| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच।
वृष्णीनां प्रवरो मन्त्री कृष्णस्य दयितः सखा। शिष्यो बृहस्पतेः साक्षादुद्धवो बुद्धिसत्तमः १।
वृष्णीनाम् प्रवरः मन्त्री कृष्णस्य दयितः सखा। शिष्यः बृहस्पतेः साक्षात् उद्धवः बुद्धि-सत्तमः।
vṛṣṇīnām pravaraḥ mantrī kṛṣṇasya dayitaḥ sakhā. śiṣyaḥ bṛhaspateḥ sākṣāt uddhavaḥ buddhi-sattamaḥ.
तमाह भगवान्प्रेष्ठं भक्तमेकान्तिनं क्वचित्। गृहीत्वा पाणिना पाणिं प्रपन्नार्तिहरो हरिः २।
तम् आह भगवान् प्रेष्ठम् भक्तम् एकान्तिनम् क्वचिद्। गृहीत्वा पाणिना पाणिम् प्रपन्न-आर्ति-हरः हरिः।
tam āha bhagavān preṣṭham bhaktam ekāntinam kvacid. gṛhītvā pāṇinā pāṇim prapanna-ārti-haraḥ hariḥ.
गच्छोद्धव व्रजं सौम्य पित्रोर्नौ प्रीतिमावह। गोपीनां मद्वियोगाधिं मत्सन्देशैर्विमोचय ३।
गच्छ उद्धव व्रजम् सौम्य पित्रोः नौ प्रीतिम् आवह। गोपीनाम् मद्-वियोग-आधिम् मद्-सन्देशैः विमोचय।
gaccha uddhava vrajam saumya pitroḥ nau prītim āvaha. gopīnām mad-viyoga-ādhim mad-sandeśaiḥ vimocaya.
ता मन्मनस्का मत्प्राणा मदर्थे त्यक्तदैहिकाः। मामेव दयितं प्रेष्ठमात्मानं मनसा गताः । ये त्यक्तलोकधर्माश्च मदर्थे तान्बिभर्म्यहम् ४।
ताः मद्-मनस्काः मद्-प्राणाः मद्-अर्थे त्यक्त-दैहिकाः। माम् एव दयितम् प्रेष्ठम् आत्मानम् मनसा गताः । ये त्यक्त-लोक-धर्माः च मद्-अर्थे तान् बिभर्मि अहम्।
tāḥ mad-manaskāḥ mad-prāṇāḥ mad-arthe tyakta-daihikāḥ. mām eva dayitam preṣṭham ātmānam manasā gatāḥ . ye tyakta-loka-dharmāḥ ca mad-arthe tān bibharmi aham.
मयि ताः प्रेयसां प्रेष्ठे दूरस्थे गोकुलस्त्रियः। स्मरन्त्योऽङ्ग विमुह्यन्ति विरहौत्कण्ठ्यविह्वलाः ५।
मयि ताः प्रेयसाम् प्रेष्ठे दूर-स्थे गोकुल-स्त्रियः। स्मरन्त्यः अङ्ग विमुह्यन्ति विरह-औत्कण्ठ्य-विह्वलाः।
mayi tāḥ preyasām preṣṭhe dūra-sthe gokula-striyaḥ. smarantyaḥ aṅga vimuhyanti viraha-autkaṇṭhya-vihvalāḥ.
धारयन्त्यतिकृच्छ्रेण प्रायः प्राणान्कथञ्चन। प्रत्यागमनसन्देशैर्बल्लव्यो मे मदात्मिकाः ६।
धारयन्ति अतिकृच्छ्रेण प्रायस् प्राणान् कथञ्चन। प्रत्यागमन-सन्देशैः बल्लव्यः मे मद्-आत्मिकाः।
dhārayanti atikṛcchreṇa prāyas prāṇān kathañcana. pratyāgamana-sandeśaiḥ ballavyaḥ me mad-ātmikāḥ.
श्रीशुक उवाच।
इत्युक्त उद्धवो राजन्सन्देशं भर्तुरादृतः। आदाय रथमारुह्य प्रययौ नन्दगोकुलम् ७।
इति उक्तः उद्धवः राजन् सन्देशम् भर्तुः आदृतः। आदाय रथम् आरुह्य प्रययौ नन्द-गोकुलम्।
iti uktaḥ uddhavaḥ rājan sandeśam bhartuḥ ādṛtaḥ. ādāya ratham āruhya prayayau nanda-gokulam.
