षणः । जगाम कृच्छ्रम् निरृतेः अथ क्षयम् पुष्पैः किरन्तः हरिम् ईडिरे सुराः ॥ १४ ॥
asṛj vaman mūtra-śakṛt samutsṛjan kṣipan ca pādān anavasthita-īkṣaṇaḥ . jagāma kṛcchram nirṛteḥ atha kṣayam puṣpaiḥ kirantaḥ harim īḍire surāḥ .. 14 ..
( अनुष्टुप् )
एवं कुकुद्मिनं हत्वा स्तूयमानः द्विजातिभिः । विवेश गोष्ठं सबलो गोपीनां नयनोत्सवः ॥ १५ ॥
एवम् कुकुद्मिनम् हत्वा स्तूयमानः द्विजातिभिः । विवेश गोष्ठम् स बलः गोपीनाम् नयन-उत्सवः ॥ १५ ॥
evam kukudminam hatvā stūyamānaḥ dvijātibhiḥ . viveśa goṣṭham sa balaḥ gopīnām nayana-utsavaḥ .. 15 ..
अरिष्टे निहते दैत्ये कृष्णेनाद्भुतकर्मणा । कंसायाथाह भगवान् नारदो देवदर्शनः ॥ १६ ॥
अरिष्टे निहते दैत्ये कृष्णेन अद्भुत-कर्मणा । कंसाय अथ आह भगवान् नारदः देवदर्शनः ॥ १६ ॥
ariṣṭe nihate daitye kṛṣṇena adbhuta-karmaṇā . kaṃsāya atha āha bhagavān nāradaḥ devadarśanaḥ .. 16 ..
यशोदायाः सुतां कन्यां देवक्याः कृष्णमेव च । रामं च रोहिणीपुत्रं वसुदेवेन बिभ्यता ॥ १७ ॥
यशोदायाः सुताम् कन्याम् देवक्याः कृष्णम् एव च । रामम् च रोहिणी-पुत्रम् वसुदेवेन बिभ्यता ॥ १७ ॥
yaśodāyāḥ sutām kanyām devakyāḥ kṛṣṇam eva ca . rāmam ca rohiṇī-putram vasudevena bibhyatā .. 17 ..
न्यस्तौ स्वमित्रे नन्दे वै याभ्यां ते पुरुषा हताः । निशम्य तद्भोजपतिः कोपात् प्रचलितेन्द्रियः ॥ १८ ॥
न्यस्तौ स्व-मित्रे नन्दे वै याभ्याम् ते पुरुषाः हताः । निशम्य तत् भोज-पतिः कोपात् प्रचलित-इन्द्रियः ॥ १८ ॥
nyastau sva-mitre nande vai yābhyām te puruṣāḥ hatāḥ . niśamya tat bhoja-patiḥ kopāt pracalita-indriyaḥ .. 18 ..
निशातमसिमादत्त वसुदेवजिघांसया निवारितो नारदेन तत्सुतौ मृत्युमात्मनः ॥ १९ ॥
निशातम् असिम् आदत्त वसुदेव-जिघांसया निवारितः नारदेन तद्-सुतौ मृत्युम् आत्मनः ॥ १९ ॥
niśātam asim ādatta vasudeva-jighāṃsayā nivāritaḥ nāradena tad-sutau mṛtyum ātmanaḥ .. 19 ..
ज्ञात्वा लोहमयैः पाशैः बबन्ध सह भार्यया । प्रतियाते तु देवर्षौ कंस आभाष्य केशिनम् ॥ २० ॥
ज्ञात्वा लोह-मयैः पाशैः बबन्ध सह भार्यया । प्रतियाते तु देव-ऋषौ कंसे आभाष्य केशिनम् ॥ २० ॥
jñātvā loha-mayaiḥ pāśaiḥ babandha saha bhāryayā . pratiyāte tu deva-ṛṣau kaṃse ābhāṣya keśinam .. 20 ..
