| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच।
पितरावुपलब्धार्थौ विदित्वा पुरुषोत्तमः। मा भूदिति निजां मायां ततान जनमोहिनीम् १।
पितरौ उपलब्ध-अर्थौ विदित्वा पुरुषोत्तमः। मा भूत् इति निजाम् मायाम् ततान जन-मोहिनीम्।
pitarau upalabdha-arthau viditvā puruṣottamaḥ. mā bhūt iti nijām māyām tatāna jana-mohinīm.
उवाच पितरावेत्य साग्रजः सात्वर्षभः। प्रश्रयावनतः प्रीणन्नम्ब तातेति सादरम् २।
उवाच पितरा अवेत्य स अग्रजः सात्वा ऋषभः। प्रश्रय-अवनतः प्रीणन् अम्ब तात इति सादरम्।
uvāca pitarā avetya sa agrajaḥ sātvā ṛṣabhaḥ. praśraya-avanataḥ prīṇan amba tāta iti sādaram.
नास्मत्तो युवयोस्तात नित्योत्कण्ठितयोरपि। बाल्यपौगण्डकैशोराः पुत्राभ्यामभवन्क्वचित् ३।
न अस्मत्तः युवयोः तात नित्य-उत्कण्ठितयोः अपि। बाल्य-पौगण्ड-कैशोराः पुत्राभ्याम् अभवन् क्वचिद्।
na asmattaḥ yuvayoḥ tāta nitya-utkaṇṭhitayoḥ api. bālya-paugaṇḍa-kaiśorāḥ putrābhyām abhavan kvacid.
न लब्धो दैवहतयोर्वासो नौ भवदन्तिके। यां बालाः पितृगेहस्था विन्दन्ते लालिता मुदम् ४।
न लब्धः दैव-हतयोः वासः नौ भवत्-अन्तिके। याम् बालाः पितृ-गेह-स्थाः विन्दन्ते लालिताः मुदम्।
na labdhaḥ daiva-hatayoḥ vāsaḥ nau bhavat-antike. yām bālāḥ pitṛ-geha-sthāḥ vindante lālitāḥ mudam.
सर्वार्थसम्भवो देहो जनितः पोषितो यतः। न तयोर्याति निर्वेशं पित्रोर्मर्त्यः शतायुषा ५।
सर्व-अर्थ-सम्भवः देहः जनितः पोषितः यतस्। न तयोः याति निर्वेशम् पित्रोः मर्त्यः शत-आयुषा।
sarva-artha-sambhavaḥ dehaḥ janitaḥ poṣitaḥ yatas. na tayoḥ yāti nirveśam pitroḥ martyaḥ śata-āyuṣā.
यस्तयोरात्मजः कल्प आत्मना च धनेन च। वृत्तिं न दद्यात्तं प्रेत्य स्वमांसं खादयन्ति हि ६।
यः तयोः आत्मजः कल्पः आत्मना च धनेन च। वृत्तिम् न दद्यात् तम् प्रेत्य स्व-मांसम् खादयन्ति हि।
yaḥ tayoḥ ātmajaḥ kalpaḥ ātmanā ca dhanena ca. vṛttim na dadyāt tam pretya sva-māṃsam khādayanti hi.
मातरं पितरं वृद्धं भार्यां साध्वीं सुतं शिशुम्। गुरुं विप्रं प्रपन्नं च कल्पोऽबिभ्रच्छ्वसन्मृतः ७।
मातरम् पितरम् वृद्धम् भार्याम् साध्वीम् सुतम् शिशुम्। गुरुम् विप्रम् प्रपन्नम् च कल्पः अबिभ्रत् श्वसत्-मृतः।
mātaram pitaram vṛddham bhāryām sādhvīm sutam śiśum. gurum vipram prapannam ca kalpaḥ abibhrat śvasat-mṛtaḥ.
तन्नावकल्पयोः कंसान्नित्यमुद्विग्नचेतसोः। मोघमेते व्यतिक्रान्ता दिवसा वामनर्चतोः ८।
तत् नौ अकल्पयोः कंसात् नित्यम् उद्विग्न-चेतसोः। मोघम् एते व्यतिक्रान्ताः दिवसाः वामन-अर्चतोः।
tat nau akalpayoḥ kaṃsāt nityam udvigna-cetasoḥ. mogham ete vyatikrāntāḥ divasāḥ vāmana-arcatoḥ.
