| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच । ( अनुष्टुप् )
बहिरन्तःपुरद्वारः सर्वाः पूर्ववदावृताः । ततो बालध्वनिं श्रुत्वा गृहपालाः समुत्थिताः ॥ १ ॥
बहिस् अन्तःपुर-द्वारः सर्वाः पूर्ववत् आवृताः । ततस् बाल-ध्वनिम् श्रुत्वा गृहपालाः समुत्थिताः ॥ १ ॥
bahis antaḥpura-dvāraḥ sarvāḥ pūrvavat āvṛtāḥ . tatas bāla-dhvanim śrutvā gṛhapālāḥ samutthitāḥ .. 1 ..
ते तु तूर्णं उपव्रज्य देवक्या गर्भजन्म तत् । आचख्युः भोजराजाय यदुद्विग्नः प्रतीक्षते ॥ २ ॥
ते तु तूर्णम् उपव्रज्य देवक्याः गर्भ-जन्म तत् । आचख्युः भोजराजाय यत् उद्विग्नः प्रतीक्षते ॥ २ ॥
te tu tūrṇam upavrajya devakyāḥ garbha-janma tat . ācakhyuḥ bhojarājāya yat udvignaḥ pratīkṣate .. 2 ..
स तल्पात् तूर्णमुत्थाय कालोऽयमिति विह्वलः । सूतीगृहं अगात् तूर्णं प्रस्खलन् मुक्तमूर्धजः ॥ ३ ॥
स तल्पात् तूर्णम् उत्थाय कालः अयम् इति विह्वलः । सूतीगृहम् अगात् तूर्णम् प्रस्खलन् मुक्त-मूर्धजः ॥ ३ ॥
sa talpāt tūrṇam utthāya kālaḥ ayam iti vihvalaḥ . sūtīgṛham agāt tūrṇam praskhalan mukta-mūrdhajaḥ .. 3 ..
तं आह भ्रातरं देवी कृपणा करुणं सती । स्नुषेयं तव कल्याण स्त्रियं मा हन्तुमर्हसि ॥ ४ ॥
तम् आह भ्रातरम् देवी कृपणा करुणम् सती । स्नुषा इयम् तव कल्याण स्त्रियम् मा हन्तुम् अर्हसि ॥ ४ ॥
tam āha bhrātaram devī kṛpaṇā karuṇam satī . snuṣā iyam tava kalyāṇa striyam mā hantum arhasi .. 4 ..
बहवो हिंसिता भ्रातः शिशवः पावकोपमाः । त्वया दैवनिसृष्टेन पुत्रिकैका प्रदीयताम् ॥ ५ ॥
बहवः हिंसिताः भ्रातर् शिशवः पावक-उपमाः । त्वया दैव-निसृष्टेन पुत्रिका एका प्रदीयताम् ॥ ५ ॥
bahavaḥ hiṃsitāḥ bhrātar śiśavaḥ pāvaka-upamāḥ . tvayā daiva-nisṛṣṭena putrikā ekā pradīyatām .. 5 ..
नन्वहं ते ह्यवरजा दीना हतसुता प्रभो । दातुमर्हसि मन्दाया अङ्गेमां चरमां प्रजाम् ॥ ६ ॥
ननु अहम् ते हि अवरजा दीना हत-सुता प्रभो । दातुम् अर्हसि मन्दायै अङ्ग इमाम् चरमाम् प्रजाम् ॥ ६ ॥
nanu aham te hi avarajā dīnā hata-sutā prabho . dātum arhasi mandāyai aṅga imām caramām prajām .. 6 ..
श्रीशुक उवाच ।
उपगुह्य आत्मजां एवं रुदत्या दीन अदीनवत् । याचितस्तां विनिर्भर्त्स्य हस्ताद् आचिच्छिदे खलः ॥ ७ ॥
उपगुह्य आत्मजाम् एवम् रुदत्याः दीन-अदीन-वत् । याचितः ताम् विनिर्भर्त्स्य हस्तात् आचित्-छिदे खलः ॥ ७ ॥
upaguhya ātmajām evam rudatyāḥ dīna-adīna-vat . yācitaḥ tām vinirbhartsya hastāt ācit-chide khalaḥ .. 7 ..
