| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच - ( अनुष्टुप् )
अक्रूरोऽपि च तां रात्रिं मधुपुर्यां महामतिः । उषित्वा रथमास्थाय प्रययौ नन्दगोकुलम् ॥ १ ॥
अक्रूरः अपि च ताम् रात्रिम् मधुपुर्याम् महामतिः । उषित्वा रथम् आस्थाय प्रययौ नन्द-गोकुलम् ॥ १ ॥
akrūraḥ api ca tām rātrim madhupuryām mahāmatiḥ . uṣitvā ratham āsthāya prayayau nanda-gokulam .. 1 ..
गच्छन् पथि महाभागो भगवत्यम्बुजेक्षणे । भक्तिं परामुपगत एवमेतदचिन्तयत् ॥ २ ॥
गच्छन् पथि महाभागः भगवति अम्बुज-ईक्षणे । भक्तिम् पराम् उपगतः एवम् एतत् अचिन्तयत् ॥ २ ॥
gacchan pathi mahābhāgaḥ bhagavati ambuja-īkṣaṇe . bhaktim parām upagataḥ evam etat acintayat .. 2 ..
किं मयाऽऽचरितं भद्रं किं तप्तं परमं तपः । किं वाथाप्यर्हते दत्तं यद् द्रक्ष्याम्यद्य केशवम् ॥ ३ ॥
किम् मया आचरितम् भद्रम् किम् तप्तम् परमम् तपः । किम् वा अथ अपि अर्हते दत्तम् यत् द्रक्ष्यामि अद्य केशवम् ॥ ३ ॥
kim mayā ācaritam bhadram kim taptam paramam tapaḥ . kim vā atha api arhate dattam yat drakṣyāmi adya keśavam .. 3 ..
ममैतद् दुर्लभं मन्ये उत्तमःश्लोकदर्शनम् । विषयात्मनो यथा ब्रह्म कीर्तनं शूद्रजन्मनः ॥ ४ ॥
मम एतत् दुर्लभम् मन्ये उत्तमःश्लोक-दर्शनम् । विषय-आत्मनः यथा ब्रह्म कीर्तनम् शूद्रजन्मनः ॥ ४ ॥
mama etat durlabham manye uttamaḥśloka-darśanam . viṣaya-ātmanaḥ yathā brahma kīrtanam śūdrajanmanaḥ .. 4 ..
मैवं ममाधमस्यापि स्यादेवाच्युतदर्शनम् । ह्रियमाणः कलनद्या क्वचित्तरति कश्चन ॥ ५ ॥
मा एवम् मम अधमस्य अपि स्यात् एव अच्युत-दर्शनम् । ह्रियमाणः कल-नद्या क्वचिद् तरति कश्चन ॥ ५ ॥
mā evam mama adhamasya api syāt eva acyuta-darśanam . hriyamāṇaḥ kala-nadyā kvacid tarati kaścana .. 5 ..
ममाद्यामङ्गलं नष्टं फलवांश्चैव मे भवः । यन्नमस्ये भगवतो योगिध्येयांघ्रिपङ्कजम् ॥ ६ ॥
मम अद्य अमङ्गलम् नष्टम् फलवान् च एव मे भवः । यत् नमस्ये भगवतः योगि-ध्येय-अंघ्रि-पङ्कजम् ॥ ६ ॥
mama adya amaṅgalam naṣṭam phalavān ca eva me bhavaḥ . yat namasye bhagavataḥ yogi-dhyeya-aṃghri-paṅkajam .. 6 ..
