| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच - ( मिश्र )
अथ व्रजन्राजपथेन माधवः स्त्रियं गृहीताङ्गविलेपभाजनाम् । विलोक्य कुब्जां युवतीं वराननां पप्रच्छ यान्तीं प्रहसन् रसप्रदः ॥ १ ॥
अथ व्रजन् राज-पथेन माधवः स्त्रियम् गृहीत-अङ्ग-विलेप-भाजनाम् । विलोक्य कुब्जाम् युवतीम् वराननाम् पप्रच्छ यान्तीम् प्रहसन् रस-प्रदः ॥ १ ॥
atha vrajan rāja-pathena mādhavaḥ striyam gṛhīta-aṅga-vilepa-bhājanām . vilokya kubjām yuvatīm varānanām papraccha yāntīm prahasan rasa-pradaḥ .. 1 ..
का त्वं वरोर्वेतदु हानुलेपनं कस्याङ्गने वा कथयस्व साधु नः । देह्यावयोरङ्गविलेपमुत्तमं श्रेयः ततस्ते न चिराद् भविष्यति ॥ २ ॥
का त्वम् कस्य अङ्गने वा कथयस्व साधु नः । देहि आवयोः अङ्ग-विलेपम् उत्तमम् श्रेयः ततस् ते न चिरात् भविष्यति ॥ २ ॥
kā tvam kasya aṅgane vā kathayasva sādhu naḥ . dehi āvayoḥ aṅga-vilepam uttamam śreyaḥ tatas te na cirāt bhaviṣyati .. 2 ..
सैरन्ध्रि उवाच -
दास्यस्म्यहं सुन्दर कंससम्मता त्रिवक्रनामा ह्यनुलेपकर्मणि । मद्भावितं भोजपतेरतिप्रियं विना युवां कोऽन्यतमस्तदर्हति ॥ ३ ॥
दासी अस्मि अहम् सुन्दर कंस-सम्मता त्रिवक्र-नामा हि अनुलेप-कर्मणि । मद्-भावितम् भोज-पतेः अति प्रियम् विना युवाम् कः अन्यतमः तत् अर्हति ॥ ३ ॥
dāsī asmi aham sundara kaṃsa-sammatā trivakra-nāmā hi anulepa-karmaṇi . mad-bhāvitam bhoja-pateḥ ati priyam vinā yuvām kaḥ anyatamaḥ tat arhati .. 3 ..
( अनुष्टुप् )
रूपपेशलमाधुर्य हसितालापवीक्षितैः । धर्षितात्मा ददौ सान्द्रं उभयोरनुलेपनम् ॥ ४ ॥
रूप-पेशल-माधुर्य हसित-आलाप-वीक्षितैः । धर्षित-आत्मा ददौ सान्द्रम् उभयोः अनुलेपनम् ॥ ४ ॥
rūpa-peśala-mādhurya hasita-ālāpa-vīkṣitaiḥ . dharṣita-ātmā dadau sāndram ubhayoḥ anulepanam .. 4 ..
ततस्तावङ्गरागेण स्ववर्णेतरशोभिना । सम्प्राप्तपरभागेन शुशुभातेऽनुरञ्जितौ ॥ ५ ॥
ततस् तौ अङ्ग-रागेण स्व-वर्ण-इतर-शोभिना । सम्प्राप्त-परभागेन शुशुभाते अनुरञ्जितौ ॥ ५ ॥
tatas tau aṅga-rāgeṇa sva-varṇa-itara-śobhinā . samprāpta-parabhāgena śuśubhāte anurañjitau .. 5 ..
प्रसन्नो भगवान् कुब्जां त्रिवक्रां रुचिराननाम् । ऋज्वीं कर्तुं मनश्चक्रे दर्शयन् दर्शने फलम् ॥ ६ ॥
प्रसन्नः भगवान् कुब्जाम् त्रि-वक्राम् रुचिर-आननाम् । ऋज्वीम् कर्तुम् मनः चक्रे दर्शयन् दर्शने फलम् ॥ ६ ॥
prasannaḥ bhagavān kubjām tri-vakrām rucira-ānanām . ṛjvīm kartum manaḥ cakre darśayan darśane phalam .. 6 ..