तत्क्षन्तुमर्हथस्तात मातर्नौ परतन्त्रयोः। अकुर्वतोर्वां शुश्रूषां क्लिष्टयोर्दुर्हृदा भृशम् ९।
तत् क्षन्तुम् अर्हथः तात मातर् नौ परतन्त्रयोः। अ कुर्वतोः वाम् शुश्रूषाम् क्लिष्टयोः दुर्हृदा भृशम्।
tat kṣantum arhathaḥ tāta mātar nau paratantrayoḥ. a kurvatoḥ vām śuśrūṣām kliṣṭayoḥ durhṛdā bhṛśam.
श्रीशुक उवाच।
इति मायामनुष्यस्य हरेर्विश्वात्मनो गिरा। मोहितावङ्कमारोप्य परिष्वज्यापतुर्मुदम् १०।
इति माया-मनुष्यस्य हरेः विश्वात्मनः गिरा। मोहितौ अङ्कम् आरोप्य परिष्वज्य आपतुः मुदम्।
iti māyā-manuṣyasya hareḥ viśvātmanaḥ girā. mohitau aṅkam āropya pariṣvajya āpatuḥ mudam.
सिञ्चन्तावश्रुधाराभिः स्नेहपाशेन चावृतौ। न किञ्चिदूचतू राजन्बाष्पकण्ठौ विमोहितौ ११।
सिञ्चन्तौ अश्रु-धाराभिः स्नेह-पाशेन च आवृतौ। न किञ्चिद् ऊचतुः राजन् बाष्प-कण्ठौ विमोहितौ।
siñcantau aśru-dhārābhiḥ sneha-pāśena ca āvṛtau. na kiñcid ūcatuḥ rājan bāṣpa-kaṇṭhau vimohitau.
एवमाश्वास्य पितरौ भगवान्देवकीसुतः। मातामहं तूग्रसेनं यदूनामकरोन्नृपम् १२।
एवम् आश्वास्य पितरौ भगवान् देवकी-सुतः। मातामहम् तु उग्रसेनम् यदूनाम् अकरोत् नृपम्।
evam āśvāsya pitarau bhagavān devakī-sutaḥ. mātāmaham tu ugrasenam yadūnām akarot nṛpam.
आह चास्मान्महाराज प्रजाश्चाज्ञप्तुमर्हसि। ययातिशापाद्यदुभिर्नासितव्यं नृपासने १३।
आह च अस्मान् महा-राज प्रजाः च आज्ञप्तुम् अर्हसि। ययाति-शापात् यदुभिः न आसितव्यम् नृप-आसने।
āha ca asmān mahā-rāja prajāḥ ca ājñaptum arhasi. yayāti-śāpāt yadubhiḥ na āsitavyam nṛpa-āsane.
मयि भृत्य उपासीने भवतो विबुधादयः। बलिं हरन्त्यवनताः किमुतान्ये नराधिपाः १४।
मयि भृत्ये उपासीने भवतः विबुध-आदयः। बलिम् हरन्ति अवनताः किम् उत अन्ये नराधिपाः।
mayi bhṛtye upāsīne bhavataḥ vibudha-ādayaḥ. balim haranti avanatāḥ kim uta anye narādhipāḥ.
सर्वान्स्वान्ज्ञातिसम्बन्धान्दिग्भ्यः कंसभयाकुलान्। यदुवृष्ण्यन्धकमधु दाशार्हकुकुरादिकान् १५।
सर्वान् स्वान् ज्ञाति-सम्बन्धान् दिग्भ्यः कंस-भय-आकुलान्। यदु-वृष्णि-अन्धक-मधु दाशार्ह-कुकुर-आदिकान्।
sarvān svān jñāti-sambandhān digbhyaḥ kaṃsa-bhaya-ākulān. yadu-vṛṣṇi-andhaka-madhu dāśārha-kukura-ādikān.
