| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच - ( अनुष्टुप् )
सुखोपविष्टः पर्यङ्के रमकृष्णोरुमानितः । लेभे मनोरथान् सर्वान् पन्पथि यान् स चकार ह ॥ १ ॥
sukhopaviṣṭaḥ paryaṅke ramakṛṣṇorumānitaḥ . lebhe manorathān sarvān panpathi yān sa cakāra ha .. 1 ..
किमलभ्यं भगवति प्रसन्ने श्रीनिकेतने । तथापि तत्परा राजन् न हि वाञ्छन्ति किञ्चन ॥ २ ॥
kimalabhyaṃ bhagavati prasanne śrīniketane . tathāpi tatparā rājan na hi vāñchanti kiñcana .. 2 ..
सायंतनाशनं कृत्वा भगवान् देवकीसुतः । सुहृत्सु वृत्तं कंसस्य पप्रच्छान्यच्चिकीर्षितम् ॥ ३ ॥
sāyaṃtanāśanaṃ kṛtvā bhagavān devakīsutaḥ . suhṛtsu vṛttaṃ kaṃsasya papracchānyaccikīrṣitam .. 3 ..
श्रीभगवानुवाच -
तात सौम्यागतः कच्चित् स्वागतं भद्रमस्तु वः । अपि स्वज्ञातिबन्धूनां अनमीवमनामयम् ॥ ४ ॥
tāta saumyāgataḥ kaccit svāgataṃ bhadramastu vaḥ . api svajñātibandhūnāṃ anamīvamanāmayam .. 4 ..
किं नु नः कुशलं पृच्छे एधमाने कुलामये । कंसे मातुलनाम्न्यङ्ग स्वानां नस्तत्प्रजासु च ॥ ५ ॥
kiṃ nu naḥ kuśalaṃ pṛcche edhamāne kulāmaye . kaṃse mātulanāmnyaṅga svānāṃ nastatprajāsu ca .. 5 ..
अहो अस्मदभूद् भूरि पित्रोर्वृजिनमार्ययोः । यद्धेतोः पुत्रमरणं यद्धेतोर्बन्धनं तयोः ॥ ६ ॥
aho asmadabhūd bhūri pitrorvṛjinamāryayoḥ . yaddhetoḥ putramaraṇaṃ yaddhetorbandhanaṃ tayoḥ .. 6 ..
दिष्ट्याद्य दर्शनं स्वानां मह्यं वः सौम्य काङ्क्षितम् । सञ्जातं वर्ण्यतां तात तवागमनकारणम् ॥ ७ ॥
diṣṭyādya darśanaṃ svānāṃ mahyaṃ vaḥ saumya kāṅkṣitam . sañjātaṃ varṇyatāṃ tāta tavāgamanakāraṇam .. 7 ..
श्रीशुक उवाच -
पृष्टो भगवता सर्वं वर्णयामास माधवः । वैरानुबन्धं यदुषु वसुदेववधोद्यमम् ॥ ८ ॥
pṛṣṭo bhagavatā sarvaṃ varṇayāmāsa mādhavaḥ . vairānubandhaṃ yaduṣu vasudevavadhodyamam .. 8 ..
यत्सन्देशो यदर्थं वा दूतः सम्प्रेषितः स्वयम् । यदुक्तं नारदेनास्य स्वजन्मानकदुन्दुभेः ॥ ९ ॥
yatsandeśo yadarthaṃ vā dūtaḥ sampreṣitaḥ svayam . yaduktaṃ nāradenāsya svajanmānakadundubheḥ .. 9 ..
श्रुत्वाक्रूरवचः कृष्णो बलश्च परवीरहा । प्रहस्य नन्दं पितरं राज्ञा दिष्टं विजज्ञतुः ॥ १० ॥
śrutvākrūravacaḥ kṛṣṇo balaśca paravīrahā . prahasya nandaṃ pitaraṃ rājñā diṣṭaṃ vijajñatuḥ .. 10 ..
