| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच - ( अनुष्टुप् )
सुखोपविष्टः पर्यङ्के रमकृष्णोरुमानितः । लेभे मनोरथान् सर्वान् पन्पथि यान् स चकार ह ॥ १ ॥
सुख-उपविष्टः पर्यङ्के रम-कृष्ण-ऊरु-मानितः । लेभे मनोरथान् सर्वान् यान् स चकार ह ॥ १ ॥
sukha-upaviṣṭaḥ paryaṅke rama-kṛṣṇa-ūru-mānitaḥ . lebhe manorathān sarvān yān sa cakāra ha .. 1 ..
किमलभ्यं भगवति प्रसन्ने श्रीनिकेतने । तथापि तत्परा राजन् न हि वाञ्छन्ति किञ्चन ॥ २ ॥
किम् अलभ्यम् भगवति प्रसन्ने श्रीनिकेतने । तथा अपि तद्-पराः राजन् न हि वाञ्छन्ति किञ्चन ॥ २ ॥
kim alabhyam bhagavati prasanne śrīniketane . tathā api tad-parāḥ rājan na hi vāñchanti kiñcana .. 2 ..
सायंतनाशनं कृत्वा भगवान् देवकीसुतः । सुहृत्सु वृत्तं कंसस्य पप्रच्छान्यच्चिकीर्षितम् ॥ ३ ॥
सायंतन-अशनम् कृत्वा भगवान् देवकी-सुतः । सुहृत्सु वृत्तम् कंसस्य पप्रच्छ अन्यत् चिकीर्षितम् ॥ ३ ॥
sāyaṃtana-aśanam kṛtvā bhagavān devakī-sutaḥ . suhṛtsu vṛttam kaṃsasya papraccha anyat cikīrṣitam .. 3 ..
श्रीभगवानुवाच -
तात सौम्यागतः कच्चित् स्वागतं भद्रमस्तु वः । अपि स्वज्ञातिबन्धूनां अनमीवमनामयम् ॥ ४ ॥
तात सौम्य आगतः कच्चित् स्वागतम् भद्रम् अस्तु वः । अपि स्व-ज्ञाति-बन्धूनाम् अनमीवम् अनामयम् ॥ ४ ॥
tāta saumya āgataḥ kaccit svāgatam bhadram astu vaḥ . api sva-jñāti-bandhūnām anamīvam anāmayam .. 4 ..
किं नु नः कुशलं पृच्छे एधमाने कुलामये । कंसे मातुलनाम्न्यङ्ग स्वानां नस्तत्प्रजासु च ॥ ५ ॥
किम् नु नः कुशलम् पृच्छे एधमाने कुल-आमये । कंसे मातुल-नाम्नि अङ्ग स्वानाम् नः तद्-प्रजासु च ॥ ५ ॥
kim nu naḥ kuśalam pṛcche edhamāne kula-āmaye . kaṃse mātula-nāmni aṅga svānām naḥ tad-prajāsu ca .. 5 ..
अहो अस्मदभूद् भूरि पित्रोर्वृजिनमार्ययोः । यद्धेतोः पुत्रमरणं यद्धेतोर्बन्धनं तयोः ॥ ६ ॥
अहो अस्मत् अभूत् भूरि पित्रोः वृजिनम् आर्ययोः । यद्-हेतोः पुत्र-मरणम् यद्-हेतोः बन्धनम् तयोः ॥ ६ ॥
aho asmat abhūt bhūri pitroḥ vṛjinam āryayoḥ . yad-hetoḥ putra-maraṇam yad-hetoḥ bandhanam tayoḥ .. 6 ..
दिष्ट्याद्य दर्शनं स्वानां मह्यं वः सौम्य काङ्क्षितम् । सञ्जातं वर्ण्यतां तात तवागमनकारणम् ॥ ७ ॥
दिष्ट्या अद्य दर्शनम् स्वानाम् मह्यम् वः सौम्य काङ्क्षितम् । सञ्जातम् वर्ण्यताम् तात तव आगमन-कारणम् ॥ ७ ॥
diṣṭyā adya darśanam svānām mahyam vaḥ saumya kāṅkṣitam . sañjātam varṇyatām tāta tava āgamana-kāraṇam .. 7 ..
श्रीशुक उवाच -
पृष्टो भगवता सर्वं वर्णयामास माधवः । वैरानुबन्धं यदुषु वसुदेववधोद्यमम् ॥ ८ ॥
पृष्टः भगवता सर्वम् वर्णयामास माधवः । वैर-अनुबन्धम् यदुषु वसुदेव-वध-उद्यमम् ॥ ८ ॥
pṛṣṭaḥ bhagavatā sarvam varṇayāmāsa mādhavaḥ . vaira-anubandham yaduṣu vasudeva-vadha-udyamam .. 8 ..
