| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच - ( मिश्र )
अथ व्रजन्राजपथेन माधवः स्त्रियं गृहीताङ्गविलेपभाजनाम् । विलोक्य कुब्जां युवतीं वराननां पप्रच्छ यान्तीं प्रहसन् रसप्रदः ॥ १ ॥
atha vrajanrājapathena mādhavaḥ striyaṃ gṛhītāṅgavilepabhājanām . vilokya kubjāṃ yuvatīṃ varānanāṃ papraccha yāntīṃ prahasan rasapradaḥ .. 1 ..
का त्वं वरोर्वेतदु हानुलेपनं कस्याङ्गने वा कथयस्व साधु नः । देह्यावयोरङ्गविलेपमुत्तमं श्रेयः ततस्ते न चिराद् भविष्यति ॥ २ ॥
kā tvaṃ varorvetadu hānulepanaṃ kasyāṅgane vā kathayasva sādhu naḥ . dehyāvayoraṅgavilepamuttamaṃ śreyaḥ tataste na cirād bhaviṣyati .. 2 ..
सैरन्ध्रि उवाच -
दास्यस्म्यहं सुन्दर कंससम्मता त्रिवक्रनामा ह्यनुलेपकर्मणि । मद्भावितं भोजपतेरतिप्रियं विना युवां कोऽन्यतमस्तदर्हति ॥ ३ ॥
dāsyasmyahaṃ sundara kaṃsasammatā trivakranāmā hyanulepakarmaṇi . madbhāvitaṃ bhojapateratipriyaṃ vinā yuvāṃ ko'nyatamastadarhati .. 3 ..
( अनुष्टुप् )
रूपपेशलमाधुर्य हसितालापवीक्षितैः । धर्षितात्मा ददौ सान्द्रं उभयोरनुलेपनम् ॥ ४ ॥
rūpapeśalamādhurya hasitālāpavīkṣitaiḥ . dharṣitātmā dadau sāndraṃ ubhayoranulepanam .. 4 ..
ततस्तावङ्गरागेण स्ववर्णेतरशोभिना । सम्प्राप्तपरभागेन शुशुभातेऽनुरञ्जितौ ॥ ५ ॥
tatastāvaṅgarāgeṇa svavarṇetaraśobhinā . samprāptaparabhāgena śuśubhāte'nurañjitau .. 5 ..
प्रसन्नो भगवान् कुब्जां त्रिवक्रां रुचिराननाम् । ऋज्वीं कर्तुं मनश्चक्रे दर्शयन् दर्शने फलम् ॥ ६ ॥
prasanno bhagavān kubjāṃ trivakrāṃ rucirānanām . ṛjvīṃ kartuṃ manaścakre darśayan darśane phalam .. 6 ..
पद्भ्यामाक्रम्य प्रपदे द्र्यङ्गुल्युत्तान पाणिना । प्रगृह्य चिबुकेऽध्यात्मं उदनीनमदच्युतः ॥ ७ ॥
padbhyāmākramya prapade dryaṅgulyuttāna pāṇinā . pragṛhya cibuke'dhyātmaṃ udanīnamadacyutaḥ .. 7 ..
सा तदर्जुसमानाङ्गी बृहच्छ्रोणिपयोधरा । मुकुन्दस्पर्शनात् सद्यो बभूव प्रमदोत्तमा ॥ ८ ॥
sā tadarjusamānāṅgī bṛhacchroṇipayodharā . mukundasparśanāt sadyo babhūva pramadottamā .. 8 ..
ततो रूपगुणौदार्य संपन्ना प्राह केशवम् । उत्तरीयान् तमकृष्य स्मयन्ती जातहृच्छया ॥ ९ ॥
tato rūpaguṇaudārya saṃpannā prāha keśavam . uttarīyān tamakṛṣya smayantī jātahṛcchayā .. 9 ..