गोपान् समादिशत् सोऽपि गृह्यतां सर्वगोरसः । उपायनानि गृह्णीध्वं युज्यन्तां शकटानि च ॥ ११ ॥
gopān samādiśat so'pi gṛhyatāṃ sarvagorasaḥ . upāyanāni gṛhṇīdhvaṃ yujyantāṃ śakaṭāni ca .. 11 ..
यास्यामः श्वो मधुपुरीं दास्यामो नृपते रसान् । द्रक्ष्यामः सुमहत्पर्व यान्ति जानपदाः किल । एवमाघोषयत्क्षत्रा नन्दगोपः स्वगोकुले ॥ १२ ॥
yāsyāmaḥ śvo madhupurīṃ dāsyāmo nṛpate rasān . drakṣyāmaḥ sumahatparva yānti jānapadāḥ kila . evamāghoṣayatkṣatrā nandagopaḥ svagokule .. 12 ..
गोप्यस्तास्तद् उपश्रुत्य बभूवुर्व्यथिता भृशम् । रामकृष्णौ पुरीं नेतुं अक्रूरं व्रजमागतम् ॥ १३ ॥
gopyastāstad upaśrutya babhūvurvyathitā bhṛśam . rāmakṛṣṇau purīṃ netuṃ akrūraṃ vrajamāgatam .. 13 ..
काश्चित् तत्कृतहृत्ताप श्वासम्लानमुखश्रियः । स्रंसद्दुद्दुकूलवलय केशग्रंथ्यश्च काश्चन ॥ १४ ॥
kāścit tatkṛtahṛttāpa śvāsamlānamukhaśriyaḥ . sraṃsadduddukūlavalaya keśagraṃthyaśca kāścana .. 14 ..
अन्याश्च तदनुध्यान निवृत्ताशेषवृत्तयः । नाभ्यजानन् इमं लोकं आत्मलोकं गता इव ॥ १५ ॥
anyāśca tadanudhyāna nivṛttāśeṣavṛttayaḥ . nābhyajānan imaṃ lokaṃ ātmalokaṃ gatā iva .. 15 ..
स्मरन्त्यश्चापराः शौरेः अनुरागस्मितेरिताः । हृदिस्पृशश्चित्रपदा गिरः संमुमुहुः स्त्रियः ॥ १६ ॥
smarantyaścāparāḥ śaureḥ anurāgasmiteritāḥ . hṛdispṛśaścitrapadā giraḥ saṃmumuhuḥ striyaḥ .. 16 ..
गतिं सुललितां चेष्टां स्निग्धहासावलोकनम् । शोकापहानि नर्माणि प्रोद्दामचरितानि च ॥ १७ ॥
gatiṃ sulalitāṃ ceṣṭāṃ snigdhahāsāvalokanam . śokāpahāni narmāṇi proddāmacaritāni ca .. 17 ..
चिन्तयन्त्यो मुकुन्दस्य भीता विरहकातराः । समेताः सङ्घशः प्रोचुः अश्रुमुख्योऽच्युताशयाः ॥ १८ ॥
cintayantyo mukundasya bhītā virahakātarāḥ . sametāḥ saṅghaśaḥ procuḥ aśrumukhyo'cyutāśayāḥ .. 18 ..
श्रीगोप्य ऊचुः - ( मिश्र )
अहो विधातस्तव न क्वचिद् दया संयोज्य मैत्र्या प्रणयेन देहिनः । तांश्चाकृतार्थान् वियुनङ्क्ष्यपार्थकं विक्रीडितं तेऽर्भकचेष्टितं यथा ॥ १९ ॥
aho vidhātastava na kvacid dayā saṃyojya maitryā praṇayena dehinaḥ . tāṃścākṛtārthān viyunaṅkṣyapārthakaṃ vikrīḍitaṃ te'rbhakaceṣṭitaṃ yathā .. 19 ..
यस्त्वं प्रदर्श्यासितकुन्तलावृतं मुकुन्दवक्त्रं सुकपोलमुन्नसम् । शोकापनोदस्मितलेशसुन्दरं करोषि पारोक्ष्यमसाधु ते कृतम् ॥ २० ॥
yastvaṃ pradarśyāsitakuntalāvṛtaṃ mukundavaktraṃ sukapolamunnasam . śokāpanodasmitaleśasundaraṃ karoṣi pārokṣyamasādhu te kṛtam .. 20 ..
