| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच - ( अनुष्टुप् )
अथ कृष्णश्च रामश्च कृतशौचौ परन्तप । मल्लदुन्दुभिनिर्घोषं श्रुत्वा द्रष्टुमुपेयतुः ॥ १ ॥
अथ कृष्णः च रामः च कृत-शौचौ परन्तप । मल्ल-दुन्दुभि-निर्घोषम् श्रुत्वा द्रष्टुम् उपेयतुः ॥ १ ॥
atha kṛṣṇaḥ ca rāmaḥ ca kṛta-śaucau parantapa . malla-dundubhi-nirghoṣam śrutvā draṣṭum upeyatuḥ .. 1 ..
रङ्गद्वारं समासाद्य तस्मिन् नागमवस्थितम् । अपश्यत्कुवलयापीडं कृष्णोऽम्बष्ठप्रचोदितम् ॥ २ ॥
रङ्गद्वारम् समासाद्य तस्मिन् नागम् अवस्थितम् । अपश्यत् कुवलयापीडम् कृष्णः अम्बष्ठ-प्रचोदितम् ॥ २ ॥
raṅgadvāram samāsādya tasmin nāgam avasthitam . apaśyat kuvalayāpīḍam kṛṣṇaḥ ambaṣṭha-pracoditam .. 2 ..
बद्ध्वा परिकरं शौरिः समुह्य कुटिलालकान् । उवाच हस्तिपं वाचा मेघनादगभीरया ॥ ३ ॥
बद्ध्वा परिकरम् शौरिः समुह्य कुटिल-अलकान् । उवाच हस्तिपम् वाचा मेघ-नाद-गभीरया ॥ ३ ॥
baddhvā parikaram śauriḥ samuhya kuṭila-alakān . uvāca hastipam vācā megha-nāda-gabhīrayā .. 3 ..
अम्बष्ठाम्बष्ठ मार्गं नौ देह्यपक्रम मा चिरम् । नो चेत्सकुञ्जरं त्वाद्य नयामि यमसादनम् ॥ ४ ॥
अम्बष्ठ अम्बष्ठ मार्गम् नौ देहि अपक्रम मा चिरम् । नो चेद् स कुञ्जरम् त्वा अद्य नयामि यम-सादनम् ॥ ४ ॥
ambaṣṭha ambaṣṭha mārgam nau dehi apakrama mā ciram . no ced sa kuñjaram tvā adya nayāmi yama-sādanam .. 4 ..
एवं निर्भर्त्सितोऽम्बष्ठः कुपितः कोपितं गजम् । चोदयामास कृष्णाय कालान्तक यमोपमम् ॥ ५ ॥
एवम् निर्भर्त्सितः अम्बष्ठः कुपितः कोपितम् गजम् । चोदयामास कृष्णाय काल-अन्तक यम-उपमम् ॥ ५ ॥
evam nirbhartsitaḥ ambaṣṭhaḥ kupitaḥ kopitam gajam . codayāmāsa kṛṣṇāya kāla-antaka yama-upamam .. 5 ..
करीन्द्रस्तमभिद्रुत्य करेण तरसाग्रहीत् । कराद् विगलितः सोऽमुं निहत्याङ्घ्रिष्वलीयत ॥ ६ ॥
करि-इन्द्रः तम् अभिद्रुत्य करेण तरसा अग्रहीत् । करात् विगलितः सः अमुम् निहत्य अङ्घ्रिषु अलीयत ॥ ६ ॥
kari-indraḥ tam abhidrutya kareṇa tarasā agrahīt . karāt vigalitaḥ saḥ amum nihatya aṅghriṣu alīyata .. 6 ..
सङ्क्रुद्धस्तमचक्षाणो घ्राणदृष्टिः स केशवम् । परामृशत् पुष्करेण स प्रसह्य विनिर्गतः ॥ ७ ॥
सङ्क्रुद्धः तम् अचक्षाणः घ्राण-दृष्टिः स केशवम् । परामृशत् पुष्करेण स प्रसह्य विनिर्गतः ॥ ७ ॥
saṅkruddhaḥ tam acakṣāṇaḥ ghrāṇa-dṛṣṭiḥ sa keśavam . parāmṛśat puṣkareṇa sa prasahya vinirgataḥ .. 7 ..