तां गृहीत्वा चरणयोः जातमात्रां स्वसुः सुताम् । अपोथयत् शिलापृष्ठे स्वार्थोन्मूलितसौहृदः ॥ ८ ॥
ताम् गृहीत्वा चरणयोः जात-मात्राम् स्वसुः सुताम् । अपोथयत् शिला-पृष्ठे स्व-अर्थ-उन्मूलित-सौहृदः ॥ ८ ॥
tām gṛhītvā caraṇayoḥ jāta-mātrām svasuḥ sutām . apothayat śilā-pṛṣṭhe sva-artha-unmūlita-sauhṛdaḥ .. 8 ..
सा तद्हस्तात् समुत्पत्य सद्यो देव्यंबरं गता । अदृश्यतानुजा विष्णोः सायुधाष्टमहाभुजा ॥ ९ ॥
सा तद्-हस्तात् समुत्पत्य सद्यस् देवी-अंबरम् गता । अदृश्यत अनुजा विष्णोः स आयुधा अष्ट-महा-भुजा ॥ ९ ॥
sā tad-hastāt samutpatya sadyas devī-aṃbaram gatā . adṛśyata anujā viṣṇoḥ sa āyudhā aṣṭa-mahā-bhujā .. 9 ..
दिव्यस्रग् अंबरालेप रत्नाभरणभूषिता । धनुःशूलेषुचर्मासि शंखचक्रगदाधरा ॥ १० ॥
दिव्य-स्रज् अंबर-आलेप रत्न-आभरण-भूषिता । धनुः-शूल-इषु-चर्मा असि शंख-चक्र-गदा-धरा ॥ १० ॥
divya-sraj aṃbara-ālepa ratna-ābharaṇa-bhūṣitā . dhanuḥ-śūla-iṣu-carmā asi śaṃkha-cakra-gadā-dharā .. 10 ..
सिद्धचारणगन्धर्वैः अप्सरःकिन्नरोरगैः । उपाहृतोरुबलिभिः स्तूयमानेदमब्रवीत् ॥ ११ ॥
सिद्ध-चारण-गन्धर्वैः अप्सरः-किन्नर-उरगैः । उपाहृत-उरु-बलिभिः स्तूयमाना इदम् अब्रवीत् ॥ ११ ॥
siddha-cāraṇa-gandharvaiḥ apsaraḥ-kinnara-uragaiḥ . upāhṛta-uru-balibhiḥ stūyamānā idam abravīt .. 11 ..
किं मया हतया मन्द जातः खलु तवान्तकृत् । यत्र क्वं वा पूर्वशत्रुः मा हिंसीः कृपणान्वृथा ॥ १२ ॥
किम् मया हतया मन्द जातः खलु तव अन्तकृत् । यत्र क्वम् वा पूर्व-शत्रुः मा हिंसीः कृपणान् वृथा ॥ १२ ॥
kim mayā hatayā manda jātaḥ khalu tava antakṛt . yatra kvam vā pūrva-śatruḥ mā hiṃsīḥ kṛpaṇān vṛthā .. 12 ..
इति प्रभाष्य तं देवी माया भगवती भुवि । बहुनामनिकेतेषु बहुनामा बभूव ह ॥ १३ ॥
इति प्रभाष्य तम् देवी माया भगवती भुवि । बहु-नाम-निकेतेषु बहु-नामा बभूव ह ॥ १३ ॥
iti prabhāṣya tam devī māyā bhagavatī bhuvi . bahu-nāma-niketeṣu bahu-nāmā babhūva ha .. 13 ..
तया अभिहितं आकर्ण्य कंसः परमविस्मितः । देवकीं वसुदेवं च विमुच्य प्रश्रितोऽब्रवीत् ॥ १४ ॥
तया अभिहितम् आकर्ण्य कंसः परम-विस्मितः । देवकीम् वसुदेवम् च विमुच्य प्रश्रितः अब्रवीत् ॥ १४ ॥
tayā abhihitam ākarṇya kaṃsaḥ parama-vismitaḥ . devakīm vasudevam ca vimucya praśritaḥ abravīt .. 14 ..