( मिश्र )
कंसो बताद्याकृत मेऽत्यनुग्रहं द्रक्ष्येऽङ्घ्रिपद्मं प्रहितोऽमुना हरेः । कृतावतारस्य दुरत्ययं तमः पूर्वेऽतरन् यन्नखमण्डलत्विषा ॥ ७ ॥
कंसः बत अद्य अकृत मे अति अनुग्रहम् द्रक्ष्ये अङ्घ्रि-पद्मम् प्रहितः अमुना हरेः । कृत-अवतारस्य दुरत्ययम् तमः पूर्वे अतरन् यत् नख-मण्डल-त्विषा ॥ ७ ॥
kaṃsaḥ bata adya akṛta me ati anugraham drakṣye aṅghri-padmam prahitaḥ amunā hareḥ . kṛta-avatārasya duratyayam tamaḥ pūrve ataran yat nakha-maṇḍala-tviṣā .. 7 ..
यदर्चितं ब्रह्मभवादिभिः सुरैः श्रिया च देव्या मुनिभिः ससात्वतैः । गोचारणायानुचरैश्चरद्वने यद्गोपिकानां कुचकुङ्कुमाङ्कितम् ॥ ८ ॥
यत् अर्चितम् ब्रह्म-भव-आदिभिः सुरैः श्रिया च देव्या मुनिभिः स सात्वतैः । गोचारणाय अनुचरैः चरत् वने यत् गोपिकानाम् कुच-कुङ्कुम-अङ्कितम् ॥ ८ ॥
yat arcitam brahma-bhava-ādibhiḥ suraiḥ śriyā ca devyā munibhiḥ sa sātvataiḥ . gocāraṇāya anucaraiḥ carat vane yat gopikānām kuca-kuṅkuma-aṅkitam .. 8 ..
द्रक्ष्यामि नूनं सुकपोलनासिकं स्मितावलोकारुणकञ्जलोचनम् । मुखं मुकुन्दस्य गुडालकावृतं प्रदक्षिणं मे प्रचरन्ति वै मृगाः ॥ ९ ॥
द्रक्ष्यामि नूनम् सु कपोल-नासिकम् स्मित-अवलोक-अरुण-कञ्ज-लोचनम् । मुखम् मुकुन्दस्य गुडालक-आवृतम् प्रदक्षिणम् मे प्रचरन्ति वै मृगाः ॥ ९ ॥
drakṣyāmi nūnam su kapola-nāsikam smita-avaloka-aruṇa-kañja-locanam . mukham mukundasya guḍālaka-āvṛtam pradakṣiṇam me pracaranti vai mṛgāḥ .. 9 ..
अप्यद्य विष्णोर्मनुजत्वमीयुषो भारावताराय भुवो निजेच्छया । लावण्यधाम्नो भवितोपलम्भनं मह्यं न न स्यात् फलमञ्जसा दृशः ॥ १० ॥
अपि अद्य विष्णोः मनुज-त्वम् ईयुषः भार-अवताराय भुवः निज-इच्छया । लावण्य-धाम्नः भविता उपलम्भनम् मह्यम् न न स्यात् फलम् अञ्जसा दृशः ॥ १० ॥
api adya viṣṇoḥ manuja-tvam īyuṣaḥ bhāra-avatārāya bhuvaḥ nija-icchayā . lāvaṇya-dhāmnaḥ bhavitā upalambhanam mahyam na na syāt phalam añjasā dṛśaḥ .. 10 ..
य ईक्षिताहंरहितोऽप्यसत्सतोः स्वतेजसापास्ततमोभिदाभ्रमः । स्वमाययाऽऽत्मन् रचितैस्तदीक्षया प्राणाक्षधीभिः सदनेष्वभीयते ॥ ११ ॥
यः ईक्षित-अहंरहितः अपि असत्-सतोः स्व-तेजसा अपास्त-तमः-भिदा-भ्रमः । स्व-मायया आत्मन् रचितैः तद्-ईक्षया प्राण-अक्ष-धीभिः सदनेषु अभीयते ॥ ११ ॥
yaḥ īkṣita-ahaṃrahitaḥ api asat-satoḥ sva-tejasā apāsta-tamaḥ-bhidā-bhramaḥ . sva-māyayā ātman racitaiḥ tad-īkṣayā prāṇa-akṣa-dhībhiḥ sadaneṣu abhīyate .. 11 ..
