| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच - ( अनुष्टुप् )
अथ कृष्णश्च रामश्च कृतशौचौ परन्तप । मल्लदुन्दुभिनिर्घोषं श्रुत्वा द्रष्टुमुपेयतुः ॥ १ ॥
atha kṛṣṇaśca rāmaśca kṛtaśaucau parantapa . malladundubhinirghoṣaṃ śrutvā draṣṭumupeyatuḥ .. 1 ..
रङ्गद्वारं समासाद्य तस्मिन् नागमवस्थितम् । अपश्यत्कुवलयापीडं कृष्णोऽम्बष्ठप्रचोदितम् ॥ २ ॥
raṅgadvāraṃ samāsādya tasmin nāgamavasthitam . apaśyatkuvalayāpīḍaṃ kṛṣṇo'mbaṣṭhapracoditam .. 2 ..
बद्ध्वा परिकरं शौरिः समुह्य कुटिलालकान् । उवाच हस्तिपं वाचा मेघनादगभीरया ॥ ३ ॥
baddhvā parikaraṃ śauriḥ samuhya kuṭilālakān . uvāca hastipaṃ vācā meghanādagabhīrayā .. 3 ..
अम्बष्ठाम्बष्ठ मार्गं नौ देह्यपक्रम मा चिरम् । नो चेत्सकुञ्जरं त्वाद्य नयामि यमसादनम् ॥ ४ ॥
ambaṣṭhāmbaṣṭha mārgaṃ nau dehyapakrama mā ciram . no cetsakuñjaraṃ tvādya nayāmi yamasādanam .. 4 ..
एवं निर्भर्त्सितोऽम्बष्ठः कुपितः कोपितं गजम् । चोदयामास कृष्णाय कालान्तक यमोपमम् ॥ ५ ॥
evaṃ nirbhartsito'mbaṣṭhaḥ kupitaḥ kopitaṃ gajam . codayāmāsa kṛṣṇāya kālāntaka yamopamam .. 5 ..
करीन्द्रस्तमभिद्रुत्य करेण तरसाग्रहीत् । कराद् विगलितः सोऽमुं निहत्याङ्घ्रिष्वलीयत ॥ ६ ॥
karīndrastamabhidrutya kareṇa tarasāgrahīt . karād vigalitaḥ so'muṃ nihatyāṅghriṣvalīyata .. 6 ..
सङ्क्रुद्धस्तमचक्षाणो घ्राणदृष्टिः स केशवम् । परामृशत् पुष्करेण स प्रसह्य विनिर्गतः ॥ ७ ॥
saṅkruddhastamacakṣāṇo ghrāṇadṛṣṭiḥ sa keśavam . parāmṛśat puṣkareṇa sa prasahya vinirgataḥ .. 7 ..
पुच्छे प्रगृह्यातिबलं धनुषः पञ्चविंशतिम् । विचकर्ष यथा नागं सुपर्ण इव लीलया ॥ ८ ॥
pucche pragṛhyātibalaṃ dhanuṣaḥ pañcaviṃśatim . vicakarṣa yathā nāgaṃ suparṇa iva līlayā .. 8 ..
स पर्यावर्तमानेन सव्यदक्षिणतोऽच्युतः । बभ्राम भ्राम्यमाणेन गोवत्सेनेव बालकः ॥ ९ ॥
sa paryāvartamānena savyadakṣiṇato'cyutaḥ . babhrāma bhrāmyamāṇena govatseneva bālakaḥ .. 9 ..
ततोऽभिमखमभ्येत्य पाणिनाऽऽहत्य वारणम् । प्राद्रवन् पातयामास स्पृश्यमानः पदे पदे ॥ १० ॥
tato'bhimakhamabhyetya pāṇinā''hatya vāraṇam . prādravan pātayāmāsa spṛśyamānaḥ pade pade .. 10 ..
स धावन् क्रीडया भूमौ पतित्वा सहसोत्थितः । तं मत्वा पतितं क्रुद्धो दन्ताभ्यां सोऽहनत् क्षितिम् ॥ ११ ॥
sa dhāvan krīḍayā bhūmau patitvā sahasotthitaḥ . taṃ matvā patitaṃ kruddho dantābhyāṃ so'hanat kṣitim .. 11 ..