प्राप्तो नन्दव्रजं श्रीमान्निम्लोचति विभावसौ। छन्नयानः प्रविशतां पशूनां खुररेणुभिः ८।
प्राप्तः नन्द-व्रजम् श्रीमान् निम्लोचति विभावसौ। छन्न-यानः प्रविशताम् पशूनाम् खुर-रेणुभिः।
prāptaḥ nanda-vrajam śrīmān nimlocati vibhāvasau. channa-yānaḥ praviśatām paśūnām khura-reṇubhiḥ.
वासितार्थेऽभियुध्यद्भिर्नादितं शुष्मिभिर्वृषैः। धावन्तीभिश्च वास्राभिरूधोभारैः स्ववत्सकान् ९।
वासित-अर्थे अभियुध्यद्भिः नादितम् शुष्मिभिः वृषैः। धावन्तीभिः च वा अस्राभिः ऊधः-भारैः स्व-वत्सकान्।
vāsita-arthe abhiyudhyadbhiḥ nāditam śuṣmibhiḥ vṛṣaiḥ. dhāvantībhiḥ ca vā asrābhiḥ ūdhaḥ-bhāraiḥ sva-vatsakān.
इतस्ततो विलङ्घद्भिर्गोवत्सैर्मण्डितं सितैः। गोदोहशब्दाभिरवं वेणूनां निःस्वनेन च १०।
इतस् ततस् विलङ्घद्भिः गो-वत्सैः मण्डितम् सितैः। गोदोह-शब्द-अभिरवम् वेणूनाम् निःस्वनेन च।
itas tatas vilaṅghadbhiḥ go-vatsaiḥ maṇḍitam sitaiḥ. godoha-śabda-abhiravam veṇūnām niḥsvanena ca.
गायन्तीभिश्च कर्माणि शुभानि बलकृष्णयोः। स्वलङ्कृताभिर्गोपीभिर्गोपैश्च सुविराजितम् ११।
गायन्तीभिः च कर्माणि शुभानि बल-कृष्णयोः। सु अलङ्कृताभिः गोपीभिः गोपैः च सु विराजितम्।
gāyantībhiḥ ca karmāṇi śubhāni bala-kṛṣṇayoḥ. su alaṅkṛtābhiḥ gopībhiḥ gopaiḥ ca su virājitam.
अग्न्यर्कातिथिगोविप्र पितृदेवार्चनान्वितैः। धूपदीपैश्च माल्यैश्च गोपावासैर्मनोरमम् १२।
अग्नि-अर्क-अतिथि-गो-विप्र पितृ-देव-अर्चन-अन्वितैः। धूप-दीपैः च माल्यैः च गोप-आवासैः मनोरमम्।
agni-arka-atithi-go-vipra pitṛ-deva-arcana-anvitaiḥ. dhūpa-dīpaiḥ ca mālyaiḥ ca gopa-āvāsaiḥ manoramam.
सर्वतः पुष्पितवनं द्विजालिकुलनादितम्। हंसकारण्डवाकीर्णैः पद्मषण्डैश्च मण्डितम् १३।
सर्वतस् पुष्पित-वनम् द्विज-आलि-कुल-नादितम्। हंस-कारण्डव-आकीर्णैः पद्म-षण्डैः च मण्डितम्।
sarvatas puṣpita-vanam dvija-āli-kula-nāditam. haṃsa-kāraṇḍava-ākīrṇaiḥ padma-ṣaṇḍaiḥ ca maṇḍitam.
तमागतं समागम्य कृष्णस्यानुचरं प्रियम्। नन्दः प्रीतः परिष्वज्य वासुदेवधियार्चयत् १४।
तम् आगतम् समागम्य कृष्णस्य अनुचरम् प्रियम्। नन्दः प्रीतः परिष्वज्य वासुदेव-धिया अर्चयत्।
tam āgatam samāgamya kṛṣṇasya anucaram priyam. nandaḥ prītaḥ pariṣvajya vāsudeva-dhiyā arcayat.