यत्सन्देशो यदर्थं वा दूतः सम्प्रेषितः स्वयम् । यदुक्तं नारदेनास्य स्वजन्मानकदुन्दुभेः ॥ ९ ॥
यद्-सन्देशः यद्-अर्थम् वा दूतः सम्प्रेषितः स्वयम् । यत् उक्तम् नारदेन अस्य स्व-जन्म आनकदुन्दुभेः ॥ ९ ॥
yad-sandeśaḥ yad-artham vā dūtaḥ sampreṣitaḥ svayam . yat uktam nāradena asya sva-janma ānakadundubheḥ .. 9 ..
श्रुत्वाक्रूरवचः कृष्णो बलश्च परवीरहा । प्रहस्य नन्दं पितरं राज्ञा दिष्टं विजज्ञतुः ॥ १० ॥
श्रुत्वा अक्रूर-वचः कृष्णः बलः च पर-वीर-हा । प्रहस्य नन्दम् पितरम् राज्ञा दिष्टम् विजज्ञतुः ॥ १० ॥
śrutvā akrūra-vacaḥ kṛṣṇaḥ balaḥ ca para-vīra-hā . prahasya nandam pitaram rājñā diṣṭam vijajñatuḥ .. 10 ..
गोपान् समादिशत् सोऽपि गृह्यतां सर्वगोरसः । उपायनानि गृह्णीध्वं युज्यन्तां शकटानि च ॥ ११ ॥
गोपान् समादिशत् सः अपि गृह्यताम् सर्व-गो-रसः । उपायनानि गृह्णीध्वम् युज्यन्ताम् शकटानि च ॥ ११ ॥
gopān samādiśat saḥ api gṛhyatām sarva-go-rasaḥ . upāyanāni gṛhṇīdhvam yujyantām śakaṭāni ca .. 11 ..
यास्यामः श्वो मधुपुरीं दास्यामो नृपते रसान् । द्रक्ष्यामः सुमहत्पर्व यान्ति जानपदाः किल । एवमाघोषयत्क्षत्रा नन्दगोपः स्वगोकुले ॥ १२ ॥
यास्यामः श्वस् मधुपुरीम् दास्यामः नृपते रसान् । द्रक्ष्यामः सु महत् पर्व यान्ति जानपदाः किल । एवम् आघोषयत् क्षत्रा नन्द-गोपः स्व-गोकुले ॥ १२ ॥
yāsyāmaḥ śvas madhupurīm dāsyāmaḥ nṛpate rasān . drakṣyāmaḥ su mahat parva yānti jānapadāḥ kila . evam āghoṣayat kṣatrā nanda-gopaḥ sva-gokule .. 12 ..
गोप्यस्तास्तद् उपश्रुत्य बभूवुर्व्यथिता भृशम् । रामकृष्णौ पुरीं नेतुं अक्रूरं व्रजमागतम् ॥ १३ ॥
गोप्यः ताः तत् उपश्रुत्य बभूवुः व्यथिताः भृशम् । राम-कृष्णौ पुरीम् नेतुम् अक्रूरम् व्रजम् आगतम् ॥ १३ ॥
gopyaḥ tāḥ tat upaśrutya babhūvuḥ vyathitāḥ bhṛśam . rāma-kṛṣṇau purīm netum akrūram vrajam āgatam .. 13 ..
काश्चित् तत्कृतहृत्ताप श्वासम्लानमुखश्रियः । स्रंसद्दुद्दुकूलवलय केशग्रंथ्यश्च काश्चन ॥ १४ ॥
काश्चिद् तद्-कृत-हृद्-ताप श्वास-म्लान-मुख-श्रियः । केश-ग्रंथ्यः च काश्चन ॥ १४ ॥
kāścid tad-kṛta-hṛd-tāpa śvāsa-mlāna-mukha-śriyaḥ . keśa-graṃthyaḥ ca kāścana .. 14 ..
अन्याश्च तदनुध्यान निवृत्ताशेषवृत्तयः । नाभ्यजानन् इमं लोकं आत्मलोकं गता इव ॥ १५ ॥
अन्याः च तद्-अनुध्यान-निवृत्त-अशेष-वृत्तयः । न अभ्यजानन् इमम् लोकम् आत्म-लोकम् गताः इव ॥ १५ ॥
anyāḥ ca tad-anudhyāna-nivṛtta-aśeṣa-vṛttayaḥ . na abhyajānan imam lokam ātma-lokam gatāḥ iva .. 15 ..
स्मरन्त्यश्चापराः शौरेः अनुरागस्मितेरिताः । हृदिस्पृशश्चित्रपदा गिरः संमुमुहुः स्त्रियः ॥ १६ ॥
स्मरन्त्यः च अपराः शौरेः अनुराग-स्मित-ईरिताः । हृदिस्पृशः चित्र-पदाः गिरः संमुमुहुः स्त्रियः ॥ १६ ॥
smarantyaḥ ca aparāḥ śaureḥ anurāga-smita-īritāḥ . hṛdispṛśaḥ citra-padāḥ giraḥ saṃmumuhuḥ striyaḥ .. 16 ..
