| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच - ( अनुष्टुप् )
एवं चर्चितसङ्कल्पो भगवान् मधुसूदनः । आससादाथ चणूरं मुष्टिकं रोहिणीसुतः ॥ १ ॥
एवम् चर्चित-सङ्कल्पः भगवान् मधुसूदनः । आससाद अथ चणूरम् मुष्टिकम् रोहिणीसुतः ॥ १ ॥
evam carcita-saṅkalpaḥ bhagavān madhusūdanaḥ . āsasāda atha caṇūram muṣṭikam rohiṇīsutaḥ .. 1 ..
हस्ताभ्यां हस्तयोर्बद्ध्वा पद्भ्यामेव च पादयोः । विचकर्षतुरन्योन्यं प्रसह्य विजिगीषया ॥ २ ॥
हस्ताभ्याम् हस्तयोः बद्ध्वा पद्भ्याम् एव च पादयोः । विचकर्षतुः अन्योन्यम् प्रसह्य विजिगीषया ॥ २ ॥
hastābhyām hastayoḥ baddhvā padbhyām eva ca pādayoḥ . vicakarṣatuḥ anyonyam prasahya vijigīṣayā .. 2 ..
अरत्नी द्वे अरत्निभ्यां जानुभ्यां चैव जानुनी । शिरः शीर्ष्णोरसोरस्तौ अन्योन्यं अभिजघ्नतुः ॥ ३ ॥
अरत्नी द्वे अरत्निभ्याम् जानुभ्याम् च एव जानुनी । शिरः शीर्ष्णा उरसा उरस्तौ अन्योन्यम् अभिजघ्नतुः ॥ ३ ॥
aratnī dve aratnibhyām jānubhyām ca eva jānunī . śiraḥ śīrṣṇā urasā urastau anyonyam abhijaghnatuḥ .. 3 ..
परिभ्रामणविक्षेप परिरम्भावपातनैः । उत्सर्पणापसर्पणैः चान्योन्यं प्रत्यरुन्धताम् ॥ ४ ॥
परिभ्रामण-विक्षेप-परिरम्भ-अवपातनैः । उत्सर्पण-अपसर्पणैः च अन्योन्यम् प्रत्यरुन्धताम् ॥ ४ ॥
paribhrāmaṇa-vikṣepa-parirambha-avapātanaiḥ . utsarpaṇa-apasarpaṇaiḥ ca anyonyam pratyarundhatām .. 4 ..
उत्थापनैरुन्नयनैः चालनैः स्थापनैरपि । परस्परं जिगीषन्तौ अपचक्रतुरात्मनः ॥ ५ ॥
उत्थापनैः उन्नयनैः चालनैः स्थापनैः अपि । परस्परम् जिगीषन्तौ अपचक्रतुः आत्मनः ॥ ५ ॥
utthāpanaiḥ unnayanaiḥ cālanaiḥ sthāpanaiḥ api . parasparam jigīṣantau apacakratuḥ ātmanaḥ .. 5 ..
तद्बलाबलवद् युद्धं समेताः सर्वयोषितः । ऊचुः परस्परं राजन् सानुकम्पा वरूथशः ॥ ६ ॥
तत् बल-अबलवत् युद्धम् समेताः सर्व-योषितः । ऊचुः परस्परम् राजन् स अनुकम्पाः वरूथशस् ॥ ६ ॥
tat bala-abalavat yuddham sametāḥ sarva-yoṣitaḥ . ūcuḥ parasparam rājan sa anukampāḥ varūthaśas .. 6 ..
महानयं बताधर्म एषां राजसभासदाम् । ये बलाबलवद् युद्धं राज्ञोऽन्विच्छन्ति पश्यतः ॥ ७ ॥
महान् अयम् बत अधर्मः एषाम् राज-सभासदाम् । ये बलाबलवत् युद्धम् राज्ञः अन्विच्छन्ति पश्यतः ॥ ७ ॥
mahān ayam bata adharmaḥ eṣām rāja-sabhāsadām . ye balābalavat yuddham rājñaḥ anvicchanti paśyataḥ .. 7 ..