क्रूरस्त्वमक्रूरसमाख्यया स्म नः चक्षुर्हि दत्तं हरसे बताज्ञवत् । येनैकदेशेऽखिलसर्गसौष्ठवं त्वदीयमद्राक्ष्म वयं मधुद्विषः ॥ २१ ॥
krūrastvamakrūrasamākhyayā sma naḥ cakṣurhi dattaṃ harase batājñavat . yenaikadeśe'khilasargasauṣṭhavaṃ tvadīyamadrākṣma vayaṃ madhudviṣaḥ .. 21 ..
न नन्दसूनुः क्षणभङ्गसौहृदः समीक्षते नः स्वकृतातुरा बत । विहाय गेहान् स्वजनान् तान् पतीन् तद्दास्यमद्धोपगता नवप्रियः ॥ २२ ॥
na nandasūnuḥ kṣaṇabhaṅgasauhṛdaḥ samīkṣate naḥ svakṛtāturā bata . vihāya gehān svajanān tān patīn taddāsyamaddhopagatā navapriyaḥ .. 22 ..
सुखं प्रभाता रजनीयमाशिषः सत्या बभूवुः पुरयोषितां ध्रुवम् । याः संप्रविष्टस्य मुखं व्रजस्पतेः पास्यन्त्यपाङ्गोत् कलितस्मितासवम् ॥ २३ ॥
sukhaṃ prabhātā rajanīyamāśiṣaḥ satyā babhūvuḥ purayoṣitāṃ dhruvam . yāḥ saṃpraviṣṭasya mukhaṃ vrajaspateḥ pāsyantyapāṅgot kalitasmitāsavam .. 23 ..
तासां मुकुन्दो मधुमञ्जुभाषितैरः गृहीतचित्तः परवान् मनस्व्यपि । कथं पुनर्नः प्रतियास्यतेऽबला ग्राम्याः सलज्जस्मितविभ्रमैर्भ्रमन् ॥ २४ ॥
tāsāṃ mukundo madhumañjubhāṣitairaḥ gṛhītacittaḥ paravān manasvyapi . kathaṃ punarnaḥ pratiyāsyate'balā grāmyāḥ salajjasmitavibhramairbhraman .. 24 ..
अद्य ध्रुवं तत्र दृशो भविष्यते दाशार्हभोजान्धक वृष्णिसात्वताम् । महोत्सवः श्रीरमणं गुणास्पदं द्रक्ष्यन्ति ये चाध्वनि देवकीसुतम् ॥ २५ ॥
adya dhruvaṃ tatra dṛśo bhaviṣyate dāśārhabhojāndhaka vṛṣṇisātvatām . mahotsavaḥ śrīramaṇaṃ guṇāspadaṃ drakṣyanti ye cādhvani devakīsutam .. 25 ..
मैतद्विधस्याकरुणस्य नाम भूद् अक्रूर इत्येतदतीव दारुणः । योऽसावनाश्वास्य सुदुःखितं जनं प्रियात्प्रियं नेष्यति पारमध्वनः ॥ २६ ॥
maitadvidhasyākaruṇasya nāma bhūd akrūra ityetadatīva dāruṇaḥ . yo'sāvanāśvāsya suduḥkhitaṃ janaṃ priyātpriyaṃ neṣyati pāramadhvanaḥ .. 26 ..
अनार्द्रधीरेष समास्थितो रथं तमन्वमी च त्वरयन्ति दुर्मदाः । गोपा अनोभिः स्थविरैरुपेक्षितं दैवं च नोऽद्य प्रतिकूलमीहते ॥ २७ ॥
anārdradhīreṣa samāsthito rathaṃ tamanvamī ca tvarayanti durmadāḥ . gopā anobhiḥ sthavirairupekṣitaṃ daivaṃ ca no'dya pratikūlamīhate .. 27 ..