गतिं सुललितां चेष्टां स्निग्धहासावलोकनम् । शोकापहानि नर्माणि प्रोद्दामचरितानि च ॥ १७ ॥
गतिम् सु ललिताम् चेष्टाम् स्निग्ध-हास-अवलोकनम् । शोक-अपहानि नर्माणि प्रोद्दाम-चरितानि च ॥ १७ ॥
gatim su lalitām ceṣṭām snigdha-hāsa-avalokanam . śoka-apahāni narmāṇi proddāma-caritāni ca .. 17 ..
चिन्तयन्त्यो मुकुन्दस्य भीता विरहकातराः । समेताः सङ्घशः प्रोचुः अश्रुमुख्योऽच्युताशयाः ॥ १८ ॥
चिन्तयन्त्यः मुकुन्दस्य भीताः विरह-कातराः । समेताः सङ्घशस् प्रोचुः अश्रु-मुख्यः अच्युत-आशयाः ॥ १८ ॥
cintayantyaḥ mukundasya bhītāḥ viraha-kātarāḥ . sametāḥ saṅghaśas procuḥ aśru-mukhyaḥ acyuta-āśayāḥ .. 18 ..
श्रीगोप्य ऊचुः - ( मिश्र )
अहो विधातस्तव न क्वचिद् दया संयोज्य मैत्र्या प्रणयेन देहिनः । तांश्चाकृतार्थान् वियुनङ्क्ष्यपार्थकं विक्रीडितं तेऽर्भकचेष्टितं यथा ॥ १९ ॥
अहो विधातर् तव न क्वचिद् दया संयोज्य मैत्र्या प्रणयेन देहिनः । तान् च अकृतार्थान् वियुनङ्क्षि अपार्थकम् विक्रीडितम् ते अर्भक-चेष्टितम् यथा ॥ १९ ॥
aho vidhātar tava na kvacid dayā saṃyojya maitryā praṇayena dehinaḥ . tān ca akṛtārthān viyunaṅkṣi apārthakam vikrīḍitam te arbhaka-ceṣṭitam yathā .. 19 ..
यस्त्वं प्रदर्श्यासितकुन्तलावृतं मुकुन्दवक्त्रं सुकपोलमुन्नसम् । शोकापनोदस्मितलेशसुन्दरं करोषि पारोक्ष्यमसाधु ते कृतम् ॥ २० ॥
यः त्वम् प्रदर्श्य असित-कुन्तल-आवृतम् मुकुन्द-वक्त्रम् सु कपोलम् उन्नसम् । शोक-अपनोद-स्मित-लेश-सुन्दरम् करोषि पारोक्ष्यम् असाधु ते कृतम् ॥ २० ॥
yaḥ tvam pradarśya asita-kuntala-āvṛtam mukunda-vaktram su kapolam unnasam . śoka-apanoda-smita-leśa-sundaram karoṣi pārokṣyam asādhu te kṛtam .. 20 ..
क्रूरस्त्वमक्रूरसमाख्यया स्म नः चक्षुर्हि दत्तं हरसे बताज्ञवत् । येनैकदेशेऽखिलसर्गसौष्ठवं त्वदीयमद्राक्ष्म वयं मधुद्विषः ॥ २१ ॥
क्रूरः त्वम् अक्रूर-समाख्यया स्म नः चक्षुः हि दत्तम् हरसे बत अज्ञ-वत् । येन एक-देशे अखिल-सर्ग-सौष्ठवम् त्वदीयम् अद्राक्ष्म वयम् मधुद्विषः ॥ २१ ॥
krūraḥ tvam akrūra-samākhyayā sma naḥ cakṣuḥ hi dattam harase bata ajña-vat . yena eka-deśe akhila-sarga-sauṣṭhavam tvadīyam adrākṣma vayam madhudviṣaḥ .. 21 ..
न नन्दसूनुः क्षणभङ्गसौहृदः समीक्षते नः स्वकृतातुरा बत । विहाय गेहान् स्वजनान् तान् पतीन् तद्दास्यमद्धोपगता नवप्रियः ॥ २२ ॥
न नन्द-सूनुः क्षणभङ्ग-सौहृदः समीक्षते नः स्व-कृत-आतुराः बत । विहाय गेहान् स्व-जनान् तान् पतीन् तद्-दास्य-मद्धा उपगता नव-प्रियः ॥ २२ ॥
na nanda-sūnuḥ kṣaṇabhaṅga-sauhṛdaḥ samīkṣate naḥ sva-kṛta-āturāḥ bata . vihāya gehān sva-janān tān patīn tad-dāsya-maddhā upagatā nava-priyaḥ .. 22 ..