क्व वज्रसारसर्वाङ्गौ मल्लौ शैलेन्द्रसन्निभौ । क्व चातिसुकुमाराङ्गौ किशोरौ नाप्तयौवनौ ॥ ८ ॥
क्व वज्र-सार-सर्व-अङ्गौ मल्लौ शैल-इन्द्र-सन्निभौ । क्व च अति सुकुमार-अङ्गौ किशोरौ न आप्त-यौवनौ ॥ ८ ॥
kva vajra-sāra-sarva-aṅgau mallau śaila-indra-sannibhau . kva ca ati sukumāra-aṅgau kiśorau na āpta-yauvanau .. 8 ..
धर्मव्यतिक्रमो ह्यस्य समाजस्य ध्रुवं भवेत् । यत्राधर्मः समुत्तिष्ठेत् न स्थेयं तत्र कर्हिचित् ॥ ९ ॥
धर्म-व्यतिक्रमः हि अस्य समाजस्य ध्रुवम् भवेत् । यत्र अधर्मः समुत्तिष्ठेत् न स्थेयम् तत्र कर्हिचित् ॥ ९ ॥
dharma-vyatikramaḥ hi asya samājasya dhruvam bhavet . yatra adharmaḥ samuttiṣṭhet na stheyam tatra karhicit .. 9 ..
न सभां प्रविशेत् प्राज्ञः सभ्यदोषान् अनुस्मरन् । अब्रुवन् विब्रुवन्नज्ञो नरः किल्बिषमश्नुते ॥ १० ॥
न सभाम् प्रविशेत् प्राज्ञः सभ्य-दोषान् अनुस्मरन् । अब्रुवन् विब्रुवन् अज्ञः नरः किल्बिषम् अश्नुते ॥ १० ॥
na sabhām praviśet prājñaḥ sabhya-doṣān anusmaran . abruvan vibruvan ajñaḥ naraḥ kilbiṣam aśnute .. 10 ..
वल्गतः शत्रुमभितः कृष्णस्य वदनाम्बुजम् । वीक्ष्यतां श्रमवार्युप्तं पद्मकोशमिवाम्बुभिः ॥ ११ ॥
वल्गतः शत्रुम् अभितस् कृष्णस्य वदन-अम्बुजम् । वीक्ष्यताम् श्रम-वारि-उप्तम् पद्मकोशम् इव अम्बुभिः ॥ ११ ॥
valgataḥ śatrum abhitas kṛṣṇasya vadana-ambujam . vīkṣyatām śrama-vāri-uptam padmakośam iva ambubhiḥ .. 11 ..
किं न पश्यत रामस्य मुखमाताम्रलोचनम् । मुष्टिकं प्रति सामर्षं हाससंरम्भशोभितम् ॥ १२ ॥
किम् न पश्यत रामस्य मुखम् आताम्र-लोचनम् । मुष्टिकम् प्रति स अमर्षम् हास-संरम्भ-शोभितम् ॥ १२ ॥
kim na paśyata rāmasya mukham ātāmra-locanam . muṣṭikam prati sa amarṣam hāsa-saṃrambha-śobhitam .. 12 ..
( वसंततिलका )
पुण्या बत व्रजभुवो यदयं नृलिङ्ग गूढः पुराणपुरुषो वनचित्रमाल्यः । गाः पालयन्सहबलः क्वणयंश्च वेणुं विक्रीदयाञ्चति गिरित्ररमार्चिताङ्घ्रिः ॥ १३ ॥
पुण्याः बत व्रज-भुवः यत् अयम् नृलिङ्ग गूढः पुराणपुरुषः वन-चित्र-माल्यः । गाः पालयन् सहबलः क्वणयन् च वेणुम् गिरित्र-रमा-अर्चित-अङ्घ्रिः ॥ १३ ॥
puṇyāḥ bata vraja-bhuvaḥ yat ayam nṛliṅga gūḍhaḥ purāṇapuruṣaḥ vana-citra-mālyaḥ . gāḥ pālayan sahabalaḥ kvaṇayan ca veṇum giritra-ramā-arcita-aṅghriḥ .. 13 ..