सभाजितान्समाश्वास्य विदेशावासकर्शितान्। न्यवासयत्स्वगेहेषु वित्तैः सन्तर्प्य विश्वकृत् १६।
सभाजितान् समाश्वास्य विदेश-आवास-कर्शितान्। न्यवासयत् स्व-गेहेषु वित्तैः सन्तर्प्य विश्वकृत्।
sabhājitān samāśvāsya videśa-āvāsa-karśitān. nyavāsayat sva-geheṣu vittaiḥ santarpya viśvakṛt.
कृष्णसङ्कर्षणभुजैर्गुप्ता लब्धमनोरथाः। गृहेषु रेमिरे सिद्धाः कृष्णरामगतज्वराः १७।
कृष्ण-सङ्कर्षण-भुजैः गुप्ताः लब्ध-मनोरथाः। गृहेषु रेमिरे सिद्धाः कृष्ण-राम-गत-ज्वराः।
kṛṣṇa-saṅkarṣaṇa-bhujaiḥ guptāḥ labdha-manorathāḥ. gṛheṣu remire siddhāḥ kṛṣṇa-rāma-gata-jvarāḥ.
वीक्षन्तोऽहरहः प्रीता मुकुन्दवदनाम्बुजम्। नित्यं प्रमुदितं श्रीमत्सदयस्मितवीक्षणम् १८।
वीक्षन्तः अहरहर् प्रीताः मुकुन्द-वदन-अम्बुजम्। नित्यम् प्रमुदितम् श्रीमत्-स दया-स्मित-वीक्षणम्।
vīkṣantaḥ aharahar prītāḥ mukunda-vadana-ambujam. nityam pramuditam śrīmat-sa dayā-smita-vīkṣaṇam.
तत्र प्रवयसोऽप्यासन्युवानोऽतिबलौजसः। पिबन्तोऽक्षैर्मुकुन्दस्य मुखाम्बुजसुधां मुहुः १९।
तत्र प्रवयसः अपि आसन् युवानः अति बल-ओजसः। पिबन्तः अक्षैः मुकुन्दस्य मुख-अम्बुज-सुधाम् मुहुर्।
tatra pravayasaḥ api āsan yuvānaḥ ati bala-ojasaḥ. pibantaḥ akṣaiḥ mukundasya mukha-ambuja-sudhām muhur.
अथ नन्दं समसाद्य भगवान्देवकीसुतः। सङ्कर्षणश्च राजेन्द्र परिष्वज्येदमूचतुः २०।
अथ नन्दम् समसाद्य भगवान् देवकी-सुतः। सङ्कर्षणः च राज-इन्द्र परिष्वज्य इदम् ऊचतुः।
atha nandam samasādya bhagavān devakī-sutaḥ. saṅkarṣaṇaḥ ca rāja-indra pariṣvajya idam ūcatuḥ.
पितर्युवाभ्यां स्निग्धाभ्यां पोषितौ लालितौ भृशम्। पित्रोरभ्यधिका प्रीतिरात्मजेष्वात्मनोऽपि हि २१।
पितरि उवाभ्याम् स्निग्धाभ्याम् पोषितौ लालितौ भृशम्। पित्रोः अभ्यधिका प्रीतिः आत्मजेषु आत्मनः अपि हि।
pitari uvābhyām snigdhābhyām poṣitau lālitau bhṛśam. pitroḥ abhyadhikā prītiḥ ātmajeṣu ātmanaḥ api hi.
स पिता सा च जननी यौ पुष्णीतां स्वपुत्रवत्। शिशून्बन्धुभिरुत्सृष्टानकल्पैः पोषरक्षणे २२।
स पिता सा च जननी यौ पुष्णीताम् स्व-पुत्र-वत्। शिशून् बन्धुभिः उत्सृष्टान् अकल्पैः पोष-रक्षणे।
sa pitā sā ca jananī yau puṣṇītām sva-putra-vat. śiśūn bandhubhiḥ utsṛṣṭān akalpaiḥ poṣa-rakṣaṇe.
