| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच
तं वीक्ष्य कृषानुचरं व्रजस्त्रियः प्रलम्बबाहुं नवकञ्जलोचनम्। पीताम्बरं पुष्करमालिनं लसन् मुखारविन्दं परिमृष्टकुण्डलम् ॥१
तम् वीक्ष्य कृषा-अनुचरम् व्रज-स्त्रियः प्रलम्ब-बाहुम् नव-कञ्ज-लोचनम्। पीत-अम्बरम् पुष्कर-मालिनम् लसन् मुख-अरविन्दम् परिमृष्ट-कुण्डलम् ॥१
tam vīkṣya kṛṣā-anucaram vraja-striyaḥ pralamba-bāhum nava-kañja-locanam. pīta-ambaram puṣkara-mālinam lasan mukha-aravindam parimṛṣṭa-kuṇḍalam ..1
सुविस्मिताः कोऽयमपीव्यदर्शनः कुतश्च कस्याच्युतवेषभूषणः। इति स्म सर्वाः परिवव्रुरुत्सुकास् तमुत्तमःश्लोकपदाम्बुजाश्रयम् ॥२
सु विस्मिताः कः अयम् कुतस् च कस्य अच्युत-वेष-भूषणः। इति स्म सर्वाः परिवव्रुः उत्सुकाः तम् उत्तमःश्लोक-पद-अम्बुज-आश्रयम् ॥२
su vismitāḥ kaḥ ayam kutas ca kasya acyuta-veṣa-bhūṣaṇaḥ. iti sma sarvāḥ parivavruḥ utsukāḥ tam uttamaḥśloka-pada-ambuja-āśrayam ..2
तं प्रश्रयेणावनताः सुसत्कृतं सव्रीडहासेक्षणसूनृतादिभिः। रहस्यपृच्छन्नुपविष्टमासने विज्ञाय सन्देशहरं रमापतेः ३।
तम् प्रश्रयेण अवनताः सु सत्कृतम् स व्रीड-हास-ईक्षण-सूनृत-आदिभिः। रहसि अपृच्छन् उपविष्टम् आसने विज्ञाय सन्देश-हरम् रमापतेः।
tam praśrayeṇa avanatāḥ su satkṛtam sa vrīḍa-hāsa-īkṣaṇa-sūnṛta-ādibhiḥ. rahasi apṛcchan upaviṣṭam āsane vijñāya sandeśa-haram ramāpateḥ.
जानीमस्त्वां यदुपतेः पार्षदं समुपागतम्। भर्त्रेह प्रेषितः पित्रोर्भवान्प्रियचिकीर्षया ४।
जानीमः त्वाम् यदु-पतेः पार्षदम् समुपागतम्। भर्त्रा इह प्रेषितः पित्रोः भवान् प्रिय-चिकीर्षया।
jānīmaḥ tvām yadu-pateḥ pārṣadam samupāgatam. bhartrā iha preṣitaḥ pitroḥ bhavān priya-cikīrṣayā.
अन्यथा गोव्रजे तस्य स्मरणीयं न चक्ष्महे। स्नेहानुबन्धो बन्धूनां मुनेरपि सुदुस्त्यजः ५।
अन्यथा गो-व्रजे तस्य स्मरणीयम् न चक्ष्महे। स्नेह-अनुबन्धः बन्धूनाम् मुनेः अपि सु दुस्त्यजः।
anyathā go-vraje tasya smaraṇīyam na cakṣmahe. sneha-anubandhaḥ bandhūnām muneḥ api su dustyajaḥ.
अन्येष्वर्थकृता मैत्री यावदर्थविडम्बनम्। पुम्भिः स्त्रीषु कृता यद्वत्सुमनःस्विव षट्पदैः ६।
अन्येषु अर्थ-कृता मैत्री यावत् अर्थ-विडम्बनम्। पुम्भिः स्त्रीषु कृता यद्वत् सुमनःसु इव षट्पदैः।
anyeṣu artha-kṛtā maitrī yāvat artha-viḍambanam. pumbhiḥ strīṣu kṛtā yadvat sumanaḥsu iva ṣaṭpadaiḥ.
निःस्वं त्यजन्ति गणिका अकल्पं नृपतिं प्रजाः। अधीतविद्या आचार्यमृत्विजो दत्तदक्षिणम् ७।
निःस्वम् त्यजन्ति गणिकाः अकल्पम् नृपतिम् प्रजाः। अधीत-विद्याः आचार्यम् ऋत्विजः दत्त-दक्षिणम्।
niḥsvam tyajanti gaṇikāḥ akalpam nṛpatim prajāḥ. adhīta-vidyāḥ ācāryam ṛtvijaḥ datta-dakṣiṇam.
खगा वीतफलं वृक्षं भुक्त्वा चातिथयो गृहम्। दग्धं मृगास्तथारण्यं जारा भुक्त्वा रतां स्त्रियम् ८।
खगाः वीत-फलम् वृक्षम् भुक्त्वा च अतिथयः गृहम्। दग्धम् मृगाः तथा अरण्यम् जाराः भुक्त्वा रताम् स्त्रियम्।
khagāḥ vīta-phalam vṛkṣam bhuktvā ca atithayaḥ gṛham. dagdham mṛgāḥ tathā araṇyam jārāḥ bhuktvā ratām striyam.
इति गोप्यो हि गोविन्दे गतवाक्कायमानसाः। कृष्णदूते समायाते उद्धवे त्यक्तलौकिकाः ९।
इति गोप्यः हि गोविन्दे गत-वाच्-काय-मानसाः। कृष्ण-दूते समायाते उद्धवे त्यक्त-लौकिकाः।
iti gopyaḥ hi govinde gata-vāc-kāya-mānasāḥ. kṛṣṇa-dūte samāyāte uddhave tyakta-laukikāḥ.