गोप्यस्तपः किमचरन् यदमुष्य रूपं लावण्यसारमसमोर्ध्वमनन्यसिद्धम् । दृग्भिः पिबन्त्यनुसवाभिनवं दुरापम् एकान्तधाम यशसः श्रीय ऐश्वरस्य ॥ १४ ॥
गोप्यः तपः किम् अचरन् यत् अमुष्य रूपम् लावण्य-सारम् असम-ऊर्ध्वम् अनन्य-सिद्धम् । पिबन्ति अनुसव-अभिनवम् दुरापम् एकान्त-धाम यशसः ऐश्वरस्य ॥ १४ ॥
gopyaḥ tapaḥ kim acaran yat amuṣya rūpam lāvaṇya-sāram asama-ūrdhvam ananya-siddham . pibanti anusava-abhinavam durāpam ekānta-dhāma yaśasaḥ aiśvarasya .. 14 ..
या दोहनेऽवहनने मथनोपलेप प्रेङ्खेङ्खनार्भरुदितो-क्षणमार्जनादौ । गायन्ति चैनमनुरक्तधियोऽश्रुकण्ठ्यो धन्या व्रजस्त्रिय उरुक्रमचित्तयानाः ॥ १५ ॥
दोहने अवहनने मथन-उपलेप प्रेङ्ख-इङ्खन-अर्भ-रुदित-उक्षण-मार्जन-आदौ । गायन्ति च एनम् अनुरक्त-धियः अश्रु-कण्ठ्यः धन्याः व्रजस्त्रियः उरुक्रम-चित्त-यानाः ॥ १५ ॥
dohane avahanane mathana-upalepa preṅkha-iṅkhana-arbha-rudita-ukṣaṇa-mārjana-ādau . gāyanti ca enam anurakta-dhiyaḥ aśru-kaṇṭhyaḥ dhanyāḥ vrajastriyaḥ urukrama-citta-yānāḥ .. 15 ..
प्रातर्व्रजाद् व्रजत आविशतश्च सायं गोभिः समं क्वणयतोऽस्य निशम्य वेणुम् । निर्गम्य तूर्णमबलाः पथि भूरिपुण्याः पश्यन्ति सस्मितमुखं सदयावलोकम् ॥ १६ ॥
प्रातर् व्रजात् व्रजतः आविशतः च सायम् गोभिः समम् क्वणयतः अस्य निशम्य वेणुम् । निर्गम्य तूर्णम् अबलाः पथि भूरि-पुण्याः पश्यन्ति स स्मित-मुखम् स दया-अवलोकम् ॥ १६ ॥
prātar vrajāt vrajataḥ āviśataḥ ca sāyam gobhiḥ samam kvaṇayataḥ asya niśamya veṇum . nirgamya tūrṇam abalāḥ pathi bhūri-puṇyāḥ paśyanti sa smita-mukham sa dayā-avalokam .. 16 ..
( अनुष्टुप् )
एवं प्रभाषमाणासु स्त्रीषु योगेश्वरो हरिः । शत्रुं हन्तुं मनश्चक्रे भगवान् भरतर्षभ ॥ १७ ॥
एवम् प्रभाषमाणासु स्त्रीषु योगेश्वरः हरिः । शत्रुम् हन्तुम् मनः चक्रे भगवान् भरत-ऋषभ ॥ १७ ॥
evam prabhāṣamāṇāsu strīṣu yogeśvaraḥ hariḥ . śatrum hantum manaḥ cakre bhagavān bharata-ṛṣabha .. 17 ..
सभयाः स्त्रीगिरः श्रुत्वा पुत्रस्नेहशुचाऽऽतुरौ । पितरौ अन्वतप्येतां पुत्रयोरबुधौ बलम् ॥ १८ ॥
स भयाः स्त्री-गिरः श्रुत्वा पुत्र-स्नेह-शुचा आतुरौ । पितरौ अन्वतप्येताम् पुत्रयोः अबुधौ बलम् ॥ १८ ॥
sa bhayāḥ strī-giraḥ śrutvā putra-sneha-śucā āturau . pitarau anvatapyetām putrayoḥ abudhau balam .. 18 ..