पुच्छे प्रगृह्यातिबलं धनुषः पञ्चविंशतिम् । विचकर्ष यथा नागं सुपर्ण इव लीलया ॥ ८ ॥
पुच्छे प्रगृह्य अतिबलम् धनुषः पञ्चविंशतिम् । विचकर्ष यथा नागम् सुपर्णः इव लीलया ॥ ८ ॥
pucche pragṛhya atibalam dhanuṣaḥ pañcaviṃśatim . vicakarṣa yathā nāgam suparṇaḥ iva līlayā .. 8 ..
स पर्यावर्तमानेन सव्यदक्षिणतोऽच्युतः । बभ्राम भ्राम्यमाणेन गोवत्सेनेव बालकः ॥ ९ ॥
स पर्यावर्तमानेन सव्य-दक्षिणतः अच्युतः । बभ्राम भ्राम्यमाणेन गो-वत्सेन इव बालकः ॥ ९ ॥
sa paryāvartamānena savya-dakṣiṇataḥ acyutaḥ . babhrāma bhrāmyamāṇena go-vatsena iva bālakaḥ .. 9 ..
ततोऽभिमखमभ्येत्य पाणिनाऽऽहत्य वारणम् । प्राद्रवन् पातयामास स्पृश्यमानः पदे पदे ॥ १० ॥
ततस् अभिमखम् अभ्येत्य पाणिना आहत्य वारणम् । प्राद्रवन् पातयामास स्पृश्यमानः पदे पदे ॥ १० ॥
tatas abhimakham abhyetya pāṇinā āhatya vāraṇam . prādravan pātayāmāsa spṛśyamānaḥ pade pade .. 10 ..
स धावन् क्रीडया भूमौ पतित्वा सहसोत्थितः । तं मत्वा पतितं क्रुद्धो दन्ताभ्यां सोऽहनत् क्षितिम् ॥ ११ ॥
स धावन् क्रीडया भूमौ पतित्वा सहसा उत्थितः । तम् मत्वा पतितम् क्रुद्धः दन्ताभ्याम् सः अहनत् क्षितिम् ॥ ११ ॥
sa dhāvan krīḍayā bhūmau patitvā sahasā utthitaḥ . tam matvā patitam kruddhaḥ dantābhyām saḥ ahanat kṣitim .. 11 ..
स्वविक्रमे प्रतिहते कुंजरेन्द्रोऽत्यमर्षितः । चोद्यमानो महामात्रैः कृष्णमभ्यद्रवद् रुषा ॥ १२ ॥
स्व-विक्रमे प्रतिहते कुंजर-इन्द्रः अति अमर्षितः । चोद्यमानः महामात्रैः कृष्णम् अभ्यद्रवत् रुषा ॥ १२ ॥
sva-vikrame pratihate kuṃjara-indraḥ ati amarṣitaḥ . codyamānaḥ mahāmātraiḥ kṛṣṇam abhyadravat ruṣā .. 12 ..
तमापतन्तमासाद्य भगवान् मधुसूदनः । निगृह्य पाणिना हस्तं पातयामास भूतले ॥ १३ ॥
तम् आपतन्तम् आसाद्य भगवान् मधुसूदनः । निगृह्य पाणिना हस्तम् पातयामास भू-तले ॥ १३ ॥
tam āpatantam āsādya bhagavān madhusūdanaḥ . nigṛhya pāṇinā hastam pātayāmāsa bhū-tale .. 13 ..
पतितस्य पदाऽऽक्रम्य मृगेन्द्र इव लीलया । दन्तमुत्पाट्य तेनेभं हस्तिपांश्चाहनद्धरिः ॥ १४ ॥
पतितस्य पदा आक्रम्य मृगेन्द्रः इव लीलया । दन्तम् उत्पाट्य तेन इभम् हस्तिपान् च अहनत् हरिः ॥ १४ ॥
patitasya padā ākramya mṛgendraḥ iva līlayā . dantam utpāṭya tena ibham hastipān ca ahanat hariḥ .. 14 ..