प्रेषयामास हन्येतां भवता रामकेशवौ । ततो मुष्टिकचाणूर शलतोशलकादिकान् ॥ २१ ॥
प्रेषयामास हन्येताम् भवता राम-केशवौ । ततस् मुष्टिक-चाणूर-शलतः ऊशलक-आदिकान् ॥ २१ ॥
preṣayāmāsa hanyetām bhavatā rāma-keśavau . tatas muṣṭika-cāṇūra-śalataḥ ūśalaka-ādikān .. 21 ..
अमात्यान् हस्तिपांश्चैव समाहूयाह भोजराट् । भो भो निशम्यतामेतद् वीरचाणूरमुष्टिकौ ॥ २२ ॥
अमात्यान् हस्तिपान् च एव समाहूय आह भोजराज् । भो भो निशम्यताम् एतत् वीर-चाणूर-मुष्टिकौ ॥ २२ ॥
amātyān hastipān ca eva samāhūya āha bhojarāj . bho bho niśamyatām etat vīra-cāṇūra-muṣṭikau .. 22 ..
नन्दव्रजे किलासाते सुतावानकदुन्दुभेः । रामकृष्णौ ततो मह्यं मृत्युः किल निदर्शितः ॥ २३ ॥
नन्द-व्रजे सुतौ आनकदुन्दुभेः । राम-कृष्णौ ततस् मह्यम् मृत्युः किल निदर्शितः ॥ २३ ॥
nanda-vraje sutau ānakadundubheḥ . rāma-kṛṣṇau tatas mahyam mṛtyuḥ kila nidarśitaḥ .. 23 ..
भवद्भ्यामिह सम्प्राप्तौ हन्येतां मल्ललीलया । मञ्चाः क्रियन्तां विविधा मल्लरङ्गपरिश्रिताः । पौरा जानपदाः सर्वे पश्यन्तु स्वैरसंयुगम् ॥ २४ ॥
भवद्भ्याम् इह सम्प्राप्तौ हन्येताम् मल्ल-लीलया । मञ्चाः क्रियन्ताम् विविधाः मल्ल-रङ्ग-परिश्रिताः । पौराः जानपदाः सर्वे पश्यन्तु स्वैर-संयुगम् ॥ २४ ॥
bhavadbhyām iha samprāptau hanyetām malla-līlayā . mañcāḥ kriyantām vividhāḥ malla-raṅga-pariśritāḥ . paurāḥ jānapadāḥ sarve paśyantu svaira-saṃyugam .. 24 ..
महामात्र त्वया भद्र रङ्गद्वार्युपनीयताम् । द्विपः कुवलयापीडो जहि तेन ममाहितौ ॥ २५ ॥
महामात्र त्वया भद्र रङ्ग-द्वारि उपनीयताम् । द्विपः कुवलयापीडः जहि तेन मम अहितौ ॥ २५ ॥
mahāmātra tvayā bhadra raṅga-dvāri upanīyatām . dvipaḥ kuvalayāpīḍaḥ jahi tena mama ahitau .. 25 ..
आरभ्यतां धनुर्यागः चतुर्दश्यां यथाविधि । विशसन्तु पशून् मेध्यान् भूतराजाय मीढुषे ॥ २६ ॥
आरभ्यताम् धनुः-यागः चतुर्दश्याम् यथाविधि । विशसन्तु पशून् मेध्यान् भूतराजाय मीढुषे ॥ २६ ॥
ārabhyatām dhanuḥ-yāgaḥ caturdaśyām yathāvidhi . viśasantu paśūn medhyān bhūtarājāya mīḍhuṣe .. 26 ..
इत्याज्ञाप्यार्थतन्त्रज्ञ आहूय यदुपुङ्गवम् । गृहीत्वा पाणिना पाणिं ततोऽक्रूरमुवाच ह ॥ २७ ॥
इति आज्ञाप्य अर्थ-तन्त्र-ज्ञः आहूय यदु-पुङ्गवम् । गृहीत्वा पाणिना पाणिम् ततस् अक्रूरम् उवाच ह ॥ २७ ॥
iti ājñāpya artha-tantra-jñaḥ āhūya yadu-puṅgavam . gṛhītvā pāṇinā pāṇim tatas akrūram uvāca ha .. 27 ..
