| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीअक्रूर उवाच - ( मिश्र )
नतोऽस्म्यहं त्वाखिलहेतुहेतुं नारायणं पूरुषमाद्यमव्ययम् । यन्नाभिजातादरविन्दकोषाद् ब्रह्माऽऽविरासीद् यत एष लोकः ॥ १ ॥
नतः अस्मि अहम् त्वा अखिल-हेतु-हेतुम् नारायणम् पूरुषम् आद्यम् अव्ययम् । यत् न अभिजातात् अरविन्द-कोषात् ब्रह्मा आविरासीत् यतस् एष लोकः ॥ १ ॥
nataḥ asmi aham tvā akhila-hetu-hetum nārāyaṇam pūruṣam ādyam avyayam . yat na abhijātāt aravinda-koṣāt brahmā āvirāsīt yatas eṣa lokaḥ .. 1 ..
भूस्तोयमग्निः पवनं खमादिः महानजादिर्मन इन्द्रियाणि । सर्वेन्द्रियार्था विबुधाश्च सर्वे ये हेतवस्ते जगतोऽङ्गभूताः ॥ २ ॥
भूः तोयम् अग्निः पवनम् खम् आदिः महान् अज-आदिः मनः इन्द्रियाणि । सर्व-इन्द्रिय-अर्थाः विबुधाः च सर्वे ये हेतवः ते जगतः अङ्ग-भूताः ॥ २ ॥
bhūḥ toyam agniḥ pavanam kham ādiḥ mahān aja-ādiḥ manaḥ indriyāṇi . sarva-indriya-arthāḥ vibudhāḥ ca sarve ye hetavaḥ te jagataḥ aṅga-bhūtāḥ .. 2 ..
नैते स्वरूपं विदुरात्मनस्ते ह्यजादयोऽनात्मतया गृहीताः । अजोऽनुबद्धः स गुणैरजाया गुणात् परं वेद न ते स्वरूपम् ॥ ३ ॥
न एते स्व-रूपम् विदुः आत्मनः ते हि अज-आदयः अनात्म-तया गृहीताः । अजः अनुबद्धः स गुणैः अजायाः गुणात् परम् वेद न ते स्वरूपम् ॥ ३ ॥
na ete sva-rūpam viduḥ ātmanaḥ te hi aja-ādayaḥ anātma-tayā gṛhītāḥ . ajaḥ anubaddhaḥ sa guṇaiḥ ajāyāḥ guṇāt param veda na te svarūpam .. 3 ..
( अनुष्टुप् )
त्वां योगिनो यजन्त्यद्धा महापुरुषमीश्वरम् । साध्यात्मं साधिभूतं च साधिदैवं च साधवः ॥ ४ ॥
त्वाम् योगिनः यजन्ति अद्धा महापुरुषम् ईश्वरम् । स अध्यात्मम् स अधिभूतम् च स अधिदैवम् च साधवः ॥ ४ ॥
tvām yoginaḥ yajanti addhā mahāpuruṣam īśvaram . sa adhyātmam sa adhibhūtam ca sa adhidaivam ca sādhavaḥ .. 4 ..
त्रय्या च विद्यया केचित् त्वां वै वैतानिका द्विजाः । यजन्ते विततैर्यज्ञैः नानारूपामराख्यया ॥ ५ ॥
त्रय्या च विद्यया केचिद् त्वाम् वै वैतानिकाः द्विजाः । यजन्ते विततैः यज्ञैः नाना रूप-अमर-आख्यया ॥ ५ ॥
trayyā ca vidyayā kecid tvām vai vaitānikāḥ dvijāḥ . yajante vitataiḥ yajñaiḥ nānā rūpa-amara-ākhyayā .. 5 ..
एके त्वाखिलकर्माणि सन्न्यस्योपशमं गताः । ज्ञानिनो ज्ञानयज्ञेन यजन्ति ज्ञानविग्रहम् ॥ ६ ॥
एके त्वा अखिल-कर्माणि सन्न्यस्य उपशमम् गताः । ज्ञानिनः ज्ञान-यज्ञेन यजन्ति ज्ञान-विग्रहम् ॥ ६ ॥
eke tvā akhila-karmāṇi sannyasya upaśamam gatāḥ . jñāninaḥ jñāna-yajñena yajanti jñāna-vigraham .. 6 ..