निवारयामः समुपेत्य माधवं किं नोऽकरिष्यन् कुलवृद्धबान्धवाः । मुकुन्दसङ्गान्निमिषार्धदुस्त्यजाद् दैवेन विध्वंसितदीनचेतसाम् ॥ २८ ॥
nivārayāmaḥ samupetya mādhavaṃ kiṃ no'kariṣyan kulavṛddhabāndhavāḥ . mukundasaṅgānnimiṣārdhadustyajād daivena vidhvaṃsitadīnacetasām .. 28 ..
( वसंततिलका )
यस्यानुरागललितस्मितवल्गुमन्त्र लीलावलोकपरिरम्भणरासगोष्ठाम् । नीताः स्म नः क्षणमिव क्षणदा विना तं गोप्यः कथं न्वतितरेम तमो दुरन्तम् ॥ २९ ॥
yasyānurāgalalitasmitavalgumantra līlāvalokaparirambhaṇarāsagoṣṭhām . nītāḥ sma naḥ kṣaṇamiva kṣaṇadā vinā taṃ gopyaḥ kathaṃ nvatitarema tamo durantam .. 29 ..
योऽह्नः क्षये व्रजमनन्तसखः परीतो गोपैर्विशन् खुररजश्छुरितालकस्रक् । वेणुं क्वणन् स्मितकटाक्षनिरीक्षणेन चित्तं क्षिणोत्यमुमृते नु कथं भवेम ॥ ३० ॥
yo'hnaḥ kṣaye vrajamanantasakhaḥ parīto gopairviśan khurarajaśchuritālakasrak . veṇuṃ kvaṇan smitakaṭākṣanirīkṣaṇena cittaṃ kṣiṇotyamumṛte nu kathaṃ bhavema .. 30 ..
श्रीशुक उवाच - ( मिश्र )
एवं ब्रुवाणा विरहातुरा भृशं व्रजस्त्रियः कृष्णविषक्तमानसाः । विसृज्य लज्जां रुरुदुः स्म सुस्वरं गोविन्द दामोदर माधवेति ॥ ३१ ॥
evaṃ bruvāṇā virahāturā bhṛśaṃ vrajastriyaḥ kṛṣṇaviṣaktamānasāḥ . visṛjya lajjāṃ ruruduḥ sma susvaraṃ govinda dāmodara mādhaveti .. 31 ..
( अनुष्टुप् )
स्त्रीणामेवं रुदन्तीनां उदिते सवितर्यथ । अक्रूरश्चोदयामास कृतमैत्रादिको रथम् ॥ ३२ ॥
strīṇāmevaṃ rudantīnāṃ udite savitaryatha . akrūraścodayāmāsa kṛtamaitrādiko ratham .. 32 ..
गोपास्तमन्वसज्जन्त नन्दाद्याः शकटैस्ततः । आदायोपायनं भूरि कुम्भान् गोरससम्भृतान् ॥ ३३ ॥
gopāstamanvasajjanta nandādyāḥ śakaṭaistataḥ . ādāyopāyanaṃ bhūri kumbhān gorasasambhṛtān .. 33 ..
गोप्यश्च दयितं कृष्णं अनुव्रज्यानुरञ्जिताः । प्रत्यादेशं भगवतः काङ्क्षन्त्यश्चावतस्थिरे ॥ ३४ ॥
gopyaśca dayitaṃ kṛṣṇaṃ anuvrajyānurañjitāḥ . pratyādeśaṃ bhagavataḥ kāṅkṣantyaścāvatasthire .. 34 ..
तास्तथा तप्यतीर्वीक्ष्य स्वप्रस्थाणे यदूत्तमः । सान्त्वयामस सप्रेमैः आयास्य इति दौत्यकैः ॥ ३५ ॥
tāstathā tapyatīrvīkṣya svaprasthāṇe yadūttamaḥ . sāntvayāmasa sapremaiḥ āyāsya iti dautyakaiḥ .. 35 ..
यावदालक्ष्यते केतुः यावद्रेणू रथस्य च । अनुप्रस्थापितात्मानो लेख्यानीवोपलक्षिताः ॥ ३६ ॥
yāvadālakṣyate ketuḥ yāvadreṇū rathasya ca . anuprasthāpitātmāno lekhyānīvopalakṣitāḥ .. 36 ..