मृतकं द्विपमुत्सृज्य दन्तपाणिः समाविशत् । अंसन्यस्तविषाणोऽसृङ् मदबिन्दुभिरङ्कितः । विरूढस्वेदकणिका वदनाम्बुरुहो बभौ ॥ १५ ॥ वृतौ गोपैः कतिपयैः बलदेवजनार्दनौ ।
मृतकम् द्विपम् उत्सृज्य दन्तपाणिः समाविशत् । अंस-न्यस्त-विषाणः असृज् मद-बिन्दुभिः अङ्कितः । विरूढ-स्वेद-कणिका वदन-अम्बुरुहः बभौ ॥ १५ ॥ वृतौ गोपैः कतिपयैः बलदेव-जनार्दनौ ।
mṛtakam dvipam utsṛjya dantapāṇiḥ samāviśat . aṃsa-nyasta-viṣāṇaḥ asṛj mada-bindubhiḥ aṅkitaḥ . virūḍha-sveda-kaṇikā vadana-amburuhaḥ babhau .. 15 .. vṛtau gopaiḥ katipayaiḥ baladeva-janārdanau .
वृतौ गोपैः कतिपयैः बलदेवजनार्दनौ । रङ्गं विविशतू राजन् गजदन्तवरायुधौ ॥ १६ ॥
वृतौ गोपैः कतिपयैः बलदेव-जनार्दनौ । रङ्गम् विविशतुः राजन् गज-दन्त-वर-आयुधौ ॥ १६ ॥
vṛtau gopaiḥ katipayaiḥ baladeva-janārdanau . raṅgam viviśatuḥ rājan gaja-danta-vara-āyudhau .. 16 ..
( शार्दूलविक्रीडित )
मल्लानामशनिर्नृणां नरवरः स्त्रीणां स्मरो मूर्तिमान् । गोपानां स्वजनोऽसतां क्षितिभुजां शास्ता स्वपित्रोः शिशुः । मृत्युर्भोजपतेर्विराडविदुषां तत्त्वं परं योगिनां । वृष्णीनां परदेवतेति विदितो रङ्गं गतः साग्रजः ॥ १७ ॥
मल्लानाम् अशनिः नृणाम् नर-वरः स्त्रीणाम् स्मरः मूर्तिमान् । गोपानाम् स्व-जनः असताम् क्षितिभुजाम् शास्ता स्व-पित्रोः शिशुः । मृत्युः भोज-पतेः विराज् अविदुषाम् तत्त्वम् परम् योगिनाम् । वृष्णीनाम् पर-देवता इति विदितः रङ्गम् गतः स अग्रजः ॥ १७ ॥
mallānām aśaniḥ nṛṇām nara-varaḥ strīṇām smaraḥ mūrtimān . gopānām sva-janaḥ asatām kṣitibhujām śāstā sva-pitroḥ śiśuḥ . mṛtyuḥ bhoja-pateḥ virāj aviduṣām tattvam param yoginām . vṛṣṇīnām para-devatā iti viditaḥ raṅgam gataḥ sa agrajaḥ .. 17 ..
( अनुष्टुप् )
हतं कुवलयापीडं दृष्ट्वा तावपि दुर्जयौ । कंसो मनस्व्यपि तदा भृशमुद्विविजे नृप ॥ १८ ॥
हतम् कुवलयापीडम् दृष्ट्वा तौ अपि दुर्जयौ । कंसः मनस्वी अपि तदा भृशम् उद्विविजे नृप ॥ १८ ॥
hatam kuvalayāpīḍam dṛṣṭvā tau api durjayau . kaṃsaḥ manasvī api tadā bhṛśam udvivije nṛpa .. 18 ..
( मिश्र )
तौ रेजतू रङ्गगतौ महाभुजौ विचित्रवेषाभरणस्रगम्बरौ । यथा नटावुत्तमवेषधारिणौ मनः क्षिपन्तौ प्रभया निरीक्षताम् ॥ १९ ॥
तौ रेजतुः रङ्ग-गतौ महा-भुजौ विचित्र-वेष-आभरण-स्रज्-अम्बरौ । यथा नटौ उत्तम-वेष-धारिणौ मनः क्षिपन्तौ प्रभया ॥ १९ ॥
tau rejatuḥ raṅga-gatau mahā-bhujau vicitra-veṣa-ābharaṇa-sraj-ambarau . yathā naṭau uttama-veṣa-dhāriṇau manaḥ kṣipantau prabhayā .. 19 ..