यात यूयं व्रजं तात वयं च स्नेहदुःखितान्। ज्ञातीन्वो द्रष्टुमेष्यामो विधाय सुहृदां सुखम् २३।
यात यूयम् व्रजम् तात वयम् च स्नेह-दुःखितान्। ज्ञातीन् वः द्रष्टुम् एष्यामः विधाय सुहृदाम् सुखम्।
yāta yūyam vrajam tāta vayam ca sneha-duḥkhitān. jñātīn vaḥ draṣṭum eṣyāmaḥ vidhāya suhṛdām sukham.
एवं सान्त्वय्य भगवान्नन्दं सव्रजमच्युतः। वासोऽलङ्कारकुप्याद्यैरर्हयामास सादरम् २४।
एवम् सान्त्वय्य भगवान् नन्दम् स व्रजम् अच्युतः। वासः-अलङ्कार-कुप्य-आद्यैः अर्हयामास स आदरम्।
evam sāntvayya bhagavān nandam sa vrajam acyutaḥ. vāsaḥ-alaṅkāra-kupya-ādyaiḥ arhayāmāsa sa ādaram.
इत्युक्तस्तौ परिष्वज्य नन्दः प्रणयविह्वलः। पूरयन्नश्रुभिर्नेत्रे सह गोपैर्व्रजं ययौ २५।
इति उक्तः तौ परिष्वज्य नन्दः प्रणय-विह्वलः। पूरयन् अश्रुभिः नेत्रे सह गोपैः व्रजम् ययौ।
iti uktaḥ tau pariṣvajya nandaḥ praṇaya-vihvalaḥ. pūrayan aśrubhiḥ netre saha gopaiḥ vrajam yayau.
अथ शूरसुतो राजन्पुत्रयोः समकारयत्। पुरोधसा ब्राह्मणैश्च यथावद्द्विजसंस्कृतिम् २६।
अथ शूर-सुतः राजन् पुत्रयोः समकारयत्। पुरोधसा ब्राह्मणैः च यथावत् द्विज-संस्कृतिम्।
atha śūra-sutaḥ rājan putrayoḥ samakārayat. purodhasā brāhmaṇaiḥ ca yathāvat dvija-saṃskṛtim.
तेभ्योऽदाद्दक्षिणा गावो रुक्ममालाः स्वलङ्कृताः। स्वलङ्कृतेभ्यः सम्पूज्य सवत्साः क्षौममालिनीः २७।
तेभ्यः अदात् दक्षिणाः गावः रुक्म-मालाः सु अलङ्कृताः। सु अलङ्कृतेभ्यः सम्पूज्य स वत्साः क्षौम-मालिनीः।
tebhyaḥ adāt dakṣiṇāḥ gāvaḥ rukma-mālāḥ su alaṅkṛtāḥ. su alaṅkṛtebhyaḥ sampūjya sa vatsāḥ kṣauma-mālinīḥ.
याः कृष्णरामजन्मर्क्षे मनोदत्ता महामतिः। ताश्चाददादनुस्मृत्य कंसेनाधर्मतो हृताः २८।
याः कृष्ण-राम-जन्म-ऋक्षे मनः-दत्ताः महामतिः। ताः च अददात् अनुस्मृत्य कंसेन अधर्मतः हृताः।
yāḥ kṛṣṇa-rāma-janma-ṛkṣe manaḥ-dattāḥ mahāmatiḥ. tāḥ ca adadāt anusmṛtya kaṃsena adharmataḥ hṛtāḥ.
ततश्च लब्धसंस्कारौ द्विजत्वं प्राप्य सुव्रतौ। गर्गाद्यदुकुलाचार्याद्गायत्रं व्रतमास्थितौ २९।
ततस् च लब्ध-संस्कारौ द्विज-त्वम् प्राप्य सुव्रतौ। गर्गात् यदु-कुल-आचार्यात् गायत्रम् व्रतम् आस्थितौ।
tatas ca labdha-saṃskārau dvija-tvam prāpya suvratau. gargāt yadu-kula-ācāryāt gāyatram vratam āsthitau.