गायन्त्यः प्रीयकर्माणि रुदन्त्यश्च गतह्रियः। तस्य संस्मृत्य संस्मृत्य यानि कैशोरबाल्ययोः १०।
गायन्त्यः प्रीय-कर्माणि रुदन्त्यः च गत-ह्रियः। तस्य संस्मृत्य संस्मृत्य यानि कैशोर-बाल्ययोः।
gāyantyaḥ prīya-karmāṇi rudantyaḥ ca gata-hriyaḥ. tasya saṃsmṛtya saṃsmṛtya yāni kaiśora-bālyayoḥ.
काचिन्मधुकरं दृष्ट्वा ध्यायन्ती कृष्णसङ्गमम्। प्रियप्रस्थापितं दूतं कल्पयित्वेदमब्रवीत् ११।
काचिद् मधुकरम् दृष्ट्वा ध्यायन्ती कृष्ण-सङ्गमम्। प्रिय-प्रस्थापितम् दूतम् कल्पयित्वा इदम् अब्रवीत्।
kācid madhukaram dṛṣṭvā dhyāyantī kṛṣṇa-saṅgamam. priya-prasthāpitam dūtam kalpayitvā idam abravīt.
गोप्युवाच।
मधुप कितवबन्धो मा स्पृशङ्घ्रिं सपत्न्याः। कुचविलुलितमालाकुङ्कुमश्मश्रुभिर्नः। वहतु मधुपतिस्तन्मानिनीनां प्रसादं। यदुसदसि विडम्ब्यं यस्य दूतस्त्वमीदृक् १२।
मधुप कितव-बन्धो मा स्पृश अङ्घ्रिम् सपत्न्याः। कुच-विलुलित-माला-कुङ्कुम-श्मश्रुभिः नः। वहतु मधुपतिः तद्-मानिनीनाम् प्रसादम्। यदु-सदसि विडम्ब्यम् यस्य दूतः त्वम् ईदृश्।
madhupa kitava-bandho mā spṛśa aṅghrim sapatnyāḥ. kuca-vilulita-mālā-kuṅkuma-śmaśrubhiḥ naḥ. vahatu madhupatiḥ tad-māninīnām prasādam. yadu-sadasi viḍambyam yasya dūtaḥ tvam īdṛś.
सकृदधरसुधां स्वां मोहिनीं पाययित्वा। सुमनस इव सद्यस्तत्यजेऽस्मान्भवादृक्। परिचरति कथं तत्पादपद्मं नु पद्मा। ह्यपि बत हृतचेता ह्युत्तमःश्लोकजल्पैः १३।
सकृत् अधर-सुधाम् स्वाम् मोहिनीम् पाययित्वा। सुमनसः इव सद्यस् तत्यजे अस्मान् भवादृश्। परिचरति कथम् तत् पाद-पद्मम् नु पद्मा। हि अपि बत हृत-चेताः हि उत्तमःश्लोक-जल्पैः।
sakṛt adhara-sudhām svām mohinīm pāyayitvā. sumanasaḥ iva sadyas tatyaje asmān bhavādṛś. paricarati katham tat pāda-padmam nu padmā. hi api bata hṛta-cetāḥ hi uttamaḥśloka-jalpaiḥ.
किमिह बहु षडङ्घ्रे गायसि त्वं यदूनाम्। अधिपतिमगृहाणामग्रतो नः पुराणम्। विजयसखसखीनां गीयतां तत्प्रसङ्गः। क्षपितकुचरुजस्ते कल्पयन्तीष्टमिष्टाः १४।
किम् इह बहु षष्-अङ्घ्रे गायसि त्वम् यदूनाम्। अधिपतिम् अगृहाणाम् अग्रतस् नः पुराणम्। विजयसख-सखीनाम् गीयताम् तद्-प्रसङ्गः। क्षपित-कुच-रुजः ते कल्पयन्ति इष्टम् इष्टाः।
kim iha bahu ṣaṣ-aṅghre gāyasi tvam yadūnām. adhipatim agṛhāṇām agratas naḥ purāṇam. vijayasakha-sakhīnām gīyatām tad-prasaṅgaḥ. kṣapita-kuca-rujaḥ te kalpayanti iṣṭam iṣṭāḥ.
दिवि भुवि च रसायां काः स्त्रियस्तद्दुरापाः। कपटरुचिरहासभ्रूविजृम्भस्य याः स्युः। चरणरज उपास्ते यस्य भूतिर्वयं का। अपि च कृपणपक्षे ह्युत्तमश्लोकशब्दः १५।
दिवि भुवि च रसायाम् काः स्त्रियः तद्-दुरापाः। कपट-रुचिर-हास-भ्रू-विजृम्भस्य याः स्युः। चरणरजः उपास्ते यस्य भूतिः वयम् का। अपि च कृपण-पक्षे हि उत्तमश्लोक-शब्दः।
divi bhuvi ca rasāyām kāḥ striyaḥ tad-durāpāḥ. kapaṭa-rucira-hāsa-bhrū-vijṛmbhasya yāḥ syuḥ. caraṇarajaḥ upāste yasya bhūtiḥ vayam kā. api ca kṛpaṇa-pakṣe hi uttamaśloka-śabdaḥ.
विसृज शिरसि पादं वेद्म्यहं चाटुकारैर्। अनुनयविदुषस्तेऽभ्येत्य दौत्यैर्मुकुन्दात्। स्वकृत इह विसृष्टापत्यपत्यन्यलोका। व्यसृजदकृतचेताः किं नु सन्धेयमस्मिन् १६।
विसृज शिरसि पादम् वेद्मि अहम् चाटु-कारैः। अनुनय-विदुषः ते अभ्येत्य दौत्यैः मुकुन्दात्। स्वकृते इह विसृष्ट-अपति-अपति-अन्य-लोका। व्यसृजत् अकृत-चेताः किम् नु सन्धेयम् अस्मिन्।
visṛja śirasi pādam vedmi aham cāṭu-kāraiḥ. anunaya-viduṣaḥ te abhyetya dautyaiḥ mukundāt. svakṛte iha visṛṣṭa-apati-apati-anya-lokā. vyasṛjat akṛta-cetāḥ kim nu sandheyam asmin.