निरीक्ष्य तावुत्तमपूरुषौ जना मञ्चस्थिता नागरराष्ट्रका नृप । प्रहर्षवेगोत्कलितेक्षणाननाः पपुर्न तृप्ता नयनैस्तदाननम् ॥ २० ॥
निरीक्ष्य तौ उत्तम-पूरुषौ जनाः मञ्च-स्थिताः नागर-राष्ट्रकाः नृप । प्रहर्ष-वेग-उत्कलित-ईक्षण-आननाः पपुः न तृप्ताः नयनैः तद्-आननम् ॥ २० ॥
nirīkṣya tau uttama-pūruṣau janāḥ mañca-sthitāḥ nāgara-rāṣṭrakāḥ nṛpa . praharṣa-vega-utkalita-īkṣaṇa-ānanāḥ papuḥ na tṛptāḥ nayanaiḥ tad-ānanam .. 20 ..
( अनुष्टुप् )
पिबन्त इव चक्षुर्भ्यां लिहन्त इव जिह्वया । जिघ्रन्त इव नासाभ्यां श्लिष्यन्त इव बाहुभिः ॥ २१ ॥
पिबन्तः इव चक्षुर्भ्याम् लिहन्तः इव जिह्वया । जिघ्रन्तः इव नासाभ्याम् श्लिष्यन्तः इव बाहुभिः ॥ २१ ॥
pibantaḥ iva cakṣurbhyām lihantaḥ iva jihvayā . jighrantaḥ iva nāsābhyām śliṣyantaḥ iva bāhubhiḥ .. 21 ..
ऊचुः परस्परं ते वै यथादृष्टं यथाश्रुतम् । तद् रूपगुणमाधुर्य प्रागल्भ्यस्मारिता इव ॥ २२ ॥
ऊचुः परस्परम् ते वै यथादृष्टम् यथाश्रुतम् । तत् रूप-गुण-माधुर्य प्रागल्भ्य-स्मारिताः इव ॥ २२ ॥
ūcuḥ parasparam te vai yathādṛṣṭam yathāśrutam . tat rūpa-guṇa-mādhurya prāgalbhya-smāritāḥ iva .. 22 ..
एतौ भगवतः साक्षात् हरेर्नारायणस्य हि । अवतीर्णाविहांशेन वसुदेवस्य वेश्मनि ॥ २३ ॥
एतौ भगवतः साक्षात् हरेः नारायणस्य हि । अवतीर्णौ इह अंशेन वसुदेवस्य वेश्मनि ॥ २३ ॥
etau bhagavataḥ sākṣāt hareḥ nārāyaṇasya hi . avatīrṇau iha aṃśena vasudevasya veśmani .. 23 ..
एष वै किल देवक्यां जातो नीतश्च गोकुलम् । कालमेतं वसन् गूढो ववृधे नन्दवेश्मनि ॥ २४ ॥
एष वै किल देवक्याम् जातः नीतः च गोकुलम् । कालम् एतम् वसन् गूढः ववृधे नन्द-वेश्मनि ॥ २४ ॥
eṣa vai kila devakyām jātaḥ nītaḥ ca gokulam . kālam etam vasan gūḍhaḥ vavṛdhe nanda-veśmani .. 24 ..
पूतनानेन नीतान्तं चक्रवातश्च दानवः । अर्जुनौ गुह्यकः केशी धेनुकोऽन्ये च तद्विधाः ॥ २५ ॥
पूतना अनेन नीत-अन्तम् चक्र-वातः च दानवः । अर्जुनौ गुह्यकः केशी धेनुकः अन्ये च तद्विधाः ॥ २५ ॥
pūtanā anena nīta-antam cakra-vātaḥ ca dānavaḥ . arjunau guhyakaḥ keśī dhenukaḥ anye ca tadvidhāḥ .. 25 ..
गावः सपाला एतेन दावाग्नेः परिमोचिताः । कालियो दमितः सर्प इन्द्रश्च विमदः कृतः ॥ २६ ॥
गावः स पालाः एतेन दाव-अग्नेः परिमोचिताः । कालियः दमितः सर्पः इन्द्रः च विमदः कृतः ॥ २६ ॥
gāvaḥ sa pālāḥ etena dāva-agneḥ parimocitāḥ . kāliyaḥ damitaḥ sarpaḥ indraḥ ca vimadaḥ kṛtaḥ .. 26 ..