एहि वीर गृहं यामो न त्वां त्यक्तुमिहोत्सहे । त्वयोन्मथितचित्तायाः प्रसीद पुरुषर्षभ ॥ १० ॥
ehi vīra gṛhaṃ yāmo na tvāṃ tyaktumihotsahe . tvayonmathitacittāyāḥ prasīda puruṣarṣabha .. 10 ..
एवं स्त्रिया याच्यमानः कृष्णो रामस्य पश्यतः । मुखं वीक्ष्यानुगानां च प्रहसन् तामुवाच ह ॥ ११ ॥
evaṃ striyā yācyamānaḥ kṛṣṇo rāmasya paśyataḥ . mukhaṃ vīkṣyānugānāṃ ca prahasan tāmuvāca ha .. 11 ..
एष्यामि ते गृहं सुभ्रु पुंसामाधिविकर्शनम् । साधितार्थोऽगृहाणां नः पान्थानां त्वं परायणम् ॥ १२ ॥
eṣyāmi te gṛhaṃ subhru puṃsāmādhivikarśanam . sādhitārtho'gṛhāṇāṃ naḥ pānthānāṃ tvaṃ parāyaṇam .. 12 ..
विसृज्य माध्व्या वाण्या तां व्रजन् मार्गे वणिक्पथैः । नानोपायनताम्बूल स्रग्गन्धैः साग्रजोऽर्चितः ॥ १३ ॥
visṛjya mādhvyā vāṇyā tāṃ vrajan mārge vaṇikpathaiḥ . nānopāyanatāmbūla sraggandhaiḥ sāgrajo'rcitaḥ .. 13 ..
तद्दर्शनस्मरक्षोभाद् आत्मानं नाविदन् स्त्रियः । विस्रस्तवासःकबर वलया लेख्यमूर्तयः ॥ १४ ॥
taddarśanasmarakṣobhād ātmānaṃ nāvidan striyaḥ . visrastavāsaḥkabara valayā lekhyamūrtayaḥ .. 14 ..
ततः पौरान् पृच्छमानो धनुषः स्थानमच्युतः । तस्मिन् प्रविष्टो ददृशे धनुरैन्द्रं इवाद्भुतम् ॥ १५ ॥
tataḥ paurān pṛcchamāno dhanuṣaḥ sthānamacyutaḥ . tasmin praviṣṭo dadṛśe dhanuraindraṃ ivādbhutam .. 15 ..
पुरुषैर्बहुभिर्गुप्तं अर्चितं परमर्द्धिमत् । वार्यमाणो नृभिः कृष्णः प्रसह्य धनुराददे ॥ १६ ॥
puruṣairbahubhirguptaṃ arcitaṃ paramarddhimat . vāryamāṇo nṛbhiḥ kṛṣṇaḥ prasahya dhanurādade .. 16 ..
( वंशस्था )
करेण वामेन सलीलमुद्धृतं सज्यं च कृत्वा निमिषेण पश्यताम् । नृणां विकृष्य प्रबभञ्ज मध्यतो यथेक्षुदण्डं मदकर्युरुक्रमः ॥ १७ ॥
kareṇa vāmena salīlamuddhṛtaṃ sajyaṃ ca kṛtvā nimiṣeṇa paśyatām . nṛṇāṃ vikṛṣya prababhañja madhyato yathekṣudaṇḍaṃ madakaryurukramaḥ .. 17 ..
( अनुष्टुप् )
धनुषो भज्यमानस्य शब्दः खं रोदसी दिशः । पूरयामास यं श्रुत्वा कंसस्त्रासमुपागमत् ॥ १८ ॥
dhanuṣo bhajyamānasya śabdaḥ khaṃ rodasī diśaḥ . pūrayāmāsa yaṃ śrutvā kaṃsastrāsamupāgamat .. 18 ..
तद् रक्षिणः सानुचरं कुपिता आततायिनः । गृहीतुकामा आवव्रुः गृह्यतां वध्यतामिति ॥ १९ ॥
tad rakṣiṇaḥ sānucaraṃ kupitā ātatāyinaḥ . gṛhītukāmā āvavruḥ gṛhyatāṃ vadhyatāmiti .. 19 ..