सुखं प्रभाता रजनीयमाशिषः सत्या बभूवुः पुरयोषितां ध्रुवम् । याः संप्रविष्टस्य मुखं व्रजस्पतेः पास्यन्त्यपाङ्गोत् कलितस्मितासवम् ॥ २३ ॥
सुखम् प्रभाताः रजनीयम् आशिषः सत्याः बभूवुः पुर-योषिताम् ध्रुवम् । याः संप्रविष्टस्य मुखम् व्रजस्पतेः पास्यन्ति अपाङ्ग-उद् कलित-स्मित-आसवम् ॥ २३ ॥
sukham prabhātāḥ rajanīyam āśiṣaḥ satyāḥ babhūvuḥ pura-yoṣitām dhruvam . yāḥ saṃpraviṣṭasya mukham vrajaspateḥ pāsyanti apāṅga-ud kalita-smita-āsavam .. 23 ..
तासां मुकुन्दो मधुमञ्जुभाषितैरः गृहीतचित्तः परवान् मनस्व्यपि । कथं पुनर्नः प्रतियास्यतेऽबला ग्राम्याः सलज्जस्मितविभ्रमैर्भ्रमन् ॥ २४ ॥
तासाम् मुकुन्दः मधु-मञ्जु-भाषित-एरः गृहीत-चित्तः परवान् मनस्वी अपि । कथम् पुनर् नः प्रतियास्यते अबला ग्राम्याः स लज्जा-स्मित-विभ्रमैः भ्रमन् ॥ २४ ॥
tāsām mukundaḥ madhu-mañju-bhāṣita-eraḥ gṛhīta-cittaḥ paravān manasvī api . katham punar naḥ pratiyāsyate abalā grāmyāḥ sa lajjā-smita-vibhramaiḥ bhraman .. 24 ..
अद्य ध्रुवं तत्र दृशो भविष्यते दाशार्हभोजान्धक वृष्णिसात्वताम् । महोत्सवः श्रीरमणं गुणास्पदं द्रक्ष्यन्ति ये चाध्वनि देवकीसुतम् ॥ २५ ॥
अद्य ध्रुवम् तत्र दृशः भविष्यते दाशार्ह-भोज-अन्धक वृष्णि-सात्वताम् । महा-उत्सवः श्री-रमणम् गुण-आस्पदम् द्रक्ष्यन्ति ये च अध्वनि देवकी-सुतम् ॥ २५ ॥
adya dhruvam tatra dṛśaḥ bhaviṣyate dāśārha-bhoja-andhaka vṛṣṇi-sātvatām . mahā-utsavaḥ śrī-ramaṇam guṇa-āspadam drakṣyanti ye ca adhvani devakī-sutam .. 25 ..
मैतद्विधस्याकरुणस्य नाम भूद् अक्रूर इत्येतदतीव दारुणः । योऽसावनाश्वास्य सुदुःखितं जनं प्रियात्प्रियं नेष्यति पारमध्वनः ॥ २६ ॥
मा एतद्विधस्य अकरुणस्य नाम भूत् अक्रूरः इति एतत् अतीव दारुणः । यः असौ अन् आश्वास्य सु दुःखितम् जनम् प्रियात् प्रियम् नेष्यति पारम् अध्वनः ॥ २६ ॥
mā etadvidhasya akaruṇasya nāma bhūt akrūraḥ iti etat atīva dāruṇaḥ . yaḥ asau an āśvāsya su duḥkhitam janam priyāt priyam neṣyati pāram adhvanaḥ .. 26 ..
अनार्द्रधीरेष समास्थितो रथं तमन्वमी च त्वरयन्ति दुर्मदाः । गोपा अनोभिः स्थविरैरुपेक्षितं दैवं च नोऽद्य प्रतिकूलमीहते ॥ २७ ॥
अन् आर्द्र-धीर-इष समास्थितः रथम् तम् अनु अमी च त्वरयन्ति दुर्मदाः । गोपाः अनोभिः स्थविरैः उपेक्षितम् दैवम् च नः अद्य प्रतिकूलम् ईहते ॥ २७ ॥
an ārdra-dhīra-iṣa samāsthitaḥ ratham tam anu amī ca tvarayanti durmadāḥ . gopāḥ anobhiḥ sthaviraiḥ upekṣitam daivam ca naḥ adya pratikūlam īhate .. 27 ..
निवारयामः समुपेत्य माधवं किं नोऽकरिष्यन् कुलवृद्धबान्धवाः । मुकुन्दसङ्गान्निमिषार्धदुस्त्यजाद् दैवेन विध्वंसितदीनचेतसाम् ॥ २८ ॥
निवारयामः समुपेत्य माधवम् किम् नः अकरिष्यन् कुल-वृद्ध-बान्धवाः । मुकुन्द-सङ्गात् निमिष-अर्ध-दुस्त्यजात् दैवेन विध्वंसित-दीन-चेतसाम् ॥ २८ ॥
nivārayāmaḥ samupetya mādhavam kim naḥ akariṣyan kula-vṛddha-bāndhavāḥ . mukunda-saṅgāt nimiṣa-ardha-dustyajāt daivena vidhvaṃsita-dīna-cetasām .. 28 ..