यस्याखिलामीवहभिः सुमङ्गलैः वाचो विमिश्रा गुणकर्मजन्मभिः । प्राणन्ति शुम्भन्ति पुनन्ति वै जगत् यास्तद्विरक्ताः शवशोभना मताः ॥ १२ ॥
यस्य अखिल-अमीव-हभिः सु मङ्गलैः वाचः विमिश्राः गुण-कर्म-जन्मभिः । प्राणन्ति शुम्भन्ति पुनन्ति वै जगत् याः तद्-विरक्ताः शव-शोभनाः मताः ॥ १२ ॥
yasya akhila-amīva-habhiḥ su maṅgalaiḥ vācaḥ vimiśrāḥ guṇa-karma-janmabhiḥ . prāṇanti śumbhanti punanti vai jagat yāḥ tad-viraktāḥ śava-śobhanāḥ matāḥ .. 12 ..
स चावतीर्णः किल सत्वतान्वये स्वसेतुपालामरवर्यशर्मकृत् । यशो वितन्वन् व्रज आस्त ईश्वरो गायन्ति देवा यदशेषमङ्गलम् ॥ १३ ॥
स च अवतीर्णः किल सत्वत-अन्वये स्व-सेतु-पाल-अमर-वर्य-शर्म-कृत् । यशः वितन्वन् व्रजे आस्ते ईश्वरः गायन्ति देवाः यत् अशेष-मङ्गलम् ॥ १३ ॥
sa ca avatīrṇaḥ kila satvata-anvaye sva-setu-pāla-amara-varya-śarma-kṛt . yaśaḥ vitanvan vraje āste īśvaraḥ gāyanti devāḥ yat aśeṣa-maṅgalam .. 13 ..
तं त्वद्य नूनं महतां गतिं गुरुं त्रैलोक्यकान्तं दृशिमन्महोत्सवम् । रूपं दधानं श्रिय ईप्सितास्पदं द्रक्ष्ये ममासन्नुषसः सुदर्शनाः ॥ १४ ॥
तम् तु अद्य नूनम् महताम् गतिम् गुरुम् त्रैलोक्य-कान्तम् दृशिमत् महा-उत्सवम् । रूपम् दधानम् श्रियः ईप्सित-आस्पदम् द्रक्ष्ये मम आसन् उषसः सुदर्शनाः ॥ १४ ॥
tam tu adya nūnam mahatām gatim gurum trailokya-kāntam dṛśimat mahā-utsavam . rūpam dadhānam śriyaḥ īpsita-āspadam drakṣye mama āsan uṣasaḥ sudarśanāḥ .. 14 ..
अथावरूढः सपदीशयो रथात् प्रधानपुंसोश्चरणं स्वलब्धये । धिया धृतं योगिभिरप्यहं ध्रुवं नमस्य आभ्यां च सखीन् वनौकसः ॥ १५ ॥
अथा अवरूढः सपदीशयोः रथात् प्रधान-पुंसोः चरणम् स्व-लब्धये । धिया धृतम् योगिभिः अपि अहम् ध्रुवम् नमस्यः आभ्याम् च सखीन् वनौकसः ॥ १५ ॥
athā avarūḍhaḥ sapadīśayoḥ rathāt pradhāna-puṃsoḥ caraṇam sva-labdhaye . dhiyā dhṛtam yogibhiḥ api aham dhruvam namasyaḥ ābhyām ca sakhīn vanaukasaḥ .. 15 ..
अप्यङ्घ्रिमूले पतितस्य मे विभुः शिरस्यधास्यन् निजहस्तपङ्कजम् । दत्ताभयं कालभुजाङ्गरंहसा प्रोद्वेजितानां शरणैषिणां णृनाम् ॥ १६ ॥
अपि अङ्घ्रि-मूले पतितस्य मे विभुः शिरसि अधास्यत् निज-हस्त-पङ्कजम् । दत्त-अभयम् कालभुज-अङ्ग-रंहसा प्रोद्वेजितानाम् शरण-एषिणाम् ॥ १६ ॥
api aṅghri-mūle patitasya me vibhuḥ śirasi adhāsyat nija-hasta-paṅkajam . datta-abhayam kālabhuja-aṅga-raṃhasā prodvejitānām śaraṇa-eṣiṇām .. 16 ..