भोजितं परमान्नेन संविष्टं कशिपौ सुखम्। गतश्रमं पर्यपृच्छत्पादसंवाहनादिभिः १५।
भोजितम् परम-अन्नेन संविष्टम् कशिपौ सुखम्। गत-श्रमम् पर्यपृच्छत् पाद-संवाहन-आदिभिः।
bhojitam parama-annena saṃviṣṭam kaśipau sukham. gata-śramam paryapṛcchat pāda-saṃvāhana-ādibhiḥ.
कच्चिदङ्ग महाभाग सखा नः शूरनन्दनः। आस्ते कुशल्यपत्याद्यैर्युक्तो मुक्तः सुहृद्व्रतः १६।
कच्चित् अङ्ग महाभाग सखा नः शूर-नन्दनः। आस्ते कुशलि-अपत्य-आद्यैः युक्तः मुक्तः सुहृद्-व्रतः।
kaccit aṅga mahābhāga sakhā naḥ śūra-nandanaḥ. āste kuśali-apatya-ādyaiḥ yuktaḥ muktaḥ suhṛd-vrataḥ.
दिष्ट्या कंसो हतः पापः सानुगः स्वेन पाप्मना। साधूनां धर्मशीलानां यदूनां द्वेष्टि यः सदा १७।
दिष्ट्या कंसः हतः पापः स अनुगः स्वेन पाप्मना। साधूनाम् धर्म-शीलानाम् यदूनाम् द्वेष्टि यः सदा।
diṣṭyā kaṃsaḥ hataḥ pāpaḥ sa anugaḥ svena pāpmanā. sādhūnām dharma-śīlānām yadūnām dveṣṭi yaḥ sadā.
अपि स्मरति नः कृष्णो मातरं सुहृदः सखीन्। गोपान्व्रजं चात्मनाथं गावो वृन्दावनं गिरिम् १८।
अपि स्मरति नः कृष्णः मातरम् सुहृदः सखीन्। गोपान् व्रजम् च आत्मनाथम् गावः वृन्दावनम् गिरिम्।
api smarati naḥ kṛṣṇaḥ mātaram suhṛdaḥ sakhīn. gopān vrajam ca ātmanātham gāvaḥ vṛndāvanam girim.
अप्यायास्यति गोविन्दः स्वजनान्सकृदीक्षितुम्। तर्हि द्रक्ष्याम तद्वक्त्रं सुनसं सुस्मितेक्षणम् १९।
अपि आयास्यति गोविन्दः स्व-जनान् सकृत् ईक्षितुम्। तर्हि द्रक्ष्याम तद्-वक्त्रम् सु नसम् सु स्मित-ईक्षणम्।
api āyāsyati govindaḥ sva-janān sakṛt īkṣitum. tarhi drakṣyāma tad-vaktram su nasam su smita-īkṣaṇam.
दावाग्नेर्वातवर्षाच्च वृषसर्पाच्च रक्षिताः। दुरत्ययेभ्यो मृत्युभ्यः कृष्णेन सुमहात्मना २०।
दाव-अग्नेः वात-वर्षात् च वृष-सर्पात् च रक्षिताः। दुरत्ययेभ्यः मृत्युभ्यः कृष्णेन सु महात्मना।
dāva-agneḥ vāta-varṣāt ca vṛṣa-sarpāt ca rakṣitāḥ. duratyayebhyaḥ mṛtyubhyaḥ kṛṣṇena su mahātmanā.
स्मरतां कृष्णवीर्याणि लीलापाङ्गनिरीक्षितम्। हसितं भाषितं चाङ्ग सर्वा नः शिथिलाः क्रियाः २१।
स्मरताम् कृष्ण-वीर्याणि लीला-अपाङ्ग-निरीक्षितम्। हसितम् भाषितम् च अङ्ग सर्वाः नः शिथिलाः क्रियाः।
smaratām kṛṣṇa-vīryāṇi līlā-apāṅga-nirīkṣitam. hasitam bhāṣitam ca aṅga sarvāḥ naḥ śithilāḥ kriyāḥ.