पद्भ्यामाक्रम्य प्रपदे द्र्यङ्गुल्युत्तान पाणिना । प्रगृह्य चिबुकेऽध्यात्मं उदनीनमदच्युतः ॥ ७ ॥
पद्भ्याम् आक्रम्य प्रपदे पाणिना । प्रगृह्य चिबुके अध्यात्मम् उदनीनमत् अच्युतः ॥ ७ ॥
padbhyām ākramya prapade pāṇinā . pragṛhya cibuke adhyātmam udanīnamat acyutaḥ .. 7 ..
सा तदर्जुसमानाङ्गी बृहच्छ्रोणिपयोधरा । मुकुन्दस्पर्शनात् सद्यो बभूव प्रमदोत्तमा ॥ ८ ॥
सा तद्-अर्जु-समान-अङ्गी बृहत्-श्रोणि-पयोधरा । मुकुन्द-स्पर्शनात् सद्यस् बभूव प्रमदा-उत्तमा ॥ ८ ॥
sā tad-arju-samāna-aṅgī bṛhat-śroṇi-payodharā . mukunda-sparśanāt sadyas babhūva pramadā-uttamā .. 8 ..
ततो रूपगुणौदार्य संपन्ना प्राह केशवम् । उत्तरीयान् तमकृष्य स्मयन्ती जातहृच्छया ॥ ९ ॥
ततस् रूप-गुण-औदार्य संपन्ना प्राह केशवम् । उत्तरीयान् तम् अ कृष्य स्मयन्ती जात-हृच्छया ॥ ९ ॥
tatas rūpa-guṇa-audārya saṃpannā prāha keśavam . uttarīyān tam a kṛṣya smayantī jāta-hṛcchayā .. 9 ..
एहि वीर गृहं यामो न त्वां त्यक्तुमिहोत्सहे । त्वयोन्मथितचित्तायाः प्रसीद पुरुषर्षभ ॥ १० ॥
एहि वीर गृहम् यामः न त्वाम् त्यक्तुम् इह उत्सहे । त्वया उन्मथित-चित्तायाः प्रसीद पुरुष-ऋषभ ॥ १० ॥
ehi vīra gṛham yāmaḥ na tvām tyaktum iha utsahe . tvayā unmathita-cittāyāḥ prasīda puruṣa-ṛṣabha .. 10 ..
एवं स्त्रिया याच्यमानः कृष्णो रामस्य पश्यतः । मुखं वीक्ष्यानुगानां च प्रहसन् तामुवाच ह ॥ ११ ॥
एवम् स्त्रिया याच्यमानः कृष्णः रामस्य पश्यतः । मुखम् वीक्ष्य अनुगानाम् च प्रहसन् ताम् उवाच ह ॥ ११ ॥
evam striyā yācyamānaḥ kṛṣṇaḥ rāmasya paśyataḥ . mukham vīkṣya anugānām ca prahasan tām uvāca ha .. 11 ..
एष्यामि ते गृहं सुभ्रु पुंसामाधिविकर्शनम् । साधितार्थोऽगृहाणां नः पान्थानां त्वं परायणम् ॥ १२ ॥
एष्यामि ते गृहम् सुभ्रु पुंसाम् आधि-विकर्शनम् । साधित-अर्थः अगृहाणाम् नः पान्थानाम् त्वम् परायणम् ॥ १२ ॥
eṣyāmi te gṛham subhru puṃsām ādhi-vikarśanam . sādhita-arthaḥ agṛhāṇām naḥ pānthānām tvam parāyaṇam .. 12 ..
विसृज्य माध्व्या वाण्या तां व्रजन् मार्गे वणिक्पथैः । नानोपायनताम्बूल स्रग्गन्धैः साग्रजोऽर्चितः ॥ १३ ॥
विसृज्य माध्व्या वाण्या ताम् व्रजन् मार्गे वणिक्पथैः । नाना उपायन-ताम्बूल स्रज्-गन्धैः स अग्रजः अर्चितः ॥ १३ ॥
visṛjya mādhvyā vāṇyā tām vrajan mārge vaṇikpathaiḥ . nānā upāyana-tāmbūla sraj-gandhaiḥ sa agrajaḥ arcitaḥ .. 13 ..