समर्हणं यत्र निधाय कौशिकः तथा बलिश्चाप जगत्त्रयेन्द्रताम् । यद्वा विहारे व्रजयोषितां श्रमं स्पर्शेन सौगन्धिकगन्ध्यपानुदत् ॥ १७ ॥
समर्हणम् यत्र निधाय कौशिकः तथा बलिः च आप जगत्त्रय-इन्द्र-ताम् । यत् वा विहारे व्रज-योषिताम् श्रमम् स्पर्शेन सौगन्धिक-गन्धि अपानुदत् ॥ १७ ॥
samarhaṇam yatra nidhāya kauśikaḥ tathā baliḥ ca āpa jagattraya-indra-tām . yat vā vihāre vraja-yoṣitām śramam sparśena saugandhika-gandhi apānudat .. 17 ..
न मय्युपैष्यत्यरिबुद्धिमच्युतः कंसस्य दूतः प्रहितोऽपि विश्वदृक् । योऽन्तर्बहिश्चेतस एतदीहितं क्षेत्रज्ञ ईक्षत्यमलेन चक्षुषा ॥ १८ ॥
न मयि उपैष्यति अरि-बुद्धिम् अच्युतः कंसस्य दूतः प्रहितः अपि विश्व-दृश् । यः अन्तर् बहिस् चेतसः एतत् ईहितम् क्षेत्रज्ञः ईक्षति अमलेन चक्षुषा ॥ १८ ॥
na mayi upaiṣyati ari-buddhim acyutaḥ kaṃsasya dūtaḥ prahitaḥ api viśva-dṛś . yaḥ antar bahis cetasaḥ etat īhitam kṣetrajñaḥ īkṣati amalena cakṣuṣā .. 18 ..
अप्यङ्घ्रिमूलेऽवहितं कृताञ्जलिं मामीक्षिता सस्मितमार्द्रया दृशा । सपद्यपध्वस्तसमस्तकिल्बिषो वोढा मुदं वीतविशङ्क ऊर्जिताम् ॥ १९ ॥
अपि अङ्घ्रि-मूले अवहितम् कृताञ्जलिम् माम् ईक्षिता स स्मितम् आर्द्रया दृशा । सपदि अपध्वस्त-समस्त-किल्बिषः वोढा मुदम् वीत-विशङ्कः ऊर्जिताम् ॥ १९ ॥
api aṅghri-mūle avahitam kṛtāñjalim mām īkṣitā sa smitam ārdrayā dṛśā . sapadi apadhvasta-samasta-kilbiṣaḥ voḍhā mudam vīta-viśaṅkaḥ ūrjitām .. 19 ..
सुहृत्तमं ज्ञातिमनन्यदैवतं दोर्भ्यां बृहद्भ्यां परिरप्स्यतेऽथ माम् । आत्मा हि तीर्थीक्रियते तदैव मे बन्धश्च कर्मात्मक उच्छ्वसित्यतः ॥ २० ॥
सुहृत्तमम् ज्ञातिम् अनन्य-दैवतम् दोर्भ्याम् बृहद्भ्याम् परिरप्स्यते अथ माम् । आत्मा हि तीर्थीक्रियते तदा एव मे बन्धः च कर्म-आत्मकः उच्छ्वसिति अतस् ॥ २० ॥
suhṛttamam jñātim ananya-daivatam dorbhyām bṛhadbhyām parirapsyate atha mām . ātmā hi tīrthīkriyate tadā eva me bandhaḥ ca karma-ātmakaḥ ucchvasiti atas .. 20 ..