स्वविक्रमे प्रतिहते कुंजरेन्द्रोऽत्यमर्षितः । चोद्यमानो महामात्रैः कृष्णमभ्यद्रवद् रुषा ॥ १२ ॥
svavikrame pratihate kuṃjarendro'tyamarṣitaḥ . codyamāno mahāmātraiḥ kṛṣṇamabhyadravad ruṣā .. 12 ..
तमापतन्तमासाद्य भगवान् मधुसूदनः । निगृह्य पाणिना हस्तं पातयामास भूतले ॥ १३ ॥
tamāpatantamāsādya bhagavān madhusūdanaḥ . nigṛhya pāṇinā hastaṃ pātayāmāsa bhūtale .. 13 ..
पतितस्य पदाऽऽक्रम्य मृगेन्द्र इव लीलया । दन्तमुत्पाट्य तेनेभं हस्तिपांश्चाहनद्धरिः ॥ १४ ॥
patitasya padā''kramya mṛgendra iva līlayā . dantamutpāṭya tenebhaṃ hastipāṃścāhanaddhariḥ .. 14 ..
मृतकं द्विपमुत्सृज्य दन्तपाणिः समाविशत् । अंसन्यस्तविषाणोऽसृङ् मदबिन्दुभिरङ्कितः । विरूढस्वेदकणिका वदनाम्बुरुहो बभौ ॥ १५ ॥ वृतौ गोपैः कतिपयैः बलदेवजनार्दनौ ।
mṛtakaṃ dvipamutsṛjya dantapāṇiḥ samāviśat . aṃsanyastaviṣāṇo'sṛṅ madabindubhiraṅkitaḥ . virūḍhasvedakaṇikā vadanāmburuho babhau .. 15 .. vṛtau gopaiḥ katipayaiḥ baladevajanārdanau .
वृतौ गोपैः कतिपयैः बलदेवजनार्दनौ । रङ्गं विविशतू राजन् गजदन्तवरायुधौ ॥ १६ ॥
vṛtau gopaiḥ katipayaiḥ baladevajanārdanau . raṅgaṃ viviśatū rājan gajadantavarāyudhau .. 16 ..
( शार्दूलविक्रीडित )
मल्लानामशनिर्नृणां नरवरः स्त्रीणां स्मरो मूर्तिमान् । गोपानां स्वजनोऽसतां क्षितिभुजां शास्ता स्वपित्रोः शिशुः । मृत्युर्भोजपतेर्विराडविदुषां तत्त्वं परं योगिनां । वृष्णीनां परदेवतेति विदितो रङ्गं गतः साग्रजः ॥ १७ ॥
mallānāmaśanirnṛṇāṃ naravaraḥ strīṇāṃ smaro mūrtimān . gopānāṃ svajano'satāṃ kṣitibhujāṃ śāstā svapitroḥ śiśuḥ . mṛtyurbhojapatervirāḍaviduṣāṃ tattvaṃ paraṃ yogināṃ . vṛṣṇīnāṃ paradevateti vidito raṅgaṃ gataḥ sāgrajaḥ .. 17 ..
( अनुष्टुप् )
हतं कुवलयापीडं दृष्ट्वा तावपि दुर्जयौ । कंसो मनस्व्यपि तदा भृशमुद्विविजे नृप ॥ १८ ॥
hataṃ kuvalayāpīḍaṃ dṛṣṭvā tāvapi durjayau . kaṃso manasvyapi tadā bhṛśamudvivije nṛpa .. 18 ..
( मिश्र )
तौ रेजतू रङ्गगतौ महाभुजौ विचित्रवेषाभरणस्रगम्बरौ । यथा नटावुत्तमवेषधारिणौ मनः क्षिपन्तौ प्रभया निरीक्षताम् ॥ १९ ॥
tau rejatū raṅgagatau mahābhujau vicitraveṣābharaṇasragambarau . yathā naṭāvuttamaveṣadhāriṇau manaḥ kṣipantau prabhayā nirīkṣatām .. 19 ..