मृगयुरिव कपीन्द्रं विव्यधे लुब्धधर्मा। स्त्रियमकृत विरूपां स्त्रीजितः कामयानाम्। बलिमपि बलिमत्त्वावेष्टयद्ध्वाङ्क्षवद्यस्। तदलमसितसख्यैर्दुस्त्यजस्तत्कथार्थः १७।
मृगयुः इव कपि-इन्द्रम् विव्यधे लुब्ध-धर्मा। स्त्रियम् अकृत विरूपाम् स्त्री-जितः कामयानाम्। बलिम् अपि बलिमत् त्वा वेष्टयत् ह्वाङ्क्ष-वत् यः। तत् अलम् असित-सख्यैः दुस्त्यजः तद्-कथा-अर्थः।
mṛgayuḥ iva kapi-indram vivyadhe lubdha-dharmā. striyam akṛta virūpām strī-jitaḥ kāmayānām. balim api balimat tvā veṣṭayat hvāṅkṣa-vat yaḥ. tat alam asita-sakhyaiḥ dustyajaḥ tad-kathā-arthaḥ.
यदनुचरितलीलाकर्णपीयूषविप्रुट्। सकृददनविधूतद्वन्द्वधर्मा विनष्टाः। सपदि गृहकुटुम्बं दीनमुत्सृज्य दीना। बहव इह विहङ्गा भिक्षुचर्यां चरन्ति १८।
यद्-अनुचरित-लीला-कर्ण-पीयूष-विप्रुष्। सकृददन-विधूत-द्वन्द्व-धर्माः विनष्टाः। सपदि गृह-कुटुम्बम् दीनम् उत्सृज्य दीना। बहवः इह विहङ्गाः भिक्षु-चर्याम् चरन्ति।
yad-anucarita-līlā-karṇa-pīyūṣa-vipruṣ. sakṛdadana-vidhūta-dvandva-dharmāḥ vinaṣṭāḥ. sapadi gṛha-kuṭumbam dīnam utsṛjya dīnā. bahavaḥ iha vihaṅgāḥ bhikṣu-caryām caranti.
वयमृतमिव जिह्मव्याहृतं श्रद्दधानाः। कुलिकरुतमिवाज्ञाः कृष्णवध्वो हरिण्यः। ददृशुरसकृदेतत्तन्नखस्पर्शतीव्र। स्मररुज उपमन्त्रिन्भण्यतामन्यवार्ता १९।
वयम् ऋतम् इव जिह्म-व्याहृतम् श्रद्दधानाः। कुलिक-रुतम् इव अज्ञाः कृष्ण-वध्वः हरिण्यः। ददृशुः असकृत् एतत् तत् नख-स्पर्श-तीव्र। स्मर-रुजः उपमन्त्रिन् भण्यताम् अन्य-वार्ता।
vayam ṛtam iva jihma-vyāhṛtam śraddadhānāḥ. kulika-rutam iva ajñāḥ kṛṣṇa-vadhvaḥ hariṇyaḥ. dadṛśuḥ asakṛt etat tat nakha-sparśa-tīvra. smara-rujaḥ upamantrin bhaṇyatām anya-vārtā.
प्रियसख पुनरागाः प्रेयसा प्रेषितः किं। वरय किमनुरुन्धे माननीयोऽसि मेऽङ्ग। नयसि कथमिहास्मान्दुस्त्यजद्वन्द्वपार्श्वं। सततमुरसि सौम्य श्रीर्वधूः साकमास्ते २०।
प्रिय-सख पुनर् आगाः प्रेयसा प्रेषितः किम्। वरय किम् अनुरुन्धे माननीयः असि मे अङ्ग। नयसि कथम् इह अस्मान् दुस्त्यज-द्वन्द्व-पार्श्वम्। सततम् उरसि सौम्य श्रीः वधूः साकम् आस्ते।
priya-sakha punar āgāḥ preyasā preṣitaḥ kim. varaya kim anurundhe mānanīyaḥ asi me aṅga. nayasi katham iha asmān dustyaja-dvandva-pārśvam. satatam urasi saumya śrīḥ vadhūḥ sākam āste.
अपि बत मधुपुर्यामार्यपुत्रोऽधुनास्ते। स्मरति स पितृगेहान्सौम्य बन्धूंश्च गोपान्। क्वचिदपि स कथा नः किङ्करीणां गृणीते। भुजमगुरुसुगन्धं मूर्ध्न्यधास्यत्कदा नु २१।
अपि बत मधुपुर्याम् आर्यपुत्रः अधुना आस्ते। स्मरति स पितृ-गेहान् सौम्य बन्धून् च गोपान्। क्वचिद् अपि स कथा नः किङ्करीणाम् गृणीते। भुजम् अगुरु-सुगन्धम् मूर्ध्नि अधास्यत् कदा नु।
api bata madhupuryām āryaputraḥ adhunā āste. smarati sa pitṛ-gehān saumya bandhūn ca gopān. kvacid api sa kathā naḥ kiṅkarīṇām gṛṇīte. bhujam aguru-sugandham mūrdhni adhāsyat kadā nu.
श्रीशुक उवाच।
अथोद्धवो निशम्यैवं कृष्णदर्शनलालसाः। सान्त्वयन्प्रियसन्देशैर्गोपीरिदमभाषत २२।
अथ उद्धवः निशम्य एवम् कृष्ण-दर्शन-लालसाः। सान्त्वयन् प्रिय-सन्देशैः गोपीः इदम् अभाषत।
atha uddhavaḥ niśamya evam kṛṣṇa-darśana-lālasāḥ. sāntvayan priya-sandeśaiḥ gopīḥ idam abhāṣata.