प्रभवौ सर्वविद्यानां सर्वज्ञौ जगदीश्वरौ। नान्यसिद्धामलं ज्ञानं गूहमानौ नरेहितैः ३०।
प्रभवौ सर्व-विद्यानाम् सर्वज्ञौ जगत्-ईश्वरौ। न अन्य-सिद्ध-अमलम् ज्ञानम् गूहमानौ नर-ईहितैः।
prabhavau sarva-vidyānām sarvajñau jagat-īśvarau. na anya-siddha-amalam jñānam gūhamānau nara-īhitaiḥ.
अथो गुरुकुले वासमिच्छन्तावुपजग्मतुः। काश्यं सान्दीपनिं नाम ह्यवन्तिपुरवासिनम् ३१।
अथो गुरु-कुले वासम् इच्छन्तौ उपजग्मतुः। काश्यम् सान्दीपनिम् नाम हि अवन्ति-पुर-वासिनम्।
atho guru-kule vāsam icchantau upajagmatuḥ. kāśyam sāndīpanim nāma hi avanti-pura-vāsinam.
यथोपसाद्य तौ दान्तौ गुरौ वृत्तिमनिन्दिताम्। ग्राहयन्तावुपेतौ स्म भक्त्या देवमिवादृतौ ३२।
यथा उपसाद्य तौ दान्तौ गुरौ वृत्तिम् अनिन्दिताम्। ग्राहयन्तौ उपेतौ स्म भक्त्या देवम् इव आदृतौ।
yathā upasādya tau dāntau gurau vṛttim aninditām. grāhayantau upetau sma bhaktyā devam iva ādṛtau.
तयोर्द्विजवरस्तुष्टः शुद्धभावानुवृत्तिभिः। प्रोवाच वेदानखिलान् साङ्गोपनिषदो गुरुः ३३।
तयोः द्विजवरः तुष्टः शुद्ध-भाव-अनुवृत्तिभिः। प्रोवाच वेदान् अखिलान् स अङ्ग-उपनिषदः गुरुः।
tayoḥ dvijavaraḥ tuṣṭaḥ śuddha-bhāva-anuvṛttibhiḥ. provāca vedān akhilān sa aṅga-upaniṣadaḥ guruḥ.
सरहस्यं धनुर्वेदं धर्मान्न्यायपथांस्तथा। तथा चान्वीक्षिकीं विद्यां राजनीतिं च षड्विधाम् ३४।
स रहस्यम् धनुर्वेदम् धर्मान् न्याय-पथान् तथा। तथा च आन्वीक्षिकीम् विद्याम् राज-नीतिम् च षड्विधाम्।
sa rahasyam dhanurvedam dharmān nyāya-pathān tathā. tathā ca ānvīkṣikīm vidyām rāja-nītim ca ṣaḍvidhām.
सर्वं नरवरश्रेष्ठौ सर्वविद्याप्रवर्तकौ। सकृन्निगदमात्रेण तौ सञ्जगृहतुर्नृप ३५।
सर्वम् नर-वर-श्रेष्ठौ सर्व-विद्या-प्रवर्तकौ। सकृत् निगद-मात्रेण तौ सञ्जगृहतुः नृप।
sarvam nara-vara-śreṣṭhau sarva-vidyā-pravartakau. sakṛt nigada-mātreṇa tau sañjagṛhatuḥ nṛpa.
अहोरात्रैश्चतुःषष्ट्या संयत्तौ तावतीः कलाः*। गुरुदक्षिणयाचार्यं छन्दयामासतुर्नृप ३६।
अहोरात्रैः चतुःषष्ट्या संयत्तौ तावतीः कलाः। गुरु-दक्षिणया आचार्यम् छन्दयामासतुः नृप।
ahorātraiḥ catuḥṣaṣṭyā saṃyattau tāvatīḥ kalāḥ. guru-dakṣiṇayā ācāryam chandayāmāsatuḥ nṛpa.