अन्ये च संस्कृतात्मानो विधिनाभिहितेन ते । यजन्ति त्वन्मयास्त्वां वै बहुमूर्त्येकमूर्तिकम् ॥ ७ ॥
अन्ये च संस्कृत-आत्मानः विधिना अभिहितेन ते । यजन्ति त्वद्-मयाः त्वाम् वै बहु-मूर्ति-एक-मूर्तिकम् ॥ ७ ॥
anye ca saṃskṛta-ātmānaḥ vidhinā abhihitena te . yajanti tvad-mayāḥ tvām vai bahu-mūrti-eka-mūrtikam .. 7 ..
त्वामेवान्ये शिवोक्तेन मार्गेण शिवरूपिणम् । बह्वाचार्यविभेदेन भगवन् समुपासते ॥ ८ ॥
त्वाम् एव अन्ये शिव-उक्तेन मार्गेण शिव-रूपिणम् । बहु-आचार्य-विभेदेन भगवन् समुपासते ॥ ८ ॥
tvām eva anye śiva-uktena mārgeṇa śiva-rūpiṇam . bahu-ācārya-vibhedena bhagavan samupāsate .. 8 ..
सर्व एव यजन्ति त्वां सर्वदेवमयेश्वरम् । येऽप्यन्यदेवताभक्ता यद्यप्यन्यधियः प्रभो ॥ ९ ॥
सर्वे एव यजन्ति त्वाम् सर्व-देव-मय-ईश्वरम् । ये अपि अन्य-देवता-भक्ताः यदि अपि अन्य-धियः प्रभो ॥ ९ ॥
sarve eva yajanti tvām sarva-deva-maya-īśvaram . ye api anya-devatā-bhaktāḥ yadi api anya-dhiyaḥ prabho .. 9 ..
यथाद्रिप्रभवा नद्यः पर्जन्यापूरिताः प्रभो । विशन्ति सर्वतः सिन्धुं तद्वत्त्वां गतयोऽन्ततः ॥ १० ॥
यथा अद्रि-प्रभवाः नद्यः पर्जन्य-आपूरिताः प्रभो । विशन्ति सर्वतस् सिन्धुम् तद्वत् त्वाम् गतयः अन्ततस् ॥ १० ॥
yathā adri-prabhavāḥ nadyaḥ parjanya-āpūritāḥ prabho . viśanti sarvatas sindhum tadvat tvām gatayaḥ antatas .. 10 ..
सत्त्वं रजस्तम इति भवतः प्रकृतेर्गुणाः । तेषु हि प्राकृताः प्रोता आब्रह्मस्थावरादयः ॥ ११ ॥
सत्त्वम् रजः तमः इति भवतः प्रकृतेः गुणाः । तेषु हि प्राकृताः प्रोताः आब्रह्म-स्थावर-आदयः ॥ ११ ॥
sattvam rajaḥ tamaḥ iti bhavataḥ prakṛteḥ guṇāḥ . teṣu hi prākṛtāḥ protāḥ ābrahma-sthāvara-ādayaḥ .. 11 ..
( मिश्र )
तुभ्यं नमस्तेऽस्त्वविषक्तदृष्टये सर्वात्मने सर्वधियां च साक्षिणे । गुणप्रवाहोऽयमविद्यया कृतः प्रवर्तते देवनृतिर्यगात्मसु ॥ १२ ॥
तुभ्यम् नमः ते अस्तु अविषक्त-दृष्टये सर्व-आत्मने सर्व-धियाम् च साक्षिणे । गुण-प्रवाहः अयम् अविद्यया कृतः प्रवर्तते देव-नृ-तिर्यगात्मसु ॥ १२ ॥
tubhyam namaḥ te astu aviṣakta-dṛṣṭaye sarva-ātmane sarva-dhiyām ca sākṣiṇe . guṇa-pravāhaḥ ayam avidyayā kṛtaḥ pravartate deva-nṛ-tiryagātmasu .. 12 ..