( वसंततिलका )
यस्यानुरागललितस्मितवल्गुमन्त्र लीलावलोकपरिरम्भणरासगोष्ठाम् । नीताः स्म नः क्षणमिव क्षणदा विना तं गोप्यः कथं न्वतितरेम तमो दुरन्तम् ॥ २९ ॥
यस्य अनुराग-ललित-स्मित-वल्गु-मन्त्र लीला-अवलोक-परिरम्भण-रास-गोष्ठाम् । नीताः स्म नः क्षणम् इव क्षणदाः विना तम् गोप्यः कथम् नु अतितरेम तमः दुरन्तम् ॥ २९ ॥
yasya anurāga-lalita-smita-valgu-mantra līlā-avaloka-parirambhaṇa-rāsa-goṣṭhām . nītāḥ sma naḥ kṣaṇam iva kṣaṇadāḥ vinā tam gopyaḥ katham nu atitarema tamaḥ durantam .. 29 ..
योऽह्नः क्षये व्रजमनन्तसखः परीतो गोपैर्विशन् खुररजश्छुरितालकस्रक् । वेणुं क्वणन् स्मितकटाक्षनिरीक्षणेन चित्तं क्षिणोत्यमुमृते नु कथं भवेम ॥ ३० ॥
यः अह्नः क्षये व्रजम् अनन्त-सखः परीतः गोपैः विशन् खुर-रजः छुरित-अलक-स्रज् । वेणुम् क्वणन् स्मित-कटाक्ष-निरीक्षणेन चित्तम् क्षिणोति अमुम् ऋते नु कथम् भवेम ॥ ३० ॥
yaḥ ahnaḥ kṣaye vrajam ananta-sakhaḥ parītaḥ gopaiḥ viśan khura-rajaḥ churita-alaka-sraj . veṇum kvaṇan smita-kaṭākṣa-nirīkṣaṇena cittam kṣiṇoti amum ṛte nu katham bhavema .. 30 ..
श्रीशुक उवाच - ( मिश्र )
एवं ब्रुवाणा विरहातुरा भृशं व्रजस्त्रियः कृष्णविषक्तमानसाः । विसृज्य लज्जां रुरुदुः स्म सुस्वरं गोविन्द दामोदर माधवेति ॥ ३१ ॥
एवम् ब्रुवाणाः विरह-आतुराः भृशम् व्रज-स्त्रियः कृष्ण-विषक्त-मानसाः । विसृज्य लज्जाम् रुरुदुः स्म सु स्वरम् गोविन्द दामोदर माधव इति ॥ ३१ ॥
evam bruvāṇāḥ viraha-āturāḥ bhṛśam vraja-striyaḥ kṛṣṇa-viṣakta-mānasāḥ . visṛjya lajjām ruruduḥ sma su svaram govinda dāmodara mādhava iti .. 31 ..
( अनुष्टुप् )
स्त्रीणामेवं रुदन्तीनां उदिते सवितर्यथ । अक्रूरश्चोदयामास कृतमैत्रादिको रथम् ॥ ३२ ॥
स्त्रीणाम् एवम् रुदन्तीनाम् उदिते सवितरि अथ । अक्रूरः चोदयामास कृत-मैत्र-आदिकः रथम् ॥ ३२ ॥
strīṇām evam rudantīnām udite savitari atha . akrūraḥ codayāmāsa kṛta-maitra-ādikaḥ ratham .. 32 ..
गोपास्तमन्वसज्जन्त नन्दाद्याः शकटैस्ततः । आदायोपायनं भूरि कुम्भान् गोरससम्भृतान् ॥ ३३ ॥
गोपाः तम् अन्वसज्जन्त नन्द-आद्याः शकटैः ततस् । आदाय उपायनम् भूरि कुम्भान् गोरस-सम्भृतान् ॥ ३३ ॥
gopāḥ tam anvasajjanta nanda-ādyāḥ śakaṭaiḥ tatas . ādāya upāyanam bhūri kumbhān gorasa-sambhṛtān .. 33 ..
गोप्यश्च दयितं कृष्णं अनुव्रज्यानुरञ्जिताः । प्रत्यादेशं भगवतः काङ्क्षन्त्यश्चावतस्थिरे ॥ ३४ ॥
गोप्यः च दयितम् कृष्णम् अनुव्रज्य अनुरञ्जिताः । प्रत्यादेशम् भगवतः काङ्क्षन्त्यः च अवतस्थिरे ॥ ३४ ॥
gopyaḥ ca dayitam kṛṣṇam anuvrajya anurañjitāḥ . pratyādeśam bhagavataḥ kāṅkṣantyaḥ ca avatasthire .. 34 ..