द्विजस्तयोस्तं महिमानमद्भुतं संलक्ष्य राजन्नतिमानुषीं मतिम्। सम्मन्त्र्य पत्न्या स महार्णवे मृतं बालं प्रभासे वरयां बभूव ह ३७।
द्विजः तयोः तम् महिमानम् अद्भुतम् संलक्ष्य राजन् अतिमानुषीम् मतिम्। सम्मन्त्र्य पत्न्या स महा-अर्णवे मृतम् बालम् प्रभासे बभूव ह।
dvijaḥ tayoḥ tam mahimānam adbhutam saṃlakṣya rājan atimānuṣīm matim. sammantrya patnyā sa mahā-arṇave mṛtam bālam prabhāse babhūva ha.
तथेत्यथारुह्य महारथौ रथं प्रभासमासाद्य दुरन्तविक्रमौ। वेलामुपव्रज्य निषीदतुः क्षणं सिन्धुर्विदित्वार्हणमाहरत्तयोः ३८।
तथा इति अथ आरुह्य महा-रथौ रथम् प्रभासम् आसाद्य दुरन्त-विक्रमौ। वेलाम् उपव्रज्य निषीदतुः क्षणम् सिन्धुः विदित्वा अर्हणम् आहरत् तयोः।
tathā iti atha āruhya mahā-rathau ratham prabhāsam āsādya duranta-vikramau. velām upavrajya niṣīdatuḥ kṣaṇam sindhuḥ viditvā arhaṇam āharat tayoḥ.
तमाह भगवानाशु गुरुपुत्रः प्रदीयताम्। योऽसाविह त्वया ग्रस्तो बालको महतोर्मिणा ३९।
तम् आह भगवान् आशु गुरु-पुत्रः प्रदीयताम्। यः असौ इह त्वया ग्रस्तः बालकः महता ऊर्मिणा।
tam āha bhagavān āśu guru-putraḥ pradīyatām. yaḥ asau iha tvayā grastaḥ bālakaḥ mahatā ūrmiṇā.
श्रीसमुद्र उवाच।
न चाहार्षमहं देव दैत्यः पञ्चजनो महान्। अन्तर्जलचरः कृष्ण शङ्खरूपधरोऽसुरः ४०।
न च अहार्षम् अहम् देव दैत्यः पञ्चजनः महान्। अन्तर् जलचरः कृष्ण शङ्ख-रूप-धरः असुरः।
na ca ahārṣam aham deva daityaḥ pañcajanaḥ mahān. antar jalacaraḥ kṛṣṇa śaṅkha-rūpa-dharaḥ asuraḥ.
आस्ते तेनाहृतो नूनं तच्छ्रुत्वा सत्वरं प्रभुः। जलमाविश्य तं हत्वा नापश्यदुदरेऽर्भकम् ४१।
आस्ते तेन आहृतः नूनम् तत् श्रुत्वा स त्वरम् प्रभुः। जलम् आविश्य तम् हत्वा न अपश्यत् उदरे अर्भकम्।
āste tena āhṛtaḥ nūnam tat śrutvā sa tvaram prabhuḥ. jalam āviśya tam hatvā na apaśyat udare arbhakam.
तदङ्गप्रभवं शङ्खमादाय रथमागमत्। ततः संयमनीं नाम यमस्य दयितां पुरीम् ४२।
तद्-अङ्ग-प्रभवम् शङ्खम् आदाय रथम् आगमत्। ततस् संयमनीम् नाम यमस्य दयिताम् पुरीम्।
tad-aṅga-prabhavam śaṅkham ādāya ratham āgamat. tatas saṃyamanīm nāma yamasya dayitām purīm.
गत्वा जनार्दनः शङ्खं प्रदध्मौ सहलायुधः। शङ्खनिर्ह्रादमाकर्ण्य प्रजासंयमनो यमः ४३।
गत्वा जनार्दनः शङ्खम् प्रदध्मौ सहल-आयुधः। शङ्ख-निर्ह्रादम् आकर्ण्य प्रजा-संयमनः यमः।
gatvā janārdanaḥ śaṅkham pradadhmau sahala-āyudhaḥ. śaṅkha-nirhrādam ākarṇya prajā-saṃyamanaḥ yamaḥ.