अहो भगिन्यहो भाम मया वां बत पाप्मना । पुरुषाद इवापत्यं बहवो हिंसिताः सुताः ॥ १५ ॥
अहो भगिनि अहो भाम मया वाम् बत पाप्मना । पुरुषादः इव अपत्यम् बहवः हिंसिताः सुताः ॥ १५ ॥
aho bhagini aho bhāma mayā vām bata pāpmanā . puruṣādaḥ iva apatyam bahavaḥ hiṃsitāḥ sutāḥ .. 15 ..
स त्वहं त्यक्तकारुण्यः त्यक्तज्ञातिसुहृत् खलः । कान् लोकान् वै गमिष्यामि ब्रह्महेव मृतः श्वसन् ॥ १६ ॥
स तु अहम् त्यक्त-कारुण्यः त्यक्त-ज्ञाति-सुहृद् खलः । कान् लोकान् वै गमिष्यामि ब्रह्म-हा इव मृतः श्वसन् ॥ १६ ॥
sa tu aham tyakta-kāruṇyaḥ tyakta-jñāti-suhṛd khalaḥ . kān lokān vai gamiṣyāmi brahma-hā iva mṛtaḥ śvasan .. 16 ..
दैवं अपि अनृतं वक्ति न मर्त्या एव केवलम् । यद् विश्रंभाद् अहं पापः स्वसुर्निहतवान् शिशून् ॥ १७ ॥
दैवम् अपि अनृतम् वक्ति न मर्त्याः एव केवलम् । यत् विश्रंभात् अहम् पापः स्वसुः निहतवान् शिशून् ॥ १७ ॥
daivam api anṛtam vakti na martyāḥ eva kevalam . yat viśraṃbhāt aham pāpaḥ svasuḥ nihatavān śiśūn .. 17 ..
मा शोचतं महाभागौ आत्मजान् स्वकृतंभुजः । जन्तवो न सदैकत्र दैवाधीनास्तदाऽऽसते ॥ १८ ॥
मा शोचतम् महाभागौ आत्मजान् स्व-कृतंभुजः । जन्तवः न सदा एकत्र दैव-अधीनाः तदा आसते ॥ १८ ॥
mā śocatam mahābhāgau ātmajān sva-kṛtaṃbhujaḥ . jantavaḥ na sadā ekatra daiva-adhīnāḥ tadā āsate .. 18 ..
भुवि भौमानि भूतानि यथा यान्ति अपयान्ति च । नायमात्मा तथैतेषु विपर्येति यथैव भूः ॥ १९ ॥
भुवि भौमानि भूतानि यथा यान्ति अपयान्ति च । न अयम् आत्मा तथा एतेषु विपर्येति यथा एव भूः ॥ १९ ॥
bhuvi bhaumāni bhūtāni yathā yānti apayānti ca . na ayam ātmā tathā eteṣu viparyeti yathā eva bhūḥ .. 19 ..
यथानेवंविदो भेदो यत आत्मविपर्ययः । देहयोगवियोगौ च संसृतिर्न निवर्तते ॥ २० ॥
यथा अनेवंविदः भेदः यतस् आत्म-विपर्ययः । देह-योग-वियोगौ च संसृतिः न निवर्तते ॥ २० ॥
yathā anevaṃvidaḥ bhedaḥ yatas ātma-viparyayaḥ . deha-yoga-viyogau ca saṃsṛtiḥ na nivartate .. 20 ..
तस्माद्भद्रे स्वतनयान् मया व्यापादितानपि । मानुशोच यतः सर्वः स्वकृतं विन्दतेऽवशः ॥ २१ ॥
तस्मात् भद्रे स्व-तनयान् मया व्यापादितान् अपि । मा अनुशोच यतस् सर्वः स्व-कृतम् विन्दते अवशः ॥ २१ ॥
tasmāt bhadre sva-tanayān mayā vyāpāditān api . mā anuśoca yatas sarvaḥ sva-kṛtam vindate avaśaḥ .. 21 ..