सरिच्छैलवनोद्देशान्मुकुन्दपदभूषितान्। आक्रीडानीक्ष्यमाणानां मनो याति तदात्मताम् २२।
सरित्-शैल-वन-उद्देशात् मुकुन्द-पद-भूषितान्। आक्रीड-अन् ईक्ष्यमाणानाम् मनः याति तद्-आत्म-ताम्।
sarit-śaila-vana-uddeśāt mukunda-pada-bhūṣitān. ākrīḍa-an īkṣyamāṇānām manaḥ yāti tad-ātma-tām.
मन्ये कृष्णं च रामं च प्राप्ताविह सुरोत्तमौ। सुराणां महदर्थाय गर्गस्य वचनं यथा २३।
मन्ये कृष्णम् च रामम् च प्राप्तौ इह सुर-उत्तमौ। सुराणाम् महत्-अर्थाय गर्गस्य वचनम् यथा।
manye kṛṣṇam ca rāmam ca prāptau iha sura-uttamau. surāṇām mahat-arthāya gargasya vacanam yathā.
कंसं नागायुतप्राणं मल्लौ गजपतिं यथा। अवधिष्टां लीलयैव पशूनिव मृगाधिपः २४।
कंसम् नाग-अयुत-प्राणम् मल्लौ गजपतिम् यथा। अवधिष्टाम् लीलया एव पशून् इव मृगाधिपः।
kaṃsam nāga-ayuta-prāṇam mallau gajapatim yathā. avadhiṣṭām līlayā eva paśūn iva mṛgādhipaḥ.
तालत्रयं महासारं धनुर्यष्टिमिवेभराट्। बभञ्जैकेन हस्तेन सप्ताहमदधाद्गिरिम् २५।
ताल-त्रयम् महा-सारम् धनुः-यष्टिम् इव इभ-राज्। बभञ्ज एकेन हस्तेन सप्त-अहम् अदधात् गिरिम्।
tāla-trayam mahā-sāram dhanuḥ-yaṣṭim iva ibha-rāj. babhañja ekena hastena sapta-aham adadhāt girim.
प्रलम्बो धेनुकोऽरिष्टस्तृणावर्तो बकादयः। दैत्याः सुरासुरजितो हता येनेह लीलया २६।
प्रलम्बः धेनुकः अरिष्टः तृणावर्तः बक-आदयः। दैत्याः सुर-असुर-जितः हताः येन इह लीलया।
pralambaḥ dhenukaḥ ariṣṭaḥ tṛṇāvartaḥ baka-ādayaḥ. daityāḥ sura-asura-jitaḥ hatāḥ yena iha līlayā.
श्रीशुक उवाच।
इति संस्मृत्य संस्मृत्य नन्दः कृष्णानुरक्तधीः। अत्युत्कण्ठोऽभवत्तूष्णीं प्रेमप्रसरविह्वलः २७।
इति संस्मृत्य संस्मृत्य नन्दः कृष्ण-अनुरक्त-धीः। अति उत्कण्ठः अभवत् तूष्णीम् प्रेम-प्रसर-विह्वलः।
iti saṃsmṛtya saṃsmṛtya nandaḥ kṛṣṇa-anurakta-dhīḥ. ati utkaṇṭhaḥ abhavat tūṣṇīm prema-prasara-vihvalaḥ.
यशोदा वर्ण्यमानानि पुत्रस्य चरितानि च। शृण्वन्त्यश्रूण्यवास्राक्षीत्स्नेहस्नुतपयोधरा २८।
यशोदा वर्ण्यमानानि पुत्रस्य चरितानि च। शृण्वन्ती अश्रूणि अवास्राक्षीत् स्नेह-स्नुत-पयोधरा।
yaśodā varṇyamānāni putrasya caritāni ca. śṛṇvantī aśrūṇi avāsrākṣīt sneha-snuta-payodharā.
तयोरित्थं भगवति कृष्णे नन्दयशोदयोः। वीक्ष्यानुरागं परमं नन्दमाहोद्धवो मुदा २९।
तयोः इत्थम् भगवति कृष्णे नन्द-यशोदयोः। वीक्ष्य अनुरागम् परमम् नन्दम् आह उद्धवः मुदा।
tayoḥ ittham bhagavati kṛṣṇe nanda-yaśodayoḥ. vīkṣya anurāgam paramam nandam āha uddhavaḥ mudā.