तद्दर्शनस्मरक्षोभाद् आत्मानं नाविदन् स्त्रियः । विस्रस्तवासःकबर वलया लेख्यमूर्तयः ॥ १४ ॥
तद्-दर्शन-स्मर-क्षोभात् आत्मानम् न अविदन् स्त्रियः । विस्रस्त-वासः-कबर वलयाः लेख्य-मूर्तयः ॥ १४ ॥
tad-darśana-smara-kṣobhāt ātmānam na avidan striyaḥ . visrasta-vāsaḥ-kabara valayāḥ lekhya-mūrtayaḥ .. 14 ..
ततः पौरान् पृच्छमानो धनुषः स्थानमच्युतः । तस्मिन् प्रविष्टो ददृशे धनुरैन्द्रं इवाद्भुतम् ॥ १५ ॥
ततस् पौरान् पृच्छमानः धनुषः स्थानम् अच्युतः । तस्मिन् प्रविष्टः ददृशे धनुः ऐन्द्रम् इव अद्भुतम् ॥ १५ ॥
tatas paurān pṛcchamānaḥ dhanuṣaḥ sthānam acyutaḥ . tasmin praviṣṭaḥ dadṛśe dhanuḥ aindram iva adbhutam .. 15 ..
पुरुषैर्बहुभिर्गुप्तं अर्चितं परमर्द्धिमत् । वार्यमाणो नृभिः कृष्णः प्रसह्य धनुराददे ॥ १६ ॥
पुरुषैः बहुभिः गुप्तम् अर्चितम् परम-ऋद्धिमत् । वार्यमाणः नृभिः कृष्णः प्रसह्य धनुः आददे ॥ १६ ॥
puruṣaiḥ bahubhiḥ guptam arcitam parama-ṛddhimat . vāryamāṇaḥ nṛbhiḥ kṛṣṇaḥ prasahya dhanuḥ ādade .. 16 ..
( वंशस्था )
करेण वामेन सलीलमुद्धृतं सज्यं च कृत्वा निमिषेण पश्यताम् । नृणां विकृष्य प्रबभञ्ज मध्यतो यथेक्षुदण्डं मदकर्युरुक्रमः ॥ १७ ॥
करेण वामेन सलीलम् उद्धृतम् सज्यम् च कृत्वा निमिषेण पश्यताम् । नृणाम् विकृष्य प्रबभञ्ज मध्यतस् यथा इक्षु-दण्डम् मद-करी उरुक्रमः ॥ १७ ॥
kareṇa vāmena salīlam uddhṛtam sajyam ca kṛtvā nimiṣeṇa paśyatām . nṛṇām vikṛṣya prababhañja madhyatas yathā ikṣu-daṇḍam mada-karī urukramaḥ .. 17 ..
( अनुष्टुप् )
धनुषो भज्यमानस्य शब्दः खं रोदसी दिशः । पूरयामास यं श्रुत्वा कंसस्त्रासमुपागमत् ॥ १८ ॥
धनुषः भज्यमानस्य शब्दः खम् रोदसी दिशः । पूरयामास यम् श्रुत्वा कंसः त्रासम् उपागमत् ॥ १८ ॥
dhanuṣaḥ bhajyamānasya śabdaḥ kham rodasī diśaḥ . pūrayāmāsa yam śrutvā kaṃsaḥ trāsam upāgamat .. 18 ..
तद् रक्षिणः सानुचरं कुपिता आततायिनः । गृहीतुकामा आवव्रुः गृह्यतां वध्यतामिति ॥ १९ ॥
तत् रक्षिणः स अनुचरम् कुपिताः आततायिनः । गृहीतु-कामाः आवव्रुः गृह्यताम् वध्यताम् इति ॥ १९ ॥
tat rakṣiṇaḥ sa anucaram kupitāḥ ātatāyinaḥ . gṛhītu-kāmāḥ āvavruḥ gṛhyatām vadhyatām iti .. 19 ..