तैस्तैर्नियुद्धविधिभिः विविधैरच्युतेतरौ । युयुधाते यथान्योन्यं तथैव बलमुष्टिकौ ॥ १९ ॥
तैः तैः नियुद्ध-विधिभिः विविधैः अच्युतेतरौ । युयुधाते यथा अन्योन्यम् तथा एव बलमुष्टिकौ ॥ १९ ॥
taiḥ taiḥ niyuddha-vidhibhiḥ vividhaiḥ acyutetarau . yuyudhāte yathā anyonyam tathā eva balamuṣṭikau .. 19 ..
भगवद्गात्रनिष्पातैः वज्रनीष्पेषनिष्ठुरैः । चाणूरो भज्यमानाङ्गो मुहुर्ग्लानिमवाप ह ॥ २० ॥
भगवत्-गात्र-निष्पातैः वज्र-नीष्पेष-निष्ठुरैः । चाणूरः भज्यमान-अङ्गः मुहुर् ग्लानिम् अवाप ह ॥ २० ॥
bhagavat-gātra-niṣpātaiḥ vajra-nīṣpeṣa-niṣṭhuraiḥ . cāṇūraḥ bhajyamāna-aṅgaḥ muhur glānim avāpa ha .. 20 ..
स श्येनवेग उत्पत्य मुष्टीकृत्य करावुभौ । भगवन्तं वासुदेवं क्रुद्धो वक्षस्यबाधत ॥ २१ ॥
स श्येन-वेगः उत्पत्य मुष्टीकृत्य करौ उभौ । भगवन्तम् वासुदेवम् क्रुद्धः वक्षसि अबाधत ॥ २१ ॥
sa śyena-vegaḥ utpatya muṣṭīkṛtya karau ubhau . bhagavantam vāsudevam kruddhaḥ vakṣasi abādhata .. 21 ..
नाचलत् तत्प्रहारेण मालाहत इव द्विपः । बाह्वोर्निगृह्य चाणूरं बहुशो भ्रामयन् हरिः ॥ २२ ॥
न अचलत् तद्-प्रहारेण माला-हतः इव द्विपः । बाह्वोः निगृह्य चाणूरम् बहुशस् भ्रामयन् हरिः ॥ २२ ॥
na acalat tad-prahāreṇa mālā-hataḥ iva dvipaḥ . bāhvoḥ nigṛhya cāṇūram bahuśas bhrāmayan hariḥ .. 22 ..
भूपृष्ठे पोथयामास तरसा क्षीण जीवितम् । विस्रस्ताकल्पकेशस्रग् इन्द्रध्वज इवापतत् ॥ २३ ॥
भू-पृष्ठे पोथयामास तरसा क्षीण-जीवितम् । विस्रस्त-अकल्प-केश-स्रज् इन्द्र-ध्वजः इव अपतत् ॥ २३ ॥
bhū-pṛṣṭhe pothayāmāsa tarasā kṣīṇa-jīvitam . visrasta-akalpa-keśa-sraj indra-dhvajaḥ iva apatat .. 23 ..
तथैव मुष्टिकः पूर्वं स्वमुष्ट्याभिहतेन वै । बलभद्रेण बलिना तलेनाभिहतो भृशम् ॥ २४ ॥
तथा एव मुष्टिकः पूर्वम् स्व-मुष्ट्या अभिहतेन वै । बलभद्रेण बलिना तलेन अभिहतः भृशम् ॥ २४ ॥
tathā eva muṣṭikaḥ pūrvam sva-muṣṭyā abhihatena vai . balabhadreṇa balinā talena abhihataḥ bhṛśam .. 24 ..
प्रवेपितः स रुधिरं उद्वमन् मुखतोऽर्दितः । व्यसुः पपातोर्व्युपस्थे वाताहत इवाङ्घ्रिपः ॥ २५ ॥
प्रवेपितः स रुधिरम् उद्वमन् मुखतः अर्दितः । व्यसुः पपात उर्वी-उपस्थे वात-आहतः इव अङ्घ्रिपः ॥ २५ ॥
pravepitaḥ sa rudhiram udvaman mukhataḥ arditaḥ . vyasuḥ papāta urvī-upasthe vāta-āhataḥ iva aṅghripaḥ .. 25 ..