यावद्धतोऽस्मि हन्तास्मीति आत्मानं मन्यतेऽस्वदृक् । तावत् तद् अभिमान्यज्ञो बाध्यबाधकतामियात् ॥ २२ ॥
यावत् हतः अस्मि हन्तास्मि इति आत्मानम् मन्यते अ स्वदृश् । तावत् तत् अभिमान्य-ज्ञः बाध्य-बाधक-ताम् इयात् ॥ २२ ॥
yāvat hataḥ asmi hantāsmi iti ātmānam manyate a svadṛś . tāvat tat abhimānya-jñaḥ bādhya-bādhaka-tām iyāt .. 22 ..
क्षमध्वं मम दौरात्म्यं साधवो दीनवत्सलाः । इत्युक्त्वाश्रुमुखः पादौ श्यालः स्वस्रोः अथाग्रहीत् ॥ २३ ॥
क्षमध्वम् मम दौरात्म्यम् साधवः दीन-वत्सलाः । इति उक्त्वा अश्रु-मुखः पादौ श्यालः स्वस्रोः अथ अग्रहीत् ॥ २३ ॥
kṣamadhvam mama daurātmyam sādhavaḥ dīna-vatsalāḥ . iti uktvā aśru-mukhaḥ pādau śyālaḥ svasroḥ atha agrahīt .. 23 ..
मोचयामास निगडात् विश्रब्धः कन्यकागिरा । देवकीं वसुदेवं च दर्शयन् आत्मसौहृदम् ॥ २४ ॥
मोचयामास निगडात् विश्रब्धः कन्यका-गिरा । देवकीम् वसुदेवम् च दर्शयन् आत्म-सौहृदम् ॥ २४ ॥
mocayāmāsa nigaḍāt viśrabdhaḥ kanyakā-girā . devakīm vasudevam ca darśayan ātma-sauhṛdam .. 24 ..
भ्रातुः समनुतप्तस्य क्षान्त्वा रोषं च देवकी । व्यसृजत् वसुदेवश्च प्रहस्य तमुवाच ह ॥ २५ ॥
भ्रातुः समनुतप्तस्य क्षान्त्वा रोषम् च देवकी । व्यसृजत् वसुदेवः च प्रहस्य तम् उवाच ह ॥ २५ ॥
bhrātuḥ samanutaptasya kṣāntvā roṣam ca devakī . vyasṛjat vasudevaḥ ca prahasya tam uvāca ha .. 25 ..
एवमेतन्महाभाग यथा वदसि देहिनाम् । अज्ञानप्रभवाहंधीः स्वपरेति भिदा यतः ॥ २६ ॥
एवम् एतत् महाभाग यथा वदसि देहिनाम् । अज्ञान-प्रभवा अहंधीः स्व-परा इति भिदा यतस् ॥ २६ ॥
evam etat mahābhāga yathā vadasi dehinām . ajñāna-prabhavā ahaṃdhīḥ sva-parā iti bhidā yatas .. 26 ..
शोकहर्षभयद्वेष लोभमोहमदान्विताः । मिथो घ्नन्तं न पश्यन्ति भावैर्भावं पृथग्दृशः ॥ २७ ॥
शोक-हर्ष-भय-द्वेष लोभ-मोह-मद-अन्विताः । मिथस् घ्नन्तम् न पश्यन्ति भावैः भावम् पृथक् दृशः ॥ २७ ॥
śoka-harṣa-bhaya-dveṣa lobha-moha-mada-anvitāḥ . mithas ghnantam na paśyanti bhāvaiḥ bhāvam pṛthak dṛśaḥ .. 27 ..
श्रीशुक उवाच ।
कंस एवं प्रसन्नाभ्यां विशुद्धं प्रतिभाषितः । देवकी वसुदेवाभ्यां अनुज्ञातो आविशत् गृहम् ॥ २८ ॥
कंसः एवम् प्रसन्नाभ्याम् विशुद्धम् प्रतिभाषितः । देवकी-वसुदेवाभ्याम् अनुज्ञातः आविशत् गृहम् ॥ २८ ॥
kaṃsaḥ evam prasannābhyām viśuddham pratibhāṣitaḥ . devakī-vasudevābhyām anujñātaḥ āviśat gṛham .. 28 ..