श्रीउद्धव उवाच।
अहो यूयं स्म पूर्णार्था भवत्यो लोकपूजिताः। वासुदेवे भगवति यासामित्यर्पितं मनः २३।
अहो यूयम् स्म पूर्ण-अर्थाः भवत्यः लोक-पूजिताः। वासुदेवे भगवति यासाम् इति अर्पितम् मनः।
aho yūyam sma pūrṇa-arthāḥ bhavatyaḥ loka-pūjitāḥ. vāsudeve bhagavati yāsām iti arpitam manaḥ.
दानव्रततपोहोम जपस्वाध्यायसंयमैः। श्रेयोभिर्विविधैश्चान्यैः कृष्णे भक्तिर्हि साध्यते २४।
दान-व्रत-तपः-होम-जप-स्वाध्याय-संयमैः। श्रेयोभिः विविधैः च अन्यैः कृष्णे भक्तिः हि साध्यते।
dāna-vrata-tapaḥ-homa-japa-svādhyāya-saṃyamaiḥ. śreyobhiḥ vividhaiḥ ca anyaiḥ kṛṣṇe bhaktiḥ hi sādhyate.
भगवत्युत्तमःश्लोके भवतीभिरनुत्तमा। भक्तिः प्रवर्तिता दिष्ट्या मुनीनामपि दुर्लभा २५।
भगवती उत्तमःश्लोके भवतीभिः अनुत्तमा। भक्तिः प्रवर्तिता दिष्ट्या मुनीनाम् अपि दुर्लभा।
bhagavatī uttamaḥśloke bhavatībhiḥ anuttamā. bhaktiḥ pravartitā diṣṭyā munīnām api durlabhā.
दिष्ट्या पुत्रान्पतीन्देहान्स्वजनान्भवनानि च। हित्वावृणीत यूयं यत्कृष्णाख्यं पुरुषं परम् २६।
दिष्ट्या पुत्रान् पतीन् देहान् स्व-जनान् भवनानि च। हित्वा अवृणीत यूयम् यत् कृष्ण-आख्यम् पुरुषम् परम्।
diṣṭyā putrān patīn dehān sva-janān bhavanāni ca. hitvā avṛṇīta yūyam yat kṛṣṇa-ākhyam puruṣam param.
सर्वात्मभावोऽधिकृतो भवतीनामधोक्षजे। विरहेण महाभागा महान्मेऽनुग्रहः कृतः २७।
सर्व-आत्म-भावः अधिकृतः भवतीनाम् अधोक्षजे। विरहेण महाभागा महान् मे अनुग्रहः कृतः।
sarva-ātma-bhāvaḥ adhikṛtaḥ bhavatīnām adhokṣaje. viraheṇa mahābhāgā mahān me anugrahaḥ kṛtaḥ.
श्रूयतां प्रियसन्देशो भवतीनां सुखावहः। यमादायागतो भद्रा अहं भर्तू रहस्करः २८।
श्रूयताम् प्रिय-सन्देशः भवतीनाम् सुख-आवहः। यम् आदाय आगतः भद्रा अहम् भर्तुः रहस्करः।
śrūyatām priya-sandeśaḥ bhavatīnām sukha-āvahaḥ. yam ādāya āgataḥ bhadrā aham bhartuḥ rahaskaraḥ.
श्रीभगवानुवाच।
भवतीनां वियोगो मे न हि सर्वात्मना क्वचित्। यथा भूतानि भूतेषु खं वाय्वग्निर्जलं मही । तथाहं च मनःप्राण भूतेन्द्रियगुणाश्रयः २९।
भवतीनाम् वियोगः मे न हि सर्व-आत्मना क्वचिद्। यथा भूतानि भूतेषु खम् वायु-अग्निः जलम् मही । तथा अहम् च मनः-प्राण भूत-इन्द्रिय-गुण-आश्रयः।
bhavatīnām viyogaḥ me na hi sarva-ātmanā kvacid. yathā bhūtāni bhūteṣu kham vāyu-agniḥ jalam mahī . tathā aham ca manaḥ-prāṇa bhūta-indriya-guṇa-āśrayaḥ.
आत्मन्येवात्मनात्मानं सृजे हन्म्यनुपालये। आत्ममायानुभावेन भूतेन्द्रियगुणात्मना ३०।
आत्मनि एव आत्मना आत्मानम् सृजे हन्मि अनुपालये। आत्म-माया-अनुभावेन भूत-इन्द्रिय-गुण-आत्मना।
ātmani eva ātmanā ātmānam sṛje hanmi anupālaye. ātma-māyā-anubhāvena bhūta-indriya-guṇa-ātmanā.
आत्मा ज्ञानमयः शुद्धो व्यतिरिक्तोऽगुणान्वयः। सुषुप्तिस्वप्नजाग्रद्भिर्मायावृत्तिभिरीयते ३१।
आत्मा ज्ञान-मयः शुद्धः व्यतिरिक्तः अगुण-अन्वयः। सुषुप्ति-स्वप्न-जाग्रद्भिः माया-वृत्तिभिः ईयते।
ātmā jñāna-mayaḥ śuddhaḥ vyatiriktaḥ aguṇa-anvayaḥ. suṣupti-svapna-jāgradbhiḥ māyā-vṛttibhiḥ īyate.
येनेन्द्रियार्थान्ध्यायेत मृषा स्वप्नवदुत्थितः। तन्निरुन्ध्यादिन्द्रियाणि विनिद्रः प्रत्यपद्यत ३२।
येन इन्द्रिय-अर्थान् ध्यायेत मृषा स्वप्न-वत् उत्थितः। तत् निरुन्ध्यात् इन्द्रियाणि विनिद्रः प्रत्यपद्यत।
yena indriya-arthān dhyāyeta mṛṣā svapna-vat utthitaḥ. tat nirundhyāt indriyāṇi vinidraḥ pratyapadyata.