लब्ध्वाङ्गसङ्गं प्रणतं कृताञ्जलिं मां वक्ष्यतेऽक्रूर ततेत्युरुश्रवाः । तदा वयं जन्मभृतो महीयसा नैवादृतो यो धिगमुष्य जन्म तत् ॥ २१ ॥
लब्ध्वा अङ्गसङ्गम् प्रणतम् कृताञ्जलिम् माम् वक्ष्यते अक्रूर तत इति उरुश्रवाः । तदा वयम् जन्म-भृतः महीयसा न एव आदृतः यः धिक् अमुष्य जन्म तत् ॥ २१ ॥
labdhvā aṅgasaṅgam praṇatam kṛtāñjalim mām vakṣyate akrūra tata iti uruśravāḥ . tadā vayam janma-bhṛtaḥ mahīyasā na eva ādṛtaḥ yaḥ dhik amuṣya janma tat .. 21 ..
न तस्य कश्चिद् दयितः सुहृत्तमो न चाप्रियो द्वेष्य उपेक्ष्य एव वा । तथापि भक्तान् भजते यथा तथा सुरद्रुमो यद्वदुपाश्रितोऽर्थदः ॥ २२ ॥
न तस्य कश्चिद् दयितः सुहृत्तमः न च अप्रियः द्वेष्यः उपेक्ष्यः एव वा । तथा अपि भक्तान् भजते यथा तथा सुरद्रुमः यद्वत् उपाश्रितः अर्थ-दः ॥ २२ ॥
na tasya kaścid dayitaḥ suhṛttamaḥ na ca apriyaḥ dveṣyaḥ upekṣyaḥ eva vā . tathā api bhaktān bhajate yathā tathā suradrumaḥ yadvat upāśritaḥ artha-daḥ .. 22 ..
किं चाग्रजो मावनतं यदूत्तमः स्मयन् परिष्वज्य गृहीतमञ्जलौ । गृहं प्रवेष्याप्तसमस्तसत्कृतं सम्प्रक्ष्यते कंसकृतं स्वबन्धुषु ॥ २३ ॥
किम् च अग्रजः मा अवनतम् यदु-उत्तमः स्मयन् परिष्वज्य गृहीतम् अञ्जलौ । गृहम् प्रवेष्य आप्त-समस्त-सत्कृतम् सम्प्रक्ष्यते कंस-कृतम् स्व-बन्धुषु ॥ २३ ॥
kim ca agrajaḥ mā avanatam yadu-uttamaḥ smayan pariṣvajya gṛhītam añjalau . gṛham praveṣya āpta-samasta-satkṛtam samprakṣyate kaṃsa-kṛtam sva-bandhuṣu .. 23 ..
श्रीशुक उवाच - ( अनुष्टुप् )
इति सञ्चिन्तयन्कृष्णं श्वफल्कतनयोऽध्वनि । रथेन गोकुलं प्राप्तः सूर्यश्चास्तगिरिं नृप ॥ २४ ॥
इति सञ्चिन्तयन् कृष्णम् श्वफल्क-तनयः अध्वनि । रथेन गोकुलम् प्राप्तः सूर्यः च अस्त-गिरिम् नृप ॥ २४ ॥
iti sañcintayan kṛṣṇam śvaphalka-tanayaḥ adhvani . rathena gokulam prāptaḥ sūryaḥ ca asta-girim nṛpa .. 24 ..
( मिश्र )
पदानि तस्याखिललोकपाल किरीटजुष्टामलपादरेणोः । ददर्श गोष्ठे क्षितिकौतुकानि विलक्षितान्यब्जयवाङ्कुशाद्यैः ॥ २५ ॥
पदानि तस्य अखिल-लोकपाल किरीट-जुष्ट-अमल-पाद-रेणोः । ददर्श गोष्ठे क्षिति-कौतुकानि विलक्षितानि अब्ज-यवाङ्कुश-आद्यैः ॥ २५ ॥
padāni tasya akhila-lokapāla kirīṭa-juṣṭa-amala-pāda-reṇoḥ . dadarśa goṣṭhe kṣiti-kautukāni vilakṣitāni abja-yavāṅkuśa-ādyaiḥ .. 25 ..