अथ तान् दुरभिप्रायान् विलोक्य बलकेशवौ । क्रुद्धौ धन्वन आदाय शकले तांश्च जघ्नतुः ॥ २० ॥
अथ तान् दुरभिप्रायान् विलोक्य बल-केशवौ । क्रुद्धौ धन्वनः आदाय शकले तान् च जघ्नतुः ॥ २० ॥
atha tān durabhiprāyān vilokya bala-keśavau . kruddhau dhanvanaḥ ādāya śakale tān ca jaghnatuḥ .. 20 ..
बलं च कंसप्रहितं हत्वा शालामुखात्ततः । निष्क्रम्य चेरतुर्हृष्टौ निरीक्ष्य पुरसम्पदः ॥ २१ ॥
बलम् च कंस-प्रहितम् हत्वा शालामुखात् ततस् । निष्क्रम्य चेरतुः हृष्टौ निरीक्ष्य पुर-सम्पदः ॥ २१ ॥
balam ca kaṃsa-prahitam hatvā śālāmukhāt tatas . niṣkramya ceratuḥ hṛṣṭau nirīkṣya pura-sampadaḥ .. 21 ..
तयोस्तदद्भुतं वीर्यं निशाम्य पुरवासिनः । तेजः प्रागल्भ्यं रूपं च मेनिरे विबुधोत्तमौ ॥ २२ ॥
तयोः तत् अद्भुतम् वीर्यम् निशाम्य पुर-वासिनः । तेजः प्रागल्भ्यम् रूपम् च मेनिरे विबुध-उत्तमौ ॥ २२ ॥
tayoḥ tat adbhutam vīryam niśāmya pura-vāsinaḥ . tejaḥ prāgalbhyam rūpam ca menire vibudha-uttamau .. 22 ..
तयोर्विचरतोः स्वैरं आदित्योऽस्तमुपेयिवान् । कृष्णरामौ वृतौ गोपैः पुराच्छकटमीयतुः ॥ २३ ॥
तयोः विचरतोः स्वैरम् आदित्यः अस्तम् उपेयिवान् । कृष्ण-रामौ वृतौ गोपैः पुरात् शकटम् ईयतुः ॥ २३ ॥
tayoḥ vicaratoḥ svairam ādityaḥ astam upeyivān . kṛṣṇa-rāmau vṛtau gopaiḥ purāt śakaṭam īyatuḥ .. 23 ..
( वसंततिलका )
गोप्यो मुकुन्दविगमे विरहातुरा या आशासताशिष ऋता मधुपुर्यभूवन् । संपश्यतां पुरुषभूषणगात्रलक्ष्मीं हित्वेतरान् नु भजतश्चकमेऽयनं श्रीः ॥ २४ ॥
गोप्यः मुकुन्द-विगमे विरह-आतुराः याः आशासत आशिषः ऋताः मधुपुरि अभूवन् । संपश्यताम् पुरुष-भूषण-गात्र-लक्ष्मीम् हित्वा इतरान् नु भजतः चकमे अयनम् श्रीः ॥ २४ ॥
gopyaḥ mukunda-vigame viraha-āturāḥ yāḥ āśāsata āśiṣaḥ ṛtāḥ madhupuri abhūvan . saṃpaśyatām puruṣa-bhūṣaṇa-gātra-lakṣmīm hitvā itarān nu bhajataḥ cakame ayanam śrīḥ .. 24 ..
( अनुष्टुप् )
अवनिक्ताङ्घ्रियुगलौ भुक्त्वा क्षीरोपसेचनम् । ऊषतुस्तां सुखं रात्रिं ज्ञात्वा कंसचिकीर्षितम् ॥ २५ ॥
अवनिक्त-अङ्घ्रि-युगलौ भुक्त्वा क्षीर-उपसेचनम् । ऊषतुः ताम् सुखम् रात्रिम् ज्ञात्वा कंस-चिकीर्षितम् ॥ २५ ॥
avanikta-aṅghri-yugalau bhuktvā kṣīra-upasecanam . ūṣatuḥ tām sukham rātrim jñātvā kaṃsa-cikīrṣitam .. 25 ..