तस्यां रात्र्यां व्यतीतायां कंस आहूय मंत्रिणः । तेभ्य आचष्ट तत् सर्वं यदुक्तं योगनिद्रया ॥ २९ ॥
तस्याम् रात्र्याम् व्यतीतायाम् कंसः आहूय मंत्रिणः । तेभ्यः आचष्ट तत् सर्वम् यत् उक्तम् योगनिद्रया ॥ २९ ॥
tasyām rātryām vyatītāyām kaṃsaḥ āhūya maṃtriṇaḥ . tebhyaḥ ācaṣṭa tat sarvam yat uktam yoganidrayā .. 29 ..
आकर्ण्य भर्तुर्गदितं तं ऊचुः देवशत्रवः । देवान् प्रति कृतामर्षा दैतेया नातिकोविदाः ॥ ३० ॥
आकर्ण्य भर्तुः गदितम् तम् ऊचुः देवशत्रवः । देवान् प्रति कृत-आमर्षाः दैतेयाः न अति कोविदाः ॥ ३० ॥
ākarṇya bhartuḥ gaditam tam ūcuḥ devaśatravaḥ . devān prati kṛta-āmarṣāḥ daiteyāḥ na ati kovidāḥ .. 30 ..
एवं चेत्तर्हि भोजेन्द्र पुरग्राम व्रजादिषु । अनिर्दशान् निर्दशांश्च हनिष्यामोऽद्य वै शिशून् ॥ ३१ ॥
एवम् चेद् तर्हि भोज-इन्द्र पुर-ग्राम व्रज-आदिषु । अनिर्दशान् निर्दशान् च हनिष्यामः अद्य वै शिशून् ॥ ३१ ॥
evam ced tarhi bhoja-indra pura-grāma vraja-ādiṣu . anirdaśān nirdaśān ca haniṣyāmaḥ adya vai śiśūn .. 31 ..
किं उद्यमैः करिष्यन्ति देवाः समरभीरवः । नित्यं उद्विग्नमनसो ज्याघोषैर्धनुषस्तव ॥ ३२ ॥
किम् उद्यमैः करिष्यन्ति देवाः समर-भीरवः । नित्यम् उद्विग्न-मनसः ज्या-घोषैः धनुषः तव ॥ ३२ ॥
kim udyamaiḥ kariṣyanti devāḥ samara-bhīravaḥ . nityam udvigna-manasaḥ jyā-ghoṣaiḥ dhanuṣaḥ tava .. 32 ..
अस्यतस्ते शरव्रातैः हन्यमानाः समन्ततः । जिजीविषव उत्सृज्य पलायनपरा ययुः ॥ ३३ ॥
अस्यतः ते शर-व्रातैः हन्यमानाः समन्ततः । जिजीविषवः उत्सृज्य पलायन-पराः ययुः ॥ ३३ ॥
asyataḥ te śara-vrātaiḥ hanyamānāḥ samantataḥ . jijīviṣavaḥ utsṛjya palāyana-parāḥ yayuḥ .. 33 ..
केचित् प्राञ्जलयो दीना न्यस्तशस्त्रा दिवौकसः । मुक्तकच्छशिखाः केचिद् भीताः स्म इति वादिनः ॥ ३४ ॥
केचिद् प्राञ्जलयः दीनाः न्यस्त-शस्त्राः दिवौकसः । मुक्त-कच्छ-शिखाः केचिद् भीताः स्मः इति वादिनः ॥ ३४ ॥
kecid prāñjalayaḥ dīnāḥ nyasta-śastrāḥ divaukasaḥ . mukta-kaccha-śikhāḥ kecid bhītāḥ smaḥ iti vādinaḥ .. 34 ..
न त्वं विस्मृतशस्त्रास्त्रान् विरथान् भयसंवृतान् । हंस्यन्यासक्तविमुखान् भग्नचापानयुध्यतः ॥ ३५ ॥
न त्वम् विस्मृत-शस्त्र-अस्त्रान् विरथान् भय-संवृतान् । हंसि अन्य-आसक्त-विमुखान् भग्न-चापान् अयुध्यतः ॥ ३५ ॥
na tvam vismṛta-śastra-astrān virathān bhaya-saṃvṛtān . haṃsi anya-āsakta-vimukhān bhagna-cāpān ayudhyataḥ .. 35 ..