तास्तथा तप्यतीर्वीक्ष्य स्वप्रस्थाणे यदूत्तमः । सान्त्वयामस सप्रेमैः आयास्य इति दौत्यकैः ॥ ३५ ॥
ताः तथा तप्यतीः वीक्ष्य स्व-प्रस्थाणे यदु-उत्तमः । सान्त्वयामस सप्रेमैः आयास्य इति दौत्यकैः ॥ ३५ ॥
tāḥ tathā tapyatīḥ vīkṣya sva-prasthāṇe yadu-uttamaḥ . sāntvayāmasa sapremaiḥ āyāsya iti dautyakaiḥ .. 35 ..
यावदालक्ष्यते केतुः यावद्रेणू रथस्य च । अनुप्रस्थापितात्मानो लेख्यानीवोपलक्षिताः ॥ ३६ ॥
यावत् आलक्ष्यते केतुः यावत् रेणुः रथस्य च । अनुप्रस्थापित-आत्मानः लेख्यानि इव उपलक्षिताः ॥ ३६ ॥
yāvat ālakṣyate ketuḥ yāvat reṇuḥ rathasya ca . anuprasthāpita-ātmānaḥ lekhyāni iva upalakṣitāḥ .. 36 ..
ता निराशा निववृतुः गोविन्दविनिवर्तने । विशोका अहनी निन्युः गायन्त्यः प्रियचेष्टितम् ॥ ३७ ॥
ताः निराशाः निववृतुः गोविन्द-विनिवर्तने । विशोकाः अहनी निन्युः गायन्त्यः प्रिय-चेष्टितम् ॥ ३७ ॥
tāḥ nirāśāḥ nivavṛtuḥ govinda-vinivartane . viśokāḥ ahanī ninyuḥ gāyantyaḥ priya-ceṣṭitam .. 37 ..
भगवानपि सम्प्राप्तो रामाक्रूरयुतो नृप । रथेन वायुवेगेन कालिन्दीं अघनाशिनीम् ॥ ३८ ॥
भगवान् अपि सम्प्राप्तः राम-अक्रूर-युतः नृप । रथेन वायु-वेगेन कालिन्दीम् अघ-नाशिनीम् ॥ ३८ ॥
bhagavān api samprāptaḥ rāma-akrūra-yutaḥ nṛpa . rathena vāyu-vegena kālindīm agha-nāśinīm .. 38 ..
तत्रोपस्पृश्य पानीयं पीत्वा मृष्टं मणिप्रभम् । वृक्षषण्डमुपव्रज्य सरामो रथमाविशत् ॥ ॥
तत्र उपस्पृश्य पानीयम् पीत्वा मृष्टम् मणि-प्रभम् । वृक्ष-षण्डम् उपव्रज्य सरामः रथम् आविशत् ॥ ॥
tatra upaspṛśya pānīyam pītvā mṛṣṭam maṇi-prabham . vṛkṣa-ṣaṇḍam upavrajya sarāmaḥ ratham āviśat .. ..
अक्रूरस्तावुपामन्त्र्य निवेश्य च रथोपरि । कालिन्द्या ह्रदमागत्य स्नानं विधिवदाचरत् ॥ ४० ॥
अक्रूरः तौ उपामन्त्र्य निवेश्य च रथ-उपरि । कालिन्द्याः ह्रदम् आगत्य स्नानम् विधिवत् आचरत् ॥ ४० ॥
akrūraḥ tau upāmantrya niveśya ca ratha-upari . kālindyāḥ hradam āgatya snānam vidhivat ācarat .. 40 ..
निमज्ज्य तस्मिन् सलिले जपन् ब्रह्म सनातनम् । तावेव ददृशेऽक्रूरो रामकृष्णौ समन्वितौ ॥ ४१ ॥
निमज्ज्य तस्मिन् सलिले जपन् ब्रह्म सनातनम् । तौ एव ददृशे अक्रूरः राम-कृष्णौ समन्वितौ ॥ ४१ ॥
nimajjya tasmin salile japan brahma sanātanam . tau eva dadṛśe akrūraḥ rāma-kṛṣṇau samanvitau .. 41 ..
तौ रथस्थौ कथमिह सुतौ आनकदुन्दुभेः । तर्हि स्वित् स्यन्दने न स्त इत्युन्मज्ज्य व्यचष्ट सः ॥ ४२ ॥
तौ रथ-स्थौ कथम् इह सुतौ आनकदुन्दुभेः । तर्हि स्विद् स्यन्दने न स्तः इति उन्मज्ज्य व्यचष्ट सः ॥ ४२ ॥
tau ratha-sthau katham iha sutau ānakadundubheḥ . tarhi svid syandane na staḥ iti unmajjya vyacaṣṭa saḥ .. 42 ..