कंसस्तु धनुषो भङ्गं रक्षिणां स्वबलस्य च । वधं निशम्य गोविन्द रामविक्रीडितं परम् ॥ २६ ॥
कंसः तु धनुषः भङ्गम् रक्षिणाम् स्व-बलस्य च । वधम् निशम्य गोविन्द राम-विक्रीडितम् परम् ॥ २६ ॥
kaṃsaḥ tu dhanuṣaḥ bhaṅgam rakṣiṇām sva-balasya ca . vadham niśamya govinda rāma-vikrīḍitam param .. 26 ..
दीर्घप्रजागरो भीतो दुर्निमित्तानि दुर्मतिः । बहून्यचष्टोभयथा मृत्योर्दौत्यकराणि च ॥ २७ ॥
दीर्घ-प्रजागरः भीतः दुर्निमित्तानि दुर्मतिः । बहूनि अचष्ट उभयथा मृत्योः दौत्य-कराणि च ॥ २७ ॥
dīrgha-prajāgaraḥ bhītaḥ durnimittāni durmatiḥ . bahūni acaṣṭa ubhayathā mṛtyoḥ dautya-karāṇi ca .. 27 ..
अदर्शनं स्वशिरसः प्रतिरूपे च सत्यपि । असत्यपि द्वितीये च द्वैरूप्यं ज्योतिषां तथा ॥ २८ ॥
अदर्शनम् स्व-शिरसः प्रतिरूपे च सति अपि । असति अपि द्वितीये च द्वैरूप्यम् ज्योतिषाम् तथा ॥ २८ ॥
adarśanam sva-śirasaḥ pratirūpe ca sati api . asati api dvitīye ca dvairūpyam jyotiṣām tathā .. 28 ..
छिद्रप्रतीतिश्छायायां प्राणघोषानुपश्रुतिः । स्वर्णप्रतीतिर्वृक्षेषु स्वपदानामदर्शनम् ॥ २९ ॥
छिद्र-प्रतीतिः छायायाम् प्राण-घोष-अन् उपश्रुतिः । स्वर्ण-प्रतीतिः वृक्षेषु स्व-पदानाम् अदर्शनम् ॥ २९ ॥
chidra-pratītiḥ chāyāyām prāṇa-ghoṣa-an upaśrutiḥ . svarṇa-pratītiḥ vṛkṣeṣu sva-padānām adarśanam .. 29 ..
स्वप्ने प्रेतपरिष्वङ्गः खरयानं विषादनम् । यायान्नलदमाल्येकः तैलाभ्यक्तो दिगम्बरः ॥ ३० ॥
स्वप्ने प्रेत-परिष्वङ्गः खर-यानम् विषादनम् । यायात् नलद-माली-एकः तैल-अभ्यक्तः दिगम्बरः ॥ ३० ॥
svapne preta-pariṣvaṅgaḥ khara-yānam viṣādanam . yāyāt nalada-mālī-ekaḥ taila-abhyaktaḥ digambaraḥ .. 30 ..
अन्यानि चेत्थं भूतानि स्वप्नजागरितानि च । पश्यन् मरणसन्त्रस्तो निद्रां लेभे न चिन्तया ॥ ३१ ॥
अन्यानि च इत्थम् भूतानि स्वप्न-जागरितानि च । पश्यन् मरण-सन्त्रस्तः निद्राम् लेभे न चिन्तया ॥ ३१ ॥
anyāni ca ittham bhūtāni svapna-jāgaritāni ca . paśyan maraṇa-santrastaḥ nidrām lebhe na cintayā .. 31 ..
व्युष्टायां निशि कौरव्य सूर्ये चाद्भ्यः समुत्थिते । कारयामास वै कंसो मल्लक्रीडामहोत्सवम् ॥ ३२ ॥
व्युष्टायाम् निशि कौरव्य सूर्ये च अद्भ्यः समुत्थिते । कारयामास वै कंसः मल्ल-क्रीडा-महा-उत्सवम् ॥ ३२ ॥
vyuṣṭāyām niśi kauravya sūrye ca adbhyaḥ samutthite . kārayāmāsa vai kaṃsaḥ malla-krīḍā-mahā-utsavam .. 32 ..