सप्ताहमेकहस्तेन धृतोऽद्रिप्रवरोऽमुना । वर्षवाताशनिभ्यश्च परित्रातं च गोकुलम् ॥ २७ ॥
सप्त-अहम् एक-हस्तेन धृतः अद्रि-प्रवरः अमुना । वर्ष-वात-अशनिभ्यः च परित्रातम् च गोकुलम् ॥ २७ ॥
sapta-aham eka-hastena dhṛtaḥ adri-pravaraḥ amunā . varṣa-vāta-aśanibhyaḥ ca paritrātam ca gokulam .. 27 ..
गोप्योऽस्य नित्यमुदित हसितप्रेक्षणं मुखम् । पश्यन्त्यो विविधांस्तापान् तरन्ति स्माश्रमं मुदा ॥ २८ ॥
गोप्यः अस्य नित्य-मुदित हसित-प्रेक्षणम् मुखम् । पश्यन्त्यः विविधान् तापान् तरन्ति स्म आश्रमम् मुदा ॥ २८ ॥
gopyaḥ asya nitya-mudita hasita-prekṣaṇam mukham . paśyantyaḥ vividhān tāpān taranti sma āśramam mudā .. 28 ..
वदन्त्यनेन वंशोऽयं यदोः सुबहुविश्रुतः । श्रियं यशो महत्वं च लप्स्यते परिरक्षितः ॥ २९ ॥
वदन्ति अनेन वंशः अयम् यदोः सु बहु-विश्रुतः । श्रियम् यशः महत्वम् च लप्स्यते परिरक्षितः ॥ २९ ॥
vadanti anena vaṃśaḥ ayam yadoḥ su bahu-viśrutaḥ . śriyam yaśaḥ mahatvam ca lapsyate parirakṣitaḥ .. 29 ..
अयं चास्याग्रजः श्रीमान् रामः कमललोचनः । प्रलम्बो निहतो येन वत्सको ये बकादयः ॥ ३० ॥
अयम् च अस्य अग्रजः श्रीमान् रामः कमल-लोचनः । प्रलम्बः निहतः येन वत्सकः ये बक-आदयः ॥ ३० ॥
ayam ca asya agrajaḥ śrīmān rāmaḥ kamala-locanaḥ . pralambaḥ nihataḥ yena vatsakaḥ ye baka-ādayaḥ .. 30 ..
जनेष्वेवं ब्रुवाणेषु तूर्येषु निनदत्सु च । कृष्णरामौ समाभाष्य चाणूरो वाक्यमब्रवीत् ॥ ३१ ॥
जनेषु एवम् ब्रुवाणेषु तूर्येषु निनदत्सु च । कृष्ण-रामौ समाभाष्य चाणूरः वाक्यम् अब्रवीत् ॥ ३१ ॥
janeṣu evam bruvāṇeṣu tūryeṣu ninadatsu ca . kṛṣṇa-rāmau samābhāṣya cāṇūraḥ vākyam abravīt .. 31 ..
हे नन्दसूनो हे राम भवन्तौ वीरसंमतौ । नियुद्धकुशलौ श्रुत्वा राज्ञाऽऽहूतौ दिदृक्षुणा ॥ ३२ ॥
हे नन्द-सूनो हे राम भवन्तौ वीर-संमतौ । नियुद्ध-कुशलौ श्रुत्वा राज्ञा आहूतौ दिदृक्षुणा ॥ ३२ ॥
he nanda-sūno he rāma bhavantau vīra-saṃmatau . niyuddha-kuśalau śrutvā rājñā āhūtau didṛkṣuṇā .. 32 ..
प्रियं राज्ञः प्रकुर्वत्यः श्रेयो विन्दन्ति वै प्रजाः । मनसा कर्मणा वाचा विपरीत मतोऽन्यथा ॥ ३३ ॥
प्रियम् राज्ञः प्रकुर्वत्यः श्रेयः विन्दन्ति वै प्रजाः । मनसा कर्मणा वाचा मतः अन्यथा ॥ ३३ ॥
priyam rājñaḥ prakurvatyaḥ śreyaḥ vindanti vai prajāḥ . manasā karmaṇā vācā mataḥ anyathā .. 33 ..
नित्यं प्रमुदिता गोपा वत्सपाला यथा स्फुटम् । वनेषु मल्लयुद्धेन क्रीडन्तश्चारयन्ति गाः ॥ ३४ ॥
नित्यम् प्रमुदिताः गोपाः वत्स-पालाः यथा स्फुटम् । वनेषु मल्ल-युद्धेन क्रीडन्तः चारयन्ति गाः ॥ ३४ ॥
nityam pramuditāḥ gopāḥ vatsa-pālāḥ yathā sphuṭam . vaneṣu malla-yuddhena krīḍantaḥ cārayanti gāḥ .. 34 ..