एतदन्तः समाम्नायो योगः साङ्ख्यं मनीषिणाम्। त्यागस्तपो दमः सत्यं समुद्रान्ता इवापगाः ३३।
एतद्-अन्तः समाम्नायः योगः साङ्ख्यम् मनीषिणाम्। त्यागः तपः दमः सत्यम् समुद्र-अन्ताः इव आपगाः।
etad-antaḥ samāmnāyaḥ yogaḥ sāṅkhyam manīṣiṇām. tyāgaḥ tapaḥ damaḥ satyam samudra-antāḥ iva āpagāḥ.
यत्त्वहं भवतीनां वै दूरे वर्ते प्रियो दृशाम्। मनसः सन्निकर्षार्थं मदनुध्यानकाम्यया ३४।
यत् तु अहम् भवतीनाम् वै दूरे वर्ते प्रियः दृशाम्। मनसः सन्निकर्ष-अर्थम् मद्-अनुध्यान-काम्यया।
yat tu aham bhavatīnām vai dūre varte priyaḥ dṛśām. manasaḥ sannikarṣa-artham mad-anudhyāna-kāmyayā.
यथा दूरचरे प्रेष्ठे मन आविश्य वर्तते। स्त्रीणां च न तथा चेतः सन्निकृष्टेऽक्षिगोचरे ३५।
यथा दूरचरे प्रेष्ठे मनः आविश्य वर्तते। स्त्रीणाम् च न तथा चेतः सन्निकृष्टे अक्षि-गोचरे।
yathā dūracare preṣṭhe manaḥ āviśya vartate. strīṇām ca na tathā cetaḥ sannikṛṣṭe akṣi-gocare.
मय्यावेश्य मनः कृत्स्नं विमुक्ताशेषवृत्ति यत्। अनुस्मरन्त्यो मां नित्यमचिरान्मामुपैष्यथ ३६।
मयि आवेश्य मनः कृत्स्नम् विमुक्त-अशेष-वृत्ति यत्। अनुस्मरन्त्यः माम् नित्यम् अचिरात् माम् उपैष्यथ।
mayi āveśya manaḥ kṛtsnam vimukta-aśeṣa-vṛtti yat. anusmarantyaḥ mām nityam acirāt mām upaiṣyatha.
या मया क्रीडता रात्र्यां वनेऽस्मिन्व्रज आस्थिताः। अलब्धरासाः कल्याण्यो मापुर्मद्वीर्यचिन्तया ३७।
याः मया क्रीडता रात्र्याम् वने अस्मिन् व्रजे आस्थिताः। अ लब्ध-रासाः कल्याण्यः मापुः मद्-वीर्य-चिन्तया।
yāḥ mayā krīḍatā rātryām vane asmin vraje āsthitāḥ. a labdha-rāsāḥ kalyāṇyaḥ māpuḥ mad-vīrya-cintayā.
श्रीशुक उवाच।
एवं प्रियतमादिष्टमाकर्ण्य व्रजयोषितः। ता ऊचुरुद्धवं प्रीतास्तत्सन्देशागतस्मृतीः ३८।
एवम् प्रियतम-आदिष्टम् आकर्ण्य व्रज-योषितः। ताः ऊचुः उद्धवम् प्रीताः तद्-सन्देश-आगत-स्मृतीः।
evam priyatama-ādiṣṭam ākarṇya vraja-yoṣitaḥ. tāḥ ūcuḥ uddhavam prītāḥ tad-sandeśa-āgata-smṛtīḥ.
गोप्य ऊचुः।
दिष्ट्याहितो हतः कंसो यदूनां सानुगोऽघकृत्। दिष्ट्याप्तैर्लब्धसर्वार्थैः कुशल्यास्तेऽच्युतोऽधुना ३९।
दिष्ट्या आहितः हतः कंसः यदूनाम् स अनुगः अघ-कृत्। दिष्टि-आप्तैः लब्ध-सर्व-अर्थैः कुशल्याः ते अच्युतः अधुना।
diṣṭyā āhitaḥ hataḥ kaṃsaḥ yadūnām sa anugaḥ agha-kṛt. diṣṭi-āptaiḥ labdha-sarva-arthaiḥ kuśalyāḥ te acyutaḥ adhunā.
कच्चिद्गदाग्रजः सौम्य करोति पुरयोषिताम्। प्रीतिं नः स्निग्धसव्रीड हासोदारेक्षणार्चितः ४०।
कच्चित् गदाग्रजः सौम्य करोति पुर-योषिताम्। प्रीतिम् नः स्निग्ध-स व्रीड हास-उदार-ईक्षण-अर्चितः।
kaccit gadāgrajaḥ saumya karoti pura-yoṣitām. prītim naḥ snigdha-sa vrīḍa hāsa-udāra-īkṣaṇa-arcitaḥ.
कथं रतिविशेषज्ञः प्रियश्च पुरयोषिताम्। नानुबध्येत तद्वाक्यैर्विभ्रमैश्चानुभाजितः ४१।
कथम् रति-विशेष-ज्ञः प्रियः च पुर-योषिताम्। न अनुबध्येत तद्-वाक्यैः विभ्रमैः च अनुभाजितः।
katham rati-viśeṣa-jñaḥ priyaḥ ca pura-yoṣitām. na anubadhyeta tad-vākyaiḥ vibhramaiḥ ca anubhājitaḥ.
अपि स्मरति नः साधो गोविन्दः प्रस्तुते क्वचित्। गोष्ठिमध्ये पुरस्त्रीणाम्ग्राम्याः स्वैरकथान्तरे ४२।
अपि स्मरति नः साधो गोविन्दः प्रस्तुते क्वचिद्। गोष्ठि-मध्ये पुर-स्त्रीणाम् ग्राम्याः स्वैर-कथा-अन्तरे।
api smarati naḥ sādho govindaḥ prastute kvacid. goṣṭhi-madhye pura-strīṇām grāmyāḥ svaira-kathā-antare.