तत्रापि च यथापूर्वं आसीनौ पुनरेव सः । न्यमज्जद् दर्शनं यन्मे मृषा किं सलिले तयोः ॥ ४३ ॥
तत्र अपि च यथापूर्वम् आसीनौ पुनर् एव सः । न्यमज्जत् दर्शनम् यत् मे मृषा किम् सलिले तयोः ॥ ४३ ॥
tatra api ca yathāpūrvam āsīnau punar eva saḥ . nyamajjat darśanam yat me mṛṣā kim salile tayoḥ .. 43 ..
भूयस्तत्रापि सोऽद्राक्षीत् स्तूयमानमहीश्वरम् । सिद्धचारणगन्धर्वैः असुरैर्नतकन्धरैः ॥ ४४ ॥
भूयस् तत्र अपि सः अद्राक्षीत् स्तूयमान-महीश्वरम् । सिद्ध-चारण-गन्धर्वैः असुरैः नत-कन्धरैः ॥ ४४ ॥
bhūyas tatra api saḥ adrākṣīt stūyamāna-mahīśvaram . siddha-cāraṇa-gandharvaiḥ asuraiḥ nata-kandharaiḥ .. 44 ..
सहस्रशिरसं देवं सहस्रफणमौलिनम् । नीलाम्बरं विसश्वेतं शृङ्गैः श्वेतमिव स्थितम् ॥ ४५ ॥
सहस्र-शिरसम् देवम् सहस्र-फण-मौलिनम् । नील-अम्बरम् शृङ्गैः श्वेतम् इव स्थितम् ॥ ४५ ॥
sahasra-śirasam devam sahasra-phaṇa-maulinam . nīla-ambaram śṛṅgaiḥ śvetam iva sthitam .. 45 ..
तस्योत्सङ्गे घनश्यामं पीतकौशेयवाससम् । पुरुषं चतुर्भुजं शान्तं पद्मपत्रारुणेक्षणम् ॥ ४६ ॥
तस्य उत्सङ्गे घनश्यामम् पीत-कौशेय-वाससम् । पुरुषम् चतुर्-भुजम् शान्तम् पद्म-पत्र-अरुण-ईक्षणम् ॥ ४६ ॥
tasya utsaṅge ghanaśyāmam pīta-kauśeya-vāsasam . puruṣam catur-bhujam śāntam padma-patra-aruṇa-īkṣaṇam .. 46 ..
चारुप्रसन्नवदनं चारुहासनिरीक्षणम् । सुभ्रून्नसं चरुकर्णं सुकपोलारुणाधरम् ॥ ४७ ॥
चारु-प्रसन्न-वदनम् चारु-हास-निरीक्षणम् । सु भ्रू-उन्नसम् चरु-कर्णम् सु कपोल-अरुण-अधरम् ॥ ४७ ॥
cāru-prasanna-vadanam cāru-hāsa-nirīkṣaṇam . su bhrū-unnasam caru-karṇam su kapola-aruṇa-adharam .. 47 ..
प्रलम्बपीवरभुजं तुङ्गांसोरःस्थलश्रियम् । कम्बुकण्ठं निम्ननाभिं वलिमत्पल्लवोदरम् ॥ ४८ ॥
प्रलम्ब-पीवर-भुजम् तुङ्ग-अंस-उरःस्थल-श्रियम् । कम्बु-कण्ठम् निम्न-नाभिम् वलिमत्-पल्लव-उदरम् ॥ ४८ ॥
pralamba-pīvara-bhujam tuṅga-aṃsa-uraḥsthala-śriyam . kambu-kaṇṭham nimna-nābhim valimat-pallava-udaram .. 48 ..
बृहत्कतिततश्रोणि करभोरुद्वयान्वितम् । चारुजानुयुगं चारु जङ्घायुगलसंयुतम् ॥ ४९ ॥
बृहत्-कति तत-श्रोणि करभ-ऊरु-द्वय-अन्वितम् । चारु-जानु-युगम् चारु जङ्घा-युगल-संयुतम् ॥ ४९ ॥
bṛhat-kati tata-śroṇi karabha-ūru-dvaya-anvitam . cāru-jānu-yugam cāru jaṅghā-yugala-saṃyutam .. 49 ..
तुङ्गगुल्फारुणनख व्रातदीधितिभिर्वृतम् । नवाङ्गुल्यङ्गुष्ठदलैः विलसत् पादपङ्कजम् ॥ ५० ॥
तुङ्ग-गुल्फ-अरुण-नख व्रात-दीधितिभिः वृतम् । नव-अङ्गुलि-अङ्गुष्ठ-दलैः विलसत् पाद-पङ्कजम् ॥ ५० ॥
tuṅga-gulpha-aruṇa-nakha vrāta-dīdhitibhiḥ vṛtam . nava-aṅguli-aṅguṣṭha-dalaiḥ vilasat pāda-paṅkajam .. 50 ..