श्रीउद्धव उवाच।
युवां श्लाघ्यतमौ नूनं देहिनामिह मानद। नारायणेऽखिलगुरौ यत्कृता मतिरीदृशी ३०।
युवाम् श्लाघ्यतमौ नूनम् देहिनाम् इह मानद। नारायणे अखिल-गुरौ यत् कृता मतिः ईदृशी।
yuvām ślāghyatamau nūnam dehinām iha mānada. nārāyaṇe akhila-gurau yat kṛtā matiḥ īdṛśī.
एतौ हि विश्वस्य च बीजयोनी रामो मुकुन्दः पुरुषः प्रधानम्। अन्वीय भूतेषु विलक्षणस्य ज्ञानस्य चेशात इमौ पुराणौ ३१।
एतौ हि विश्वस्य च बीज-योनी रामः मुकुन्दः पुरुषः प्रधानम्। भूतेषु विलक्षणस्य ज्ञानस्य च ईशातः इमौ पुराणौ।
etau hi viśvasya ca bīja-yonī rāmaḥ mukundaḥ puruṣaḥ pradhānam. bhūteṣu vilakṣaṇasya jñānasya ca īśātaḥ imau purāṇau.
यस्मिन्जनः प्राणवियोगकाले क्षणं समावेश्य मनोऽविशुद्धम्। निर्हृत्य कर्माशयमाशु याति परां गतिं ब्रह्ममयोऽर्कवर्णः ३२।
यस्मिन् जनः प्राण-वियोग-काले क्षणम् समावेश्य मनः अविशुद्धम्। निर्हृत्य कर्म-आशयम् आशु याति पराम् गतिम् ब्रह्म-मयः अर्क-वर्णः।
yasmin janaḥ prāṇa-viyoga-kāle kṣaṇam samāveśya manaḥ aviśuddham. nirhṛtya karma-āśayam āśu yāti parām gatim brahma-mayaḥ arka-varṇaḥ.
तस्मिन्भवन्तावखिलात्महेतौ नारायणे कारणमर्त्यमूर्तौ। भावं विधत्तां नितरां महात्मन्किं वावशिष्टं युवयोः सुकृत्यम् ३३।
तस्मिन् भवन्तौ अखिल-आत्म-हेतौ नारायणे कारण-मर्त्य-मूर्तौ। भावम् विधत्ताम् नितराम् महात्मन् किम् वा अवशिष्टम् युवयोः सुकृत्यम्।
tasmin bhavantau akhila-ātma-hetau nārāyaṇe kāraṇa-martya-mūrtau. bhāvam vidhattām nitarām mahātman kim vā avaśiṣṭam yuvayoḥ sukṛtyam.
आगमिष्यत्यदीर्घेण कालेन व्रजमच्युतः। प्रियं विधास्यते पित्रोर्भगवान्सात्वतां पतिः ३४।
आगमिष्यति अदीर्घेण कालेन व्रजम् अच्युतः। प्रियम् विधास्यते पित्रोः भगवान् सात्वताम् पतिः।
āgamiṣyati adīrgheṇa kālena vrajam acyutaḥ. priyam vidhāsyate pitroḥ bhagavān sātvatām patiḥ.
हत्वा कंसं रङ्गमध्ये प्रतीपं सर्वसात्वताम्। यदाह वः समागत्य कृष्णः सत्यं करोति तत् ३५।
हत्वा कंसम् रङ्ग-मध्ये प्रतीपम् सर्व-सात्वताम्। यत् आह वः समागत्य कृष्णः सत्यम् करोति तत्।
hatvā kaṃsam raṅga-madhye pratīpam sarva-sātvatām. yat āha vaḥ samāgatya kṛṣṇaḥ satyam karoti tat.
मा खिद्यतं महाभागौ द्रक्ष्यथः कृष्णमन्तिके। अन्तर्हृदि स भूतानामास्ते ज्योतिरिवैधसि ३६।
मा खिद्यतम् महाभागौ द्रक्ष्यथः कृष्णम् अन्तिके। अन्तर् हृदि स भूतानाम् आस्ते ज्योतिः इव एधसि।
mā khidyatam mahābhāgau drakṣyathaḥ kṛṣṇam antike. antar hṛdi sa bhūtānām āste jyotiḥ iva edhasi.