ताः किं निशाः स्मरति यासु तदा प्रियाभिर्। वृन्दावने कुमुदकुन्दशशाङ्करम्ये। रेमे क्वणच्चरणनूपुररासगोष्ठ्याम्। अस्माभिरीडितमनोज्ञकथः कदाचित् ४३।
ताः किम् निशाः स्मरति यासु तदा प्रियाभिः। वृन्दावने कुमुद-कुन्द-शशाङ्क-रम्ये। रेमे क्वणत्-चरण-नूपुर-रास-गोष्ठ्याम्। अस्माभिः ईडित-मनोज्ञ-कथः कदाचिद्।
tāḥ kim niśāḥ smarati yāsu tadā priyābhiḥ. vṛndāvane kumuda-kunda-śaśāṅka-ramye. reme kvaṇat-caraṇa-nūpura-rāsa-goṣṭhyām. asmābhiḥ īḍita-manojña-kathaḥ kadācid.
अप्येष्यतीह दाशार्हस्तप्ताः स्वकृतया शुचा। सञ्जीवयन्नु नो गात्रैर्यथेन्द्रो वनमम्बुदैः ४४।
अपि एष्यति इह दाशार्हः तप्ताः स्व-कृतया शुचा। सञ्जीवयन् नु नः गात्रैः यथा इन्द्रः वनम् अम्बुदैः।
api eṣyati iha dāśārhaḥ taptāḥ sva-kṛtayā śucā. sañjīvayan nu naḥ gātraiḥ yathā indraḥ vanam ambudaiḥ.
कस्मात्कृष्ण इहायाति प्राप्तराज्यो हताहितः। नरेन्द्र कन्या उद्वाह्य प्रीतः सर्वसुहृद्वृतः ४५।
कस्मात् कृष्णः इह आयाति प्राप्त-राज्यः हत-अहितः। नरेन्द्र कन्याः उद्वाह्य प्रीतः सर्व-सुहृद्-वृतः।
kasmāt kṛṣṇaḥ iha āyāti prāpta-rājyaḥ hata-ahitaḥ. narendra kanyāḥ udvāhya prītaḥ sarva-suhṛd-vṛtaḥ.
किमस्माभिर्वनौकोभिरन्याभिर्वा महात्मनः। श्रीपतेराप्तकामस्य क्रियेतार्थः कृतात्मनः ४६।
किम् अस्माभिः वन-ओकोभिः अन्याभिः वा महात्मनः। श्रीपतेः आप्त-कामस्य क्रियेत अर्थः कृतात्मनः।
kim asmābhiḥ vana-okobhiḥ anyābhiḥ vā mahātmanaḥ. śrīpateḥ āpta-kāmasya kriyeta arthaḥ kṛtātmanaḥ.
परं सौख्यं हि नैराश्यं स्वैरिण्यप्याह पिङ्गला। तज्जानतीनां नः कृष्णे तथाप्याशा दुरत्यया ४७।
परम् सौख्यम् हि नैराश्यम् स्वैरिणी अपि आह पिङ्गला। तत् जानतीनाम् नः कृष्णे तथा अपि आशा दुरत्यया।
param saukhyam hi nairāśyam svairiṇī api āha piṅgalā. tat jānatīnām naḥ kṛṣṇe tathā api āśā duratyayā.
क उत्सहेत सन्त्यक्तुमुत्तमःश्लोकसंविदम्। अनिच्छतोऽपि यस्य श्रीरङ्गान्न च्यवते क्वचित् ४८।
कः उत्सहेत सन् त्यक्तुम् उत्तमःश्लोक-संविदम्। अन् इच्छतः अपि यस्य श्रीः अङ्गात् न च्यवते क्वचिद्।
kaḥ utsaheta san tyaktum uttamaḥśloka-saṃvidam. an icchataḥ api yasya śrīḥ aṅgāt na cyavate kvacid.
सरिच्छैलवनोद्देशा गावो वेणुरवा इमे। सङ्कर्षणसहायेन कृष्णेनाचरिताः प्रभो ४९।
सरित्-शैल-वन-उद्देशाः गावः वेणु-रवाः इमे। सङ्कर्षण-सहायेन कृष्णेन आचरिताः प्रभो।
sarit-śaila-vana-uddeśāḥ gāvaḥ veṇu-ravāḥ ime. saṅkarṣaṇa-sahāyena kṛṣṇena ācaritāḥ prabho.
पुनः पुनः स्मारयन्ति नन्दगोपसुतं बत। श्रीनिकेतैस्तत्पदकैर्विस्मर्तुं नैव शक्नुमः ५०।
पुनर् पुनर् स्मारयन्ति नन्द-गोप-सुतम् बत। श्रीनिकेतैः तत् पदकैः विस्मर्तुम् न एव शक्नुमः।
punar punar smārayanti nanda-gopa-sutam bata. śrīniketaiḥ tat padakaiḥ vismartum na eva śaknumaḥ.
गत्या ललितयोदार हासलीलावलोकनैः। माध्व्या गिरा हृतधियः कथं तं विस्मराम हे ५१।
गत्या ललितया उदार हास-लीला-अवलोकनैः। माध्व्या गिरा हृत-धियः कथम् तम् विस्मराम हे।
gatyā lalitayā udāra hāsa-līlā-avalokanaiḥ. mādhvyā girā hṛta-dhiyaḥ katham tam vismarāma he.
हे नाथ हे रमानाथ व्रजनाथार्तिनाशन। मग्नमुद्धर गोविन्द गोकुलं वृजिनार्णवात् ५२।
हे नाथ हे रमानाथ व्रजनाथ आर्तिनाशन। मग्नम् उद्धर गोविन्द गोकुलम् वृजिन-अर्णवात्।
he nātha he ramānātha vrajanātha ārtināśana. magnam uddhara govinda gokulam vṛjina-arṇavāt.