अग्निर्मुखं तेऽवनिरङ्घ्रिरीक्षणं सूर्यो नभो नाभिरथो दिशः श्रुतिः । द्यौः कं सुरेन्द्रास्तव बाहवोऽर्णवाः कुक्षिर्मरुत् प्राणबलं प्रकल्पितम् ॥ १३ ॥
अग्निः मुखम् ते अवनिः अङ्घ्रिः ईक्षणम् सूर्यः नभः नाभिः अथो दिशः श्रुतिः । द्यौः कम् सुर-इन्द्राः तव बाहवः अर्णवाः कुक्षिः मरुत् प्राण-बलम् प्रकल्पितम् ॥ १३ ॥
agniḥ mukham te avaniḥ aṅghriḥ īkṣaṇam sūryaḥ nabhaḥ nābhiḥ atho diśaḥ śrutiḥ . dyauḥ kam sura-indrāḥ tava bāhavaḥ arṇavāḥ kukṣiḥ marut prāṇa-balam prakalpitam .. 13 ..
रोमाणि वृक्षौषधयः शिरोरुहा । मेघाः परस्यास्थिनखानि तेऽद्रयः । निमेषणं रात्र्यहनी प्रजापतिः मेढ्रस्तु वृष्टिस्तव वीर्यमिष्यते ॥ १४ ॥
रोमाणि वृक्ष-ओषधयः शिरोरुहा । मेघाः परस्य अस्थि-नखानि ते अद्रयः । निमेषणम् रात्रि-अहनी प्रजापतिः मेढ्रः तु वृष्टिः तव वीर्यम् इष्यते ॥ १४ ॥
romāṇi vṛkṣa-oṣadhayaḥ śiroruhā . meghāḥ parasya asthi-nakhāni te adrayaḥ . nimeṣaṇam rātri-ahanī prajāpatiḥ meḍhraḥ tu vṛṣṭiḥ tava vīryam iṣyate .. 14 ..
त्वय्यव्ययात्मन् पुरुषे प्रकल्पिता लोकाः सपाला बहुजीवसङ्कुलाः । यथा जले सञ्जिहते जलौकसो ऽप्युदुम्बरे वा मशका मनोमये ॥ १५ ॥
त्वयि अव्यय-आत्मन् पुरुषे प्रकल्पिताः लोकाः स पालाः बहु-जीव-सङ्कुलाः । यथा जले सञ्जिहते जलौकसः अपि उदुम्बरे वा मशकाः मनः-मये ॥ १५ ॥
tvayi avyaya-ātman puruṣe prakalpitāḥ lokāḥ sa pālāḥ bahu-jīva-saṅkulāḥ . yathā jale sañjihate jalaukasaḥ api udumbare vā maśakāḥ manaḥ-maye .. 15 ..
यानि यानीह रूपाणि क्रीडनार्थं बिभर्षि हि । तैरामृष्टशुचो लोका मुदा गायन्ति ते यशः ॥ १६ ॥
यानि यानि इह रूपाणि क्रीडन-अर्थम् बिभर्षि हि । तैः आमृष्ट-शुचः लोकाः मुदा गायन्ति ते यशः ॥ १६ ॥
yāni yāni iha rūpāṇi krīḍana-artham bibharṣi hi . taiḥ āmṛṣṭa-śucaḥ lokāḥ mudā gāyanti te yaśaḥ .. 16 ..
( अनुष्टुप् )
नमः कारणमत्स्याय प्रलयाब्धिचराय च । हयशीर्ष्णे नमस्तुभ्यं मधुकैटभमृत्यवे ॥ १७ ॥
नमः कारण-मत्स्याय प्रलय-अब्धि-चराय च । हय-शीर्ष्णे नमः तुभ्यम् मधु-कैटभ-मृत्यवे ॥ १७ ॥
namaḥ kāraṇa-matsyāya pralaya-abdhi-carāya ca . haya-śīrṣṇe namaḥ tubhyam madhu-kaiṭabha-mṛtyave .. 17 ..