सुमहार्हमणिव्रात किरीटकटकाङ्गदैः । कटिसूत्रब्रह्मसूत्र हारनूपुरकुण्डलैः ॥ ५१ ॥
सु महार्ह-मणि-व्रात किरीट-कटक-अङ्गदैः । कटिसूत्र-ब्रह्मसूत्र-हार-नूपुर-कुण्डलैः ॥ ५१ ॥
su mahārha-maṇi-vrāta kirīṭa-kaṭaka-aṅgadaiḥ . kaṭisūtra-brahmasūtra-hāra-nūpura-kuṇḍalaiḥ .. 51 ..
भ्राजमानं पद्मकरं शङ्खचक्रगदाधरम् । श्रीवत्सवक्षसं भ्राजत् कौस्तुभं वनमालिनम् ॥ ५२ ॥
भ्राजमानम् पद्म-करम् शङ्ख-चक्र-गदा-धरम् । श्रीवत्स-वक्षसम् भ्राजत् कौस्तुभम् वनमालिनम् ॥ ५२ ॥
bhrājamānam padma-karam śaṅkha-cakra-gadā-dharam . śrīvatsa-vakṣasam bhrājat kaustubham vanamālinam .. 52 ..
सुनन्दनन्दप्रमुखैः पर्षदैः सनकादिभिः । सुरेशैर्ब्रह्मरुद्राद्यैः नवभिश्च द्विजोत्तमैः ॥ ५३ ॥
सुनन्द-नन्द-प्रमुखैः पर्षदैः सनक-आदिभिः । सुर-ईशैः ब्रह्म-रुद्र-आद्यैः नवभिः च द्विजोत्तमैः ॥ ५३ ॥
sunanda-nanda-pramukhaiḥ parṣadaiḥ sanaka-ādibhiḥ . sura-īśaiḥ brahma-rudra-ādyaiḥ navabhiḥ ca dvijottamaiḥ .. 53 ..
प्रह्रादनारदवसु प्रमुखैर्भागवतोत्तमैः । स्तूयमानं पृथग्भावैः वचोभिरमलात्मभिः ॥ ५४ ॥
प्रह्राद-नारद-वसु प्रमुखैः भागवत-उत्तमैः । स्तूयमानम् पृथग्भावैः वचोभिः अमल-आत्मभिः ॥ ५४ ॥
prahrāda-nārada-vasu pramukhaiḥ bhāgavata-uttamaiḥ . stūyamānam pṛthagbhāvaiḥ vacobhiḥ amala-ātmabhiḥ .. 54 ..
श्रिया पुष्ट्या गिरा कान्त्या कीर्त्या तुष्ट्येलयोर्जया । विद्ययाविद्यया शक्त्या मायया च निषेवितम् ॥ ५५ ॥
श्रिया पुष्ट्या गिरा कान्त्या कीर्त्या तुष्ट्या इलयोः ऊर्जया । विद्यया अविद्यया शक्त्या मायया च निषेवितम् ॥ ५५ ॥
śriyā puṣṭyā girā kāntyā kīrtyā tuṣṭyā ilayoḥ ūrjayā . vidyayā avidyayā śaktyā māyayā ca niṣevitam .. 55 ..
विलोक्य सुभृशं प्रीतो भक्त्या परमया युतः । हृष्यत्तनूरुहो भाव परिक्लिन्नात्मलोचनः ॥ ५६ ॥
विलोक्य सु भृशम् प्रीतः भक्त्या परमया युतः । हृष्यत्-तनूरुहः भाव परिक्लिन्न-आत्म-लोचनः ॥ ५६ ॥
vilokya su bhṛśam prītaḥ bhaktyā paramayā yutaḥ . hṛṣyat-tanūruhaḥ bhāva pariklinna-ātma-locanaḥ .. 56 ..
गिरा गद्गदयास्तौषीत् सत्त्वमालम्ब्य सात्वतः । प्रणम्य मूर्ध्नावहितः कृताञ्जलिपुटः शनैः ॥ ५७ ॥
गिरा गद्गदया अस्तौषीत् सत्त्वम् आलम्ब्य सात्वतः । प्रणम्य मूर्ध्ना अवहितः कृत-अञ्जलि-पुटः शनैस् ॥ ५७ ॥
girā gadgadayā astauṣīt sattvam ālambya sātvataḥ . praṇamya mūrdhnā avahitaḥ kṛta-añjali-puṭaḥ śanais .. 57 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे अक्रूरप्रतियाने एकोन्चत्वारिंशोऽध्यायः ॥ ३९ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् दशम-स्कन्धे पूर्व-अर्धे अक्रूरप्रतियाने एकोन्चत्वारिंशः अध्यायः ॥ ३९ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām daśama-skandhe pūrva-ardhe akrūrapratiyāne ekoncatvāriṃśaḥ adhyāyaḥ .. 39 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In