किं क्षेमशूरैर्विबुधैः असंयुगविकत्थनैः । रहोजुषा किं हरिणा शंभुना वा वनौकसा । किं इंद्रेणाल्पवीर्येण ब्रह्मणा वा तपस्यता ॥ ३६ ॥
किम् क्षेमशूरैः विबुधैः असंयुग-विकत्थनैः । रहः-जुषा किम् हरिणा शंभुना वा वनौकसा । किम् इंद्रेण अल्प-वीर्येण ब्रह्मणा वा तपस्यता ॥ ३६ ॥
kim kṣemaśūraiḥ vibudhaiḥ asaṃyuga-vikatthanaiḥ . rahaḥ-juṣā kim hariṇā śaṃbhunā vā vanaukasā . kim iṃdreṇa alpa-vīryeṇa brahmaṇā vā tapasyatā .. 36 ..
तथापि देवाः सापत्न्यान् नोपेक्ष्या इति मन्महे । ततः तन्मूलखनने नियुंक्ष्वास्मान् अनुव्रतान् ॥ ३७ ॥
तथा अपि देवाः सापत्न्यात् न उपेक्ष्याः इति मन्महे । ततस् तद्-मूल-खनने नियुंक्ष्व अस्मान् अनुव्रतान् ॥ ३७ ॥
tathā api devāḥ sāpatnyāt na upekṣyāḥ iti manmahe . tatas tad-mūla-khanane niyuṃkṣva asmān anuvratān .. 37 ..
( वंशस्थ )
यथामयोंऽगे समुपेक्षितो नृभिः न शक्यते रूढपदश्चिकित्सितुम् । यथेन्द्रियग्राम उपेक्षितस्तथा रिपुर्महान् बद्धबलो न चाल्यते ॥ ३८ ॥
यथा आमयः ओंगे समुपेक्षितः नृभिः न शक्यते रूढ-पदः चिकित्सितुम् । यथा इन्द्रिय-ग्रामः उपेक्षितः तथा रिपुः महान् बद्ध-बलः न चाल्यते ॥ ३८ ॥
yathā āmayaḥ oṃge samupekṣitaḥ nṛbhiḥ na śakyate rūḍha-padaḥ cikitsitum . yathā indriya-grāmaḥ upekṣitaḥ tathā ripuḥ mahān baddha-balaḥ na cālyate .. 38 ..
( अनुष्टुप् )
मूलं हि विष्णुः देवानां यत्र धर्मः सनातनः । तस्य च ब्रह्मगोविप्राः तपो यज्ञाः सदक्षिणाः ॥ ३९ ॥
मूलम् हि विष्णुः देवानाम् यत्र धर्मः सनातनः । तस्य च ब्रह्म-गो-विप्राः तपः यज्ञाः स दक्षिणाः ॥ ३९ ॥
mūlam hi viṣṇuḥ devānām yatra dharmaḥ sanātanaḥ . tasya ca brahma-go-viprāḥ tapaḥ yajñāḥ sa dakṣiṇāḥ .. 39 ..
तस्मात्सर्वात्मना राजन् ब्राह्मणान् ब्रह्मवादिनः । तपस्विनो यज्ञशीलान् गाश्च हन्मो हविर्दुघाः ॥ ४० ॥
तस्मात् सर्व-आत्मना राजन् ब्राह्मणान् ब्रह्म-वादिनः । तपस्विनः यज्ञ-शीलान् गाः च हन्मः हविः-दुघाः ॥ ४० ॥
tasmāt sarva-ātmanā rājan brāhmaṇān brahma-vādinaḥ . tapasvinaḥ yajña-śīlān gāḥ ca hanmaḥ haviḥ-dughāḥ .. 40 ..