न ह्यस्यास्ति प्रियः कश्चिन्नाप्रियो वास्त्यमानिनः। नोत्तमो नाधमो वापि समानस्यासमोऽपि वा ३७।
न हि अस्य अस्ति प्रियः कश्चिद् न अप्रियः वा अस्ति अमानिनः। न उत्तमः न अधमः वा अपि समानस्य असमः अपि वा।
na hi asya asti priyaḥ kaścid na apriyaḥ vā asti amāninaḥ. na uttamaḥ na adhamaḥ vā api samānasya asamaḥ api vā.
न माता न पिता तस्य न भार्या न सुतादयः। नात्मीयो न परश्चापि न देहो जन्म एव च ३८।
न माता न पिता तस्य न भार्या न सुत-आदयः। न आत्मीयः न परः च अपि न देहः जन्म एव च।
na mātā na pitā tasya na bhāryā na suta-ādayaḥ. na ātmīyaḥ na paraḥ ca api na dehaḥ janma eva ca.
न चास्य कर्म वा लोके सदसन्मिश्रयोनिषु। क्रीडार्थं सोऽपि साधूनां परित्राणाय कल्पते ३९।
न च अस्य कर्म वा लोके सत्-असत्-मिश्र-योनिषु। क्रीडा-अर्थम् सः अपि साधूनाम् परित्राणाय कल्पते।
na ca asya karma vā loke sat-asat-miśra-yoniṣu. krīḍā-artham saḥ api sādhūnām paritrāṇāya kalpate.
सत्त्वं रजस्तम इति भजते निर्गुणो गुणान्। क्रीडन्नतीतोऽपि गुणैः सृजत्यवन्हन्त्यजः ४०।
सत्त्वम् रजः तमः इति भजते निर्गुणः गुणान्। क्रीडन् अतीतः अपि गुणैः सृजति अवन् हन्ति अजः।
sattvam rajaḥ tamaḥ iti bhajate nirguṇaḥ guṇān. krīḍan atītaḥ api guṇaiḥ sṛjati avan hanti ajaḥ.
यथा भ्रमरिकादृष्ट्या भ्राम्यतीव महीयते। चित्ते कर्तरि तत्रात्मा कर्तेवाहंधिया स्मृतः ४१।
यथा भ्रमरिका-दृष्ट्या भ्राम्यति इव महीयते। चित्ते कर्तरि तत्र आत्मा कर्ता इव अहंधिया स्मृतः।
yathā bhramarikā-dṛṣṭyā bhrāmyati iva mahīyate. citte kartari tatra ātmā kartā iva ahaṃdhiyā smṛtaḥ.
युवयोरेव नैवायमात्मजो भगवान्हरिः। सर्वेषामात्मजो ह्यात्मा पिता माता स ईश्वरः ४२।
युवयोः एव न एव अयम् आत्मजः भगवान् हरिः। सर्वेषाम् आत्मजः हि आत्मा पिता माता सः ईश्वरः।
yuvayoḥ eva na eva ayam ātmajaḥ bhagavān hariḥ. sarveṣām ātmajaḥ hi ātmā pitā mātā saḥ īśvaraḥ.
दृष्टं श्रुतं भूतभवद्भविष्यत्। स्थास्नुश्चरिष्णुर्महदल्पकं च। विनाच्युताद्वस्तुतरां न वाच्यं। स एव सर्वं परमात्मभूतः ४३।
दृष्टम् श्रुतम् भूत-भवत्-भविष्यत्। स्थास्नुः चरिष्णुः महत् अल्पकम् च। विना अच्युतात् वस्तुतराम् न वाच्यम्। सः एव सर्वम् परमात्म-भूतः।
dṛṣṭam śrutam bhūta-bhavat-bhaviṣyat. sthāsnuḥ cariṣṇuḥ mahat alpakam ca. vinā acyutāt vastutarām na vācyam. saḥ eva sarvam paramātma-bhūtaḥ.