ततः कूटमनुप्राप्तं रामः प्रहरतां वरः । अवधीत् लीलया राजन् सावज्ञं वाममुष्टिना ॥ २६ ॥
ततस् कूटम् अनुप्राप्तम् रामः प्रहरताम् वरः । अवधीत् लीलया राजन् स अवज्ञम् वाम-मुष्टिना ॥ २६ ॥
tatas kūṭam anuprāptam rāmaḥ praharatām varaḥ . avadhīt līlayā rājan sa avajñam vāma-muṣṭinā .. 26 ..
तर्ह्येव हि शलः कृष्ण प्रपदाहतशीर्षकः । द्विधा विदीर्णस्तोशलक उभावपि निपेततुः ॥ २७ ॥
तर्हि एव हि शलः कृष्ण प्रपद-आहत-शीर्षकः । द्विधा विदीर्णः तोशलकः उभौ अपि निपेततुः ॥ २७ ॥
tarhi eva hi śalaḥ kṛṣṇa prapada-āhata-śīrṣakaḥ . dvidhā vidīrṇaḥ tośalakaḥ ubhau api nipetatuḥ .. 27 ..
चाणूरे मुष्टिके कूटे शले तोशलके हते । शेषाः प्रदुद्रुवुर्मल्लाः सर्वे प्राणपरीप्सवः ॥ २८ ॥
चाणूरे मुष्टिके कूटे शले तोशलके हते । शेषाः प्रदुद्रुवुः मल्लाः सर्वे प्राण-परीप्सवः ॥ २८ ॥
cāṇūre muṣṭike kūṭe śale tośalake hate . śeṣāḥ pradudruvuḥ mallāḥ sarve prāṇa-parīpsavaḥ .. 28 ..
गोपान् वयस्यान् आकृष्य तैः संसृज्य विजह्रतुः । वाद्यमानेषु तूर्येषु वल्गन्तौ रुतनूपुरौ ॥ २९ ॥
गोपान् वयस्यान् आकृष्य तैः संसृज्य विजह्रतुः । वाद्यमानेषु तूर्येषु वल्गन्तौ रुत-नूपुरौ ॥ २९ ॥
gopān vayasyān ākṛṣya taiḥ saṃsṛjya vijahratuḥ . vādyamāneṣu tūryeṣu valgantau ruta-nūpurau .. 29 ..
जनाः प्रजहृषुः सर्वे कर्मणा रामकृष्णयोः । ऋते कंसं विप्रमुख्याः साधवः साधु साध्विति ॥ ३० ॥
जनाः प्रजहृषुः सर्वे कर्मणा राम-कृष्णयोः । ऋते कंसम् विप्र-मुख्याः साधवः साधु साधु इति ॥ ३० ॥
janāḥ prajahṛṣuḥ sarve karmaṇā rāma-kṛṣṇayoḥ . ṛte kaṃsam vipra-mukhyāḥ sādhavaḥ sādhu sādhu iti .. 30 ..
हतेषु मल्लवर्येषु विद्रुतेषु च भोजराट् । न्यवारयत् स्वतूर्याणि वाक्यं चेदमुवाच ह ॥ ३१ ॥
हतेषु मल्ल-वर्येषु विद्रुतेषु च भोजराज् । न्यवारयत् स्व-तूर्याणि वाक्यम् च इदम् उवाच ह ॥ ३१ ॥
hateṣu malla-varyeṣu vidruteṣu ca bhojarāj . nyavārayat sva-tūryāṇi vākyam ca idam uvāca ha .. 31 ..
निःसारयत दुर्वृत्तौ वसुदेवात्मजौ पुरात् । धनं हरत गोपानां नन्दं बध्नीत दुर्मतिम् ॥ ३२ ॥
निःसारयत दुर्वृत्तौ वसुदेव-आत्मजौ पुरात् । धनम् हरत गोपानाम् नन्दम् बध्नीत दुर्मतिम् ॥ ३२ ॥
niḥsārayata durvṛttau vasudeva-ātmajau purāt . dhanam harata gopānām nandam badhnīta durmatim .. 32 ..