निरीक्ष्य तावुत्तमपूरुषौ जना मञ्चस्थिता नागरराष्ट्रका नृप । प्रहर्षवेगोत्कलितेक्षणाननाः पपुर्न तृप्ता नयनैस्तदाननम् ॥ २० ॥
nirīkṣya tāvuttamapūruṣau janā mañcasthitā nāgararāṣṭrakā nṛpa . praharṣavegotkalitekṣaṇānanāḥ papurna tṛptā nayanaistadānanam .. 20 ..
( अनुष्टुप् )
पिबन्त इव चक्षुर्भ्यां लिहन्त इव जिह्वया । जिघ्रन्त इव नासाभ्यां श्लिष्यन्त इव बाहुभिः ॥ २१ ॥
pibanta iva cakṣurbhyāṃ lihanta iva jihvayā . jighranta iva nāsābhyāṃ śliṣyanta iva bāhubhiḥ .. 21 ..
ऊचुः परस्परं ते वै यथादृष्टं यथाश्रुतम् । तद् रूपगुणमाधुर्य प्रागल्भ्यस्मारिता इव ॥ २२ ॥
ūcuḥ parasparaṃ te vai yathādṛṣṭaṃ yathāśrutam . tad rūpaguṇamādhurya prāgalbhyasmāritā iva .. 22 ..
एतौ भगवतः साक्षात् हरेर्नारायणस्य हि । अवतीर्णाविहांशेन वसुदेवस्य वेश्मनि ॥ २३ ॥
etau bhagavataḥ sākṣāt harernārāyaṇasya hi . avatīrṇāvihāṃśena vasudevasya veśmani .. 23 ..
एष वै किल देवक्यां जातो नीतश्च गोकुलम् । कालमेतं वसन् गूढो ववृधे नन्दवेश्मनि ॥ २४ ॥
eṣa vai kila devakyāṃ jāto nītaśca gokulam . kālametaṃ vasan gūḍho vavṛdhe nandaveśmani .. 24 ..
पूतनानेन नीतान्तं चक्रवातश्च दानवः । अर्जुनौ गुह्यकः केशी धेनुकोऽन्ये च तद्विधाः ॥ २५ ॥
pūtanānena nītāntaṃ cakravātaśca dānavaḥ . arjunau guhyakaḥ keśī dhenuko'nye ca tadvidhāḥ .. 25 ..
गावः सपाला एतेन दावाग्नेः परिमोचिताः । कालियो दमितः सर्प इन्द्रश्च विमदः कृतः ॥ २६ ॥
gāvaḥ sapālā etena dāvāgneḥ parimocitāḥ . kāliyo damitaḥ sarpa indraśca vimadaḥ kṛtaḥ .. 26 ..
सप्ताहमेकहस्तेन धृतोऽद्रिप्रवरोऽमुना । वर्षवाताशनिभ्यश्च परित्रातं च गोकुलम् ॥ २७ ॥
saptāhamekahastena dhṛto'dripravaro'munā . varṣavātāśanibhyaśca paritrātaṃ ca gokulam .. 27 ..
गोप्योऽस्य नित्यमुदित हसितप्रेक्षणं मुखम् । पश्यन्त्यो विविधांस्तापान् तरन्ति स्माश्रमं मुदा ॥ २८ ॥
gopyo'sya nityamudita hasitaprekṣaṇaṃ mukham . paśyantyo vividhāṃstāpān taranti smāśramaṃ mudā .. 28 ..
वदन्त्यनेन वंशोऽयं यदोः सुबहुविश्रुतः । श्रियं यशो महत्वं च लप्स्यते परिरक्षितः ॥ २९ ॥
vadantyanena vaṃśo'yaṃ yadoḥ subahuviśrutaḥ . śriyaṃ yaśo mahatvaṃ ca lapsyate parirakṣitaḥ .. 29 ..
अयं चास्याग्रजः श्रीमान् रामः कमललोचनः । प्रलम्बो निहतो येन वत्सको ये बकादयः ॥ ३० ॥
ayaṃ cāsyāgrajaḥ śrīmān rāmaḥ kamalalocanaḥ . pralambo nihato yena vatsako ye bakādayaḥ .. 30 ..