अथ तान् दुरभिप्रायान् विलोक्य बलकेशवौ । क्रुद्धौ धन्वन आदाय शकले तांश्च जघ्नतुः ॥ २० ॥
atha tān durabhiprāyān vilokya balakeśavau . kruddhau dhanvana ādāya śakale tāṃśca jaghnatuḥ .. 20 ..
बलं च कंसप्रहितं हत्वा शालामुखात्ततः । निष्क्रम्य चेरतुर्हृष्टौ निरीक्ष्य पुरसम्पदः ॥ २१ ॥
balaṃ ca kaṃsaprahitaṃ hatvā śālāmukhāttataḥ . niṣkramya ceraturhṛṣṭau nirīkṣya purasampadaḥ .. 21 ..
तयोस्तदद्भुतं वीर्यं निशाम्य पुरवासिनः । तेजः प्रागल्भ्यं रूपं च मेनिरे विबुधोत्तमौ ॥ २२ ॥
tayostadadbhutaṃ vīryaṃ niśāmya puravāsinaḥ . tejaḥ prāgalbhyaṃ rūpaṃ ca menire vibudhottamau .. 22 ..
तयोर्विचरतोः स्वैरं आदित्योऽस्तमुपेयिवान् । कृष्णरामौ वृतौ गोपैः पुराच्छकटमीयतुः ॥ २३ ॥
tayorvicaratoḥ svairaṃ ādityo'stamupeyivān . kṛṣṇarāmau vṛtau gopaiḥ purācchakaṭamīyatuḥ .. 23 ..
( वसंततिलका )
गोप्यो मुकुन्दविगमे विरहातुरा या आशासताशिष ऋता मधुपुर्यभूवन् । संपश्यतां पुरुषभूषणगात्रलक्ष्मीं हित्वेतरान् नु भजतश्चकमेऽयनं श्रीः ॥ २४ ॥
gopyo mukundavigame virahāturā yā āśāsatāśiṣa ṛtā madhupuryabhūvan . saṃpaśyatāṃ puruṣabhūṣaṇagātralakṣmīṃ hitvetarān nu bhajataścakame'yanaṃ śrīḥ .. 24 ..
( अनुष्टुप् )
अवनिक्ताङ्घ्रियुगलौ भुक्त्वा क्षीरोपसेचनम् । ऊषतुस्तां सुखं रात्रिं ज्ञात्वा कंसचिकीर्षितम् ॥ २५ ॥
avaniktāṅghriyugalau bhuktvā kṣīropasecanam . ūṣatustāṃ sukhaṃ rātriṃ jñātvā kaṃsacikīrṣitam .. 25 ..
कंसस्तु धनुषो भङ्गं रक्षिणां स्वबलस्य च । वधं निशम्य गोविन्द रामविक्रीडितं परम् ॥ २६ ॥
kaṃsastu dhanuṣo bhaṅgaṃ rakṣiṇāṃ svabalasya ca . vadhaṃ niśamya govinda rāmavikrīḍitaṃ param .. 26 ..
दीर्घप्रजागरो भीतो दुर्निमित्तानि दुर्मतिः । बहून्यचष्टोभयथा मृत्योर्दौत्यकराणि च ॥ २७ ॥
dīrghaprajāgaro bhīto durnimittāni durmatiḥ . bahūnyacaṣṭobhayathā mṛtyordautyakarāṇi ca .. 27 ..
अदर्शनं स्वशिरसः प्रतिरूपे च सत्यपि । असत्यपि द्वितीये च द्वैरूप्यं ज्योतिषां तथा ॥ २८ ॥
adarśanaṃ svaśirasaḥ pratirūpe ca satyapi . asatyapi dvitīye ca dvairūpyaṃ jyotiṣāṃ tathā .. 28 ..