वसुदेवस्तु दुर्मेधा हन्यतामाश्वसत्तमः । उग्रसेनः पिता चापि सानुगः परपक्षगः ॥ ३३ ॥
वसुदेवः तु दुर्मेधाः हन्यताम् आश्व-सत्तमः । उग्रसेनः पिता च अपि स अनुगः पर-पक्ष-गः ॥ ३३ ॥
vasudevaḥ tu durmedhāḥ hanyatām āśva-sattamaḥ . ugrasenaḥ pitā ca api sa anugaḥ para-pakṣa-gaḥ .. 33 ..
एवं विकत्थमाने वै कंसे प्रकुपितोऽव्ययः । लघिम्नोत्पत्य तरसा मञ्चमुत्तुङ्गमारुहत् ॥ ३४ ॥
एवम् विकत्थमाने वै कंसे प्रकुपितः अव्ययः । लघिम्ना उत्पत्य तरसा मञ्चम् उत्तुङ्गम् आरुहत् ॥ ३४ ॥
evam vikatthamāne vai kaṃse prakupitaḥ avyayaḥ . laghimnā utpatya tarasā mañcam uttuṅgam āruhat .. 34 ..
तं आविशन्तमालोक्य मृत्युमात्मन आसनात् । मनस्वी सहसोत्थाय जगृहे सोऽसिचर्मणी ॥ ३५ ॥
तम् आविशन्तम् आलोक्य मृत्युम् आत्मनः आसनात् । मनस्वी सहसा उत्थाय जगृहे सः असि-चर्मणी ॥ ३५ ॥
tam āviśantam ālokya mṛtyum ātmanaḥ āsanāt . manasvī sahasā utthāya jagṛhe saḥ asi-carmaṇī .. 35 ..
( मिश्र )
तं खड्गपाणिं विचरन्तमाशु श्येनं यथा दक्षिणसव्यमम्बरे । समग्रहीद् दुर्विषहोग्रतेजा यथोरगं तार्क्ष्यसुतः प्रसह्य ॥ ३६ ॥
तम् खड्ग-पाणिम् विचरन्तम् आशु श्येनम् यथा दक्षिण-सव्यम् अम्बरे । समग्रहीत् दुर्विषहा उग्र-तेजाः यथा उरगम् तार्क्ष्यसुतः प्रसह्य ॥ ३६ ॥
tam khaḍga-pāṇim vicarantam āśu śyenam yathā dakṣiṇa-savyam ambare . samagrahīt durviṣahā ugra-tejāḥ yathā uragam tārkṣyasutaḥ prasahya .. 36 ..
प्रगृह्य केशेषु चलत्किरीतं निपात्य रङ्गोपरि तुङ्गमञ्चात् । तस्योपरिष्टात् स्वत्स्वयमब्जनाभः पपात विश्वाश्रय आत्मतन्त्रः ॥ ३७ ॥
प्रगृह्य केशेषु चलत्-किरीतम् निपात्य रङ्ग-उपरि तुङ्ग-मञ्चात् । तस्य उपरिष्टात् पपात विश्वाश्रयः आत्मतन्त्रः ॥ ३७ ॥
pragṛhya keśeṣu calat-kirītam nipātya raṅga-upari tuṅga-mañcāt . tasya upariṣṭāt papāta viśvāśrayaḥ ātmatantraḥ .. 37 ..
तं सम्परेतं विचकर्ष भूमौ हरिर्यथेभं जगतो विपश्यतः । हा हेति शब्दः सुमहान् तदाभूद् उदीरितः सर्वजनैर्नरेन्द्र ॥ ३८ ॥
तम् सम्परेतम् विचकर्ष भूमौ हरिः यथा इभम् जगतः विपश्यतः । हा हा इति शब्दः सु महान् तदा अभूत् उदीरितः सर्व-जनैः नरेन्द्र ॥ ३८ ॥
tam samparetam vicakarṣa bhūmau hariḥ yathā ibham jagataḥ vipaśyataḥ . hā hā iti śabdaḥ su mahān tadā abhūt udīritaḥ sarva-janaiḥ narendra .. 38 ..