तद्दर्शनाह्लादविवृद्धसम्भ्रमः प्रेम्णोर्ध्वरोमाश्रुकलाकुलेक्षणः । रथादवस्कन्द्य स तेष्वचेष्टत प्रभोरमून्यङ्घ्रिरजांस्यहो इति ॥ २६ ॥
तद्-दर्शन-आह्लाद-विवृद्ध-सम्भ्रमः प्रेम्णा ऊर्ध्व-रोम-अश्रु-कला-आकुल-ईक्षणः । रथात् अवस्कन्द्य स तेषु अचेष्टत प्रभोः अमूनि अङ्घ्रि-रजांसि अहो इति ॥ २६ ॥
tad-darśana-āhlāda-vivṛddha-sambhramaḥ premṇā ūrdhva-roma-aśru-kalā-ākula-īkṣaṇaḥ . rathāt avaskandya sa teṣu aceṣṭata prabhoḥ amūni aṅghri-rajāṃsi aho iti .. 26 ..
( अनुष्टुप् )
देहंभृतामियानर्थो हित्वा दम्भं भियं शुचम् । सन्देशाद्यो हरेर्लिङ्ग दर्शनश्रवणादिभिः ॥ २७ ॥
देहंभृताम् इय-अनर्थः हित्वा दम्भम् भियम् शुचम् । सन्देश-आद्यः हरेः लिङ्ग दर्शन-श्रवण-आदिभिः ॥ २७ ॥
dehaṃbhṛtām iya-anarthaḥ hitvā dambham bhiyam śucam . sandeśa-ādyaḥ hareḥ liṅga darśana-śravaṇa-ādibhiḥ .. 27 ..
ददर्श कृष्णं रामं च व्रजे गोदोहनं गतौ । पीतनीलाम्बरधरौ शरदम्बुरहेक्षणौ ॥ २८ ॥
ददर्श कृष्णम् रामम् च व्रजे गोदोहनम् गतौ । पीत-नील-अम्बर-धरौ शरद्-अम्बु-रह-ईक्षणौ ॥ २८ ॥
dadarśa kṛṣṇam rāmam ca vraje godohanam gatau . pīta-nīla-ambara-dharau śarad-ambu-raha-īkṣaṇau .. 28 ..
किशोरौ श्यामलश्वेतौ श्रीनिकेतौ बृहद्भुजौ । सुमुखौ सुन्दरवरौ बलद्विरदविक्रमौ ॥ २९ ॥
किशोरौ श्यामल-श्वेतौ श्रीनिकेतौ बृहत्-भुजौ । सु मुखौ सुन्दर-वरौ बल-द्विरद-विक्रमौ ॥ २९ ॥
kiśorau śyāmala-śvetau śrīniketau bṛhat-bhujau . su mukhau sundara-varau bala-dvirada-vikramau .. 29 ..
ध्वजवज्राङ्कुशाम्भोजैः चिह्नितैरङ्घ्रिभिर्व्रजम् । शोभयन्तौ महात्मानौ सानुक्रोशस्मितेक्षणौ ॥ ३० ॥
ध्वज-वज्र-अङ्कुश-अम्भोजैः चिह्नितैः अङ्घ्रिभिः व्रजम् । शोभयन्तौ महात्मानौ स अनुक्रोश-स्मित-ईक्षणौ ॥ ३० ॥
dhvaja-vajra-aṅkuśa-ambhojaiḥ cihnitaiḥ aṅghribhiḥ vrajam . śobhayantau mahātmānau sa anukrośa-smita-īkṣaṇau .. 30 ..
उदाररुचिरक्रीडौ स्रग्विणौ वनमालिनौ । पुण्यगन्धानुलिप्ताङ्गौ स्नातौ विरजवाससौ ॥ ३१ ॥
उदार-रुचिर-क्रीडौ स्रग्विणौ वन-मालिनौ । पुण्य-गन्ध-अनुलिप्त-अङ्गौ स्नातौ विरज-वाससौ ॥ ३१ ॥
udāra-rucira-krīḍau sragviṇau vana-mālinau . puṇya-gandha-anulipta-aṅgau snātau viraja-vāsasau .. 31 ..