ता निराशा निववृतुः गोविन्दविनिवर्तने । विशोका अहनी निन्युः गायन्त्यः प्रियचेष्टितम् ॥ ३७ ॥
tā nirāśā nivavṛtuḥ govindavinivartane . viśokā ahanī ninyuḥ gāyantyaḥ priyaceṣṭitam .. 37 ..
भगवानपि सम्प्राप्तो रामाक्रूरयुतो नृप । रथेन वायुवेगेन कालिन्दीं अघनाशिनीम् ॥ ३८ ॥
bhagavānapi samprāpto rāmākrūrayuto nṛpa . rathena vāyuvegena kālindīṃ aghanāśinīm .. 38 ..
तत्रोपस्पृश्य पानीयं पीत्वा मृष्टं मणिप्रभम् । वृक्षषण्डमुपव्रज्य सरामो रथमाविशत् ॥ ॥
tatropaspṛśya pānīyaṃ pītvā mṛṣṭaṃ maṇiprabham . vṛkṣaṣaṇḍamupavrajya sarāmo rathamāviśat .. ..
अक्रूरस्तावुपामन्त्र्य निवेश्य च रथोपरि । कालिन्द्या ह्रदमागत्य स्नानं विधिवदाचरत् ॥ ४० ॥
akrūrastāvupāmantrya niveśya ca rathopari . kālindyā hradamāgatya snānaṃ vidhivadācarat .. 40 ..
निमज्ज्य तस्मिन् सलिले जपन् ब्रह्म सनातनम् । तावेव ददृशेऽक्रूरो रामकृष्णौ समन्वितौ ॥ ४१ ॥
nimajjya tasmin salile japan brahma sanātanam . tāveva dadṛśe'krūro rāmakṛṣṇau samanvitau .. 41 ..
तौ रथस्थौ कथमिह सुतौ आनकदुन्दुभेः । तर्हि स्वित् स्यन्दने न स्त इत्युन्मज्ज्य व्यचष्ट सः ॥ ४२ ॥
tau rathasthau kathamiha sutau ānakadundubheḥ . tarhi svit syandane na sta ityunmajjya vyacaṣṭa saḥ .. 42 ..
तत्रापि च यथापूर्वं आसीनौ पुनरेव सः । न्यमज्जद् दर्शनं यन्मे मृषा किं सलिले तयोः ॥ ४३ ॥
tatrāpi ca yathāpūrvaṃ āsīnau punareva saḥ . nyamajjad darśanaṃ yanme mṛṣā kiṃ salile tayoḥ .. 43 ..
भूयस्तत्रापि सोऽद्राक्षीत् स्तूयमानमहीश्वरम् । सिद्धचारणगन्धर्वैः असुरैर्नतकन्धरैः ॥ ४४ ॥
bhūyastatrāpi so'drākṣīt stūyamānamahīśvaram . siddhacāraṇagandharvaiḥ asurairnatakandharaiḥ .. 44 ..
सहस्रशिरसं देवं सहस्रफणमौलिनम् । नीलाम्बरं विसश्वेतं शृङ्गैः श्वेतमिव स्थितम् ॥ ४५ ॥
sahasraśirasaṃ devaṃ sahasraphaṇamaulinam . nīlāmbaraṃ visaśvetaṃ śṛṅgaiḥ śvetamiva sthitam .. 45 ..
तस्योत्सङ्गे घनश्यामं पीतकौशेयवाससम् । पुरुषं चतुर्भुजं शान्तं पद्मपत्रारुणेक्षणम् ॥ ४६ ॥
tasyotsaṅge ghanaśyāmaṃ pītakauśeyavāsasam . puruṣaṃ caturbhujaṃ śāntaṃ padmapatrāruṇekṣaṇam .. 46 ..
चारुप्रसन्नवदनं चारुहासनिरीक्षणम् । सुभ्रून्नसं चरुकर्णं सुकपोलारुणाधरम् ॥ ४७ ॥
cāruprasannavadanaṃ cāruhāsanirīkṣaṇam . subhrūnnasaṃ carukarṇaṃ sukapolāruṇādharam .. 47 ..