तस्माद् राज्ञः प्रियं यूयं वयं च करवाम हे । भूतानि नः प्रसीदन्ति सर्वभूतमयो नृपः ॥ ३५ ॥
तस्मात् राज्ञः प्रियम् यूयम् वयम् च करवाम हे । भूतानि नः प्रसीदन्ति सर्व-भूत-मयः नृपः ॥ ३५ ॥
tasmāt rājñaḥ priyam yūyam vayam ca karavāma he . bhūtāni naḥ prasīdanti sarva-bhūta-mayaḥ nṛpaḥ .. 35 ..
तन्निशम्याब्रवीत् कृष्णो देशकालोचितं वचः । नियुद्धमात्मनोऽभीष्टं मन्यमानोऽभिनन्द्य च ॥ ३६ ॥
तत् निशम्य अब्रवीत् कृष्णः देश-काल-उचितम् वचः । नियुद्धम् आत्मनः अभीष्टम् मन्यमानः अभिनन्द्य च ॥ ३६ ॥
tat niśamya abravīt kṛṣṇaḥ deśa-kāla-ucitam vacaḥ . niyuddham ātmanaḥ abhīṣṭam manyamānaḥ abhinandya ca .. 36 ..
प्रजा भोजपतेरस्य वयं चापि वनेचराः । करवाम प्रियं नित्यं तन्नः परमनुग्रहः ॥ ३७ ॥
प्रजाः भोज-पतेः अस्य वयम् च अपि वनेचराः । करवाम प्रियम् नित्यम् तत् नः परम् अनुग्रहः ॥ ३७ ॥
prajāḥ bhoja-pateḥ asya vayam ca api vanecarāḥ . karavāma priyam nityam tat naḥ param anugrahaḥ .. 37 ..
बाला वयं तुल्यबलैः क्रीडिष्यामो यथोचितम् । भवेन्नियुद्धं माधर्मः स्पृशेन्मल्ल सभासदः ॥ ३८ ॥
बालाः वयम् तुल्य-बलैः क्रीडिष्यामः यथोचितम् । भवेत् नियुद्धम् मा अधर्मः स्पृशेत् मल्ल सभासदः ॥ ३८ ॥
bālāḥ vayam tulya-balaiḥ krīḍiṣyāmaḥ yathocitam . bhavet niyuddham mā adharmaḥ spṛśet malla sabhāsadaḥ .. 38 ..
चाणूर उवाच -
न बालो न किशोरस्त्वं बलश्च बलिनां वरः । लीलयेभो हतो येन सहस्रद्विपसत्त्वभृत् ॥ ३९ ॥
न बालः न किशोरः त्वम् बलः च बलिनाम् वरः । लीलया इभः हतः येन सहस्र-द्विप-सत्त्व-भृत् ॥ ३९ ॥
na bālaḥ na kiśoraḥ tvam balaḥ ca balinām varaḥ . līlayā ibhaḥ hataḥ yena sahasra-dvipa-sattva-bhṛt .. 39 ..
तस्माद् भवद्भ्यां बलिभिः योद्धव्यं नानयोऽत्र वै । मयि विक्रम वार्ष्णेय बलेन सह मुष्टिकः ॥ ४० ॥
तस्मात् भवद्भ्याम् बलिभिः योद्धव्यम् न अनयः अत्र वै । मयि विक्रम वार्ष्णेय बलेन सह मुष्टिकः ॥ ४० ॥
tasmāt bhavadbhyām balibhiḥ yoddhavyam na anayaḥ atra vai . mayi vikrama vārṣṇeya balena saha muṣṭikaḥ .. 40 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे कुवलयापीडवधो नाम त्रिचत्वारिंशोऽध्यायः ॥ ४३ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् दशम-स्कन्धे पूर्व-अर्धे कुवलयापीडवधः नाम त्रिचत्वारिंशः अध्यायः ॥ ४३ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām daśama-skandhe pūrva-ardhe kuvalayāpīḍavadhaḥ nāma tricatvāriṃśaḥ adhyāyaḥ .. 43 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In