प्रधानपुरुषावाद्यौ जगद्धेतू जगत्पती । अवतीर्णौ जगत्यर्थे स्वांशेन बलकेशवौ ॥ ३२ ॥
प्रधान-पुरुषौ आद्यौ जगत्-हेतू जगत्पती । अवतीर्णौ जगती-अर्थे स्व-अंशेन बल-केशवौ ॥ ३२ ॥
pradhāna-puruṣau ādyau jagat-hetū jagatpatī . avatīrṇau jagatī-arthe sva-aṃśena bala-keśavau .. 32 ..
दिशो वितिमिरा राजन् कुर्वाणौ प्रभया स्वया । यथा मारकतः शैलो रौप्यश्च कनकाचितौ ॥ ३३ ॥
दिशः वितिमिराः राजन् कुर्वाणौ प्रभया स्वया । यथा मारकतः शैलः रौप्यः च कनक-आचितौ ॥ ३३ ॥
diśaḥ vitimirāḥ rājan kurvāṇau prabhayā svayā . yathā mārakataḥ śailaḥ raupyaḥ ca kanaka-ācitau .. 33 ..
रथात् तूर्णं अवप्लुत्य सोऽक्रूरः स्नेहविह्वलः । पपात चरणोपान्ते दण्डवत् रामकृष्णयोः ॥ ३४ ॥
रथात् तूर्णम् अवप्लुत्य सः अक्रूरः स्नेह-विह्वलः । पपात चरण-उपान्ते दण्ड-वत् राम-कृष्णयोः ॥ ३४ ॥
rathāt tūrṇam avaplutya saḥ akrūraḥ sneha-vihvalaḥ . papāta caraṇa-upānte daṇḍa-vat rāma-kṛṣṇayoḥ .. 34 ..
भगवद्दर्शनाह्लाद बाष्पपर्याकुलेक्षणः । पुलकचिताङ्ग औत्कण्ठ्यात् स्वाख्याने नाशकन् नृप ॥ ३५ ॥
भगवत्-दर्शन-आह्लाद बाष्प-पर्याकुल-ईक्षणः । पुलक-चित-अङ्गः औत्कण्ठ्यात् सु आख्याने ना अशकत् नृप ॥ ३५ ॥
bhagavat-darśana-āhlāda bāṣpa-paryākula-īkṣaṇaḥ . pulaka-cita-aṅgaḥ autkaṇṭhyāt su ākhyāne nā aśakat nṛpa .. 35 ..
भगवान् तमभिप्रेत्य रथाङ्गाङ्कितपाणिना । परिरेभेऽभ्युपाकृष्य प्रीतः प्रणतवत्सलः ॥ ३६ ॥
भगवान् तम् अभिप्रेत्य रथाङ्ग-अङ्कित-पाणिना । परिरेभे अभ्युपाकृष्य प्रीतः प्रणत-वत्सलः ॥ ३६ ॥
bhagavān tam abhipretya rathāṅga-aṅkita-pāṇinā . parirebhe abhyupākṛṣya prītaḥ praṇata-vatsalaḥ .. 36 ..
सङ्कर्षणश्च प्रणतं उपगुह्य महामनाः । गृहीत्वा पाणिना पाणी अनयत् सानुजो गृहम् ॥ ३७ ॥
सङ्कर्षणः च प्रणतम् उपगुह्य महा-मनाः । गृहीत्वा पाणिना पाणी अनयत् स अनुजः गृहम् ॥ ३७ ॥
saṅkarṣaṇaḥ ca praṇatam upaguhya mahā-manāḥ . gṛhītvā pāṇinā pāṇī anayat sa anujaḥ gṛham .. 37 ..