प्रलम्बपीवरभुजं तुङ्गांसोरःस्थलश्रियम् । कम्बुकण्ठं निम्ननाभिं वलिमत्पल्लवोदरम् ॥ ४८ ॥
pralambapīvarabhujaṃ tuṅgāṃsoraḥsthalaśriyam . kambukaṇṭhaṃ nimnanābhiṃ valimatpallavodaram .. 48 ..
बृहत्कतिततश्रोणि करभोरुद्वयान्वितम् । चारुजानुयुगं चारु जङ्घायुगलसंयुतम् ॥ ४९ ॥
bṛhatkatitataśroṇi karabhorudvayānvitam . cārujānuyugaṃ cāru jaṅghāyugalasaṃyutam .. 49 ..
तुङ्गगुल्फारुणनख व्रातदीधितिभिर्वृतम् । नवाङ्गुल्यङ्गुष्ठदलैः विलसत् पादपङ्कजम् ॥ ५० ॥
tuṅgagulphāruṇanakha vrātadīdhitibhirvṛtam . navāṅgulyaṅguṣṭhadalaiḥ vilasat pādapaṅkajam .. 50 ..
सुमहार्हमणिव्रात किरीटकटकाङ्गदैः । कटिसूत्रब्रह्मसूत्र हारनूपुरकुण्डलैः ॥ ५१ ॥
sumahārhamaṇivrāta kirīṭakaṭakāṅgadaiḥ . kaṭisūtrabrahmasūtra hāranūpurakuṇḍalaiḥ .. 51 ..
भ्राजमानं पद्मकरं शङ्खचक्रगदाधरम् । श्रीवत्सवक्षसं भ्राजत् कौस्तुभं वनमालिनम् ॥ ५२ ॥
bhrājamānaṃ padmakaraṃ śaṅkhacakragadādharam . śrīvatsavakṣasaṃ bhrājat kaustubhaṃ vanamālinam .. 52 ..
सुनन्दनन्दप्रमुखैः पर्षदैः सनकादिभिः । सुरेशैर्ब्रह्मरुद्राद्यैः नवभिश्च द्विजोत्तमैः ॥ ५३ ॥
sunandanandapramukhaiḥ parṣadaiḥ sanakādibhiḥ . sureśairbrahmarudrādyaiḥ navabhiśca dvijottamaiḥ .. 53 ..
प्रह्रादनारदवसु प्रमुखैर्भागवतोत्तमैः । स्तूयमानं पृथग्भावैः वचोभिरमलात्मभिः ॥ ५४ ॥
prahrādanāradavasu pramukhairbhāgavatottamaiḥ . stūyamānaṃ pṛthagbhāvaiḥ vacobhiramalātmabhiḥ .. 54 ..
श्रिया पुष्ट्या गिरा कान्त्या कीर्त्या तुष्ट्येलयोर्जया । विद्ययाविद्यया शक्त्या मायया च निषेवितम् ॥ ५५ ॥
śriyā puṣṭyā girā kāntyā kīrtyā tuṣṭyelayorjayā . vidyayāvidyayā śaktyā māyayā ca niṣevitam .. 55 ..
विलोक्य सुभृशं प्रीतो भक्त्या परमया युतः । हृष्यत्तनूरुहो भाव परिक्लिन्नात्मलोचनः ॥ ५६ ॥
vilokya subhṛśaṃ prīto bhaktyā paramayā yutaḥ . hṛṣyattanūruho bhāva pariklinnātmalocanaḥ .. 56 ..
गिरा गद्गदयास्तौषीत् सत्त्वमालम्ब्य सात्वतः । प्रणम्य मूर्ध्नावहितः कृताञ्जलिपुटः शनैः ॥ ५७ ॥
girā gadgadayāstauṣīt sattvamālambya sātvataḥ . praṇamya mūrdhnāvahitaḥ kṛtāñjalipuṭaḥ śanaiḥ .. 57 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे अक्रूरप्रतियाने एकोन्चत्वारिंशोऽध्यायः ॥ ३९ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ daśamaskandhe pūrvārdhe akrūrapratiyāne ekoncatvāriṃśo'dhyāyaḥ .. 39 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ oṃ tatsat śrīkṛṣṇārpaṇamastu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In