भो भो दानपते मह्यं क्रियतां मैत्रमादृतः । नान्यस्त्वत्तो हिततमो विद्यते भोजवृष्णिषु ॥ २८ ॥
भो भो दानपते मह्यम् क्रियताम् मैत्रम् आदृतः । न अन्यः त्वत्तः हिततमः विद्यते भोज-वृष्णिषु ॥ २८ ॥
bho bho dānapate mahyam kriyatām maitram ādṛtaḥ . na anyaḥ tvattaḥ hitatamaḥ vidyate bhoja-vṛṣṇiṣu .. 28 ..
अतस्त्वामाश्रितः सौम्य कार्यगौरवसाधनम् । यथेन्द्रो विष्णुमाश्रित्य स्वार्थमध्यगमद् विभुः ॥ २९ ॥
अतस् त्वाम् आश्रितः सौम्य कार्य-गौरव-साधनम् । यथा इन्द्रः विष्णुम् आश्रित्य स्व-अर्थम् अध्यगमत् विभुः ॥ २९ ॥
atas tvām āśritaḥ saumya kārya-gaurava-sādhanam . yathā indraḥ viṣṇum āśritya sva-artham adhyagamat vibhuḥ .. 29 ..
गच्छ नन्दव्रजं तत्र सुतौ आवानकदुन्दुभेः । आसाते तौ इहानेन रथेनानय मा चिरम् ॥ ३० ॥
गच्छ नन्दव्रजम् तत्र सुतौ आवानकदुन्दुभेः । आसाते तौ इह अनेन रथेन आनय मा चिरम् ॥ ३० ॥
gaccha nandavrajam tatra sutau āvānakadundubheḥ . āsāte tau iha anena rathena ānaya mā ciram .. 30 ..
निसृष्टः किल मे मृत्युः देवैर्वैकुण्ठसंश्रयैः । तावानय समं गोपैः नन्दाद्यैः साभ्युपायनैः ॥ ३१ ॥
निसृष्टः किल मे मृत्युः देवैः वैकुण्ठ-संश्रयैः । तावान् अय समम् गोपैः नन्द-आद्यैः स अभ्युपायनैः ॥ ३१ ॥
nisṛṣṭaḥ kila me mṛtyuḥ devaiḥ vaikuṇṭha-saṃśrayaiḥ . tāvān aya samam gopaiḥ nanda-ādyaiḥ sa abhyupāyanaiḥ .. 31 ..
घातयिष्य इहानीतौ कालकल्पेन हस्तिना । यदि मुक्तौ ततो मल्लैः घातये वैद्युतोपमैः ॥ ३२ ॥
घातयिष्ये इह आनीतौ काल-कल्पेन हस्तिना । यदि मुक्तौ ततस् मल्लैः घातये वैद्युत-उपमैः ॥ ३२ ॥
ghātayiṣye iha ānītau kāla-kalpena hastinā . yadi muktau tatas mallaiḥ ghātaye vaidyuta-upamaiḥ .. 32 ..
तयोर्निहतयोस्तप्तान् वसुदेवपुरोगमान् । तद्बन्धून् निहनिष्यामि वृष्णिभोजदशार्हकान् ॥ ३३ ॥
तयोः निहतयोः तप्तान् वसुदेव-पुरोगमान् । तद्-बन्धून् निहनिष्यामि वृष्णि-भोज-दशार्हकान् ॥ ३३ ॥
tayoḥ nihatayoḥ taptān vasudeva-purogamān . tad-bandhūn nihaniṣyāmi vṛṣṇi-bhoja-daśārhakān .. 33 ..
उग्रसेनं च पितरं स्थविरं राज्यकामुकम् । तद्भ्रातरं देवकं च ये चान्ये विद्विषो मम ॥ ३४ ॥
उग्रसेनम् च पितरम् स्थविरम् राज्य-कामुकम् । तद्-भ्रातरम् देवकम् च ये च अन्ये विद्विषः मम ॥ ३४ ॥
ugrasenam ca pitaram sthaviram rājya-kāmukam . tad-bhrātaram devakam ca ye ca anye vidviṣaḥ mama .. 34 ..