स नित्यदोद्विग्नधिया तमीश्वरं पिबन् वदन् वा विचरन् स्वपन्श्वसन् । ददर्श चक्रायुधमग्रतो यतः तदेव रूपं दुरवापमाप ॥ ३९ ॥
स नित्यदा उद्विग्न-धिया तम् ईश्वरम् पिबन् वदन् वा विचरन् स्वपन् श्वसन् । ददर्श चक्र-आयुधम् अग्रतस् यतस् तत् एव रूपम् दुरवापम् आप ॥ ३९ ॥
sa nityadā udvigna-dhiyā tam īśvaram piban vadan vā vicaran svapan śvasan . dadarśa cakra-āyudham agratas yatas tat eva rūpam duravāpam āpa .. 39 ..
( अनुष्टुप् )
तस्यानुजा भ्रातरोऽष्टौ कंकन्यग्रोधकादयः । अभ्यधावन् अतिक्रुद्धा भ्रातुर्निर्वेशकारिणः ॥ ४० ॥
तस्य अनुजाः भ्रातरः अष्टौ कंक-न्यग्रोधक-आदयः । अभ्यधावन् अति क्रुद्धाः भ्रातुः निर्वेश-कारिणः ॥ ४० ॥
tasya anujāḥ bhrātaraḥ aṣṭau kaṃka-nyagrodhaka-ādayaḥ . abhyadhāvan ati kruddhāḥ bhrātuḥ nirveśa-kāriṇaḥ .. 40 ..
तथातिरभसांस्तांस्तु संयत्तात् रोहिणीसुतः । अहन् परिघमुद्यम्य पशूनिव मृगाधिपः ॥ ४१ ॥
तथा अति रभसान् तान् तु संयत्तात् रोहिणीसुतः । अहन् परिघम् उद्यम्य पशून् इव मृगाधिपः ॥ ४१ ॥
tathā ati rabhasān tān tu saṃyattāt rohiṇīsutaḥ . ahan parigham udyamya paśūn iva mṛgādhipaḥ .. 41 ..
नेदुर्दुन्दुभयो व्योम्नि ब्रह्मेशाद्या विभूतयः । पुष्पैः किरन्तस्तं प्रीताः शशंसुर्ननृतुः स्त्रियः ॥ ४२ ॥
नेदुः दुन्दुभयः व्योम्नि ब्रह्म-ईश-आद्याः विभूतयः । पुष्पैः किरन्तः तम् प्रीताः शशंसुः ननृतुः स्त्रियः ॥ ४२ ॥
neduḥ dundubhayaḥ vyomni brahma-īśa-ādyāḥ vibhūtayaḥ . puṣpaiḥ kirantaḥ tam prītāḥ śaśaṃsuḥ nanṛtuḥ striyaḥ .. 42 ..
तेषां स्त्रियो महाराज सुहृन्मरणदुःखिताः । तत्राभीयुर्विनिघ्नन्त्यः शीर्षाण्यश्रुविलोचनाः ॥ ४३ ॥
तेषाम् स्त्रियः महा-राज सुहृद्-मरण-दुःखिताः । तत्र अभीयुः विनिघ्नन्त्यः शीर्षाणि अश्रु-विलोचनाः ॥ ४३ ॥
teṣām striyaḥ mahā-rāja suhṛd-maraṇa-duḥkhitāḥ . tatra abhīyuḥ vinighnantyaḥ śīrṣāṇi aśru-vilocanāḥ .. 43 ..
शयानान् न्वीरशय्यायां पतीन् आलिङ्ग्य शोचतीः । विलेपुः सुस्वरं नार्यो विसृजन्त्यो मुहुः शुचः ॥ ४४ ॥
शयानान् नु ईर-शय्यायाम् पतीन् आलिङ्ग्य शोचतीः । विलेपुः सुस्वरम् नार्यः विसृजन्त्यः मुहुर् शुचः ॥ ४४ ॥
śayānān nu īra-śayyāyām patīn āliṅgya śocatīḥ . vilepuḥ susvaram nāryaḥ visṛjantyaḥ muhur śucaḥ .. 44 ..