अकूपाराय बृहते नमो मन्दरधारिणे । क्षित्युद्धारविहाराय नमः सूकरमूर्तये ॥ १८ ॥
अकूपाराय बृहते नमः मन्दर-धारिणे । क्षिति-उद्धार-विहाराय नमः सूकर-मूर्तये ॥ १८ ॥
akūpārāya bṛhate namaḥ mandara-dhāriṇe . kṣiti-uddhāra-vihārāya namaḥ sūkara-mūrtaye .. 18 ..
नमस्तेऽद्भुतसिंहाय साधुलोकभयापह । वामनाय नमस्तुभ्यं क्रान्तत्रिभुवनाय च ॥ १९ ॥
नमः ते अद्भुत-सिंहाय साधु-लोक-भय-अपह । वामनाय नमः तुभ्यम् क्रान्त-त्रिभुवनाय च ॥ १९ ॥
namaḥ te adbhuta-siṃhāya sādhu-loka-bhaya-apaha . vāmanāya namaḥ tubhyam krānta-tribhuvanāya ca .. 19 ..
नमो भृगूणां पतये दृप्तक्षत्रवनच्छिदे । नमस्ते रघुवर्याय रावणान्तकराय च ॥ २० ॥
नमः भृगूणाम् पतये दृप्त-क्षत्र-वन-छिदे । नमः ते रघु-वर्याय रावण-अन्त-कराय च ॥ २० ॥
namaḥ bhṛgūṇām pataye dṛpta-kṣatra-vana-chide . namaḥ te raghu-varyāya rāvaṇa-anta-karāya ca .. 20 ..
नमस्ते वासुदेवाय नमः सङ्कर्षणाय च । प्रद्युम्नायनिरुद्धाय सात्वतां पतये नमः ॥ २१ ॥
नमः ते वासुदेवाय नमः सङ्कर्षणाय च । प्रद्युम्नाय अनिरुद्धाय सात्वताम् पतये नमः ॥ २१ ॥
namaḥ te vāsudevāya namaḥ saṅkarṣaṇāya ca . pradyumnāya aniruddhāya sātvatām pataye namaḥ .. 21 ..
नमो बुद्धाय शुद्धाय दैत्यदानवमोहिने । म्लेच्छप्रायक्षत्रहन्त्रे नमस्ते कल्किरूपिणे ॥ २२ ॥
नमः बुद्धाय शुद्धाय दैत्य-दानव-मोहिने । म्लेच्छ-प्राय-क्षत्र-हन्त्रे नमः ते कल्कि-रूपिणे ॥ २२ ॥
namaḥ buddhāya śuddhāya daitya-dānava-mohine . mleccha-prāya-kṣatra-hantre namaḥ te kalki-rūpiṇe .. 22 ..
भगवन् जीवलोकोऽयं मोहितस्तव मायया । अहं ममेत्यसद्ग्राहो भ्राम्यते कर्मवर्त्मसु ॥ २३ ॥
भगवन् जीवलोकः अयम् मोहितः तव मायया । अहम् मम इति असत्-ग्राहः भ्राम्यते कर्म-वर्त्मसु ॥ २३ ॥
bhagavan jīvalokaḥ ayam mohitaḥ tava māyayā . aham mama iti asat-grāhaḥ bhrāmyate karma-vartmasu .. 23 ..
अहं चात्मात्मजागार दारार्थस्वजनादिषु । भ्रमामि स्वप्नकल्पेषु मूढः सत्यधिया विभो ॥ २४ ॥
अहम् च आत्मा आत्मजा आगार दार-अर्थ-स्व-जन-आदिषु । भ्रमामि स्वप्न-कल्पेषु मूढः सत्य-धिया विभो ॥ २४ ॥
aham ca ātmā ātmajā āgāra dāra-artha-sva-jana-ādiṣu . bhramāmi svapna-kalpeṣu mūḍhaḥ satya-dhiyā vibho .. 24 ..
अनित्यानात्मदुःखेषु विपर्ययमतिर्ह्यहम् । द्वन्द्वारामस्तमोविष्टो न जाने त्वात्मनः प्रियम् ॥ २५ ॥
अनित्य-अनात्म-दुःखेषु विपर्यय-मतिः हि अहम् । द्वन्द्व-आरामः तमः-विष्टः न जाने तु आत्मनः प्रियम् ॥ २५ ॥
anitya-anātma-duḥkheṣu viparyaya-matiḥ hi aham . dvandva-ārāmaḥ tamaḥ-viṣṭaḥ na jāne tu ātmanaḥ priyam .. 25 ..