विप्रा गावश्च वेदाश्च तपः सत्यं दमः शमः । श्रद्धा दया तितिक्षा च क्रतवश्च हरेस्तनूः ॥ ४१ ॥
विप्राः गावः च वेदाः च तपः सत्यम् दमः शमः । श्रद्धा दया तितिक्षा च क्रतवः च हरेः तनूः ॥ ४१ ॥
viprāḥ gāvaḥ ca vedāḥ ca tapaḥ satyam damaḥ śamaḥ . śraddhā dayā titikṣā ca kratavaḥ ca hareḥ tanūḥ .. 41 ..
स हि सर्वसुराध्यक्षो ह्यसुरद्विड् गुहाशयः । तन्मूला देवताः सर्वाः सेश्वराः सचतुर्मुखाः । अयं वै तद्वधोपायो यद्ऋषीणां विहिंसनम् ॥ ४२ ॥
स हि सर्व-सुर-अध्यक्षः हि असुर-द्विष् गुहा-आशयः । तद्-मूलाः देवताः सर्वाः स ईश्वराः स चतुर्मुखाः । अयम् वै तद्-वध-उपायः यत् ऋषीणाम् विहिंसनम् ॥ ४२ ॥
sa hi sarva-sura-adhyakṣaḥ hi asura-dviṣ guhā-āśayaḥ . tad-mūlāḥ devatāḥ sarvāḥ sa īśvarāḥ sa caturmukhāḥ . ayam vai tad-vadha-upāyaḥ yat ṛṣīṇām vihiṃsanam .. 42 ..
श्रीशुक उवाच ।
एवं दुर्मंत्रिभिः कंसः सह सम्मन्त्र्य दुर्मतिः । ब्रह्महिंसां हितं मेने कालपाशावृतोऽसुरः ॥ ४३ ॥
एवम् दुर्मंत्रिभिः कंसः सह सम्मन्त्र्य दुर्मतिः । ब्रह्म-हिंसाम् हितम् मेने काल-पाश-आवृतः असुरः ॥ ४३ ॥
evam durmaṃtribhiḥ kaṃsaḥ saha sammantrya durmatiḥ . brahma-hiṃsām hitam mene kāla-pāśa-āvṛtaḥ asuraḥ .. 43 ..
सन्दिश्य साधुलोकस्य कदने कदनप्रियान् । कामरूपधरान् दिक्षु दानवान् गृहमाविशत् ॥ ४४ ॥
सन्दिश्य साधु-लोकस्य कदने कदन-प्रियान् । काम-रूप-धरान् दिक्षु दानवान् गृहम् आविशत् ॥ ४४ ॥
sandiśya sādhu-lokasya kadane kadana-priyān . kāma-rūpa-dharān dikṣu dānavān gṛham āviśat .. 44 ..
ते वै रजःप्रकृतयः तमसा मूढचेतसः । सतां विद्वेषमाचेरुः आरात् आगतमृत्यवः ॥ ४५ ॥
ते वै रजः-प्रकृतयः तमसा मूढ-चेतसः । सताम् विद्वेषम् आचेरुः आरात् आगत-मृत्यवः ॥ ४५ ॥
te vai rajaḥ-prakṛtayaḥ tamasā mūḍha-cetasaḥ . satām vidveṣam āceruḥ ārāt āgata-mṛtyavaḥ .. 45 ..
आयुः श्रियं यशो धर्मं लोकानाशिष एव च । हन्ति श्रेयांसि सर्वाणि पुंसो महदतिक्रमः ॥ ४६ ॥
आयुः श्रियम् यशः धर्मम् लोकान् आशिषः एव च । हन्ति श्रेयांसि सर्वाणि पुंसः महत्-अतिक्रमः ॥ ४६ ॥
āyuḥ śriyam yaśaḥ dharmam lokān āśiṣaḥ eva ca . hanti śreyāṃsi sarvāṇi puṃsaḥ mahat-atikramaḥ .. 46 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे चतुर्थोऽध्यायः ॥ ४ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् दशम-स्कन्धे पूर्व-अर्धे चतुर्थः अध्यायः ॥ ४ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām daśama-skandhe pūrva-ardhe caturthaḥ adhyāyaḥ .. 4 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In