श्रीशुक उवाच।
ततस्ताः कृष्णसन्देशैर्व्यपेतविरहज्वराः। उद्धवं पूजयांचक्रुर्ज्ञात्वात्मानमधोक्षजम् ५३।
ततस् ताः कृष्ण-सन्देशैः व्यपेत-विरह-ज्वराः। उद्धवम् पूजयांचक्रुः ज्ञात्वा आत्मानम् अधोक्षजम्।
tatas tāḥ kṛṣṇa-sandeśaiḥ vyapeta-viraha-jvarāḥ. uddhavam pūjayāṃcakruḥ jñātvā ātmānam adhokṣajam.
उवास कतिचिन्मासान्गोपीनां विनुदन्शुचः। कृष्णलीलाकथां गायन्रमयामास गोकुलम् ५४।
उवास कतिचिद् मासान् गोपीनाम् विनुदन् शुचः। कृष्ण-लीला-कथाम् गायन् रमयामास गोकुलम्।
uvāsa katicid māsān gopīnām vinudan śucaḥ. kṛṣṇa-līlā-kathām gāyan ramayāmāsa gokulam.
यावन्त्यहानि नन्दस्य व्रजेऽवात्सीत्स उद्धवः। व्रजौकसां क्षणप्रायाण्यासन्कृष्णस्य वार्तया ५५।
यावन्ति अहानि नन्दस्य व्रजे अवात्सीत् सः उद्धवः। व्रजौकसाम् क्षण-प्रायाणि आसन् कृष्णस्य वार्तया।
yāvanti ahāni nandasya vraje avātsīt saḥ uddhavaḥ. vrajaukasām kṣaṇa-prāyāṇi āsan kṛṣṇasya vārtayā.
सरिद्वनगिरिद्रो णीर्वीक्षन्कुसुमितान्द्रु मान्। कृष्णं संस्मारयन्रेमे हरिदासो व्रजौकसाम् ५६।
सरित्-वन-गिरि-द्रः णीः वीक्षन् कुसुमितान् द्रु मान्। कृष्णम् संस्मारयन् रेमे हरि-दासः व्रजौकसाम्।
sarit-vana-giri-draḥ ṇīḥ vīkṣan kusumitān dru mān. kṛṣṇam saṃsmārayan reme hari-dāsaḥ vrajaukasām.
दृष्ट्वैवमादि गोपीनां कृष्णावेशात्मविक्लवम्। उद्धवः परमप्रीतस्ता नमस्यन्निदं जगौ ५७।
दृष्ट्वा एवमादि गोपीनाम् कृष्ण-आवेश-आत्म-विक्लवम्। उद्धवः परम-प्रीतः ताः नमस्यन् इदम् जगौ।
dṛṣṭvā evamādi gopīnām kṛṣṇa-āveśa-ātma-viklavam. uddhavaḥ parama-prītaḥ tāḥ namasyan idam jagau.
एताः परं तनुभृतो भुवि गोपवध्वो। गोविन्द एव निखिलात्मनि रूढभावाः । वाञ्छन्ति यद्भवभियो मुनयो वयं च। किं ब्रह्मजन्मभिरनन्तकथारसस्य ५८।
एताः परम् तनुभृतः भुवि गोप-वध्वः। गोविन्दे एव निखिल-आत्मनि रूढ-भावाः । वाञ्छन्ति यत् भव-भियः मुनयः वयम् च। किम् ब्रह्म-जन्मभिः अनन्त-कथा-रसस्य।
etāḥ param tanubhṛtaḥ bhuvi gopa-vadhvaḥ. govinde eva nikhila-ātmani rūḍha-bhāvāḥ . vāñchanti yat bhava-bhiyaḥ munayaḥ vayam ca. kim brahma-janmabhiḥ ananta-kathā-rasasya.
क्वेमाः स्त्रियो वनचरीर्व्यभिचारदुष्टाः। कृष्णे क्व चैष परमात्मनि रूढभावः। नन्वीश्वरोऽनुभजतोऽविदुषोऽपि साक्षाच्। छ्रेयस्तनोत्यगदराज इवोपयुक्तः ५९।
क्व इमाः स्त्रियः वन-चरीः व्यभिचार-दुष्टाः। कृष्णे क्व च एष परमात्मनि रूढ-भावः। ननु ईश्वरः अनुभजतः अविदुषः अपि साक्षात्। छ्रेयः तनोति अगद-राजः इव उपयुक्तः।
kva imāḥ striyaḥ vana-carīḥ vyabhicāra-duṣṭāḥ. kṛṣṇe kva ca eṣa paramātmani rūḍha-bhāvaḥ. nanu īśvaraḥ anubhajataḥ aviduṣaḥ api sākṣāt. chreyaḥ tanoti agada-rājaḥ iva upayuktaḥ.
नायं श्रियोऽङ्ग उ नितान्तरतेः प्रसादः। स्वर्योषितां नलिनगन्धरुचां कुतोऽन्याः। रासोत्सवेऽस्य भुजदण्डगृहीतकण्ठ। लब्धाशिषां य उदगाद्व्रजवल्लभीनाम् ६०।
न अयम् श्रियः अङ्गे नितान्त-रतेः प्रसादः। स्वर् योषिताम् नलिन-गन्ध-रुचाम् कुतस् अन्याः। रास-उत्सवे अस्य भुज-दण्ड-गृहीत-कण्ठ। लब्ध-आशिषाम् यः उदगात् व्रज-वल्लभीनाम्।
na ayam śriyaḥ aṅge nitānta-rateḥ prasādaḥ. svar yoṣitām nalina-gandha-rucām kutas anyāḥ. rāsa-utsave asya bhuja-daṇḍa-gṛhīta-kaṇṭha. labdha-āśiṣām yaḥ udagāt vraja-vallabhīnām.