पृष्ट्वाथ स्वागतं तस्मै निवेद्य च वरासनम् । प्रक्षाल्य विधिवत् पादौ मधुपर्कार्हणमाहरत् ॥ ३८ ॥
पृष्ट्वा अथ स्वागतम् तस्मै निवेद्य च वरासनम् । प्रक्षाल्य विधिवत् पादौ मधुपर्क-अर्हणम् आहरत् ॥ ३८ ॥
pṛṣṭvā atha svāgatam tasmai nivedya ca varāsanam . prakṣālya vidhivat pādau madhuparka-arhaṇam āharat .. 38 ..
निवेद्य गां चातिथये संवाह्य श्रान्तमादृतः । अन्नं बहुगुणं मेध्यं श्रद्धयोपाहरद् विभुः ॥ ३९ ॥
निवेद्य गाम् च अतिथये संवाह्य श्रान्तम् आदृतः । अन्नम् बहु-गुणम् मेध्यम् श्रद्धया उपाहरत् विभुः ॥ ३९ ॥
nivedya gām ca atithaye saṃvāhya śrāntam ādṛtaḥ . annam bahu-guṇam medhyam śraddhayā upāharat vibhuḥ .. 39 ..
तस्मै भुक्तवते प्रीत्या रामः परमधर्मवित् । मखवासैर्गन्धमाल्यैः परां प्रीतिं व्यधात् पुनः ॥ ४० ॥
तस्मै भुक्तवते प्रीत्या रामः परम-धर्म-विद् । मख-वासैः गन्ध-माल्यैः पराम् प्रीतिम् व्यधात् पुनर् ॥ ४० ॥
tasmai bhuktavate prītyā rāmaḥ parama-dharma-vid . makha-vāsaiḥ gandha-mālyaiḥ parām prītim vyadhāt punar .. 40 ..
पप्रच्छ सत्कृतं नन्दः कथं स्थ निरनुग्रहे । कंसे जीवति दाशार्ह सौनपाला इवावयः ॥ ४१ ॥
पप्रच्छ सत्कृतम् नन्दः कथम् स्थ निरनुग्रहे । कंसे जीवति दाशार्ह सौनपालाः इव अवयः ॥ ४१ ॥
papraccha satkṛtam nandaḥ katham stha niranugrahe . kaṃse jīvati dāśārha saunapālāḥ iva avayaḥ .. 41 ..
योऽवधीत् स्वस्वसुस्तोकान् क्रोशन्त्या असुतृप् खलः । किं नु स्वित्तत्प्रजानां वः कुशलं विमृशामहे ॥ ४२ ॥
यः अवधीत् स्व-स्वसु-स्तोकान् क्रोशन्त्याः अ सुतृह् खलः । किम् नु स्विद् तद्-प्रजानाम् वः कुशलम् विमृशामहे ॥ ४२ ॥
yaḥ avadhīt sva-svasu-stokān krośantyāḥ a sutṛh khalaḥ . kim nu svid tad-prajānām vaḥ kuśalam vimṛśāmahe .. 42 ..
इत्थं सूनृतया वाचा नन्देन सुसभाजितः । अक्रूरः परिपृष्टेन जहावध्वपरिश्रमम् ॥ ४३ ॥
इत्थम् सूनृतया वाचा नन्देन सु सभाजितः । अक्रूरः परिपृष्टेन जहौ अध्व-परिश्रमम् ॥ ४३ ॥
ittham sūnṛtayā vācā nandena su sabhājitaḥ . akrūraḥ paripṛṣṭena jahau adhva-pariśramam .. 43 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे अक्रूरागमनं नाम अष्टत्रिंशोऽध्यायः ॥ ३८ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् दशम-स्कन्धे पूर्व-अर्धे अक्रूरागमनम् नाम अष्टत्रिंशः अध्यायः ॥ ३८ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām daśama-skandhe pūrva-ardhe akrūrāgamanam nāma aṣṭatriṃśaḥ adhyāyaḥ .. 38 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In