यथाबुधो जलं हित्वा प्रतिच्छन्नं तदुद्भवैः । अभ्येति मृगतृष्णां वै तद्वत्त्वाहं पराङ्मुखः ॥ २६ ॥
यथा अबुधः जलम् हित्वा प्रतिच्छन्नम् तद्-उद्भवैः । अभ्येति मृगतृष्णाम् वै तद्वत् त्वा अहम् पराङ्मुखः ॥ २६ ॥
yathā abudhaḥ jalam hitvā praticchannam tad-udbhavaiḥ . abhyeti mṛgatṛṣṇām vai tadvat tvā aham parāṅmukhaḥ .. 26 ..
नोत्सहेऽहं कृपणधीः कामकर्महतं मनः । रोद्धुं प्रमाथिभिश्चाक्षैः ह्रियमाणमितस्ततः ॥ २७ ॥
न उत्सहे अहम् कृपण-धीः काम-कर्म-हतम् मनः । रोद्धुम् प्रमाथिभिः च अक्षैः ह्रियमाणम् इतस् ततस् ॥ २७ ॥
na utsahe aham kṛpaṇa-dhīḥ kāma-karma-hatam manaḥ . roddhum pramāthibhiḥ ca akṣaiḥ hriyamāṇam itas tatas .. 27 ..
( वसंततिलका )
सोऽहं तवाङ्घ्र्युपगतोऽस्म्यसतां दुरापं तच्चाप्यहं भवदनुग्रह ईश मन्ये । पुंसो भवेद् यर्हि संसरणापवर्गः त्वय्यब्जनाभ सदुपासनया मतिः स्यात् ॥ २८ ॥
सः अहम् तव अङ्घ्रि-उपगतः अस्मि असताम् दुरापम् तत् च अपि अहम् भवत्-अनुग्रहे ईश मन्ये । पुंसः भवेत् यर्हि संसरण-अपवर्गः त्वयि अब्जनाभ सत्-उपासनया मतिः स्यात् ॥ २८ ॥
saḥ aham tava aṅghri-upagataḥ asmi asatām durāpam tat ca api aham bhavat-anugrahe īśa manye . puṃsaḥ bhavet yarhi saṃsaraṇa-apavargaḥ tvayi abjanābha sat-upāsanayā matiḥ syāt .. 28 ..
( अनुष्टुप् )
नमो विज्ञानमात्राय सर्वप्रत्ययहेतवे । पुरुषेशप्रधानाय ब्रह्मणेऽनन्तशक्तये ॥ २९ ॥
नमः विज्ञान-मात्राय सर्व-प्रत्यय-हेतवे । पुरुष-ईश-प्रधानाय ब्रह्मणे अनन्त-शक्तये ॥ २९ ॥
namaḥ vijñāna-mātrāya sarva-pratyaya-hetave . puruṣa-īśa-pradhānāya brahmaṇe ananta-śaktaye .. 29 ..
नमस्ते वासुदेवाय सर्वभूतक्षयाय च । हृषीकेश नमस्तुभ्यं प्रपन्नं पाहि मां प्रभो ॥ ३० ॥
नमः ते वासुदेवाय सर्व-भूत-क्षयाय च । हृषीकेश नमः तुभ्यम् प्रपन्नम् पाहि माम् प्रभो ॥ ३० ॥
namaḥ te vāsudevāya sarva-bhūta-kṣayāya ca . hṛṣīkeśa namaḥ tubhyam prapannam pāhi mām prabho .. 30 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे अक्रूरस्तुतिर्नाम चत्वारिंशोऽध्यायः ॥ ४० ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् दशम-स्कन्धे पूर्व-अर्धे अक्रूरस्तुतिः नाम चत्वारिंशः अध्यायः ॥ ४० ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām daśama-skandhe pūrva-ardhe akrūrastutiḥ nāma catvāriṃśaḥ adhyāyaḥ .. 40 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In