हा नाथ प्रिय धर्मज्ञ करुणानाथवत्सल । त्वया हतेन निहता वयं ते सगृहप्रजाः ॥ ४५ ॥
हा नाथ प्रिय धर्म-ज्ञ करुणा-नाथ-वत्सल । त्वया हतेन निहताः वयम् ते स गृह-प्रजाः ॥ ४५ ॥
hā nātha priya dharma-jña karuṇā-nātha-vatsala . tvayā hatena nihatāḥ vayam te sa gṛha-prajāḥ .. 45 ..
त्वया विरहिता पत्या पुरीयं पुरुषर्षभ । न शोभते वयमिव निवृत्तोत्सवमङ्गला ॥ ४६ ॥
त्वया विरहिता पत्या पुरी इयम् पुरुष-ऋषभ । न शोभते वयम् इव निवृत्त-उत्सव-मङ्गला ॥ ४६ ॥
tvayā virahitā patyā purī iyam puruṣa-ṛṣabha . na śobhate vayam iva nivṛtta-utsava-maṅgalā .. 46 ..
अनागसां त्वं भूतानां कृतवान् द्रोहमुल्बणम् । तेनेमां भो दशां नीतो भूतध्रुक् को लभेत शम् ॥ ४७ ॥
अनागसाम् त्वम् भूतानाम् कृतवान् द्रोहम् उल्बणम् । तेन इमाम् भो दशाम् नीतः कः लभेत शम् ॥ ४७ ॥
anāgasām tvam bhūtānām kṛtavān droham ulbaṇam . tena imām bho daśām nītaḥ kaḥ labheta śam .. 47 ..
सर्वेषामिह भूतानां एष हि प्रभवाप्ययः । गोप्ता च तदवध्यायी न क्वचित् सुखमेधते ॥ ४८ ॥
सर्वेषाम् इह भूतानाम् एष हि प्रभव-अप्ययः । गोप्ता च तद्-अवध्यायी न क्वचिद् सुखम् एधते ॥ ४८ ॥
sarveṣām iha bhūtānām eṣa hi prabhava-apyayaḥ . goptā ca tad-avadhyāyī na kvacid sukham edhate .. 48 ..
श्रीशुक उवाच -
राजयोषित आश्वास्य भगवान् लोकभावनः । यामाहुर्लौकिकीं संस्थां हतानां समकारयत् ॥ ४९ ॥
राज-योषितः आश्वास्य भगवान् लोक-भावनः । याम् आहुः लौकिकीम् संस्थाम् हतानाम् समकारयत् ॥ ४९ ॥
rāja-yoṣitaḥ āśvāsya bhagavān loka-bhāvanaḥ . yām āhuḥ laukikīm saṃsthām hatānām samakārayat .. 49 ..
मातरं पितरं चैव मोचयित्वाथ बन्धनात् । कृष्णरामौ ववन्दाते शिरसा स्पृश्य पादयोः ॥ ५० ॥
मातरम् पितरम् च एव मोचयित्वा अथ बन्धनात् । कृष्ण-रामौ ववन्दाते शिरसा स्पृश्य पादयोः ॥ ५० ॥
mātaram pitaram ca eva mocayitvā atha bandhanāt . kṛṣṇa-rāmau vavandāte śirasā spṛśya pādayoḥ .. 50 ..
देवकी वसुदेवश्च विज्ञाय जगदीश्वरौ । कृतसंवन्दनौ पुत्रौ सस्वजाते न शङ्कितौ ॥ ५१ ॥
देवकी वसुदेवः च विज्ञाय जगत्-ईश्वरौ । कृत-संवन्दनौ पुत्रौ न शङ्कितौ ॥ ५१ ॥
devakī vasudevaḥ ca vijñāya jagat-īśvarau . kṛta-saṃvandanau putrau na śaṅkitau .. 51 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे कंसवधो नाम चतुर्चत्वारिंशोऽध्यायः ॥ ४४ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् दशम-स्कन्धे पूर्व-अर्धे कंसवधः नाम चतुर्चत्वारिंशः अध्यायः ॥ ४४ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām daśama-skandhe pūrva-ardhe kaṃsavadhaḥ nāma caturcatvāriṃśaḥ adhyāyaḥ .. 44 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In