तयोः सपर्यां महतीं चक्रे भक्त्युपबृंहिताम्। उवाचावनतः कृष्णं सर्वभूताशयालयम् । लीलामनुष्ययोर्विष्णो युवयोः करवाम किम् ४४।
तयोः सपर्याम् महतीम् चक्रे भक्ति-उपबृंहिताम्। उवाच अवनतः कृष्णम् सर्व-भूत-आशय-आलयम् । लीला-मनुष्ययोः विष्णो युवयोः करवाम किम्।
tayoḥ saparyām mahatīm cakre bhakti-upabṛṃhitām. uvāca avanataḥ kṛṣṇam sarva-bhūta-āśaya-ālayam . līlā-manuṣyayoḥ viṣṇo yuvayoḥ karavāma kim.
श्रीभगवानुवाच।
गुरुपुत्रमिहानीतं निजकर्मनिबन्धनम्। आनयस्व महाराज मच्छासनपुरस्कृतः ४५।
गुरु-पुत्रम् इह आनीतम् निज-कर्म-निबन्धनम्। आनयस्व महा-राज मद्-शासन-पुरस्कृतः।
guru-putram iha ānītam nija-karma-nibandhanam. ānayasva mahā-rāja mad-śāsana-puraskṛtaḥ.
तथेति तेनोपानीतं गुरुपुत्रं यदूत्तमौ। दत्त्वा स्वगुरवे भूयो वृणीष्वेति तमूचतुः ४६।
तथा इति तेन उपानीतम् गुरु-पुत्रम् यदु-उत्तमौ। दत्त्वा स्व-गुरवे भूयः वृणीष्व इति तम् ऊचतुः।
tathā iti tena upānītam guru-putram yadu-uttamau. dattvā sva-gurave bhūyaḥ vṛṇīṣva iti tam ūcatuḥ.
श्रीगुरुरुवाच।
सम्यक्सम्पादितो वत्स भवद्भ्यां गुरुनिष्क्रयः। को नु युष्मद्विधगुरोः कामानामवशिष्यते ४७।
सम्यक् सम्पादितः वत्स भवद्भ्याम् गुरु-निष्क्रयः। कः नु युष्मद्विध-गुरोः कामानाम् अवशिष्यते।
samyak sampāditaḥ vatsa bhavadbhyām guru-niṣkrayaḥ. kaḥ nu yuṣmadvidha-guroḥ kāmānām avaśiṣyate.
गच्छतं स्वगृहं वीरौ कीर्तिर्वामस्तु पावनी। छन्दांस्ययातयामानि भवन्त्विह परत्र च ४८।
गच्छतम् स्व-गृहम् वीरौ कीर्तिः वाम् अस्तु पावनी। छन्दांसि अयातयामानि भवन्तु इह परत्र च।
gacchatam sva-gṛham vīrau kīrtiḥ vām astu pāvanī. chandāṃsi ayātayāmāni bhavantu iha paratra ca.
गुरुणैवमनुज्ञातौ रथेनानिलरंहसा। आयातौ स्वपुरं तात पर्जन्यनिनदेन वै ४९।
गुरुणा एवम् अनुज्ञातौ रथेन अनिल-रंहसा। आयातौ स्व-पुरम् तात पर्जन्य-निनदेन वै।
guruṇā evam anujñātau rathena anila-raṃhasā. āyātau sva-puram tāta parjanya-ninadena vai.
समनन्दन्प्रजाः सर्वा दृष्ट्वा रामजनार्दनौ। अपश्यन्त्यो बह्वहानि नष्टलब्धधना इव ५०।
समनन्दन् प्रजाः सर्वाः दृष्ट्वा राम-जनार्दनौ। अ पश्यन्त्यः बहु-अहानि नष्ट-लब्ध-धनाः इव।
samanandan prajāḥ sarvāḥ dṛṣṭvā rāma-janārdanau. a paśyantyaḥ bahu-ahāni naṣṭa-labdha-dhanāḥ iva.
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे गुरुपुत्रानयनं नाम पञ्चचत्वारिंशोऽध्यायः।
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् दशम-स्कन्धे पूर्व-अर्धे गुरुपुत्रानयनम् नाम पञ्चचत्वारिंशः अध्यायः।
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām daśama-skandhe pūrva-ardhe guruputrānayanam nāma pañcacatvāriṃśaḥ adhyāyaḥ.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In