आसामहो चरणरेणुजुषामहं स्यां। वृन्दावने किमपि गुल्मलतौषधीनाम्। या दुस्त्यजं स्वजनमार्यपथं च हित्वा। भेजुर्मुकुन्दपदवीं श्रुतिभिर्विमृग्याम् ६१।
आसाम् अहो चरण-रेणु-जुषाम् अहम् स्याम्। वृन्दावने किम् अपि गुल्म-लता-ओषधीनाम्। याः दुस्त्यजम् स्व-जनम् आर्य-पथम् च हित्वा। भेजुः मुकुन्द-पदवीम् श्रुतिभिः विमृग्याम्।
āsām aho caraṇa-reṇu-juṣām aham syām. vṛndāvane kim api gulma-latā-oṣadhīnām. yāḥ dustyajam sva-janam ārya-patham ca hitvā. bhejuḥ mukunda-padavīm śrutibhiḥ vimṛgyām.
या वै श्रियार्चितमजादिभिराप्तकामैर्। योगेश्वरैरपि यदात्मनि रासगोष्ठ्याम्। कृष्णस्य तद्भगवतः चरणारविन्दं। न्यस्तं स्तनेषु विजहुः परिरभ्य तापम् ६२।
याः वै श्रिया अर्चितम् अज-आदिभिः आप्त-कामैः। योग-ईश्वरैः अपि यत् आत्मनि रासगोष्ठ्याम्। कृष्णस्य तत् भगवतः चरण-अरविन्दम्। न्यस्तम् स्तनेषु विजहुः परिरभ्य तापम्।
yāḥ vai śriyā arcitam aja-ādibhiḥ āpta-kāmaiḥ. yoga-īśvaraiḥ api yat ātmani rāsagoṣṭhyām. kṛṣṇasya tat bhagavataḥ caraṇa-aravindam. nyastam staneṣu vijahuḥ parirabhya tāpam.
वन्दे नन्दव्रजस्त्रीणां पादरेणुमभीक्ष्णशः। यासां हरिकथोद्गीतं पुनाति भुवनत्रयम् ६३।
वन्दे नन्द-व्रज-स्त्रीणाम् पाद-रेणुम् अभीक्ष्णशस्। यासाम् हरि-कथा-उद्गीतम् पुनाति भुवनत्रयम्।
vande nanda-vraja-strīṇām pāda-reṇum abhīkṣṇaśas. yāsām hari-kathā-udgītam punāti bhuvanatrayam.
श्रीशुक उवाच।
अथ गोपीरनुज्ञाप्य यशोदां नन्दमेव च। गोपानामन्त्र्य दाशार्हो यास्यन्नारुरुहे रथम् ६४।
अथ गोपीः अनुज्ञाप्य यशोदाम् नन्दम् एव च। गोपान् आमन्त्र्य दाशार्हः यास्यन् आरुरुहे रथम्।
atha gopīḥ anujñāpya yaśodām nandam eva ca. gopān āmantrya dāśārhaḥ yāsyan āruruhe ratham.
तं निर्गतं समासाद्य नानोपायनपाणयः। नन्दादयोऽनुरागेण प्रावोचन्नश्रुलोचनाः ६५।
तम् निर्गतम् समासाद्य नाना उपायन-पाणयः। नन्द-आदयः अनुरागेण प्रावोचन् अश्रु-लोचनाः।
tam nirgatam samāsādya nānā upāyana-pāṇayaḥ. nanda-ādayaḥ anurāgeṇa prāvocan aśru-locanāḥ.
मनसो वृत्तयो नः स्युः कृष्ण पादाम्बुजाश्रयाः। वाचोऽभिधायिनीर्नाम्नां कायस्तत्प्रह्वणादिषु ६६।
मनसः वृत्तयः नः स्युः कृष्ण पाद-अम्बुज-आश्रयाः। वाचः अभिधायिनीः नाम्नाम् कायः तद्-प्रह्वण-आदिषु।
manasaḥ vṛttayaḥ naḥ syuḥ kṛṣṇa pāda-ambuja-āśrayāḥ. vācaḥ abhidhāyinīḥ nāmnām kāyaḥ tad-prahvaṇa-ādiṣu.
कर्मभिर्भ्राम्यमाणानां यत्र क्वापीश्वरेच्छया। मङ्गलाचरितैर्दानै रतिर्नः कृष्ण ईश्वरे ६७।
कर्मभिः भ्राम्यमाणानाम् यत्र क्वापि ईश्वर-इच्छया। मङ्गल-आचरितैः दानैः रतिः नः कृष्णे ईश्वरे।
karmabhiḥ bhrāmyamāṇānām yatra kvāpi īśvara-icchayā. maṅgala-ācaritaiḥ dānaiḥ ratiḥ naḥ kṛṣṇe īśvare.
एवं सभाजितो गोपैः कृष्णभक्त्या नराधिप। उद्धवः पुनरागच्छन्मथुरां कृष्णपालिताम् ६८।
एवम् सभाजितः गोपैः कृष्ण-भक्त्या नराधिप। उद्धवः पुनर् आगच्छत् मथुराम् कृष्ण-पालिताम्।
evam sabhājitaḥ gopaiḥ kṛṣṇa-bhaktyā narādhipa. uddhavaḥ punar āgacchat mathurām kṛṣṇa-pālitām.
कृष्णाय प्रणिपत्याह भक्त्युद्रे कं व्रजौकसाम्। वसुदेवाय रामाय राज्ञे चोपायनान्यदात् ६९।
कृष्णाय भक्ति-उद्रे कम् व्रजौकसाम्। वसुदेवाय रामाय राज्ञे च उपायनानि अदात्।
kṛṣṇāya bhakti-udre kam vrajaukasām. vasudevāya rāmāya rājñe ca upāyanāni adāt.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In