जनेष्वेवं ब्रुवाणेषु तूर्येषु निनदत्सु च । कृष्णरामौ समाभाष्य चाणूरो वाक्यमब्रवीत् ॥ ३१ ॥
janeṣvevaṃ bruvāṇeṣu tūryeṣu ninadatsu ca . kṛṣṇarāmau samābhāṣya cāṇūro vākyamabravīt .. 31 ..
हे नन्दसूनो हे राम भवन्तौ वीरसंमतौ । नियुद्धकुशलौ श्रुत्वा राज्ञाऽऽहूतौ दिदृक्षुणा ॥ ३२ ॥
he nandasūno he rāma bhavantau vīrasaṃmatau . niyuddhakuśalau śrutvā rājñā''hūtau didṛkṣuṇā .. 32 ..
प्रियं राज्ञः प्रकुर्वत्यः श्रेयो विन्दन्ति वै प्रजाः । मनसा कर्मणा वाचा विपरीत मतोऽन्यथा ॥ ३३ ॥
priyaṃ rājñaḥ prakurvatyaḥ śreyo vindanti vai prajāḥ . manasā karmaṇā vācā viparīta mato'nyathā .. 33 ..
नित्यं प्रमुदिता गोपा वत्सपाला यथा स्फुटम् । वनेषु मल्लयुद्धेन क्रीडन्तश्चारयन्ति गाः ॥ ३४ ॥
nityaṃ pramuditā gopā vatsapālā yathā sphuṭam . vaneṣu mallayuddhena krīḍantaścārayanti gāḥ .. 34 ..
तस्माद् राज्ञः प्रियं यूयं वयं च करवाम हे । भूतानि नः प्रसीदन्ति सर्वभूतमयो नृपः ॥ ३५ ॥
tasmād rājñaḥ priyaṃ yūyaṃ vayaṃ ca karavāma he . bhūtāni naḥ prasīdanti sarvabhūtamayo nṛpaḥ .. 35 ..
तन्निशम्याब्रवीत् कृष्णो देशकालोचितं वचः । नियुद्धमात्मनोऽभीष्टं मन्यमानोऽभिनन्द्य च ॥ ३६ ॥
tanniśamyābravīt kṛṣṇo deśakālocitaṃ vacaḥ . niyuddhamātmano'bhīṣṭaṃ manyamāno'bhinandya ca .. 36 ..
प्रजा भोजपतेरस्य वयं चापि वनेचराः । करवाम प्रियं नित्यं तन्नः परमनुग्रहः ॥ ३७ ॥
prajā bhojapaterasya vayaṃ cāpi vanecarāḥ . karavāma priyaṃ nityaṃ tannaḥ paramanugrahaḥ .. 37 ..
बाला वयं तुल्यबलैः क्रीडिष्यामो यथोचितम् । भवेन्नियुद्धं माधर्मः स्पृशेन्मल्ल सभासदः ॥ ३८ ॥
bālā vayaṃ tulyabalaiḥ krīḍiṣyāmo yathocitam . bhavenniyuddhaṃ mādharmaḥ spṛśenmalla sabhāsadaḥ .. 38 ..
चाणूर उवाच -
न बालो न किशोरस्त्वं बलश्च बलिनां वरः । लीलयेभो हतो येन सहस्रद्विपसत्त्वभृत् ॥ ३९ ॥
na bālo na kiśorastvaṃ balaśca balināṃ varaḥ . līlayebho hato yena sahasradvipasattvabhṛt .. 39 ..
तस्माद् भवद्भ्यां बलिभिः योद्धव्यं नानयोऽत्र वै । मयि विक्रम वार्ष्णेय बलेन सह मुष्टिकः ॥ ४० ॥
tasmād bhavadbhyāṃ balibhiḥ yoddhavyaṃ nānayo'tra vai . mayi vikrama vārṣṇeya balena saha muṣṭikaḥ .. 40 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे कुवलयापीडवधो नाम त्रिचत्वारिंशोऽध्यायः ॥ ४३ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ daśamaskandhe pūrvārdhe kuvalayāpīḍavadho nāma tricatvāriṃśo'dhyāyaḥ .. 43 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ oṃ tatsat śrīkṛṣṇārpaṇamastu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In