छिद्रप्रतीतिश्छायायां प्राणघोषानुपश्रुतिः । स्वर्णप्रतीतिर्वृक्षेषु स्वपदानामदर्शनम् ॥ २९ ॥
chidrapratītiśchāyāyāṃ prāṇaghoṣānupaśrutiḥ . svarṇapratītirvṛkṣeṣu svapadānāmadarśanam .. 29 ..
स्वप्ने प्रेतपरिष्वङ्गः खरयानं विषादनम् । यायान्नलदमाल्येकः तैलाभ्यक्तो दिगम्बरः ॥ ३० ॥
svapne pretapariṣvaṅgaḥ kharayānaṃ viṣādanam . yāyānnaladamālyekaḥ tailābhyakto digambaraḥ .. 30 ..
अन्यानि चेत्थं भूतानि स्वप्नजागरितानि च । पश्यन् मरणसन्त्रस्तो निद्रां लेभे न चिन्तया ॥ ३१ ॥
anyāni cetthaṃ bhūtāni svapnajāgaritāni ca . paśyan maraṇasantrasto nidrāṃ lebhe na cintayā .. 31 ..
व्युष्टायां निशि कौरव्य सूर्ये चाद्भ्यः समुत्थिते । कारयामास वै कंसो मल्लक्रीडामहोत्सवम् ॥ ३२ ॥
vyuṣṭāyāṃ niśi kauravya sūrye cādbhyaḥ samutthite . kārayāmāsa vai kaṃso mallakrīḍāmahotsavam .. 32 ..
आनर्चुः पुरुषा रङ्गं तूर्यभेर्यश्च जघ्निरे । मञ्चाश्चालङ्कृताः स्रग्भिः पताकाचैलतोरणैः ॥ ३३ ॥
ānarcuḥ puruṣā raṅgaṃ tūryabheryaśca jaghnire . mañcāścālaṅkṛtāḥ sragbhiḥ patākācailatoraṇaiḥ .. 33 ..
तेषु पौरा जानपदा ब्रह्मक्षत्रपुरोगमाः । यथोपजोषं विविशू राजानश्च कृतासनाः ॥ ३४ ॥
teṣu paurā jānapadā brahmakṣatrapurogamāḥ . yathopajoṣaṃ viviśū rājānaśca kṛtāsanāḥ .. 34 ..
कंसः परिवृतोऽमात्यै राजमञ्च उपाविशत् । मण्डलेश्वरमध्यस्थो हृदयेन विदूयता ॥ ३५ ॥
kaṃsaḥ parivṛto'mātyai rājamañca upāviśat . maṇḍaleśvaramadhyastho hṛdayena vidūyatā .. 35 ..
वाद्यमानेसु तूर्येषु मल्लतालोत्तरेषु च । मल्लाः स्वलङ्कृताः दृप्ताः सोपाध्यायाः समाविशन् ॥ ३६ ॥
vādyamānesu tūryeṣu mallatālottareṣu ca . mallāḥ svalaṅkṛtāḥ dṛptāḥ sopādhyāyāḥ samāviśan .. 36 ..
चाणूरो मुष्टिकः कूतः शलस्तोशल एव च । त आसेदुरुपस्थानं वल्गुवाद्यप्रहर्षिताः ॥ ३७ ॥
cāṇūro muṣṭikaḥ kūtaḥ śalastośala eva ca . ta āsedurupasthānaṃ valguvādyapraharṣitāḥ .. 37 ..
नन्दगोपादयो गोपा भोजराजसमाहुताः । निवेदितोपायनास्ते एकस्मिन् मञ्च आविशन् ॥ ३८ ॥
nandagopādayo gopā bhojarājasamāhutāḥ . niveditopāyanāste ekasmin mañca āviśan .. 38 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे मल्लरङोपवर्णनं नाम द्विचत्वारिंशोऽध्यायः ॥ ४२ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ daśamaskandhe pūrvārdhe mallaraṅopavarṇanaṃ nāma dvicatvāriṃśo'dhyāyaḥ .. 42 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ oṃ tatsat śrīkṛṣṇārpaṇamastu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In