ततश्चैषा मही मित्र भवित्री नष्टकण्टका । जरासन्धो मम गुरुः द्विविदो दयितः सखा ॥ ३५ ॥
ततस् च एषा मही मित्र भवित्री नष्ट-कण्टका । जरासन्धः मम गुरुः द्विविदः दयितः सखा ॥ ३५ ॥
tatas ca eṣā mahī mitra bhavitrī naṣṭa-kaṇṭakā . jarāsandhaḥ mama guruḥ dvividaḥ dayitaḥ sakhā .. 35 ..
शम्बरो नरको बाणो मय्येव कृतसौहृदाः । तैरहं सुरपक्षीयान् हत्वा भोक्ष्ये महीं नृपान् ॥ ३६ ॥
शम्बरः नरकः बाणः मयि एव कृत-सौहृदाः । तैः अहम् सुर-पक्षीयान् हत्वा भोक्ष्ये महीम् नृपान् ॥ ३६ ॥
śambaraḥ narakaḥ bāṇaḥ mayi eva kṛta-sauhṛdāḥ . taiḥ aham sura-pakṣīyān hatvā bhokṣye mahīm nṛpān .. 36 ..
एतज्ज्ञात्वाऽनय क्षिप्रं रामकृष्णाविहार्भकौ । धनुर्मखनिरीक्षार्थं द्रष्टुं यदुपुरश्रियम् ॥ ३७ ॥
एतत् ज्ञात्वा अनय क्षिप्रम् राम-कृष्णौ इह अर्भकौ । धनुः-मख-निरीक्षा-अर्थम् द्रष्टुम् यदु-पुर-श्रियम् ॥ ३७ ॥
etat jñātvā anaya kṣipram rāma-kṛṣṇau iha arbhakau . dhanuḥ-makha-nirīkṣā-artham draṣṭum yadu-pura-śriyam .. 37 ..
श्रीअक्रूर उवाच -
राजन् मनीषितं सध्र्यक् तव स्वावद्यमार्जनम् । सिद्ध्यसिद्ध्योः समं कुर्याद् दैवं हि फलसाधनम् ॥ ३८ ॥
राजन् मनीषितम् सध्र्यक् तव स्वावद्य-मार्जनम् । सिद्धि-असिद्ध्योः समम् कुर्यात् दैवम् हि फल-साधनम् ॥ ३८ ॥
rājan manīṣitam sadhryak tava svāvadya-mārjanam . siddhi-asiddhyoḥ samam kuryāt daivam hi phala-sādhanam .. 38 ..
मनोरथान् करोत्युच्चैः जनो दैवहतानपि । युज्यते हर्षशोकाभ्यां तथाप्याज्ञां करोमि ते ॥ ३९ ॥
मनोरथान् करोति उच्चैस् जनः दैव-हतान् अपि । युज्यते हर्ष-शोकाभ्याम् तथा अपि आज्ञाम् करोमि ते ॥ ३९ ॥
manorathān karoti uccais janaḥ daiva-hatān api . yujyate harṣa-śokābhyām tathā api ājñām karomi te .. 39 ..
श्रीशुक उवाच -
एवमादिश्य चाक्रूरं मन्त्रिणश्च विषृज्य सः । प्रविवेश गृहं कंसः तथाक्रूरः स्वमालयम् ॥ ४० ॥
एवम् आदिश्य च अक्रूरम् मन्त्रिणः च विषृज्य सः । प्रविवेश गृहम् कंसः तथा अक्रूरः स्वम् आलयम् ॥ ४० ॥
evam ādiśya ca akrūram mantriṇaḥ ca viṣṛjya saḥ . praviveśa gṛham kaṃsaḥ tathā akrūraḥ svam ālayam .. 40 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे अक्रूरसंप्रेषणं नाम षट्त्रिंशोऽध्यायः ॥ ३६ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् दशम-स्कन्धे पूर्व-अर्धे अक्रूरसंप्रेषणम् नाम षट्त्रिंशः अध्यायः ॥ ३६ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām daśama-skandhe pūrva-ardhe akrūrasaṃpreṣaṇam nāma ṣaṭtriṃśaḥ adhyāyaḥ .. 36 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In