एवं निशा सा ब्रुवतोर्व्यतीता नन्दस्य कृष्णानुचरस्य राजन्। गोप्यः समुत्थाय निरूप्य दीपान्वास्तून्समभ्यर्च्य दौधीन्यमन्थुन् ४४।
एवम् निशा सा ब्रुवतोः व्यतीता नन्दस्य कृष्ण-अनुचरस्य राजन्। गोप्यः समुत्थाय निरूप्य दीपान् वास्तून् समभ्यर्च्य दौधीनि अमन्थुन्।
evam niśā sā bruvatoḥ vyatītā nandasya kṛṣṇa-anucarasya rājan. gopyaḥ samutthāya nirūpya dīpān vāstūn samabhyarcya daudhīni amanthun.
ता दीपदीप्तैर्मणिभिर्विरेजू रज्जूर्विकर्षद्भुजकङ्कणस्रजः। चलन्नितम्बस्तनहारकुण्डल त्विषत्कपोलारुणकुङ्कुमाननाः ४५।
ताः दीप-दीप्तैः मणिभिः विरेजुः रज्जूः विकर्षत्-भुज-कङ्कण-स्रजः। चलत्-नितम्ब-स्तन-हार-कुण्डल त्विषत्-कपोल-अरुण-कुङ्कुम-आननाः।
tāḥ dīpa-dīptaiḥ maṇibhiḥ virejuḥ rajjūḥ vikarṣat-bhuja-kaṅkaṇa-srajaḥ. calat-nitamba-stana-hāra-kuṇḍala tviṣat-kapola-aruṇa-kuṅkuma-ānanāḥ.
उद्गायतीनामरविन्दलोचनं व्रजाङ्गनानां दिवमस्पृशद्ध्वनिः। दध्नश्च निर्मन्थनशब्दमिश्रितो निरस्यते येन दिशाममङ्गलम् ४६।
उद्गायतीनाम् अरविन्द-लोचनम् व्रज-अङ्गनानाम् दिवम् अस्पृशत् ध्वनिः। दध्नः च निर्मन्थन-शब्द-मिश्रितः निरस्यते येन दिशाम् अमङ्गलम्।
udgāyatīnām aravinda-locanam vraja-aṅganānām divam aspṛśat dhvaniḥ. dadhnaḥ ca nirmanthana-śabda-miśritaḥ nirasyate yena diśām amaṅgalam.
भगवत्युदिते सूर्ये नन्दद्वारि व्रजौकसः। दृष्ट्वा रथं शातकौम्भं कस्यायमिति चाब्रुवन् ४७।
भगवति उदिते सूर्ये नन्द-द्वारि व्रज-ओकसः। दृष्ट्वा रथम् शातकौम्भम् कस्य अयम् इति च ब्रुवन्।
bhagavati udite sūrye nanda-dvāri vraja-okasaḥ. dṛṣṭvā ratham śātakaumbham kasya ayam iti ca bruvan.
अक्रूर आगतः किं वा यः कंसस्यार्थसाधकः। येन नीतो मधुपुरीं कृष्णः कमललोचनः ४८।
अक्रूरः आगतः किम् वा यः कंसस्य अर्थ-साधकः। येन नीतः मधुपुरीम् कृष्णः कमल-लोचनः।
akrūraḥ āgataḥ kim vā yaḥ kaṃsasya artha-sādhakaḥ. yena nītaḥ madhupurīm kṛṣṇaḥ kamala-locanaḥ.
किं साधयिष्यत्यस्माभिर्भर्तुः प्रीतस्य निष्कृतिम्। ततः स्त्रीणां वदन्तीनामुद्धवोऽगात्कृताह्निकः ४९।
किम् साधयिष्यति अस्माभिः भर्तुः प्रीतस्य निष्कृतिम्। ततस् स्त्रीणाम् वदन्तीनाम् उद्धवः अगात् कृत-आह्निकः।
kim sādhayiṣyati asmābhiḥ bhartuḥ prītasya niṣkṛtim. tatas strīṇām vadantīnām uddhavaḥ agāt kṛta-āhnikaḥ.
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे नन्दशोकापनयनं नाम षट्चत्वारिंशोऽध्यायः
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् दशम-स्कन्धे पूर्व-अर्धे नन्दशोकापनयनम् नाम षट्चत्वारिंशः अध्यायः
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām daśama-skandhe pūrva-ardhe nandaśokāpanayanam nāma ṣaṭcatvāriṃśaḥ adhyāyaḥ

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In