आनर्चुः पुरुषा रङ्गं तूर्यभेर्यश्च जघ्निरे । मञ्चाश्चालङ्कृताः स्रग्भिः पताकाचैलतोरणैः ॥ ३३ ॥
आनर्चुः पुरुषाः रङ्गम् तूर्य-भेर्यः च जघ्निरे । मञ्चाः च अलङ्कृताः स्रग्भिः पताका-चैल-तोरणैः ॥ ३३ ॥
ānarcuḥ puruṣāḥ raṅgam tūrya-bheryaḥ ca jaghnire . mañcāḥ ca alaṅkṛtāḥ sragbhiḥ patākā-caila-toraṇaiḥ .. 33 ..
तेषु पौरा जानपदा ब्रह्मक्षत्रपुरोगमाः । यथोपजोषं विविशू राजानश्च कृतासनाः ॥ ३४ ॥
तेषु पौराः जानपदाः ब्रह्म-क्षत्र-पुरोगमाः । यथोपजोषम् विविशुः राजानः च कृत-आसनाः ॥ ३४ ॥
teṣu paurāḥ jānapadāḥ brahma-kṣatra-purogamāḥ . yathopajoṣam viviśuḥ rājānaḥ ca kṛta-āsanāḥ .. 34 ..
कंसः परिवृतोऽमात्यै राजमञ्च उपाविशत् । मण्डलेश्वरमध्यस्थो हृदयेन विदूयता ॥ ३५ ॥
कंसः परिवृतः अमात्यैः राज-मञ्चे उपाविशत् । मण्डलेश्वर-मध्य-स्थः हृदयेन विदूयता ॥ ३५ ॥
kaṃsaḥ parivṛtaḥ amātyaiḥ rāja-mañce upāviśat . maṇḍaleśvara-madhya-sthaḥ hṛdayena vidūyatā .. 35 ..
वाद्यमानेसु तूर्येषु मल्लतालोत्तरेषु च । मल्लाः स्वलङ्कृताः दृप्ताः सोपाध्यायाः समाविशन् ॥ ३६ ॥
वाद्यमानेसु तूर्येषु मल्ल-ताल-उत्तरेषु च । मल्लाः सु अलङ्कृताः दृप्ताः स उपाध्यायाः समाविशन् ॥ ३६ ॥
vādyamānesu tūryeṣu malla-tāla-uttareṣu ca . mallāḥ su alaṅkṛtāḥ dṛptāḥ sa upādhyāyāḥ samāviśan .. 36 ..
चाणूरो मुष्टिकः कूतः शलस्तोशल एव च । त आसेदुरुपस्थानं वल्गुवाद्यप्रहर्षिताः ॥ ३७ ॥
चाणूरः मुष्टिकः कूतः शलः तोशलः एव च । ते आसेदुः उपस्थानम् वल्गु-वाद्य-प्रहर्षिताः ॥ ३७ ॥
cāṇūraḥ muṣṭikaḥ kūtaḥ śalaḥ tośalaḥ eva ca . te āseduḥ upasthānam valgu-vādya-praharṣitāḥ .. 37 ..
नन्दगोपादयो गोपा भोजराजसमाहुताः । निवेदितोपायनास्ते एकस्मिन् मञ्च आविशन् ॥ ३८ ॥
नन्द-गोप-आदयः गोपाः भोजराज-समाहुताः । निवेदित-उपायनाः ते एकस्मिन् मञ्चे आविशन् ॥ ३८ ॥
nanda-gopa-ādayaḥ gopāḥ bhojarāja-samāhutāḥ . nivedita-upāyanāḥ te ekasmin mañce āviśan .. 38 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे मल्लरङोपवर्णनं नाम द्विचत्वारिंशोऽध्यायः ॥ ४२ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् दशम-स्कन्धे पूर्व-अर्धे मल्लरङोपवर्णनम् नाम द्विचत्वारिंशः अध्यायः ॥ ४२ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām daśama-skandhe pūrva-ardhe mallaraṅopavarṇanam nāma dvicatvāriṃśaḥ adhyāyaḥ .. 42 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In