| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच - ( अनुष्टुप् )
अथ विज्ञाय भगवान् सर्वात्मा सर्वदर्शनः । सैरन्ध्र्याः कामतप्तायाः प्रियमिच्छन् गृहं ययौ ॥ १ ॥
अथ विज्ञाय भगवान् सर्व-आत्मा सर्व-दर्शनः । सैरन्ध्र्याः काम-तप्तायाः प्रियम् इच्छन् गृहम् ययौ ॥ १ ॥
atha vijñāya bhagavān sarva-ātmā sarva-darśanaḥ . sairandhryāḥ kāma-taptāyāḥ priyam icchan gṛham yayau .. 1 ..
महार्होपस्करैराढ्यं कामोपायोपबृंहितम् । मुक्तादामपताकाभिः वितानशयनासनैः । धूपैः सुरभिभिर्दीपैः स्रग् गन्धैरपि मण्डितम् ॥ २ ॥
महार्ह-उपस्करैः आढ्यम् काम-उपाय-उपबृंहितम् । मुक्ता-दाम-पताकाभिः वितान-शयन-आसनैः । धूपैः सुरभिभिः दीपैः स्रज् गन्धैः अपि मण्डितम् ॥ २ ॥
mahārha-upaskaraiḥ āḍhyam kāma-upāya-upabṛṃhitam . muktā-dāma-patākābhiḥ vitāna-śayana-āsanaiḥ . dhūpaiḥ surabhibhiḥ dīpaiḥ sraj gandhaiḥ api maṇḍitam .. 2 ..
( मिश्र )
गृहं तमायान्तमवेक्ष्य सासनात् सद्यः समुत्थाय हि जातसम्भ्रमा । यथोपसङ्गम्य सखीभिरच्युतं सभाजयामास सत्-आसनादिभिः ॥ ३ ॥
गृहम् तम् आयान्तम् अवेक्ष्य सा आसनात् सद्यस् समुत्थाय हि जात-सम्भ्रमा । यथा उपसङ्गम्य सखीभिः अच्युतम् सभाजयामास सत्-आसन-आदिभिः ॥ ३ ॥
gṛham tam āyāntam avekṣya sā āsanāt sadyas samutthāya hi jāta-sambhramā . yathā upasaṅgamya sakhībhiḥ acyutam sabhājayāmāsa sat-āsana-ādibhiḥ .. 3 ..
तथोद्धवः साधुतयाभिपूजितो न्यषीददुर्व्यामभिमृश्य चासनम् । कृष्णोऽपि तूर्णं शयनं महाधनं विवेश लोकाचरितान्यनुव्रतः ॥ ४ ॥
तथा उद्धवः साधु-तया अभिपूजितः न्यषीदत् उर्व्याम् अभिमृश्य च आसनम् । कृष्णः अपि तूर्णम् शयनम् महाधनम् विवेश लोक-आचरितानि अनुव्रतः ॥ ४ ॥
tathā uddhavaḥ sādhu-tayā abhipūjitaḥ nyaṣīdat urvyām abhimṛśya ca āsanam . kṛṣṇaḥ api tūrṇam śayanam mahādhanam viveśa loka-ācaritāni anuvrataḥ .. 4 ..
सा मज्जनालेपदुकूलभूषण स्रग्गन्धताम्बूलसुधासवादिभिः । प्रसाधितात्मोपससार माधवं सव्रीडलीलोत्स्मितविभ्रमेक्षितैः ॥ ५ ॥
सा मज्जन-आलेप-दुकूल-भूषण-स्रज्-गन्ध-ताम्बूल-सुधा-आसव-आदिभिः । प्रसाधित-आत्मा उपससार माधवम् स व्रीड-लीला-उत्स्मित-विभ्रम-ईक्षितैः ॥ ५ ॥
sā majjana-ālepa-dukūla-bhūṣaṇa-sraj-gandha-tāmbūla-sudhā-āsava-ādibhiḥ . prasādhita-ātmā upasasāra mādhavam sa vrīḍa-līlā-utsmita-vibhrama-īkṣitaiḥ .. 5 ..
आहूय कान्तां नवसङ्गमह्रिया विशङ्कितां कङ्कणभूषिते करे । प्रगृह्य शय्यामधिवेश्य रामया रेमेऽनुलेपार्पणपुण्यलेशया ॥ ६ ॥
आहूय कान्ताम् नव-सङ्गम-ह्रिया विशङ्किताम् कङ्कण-भूषिते करे । प्रगृह्य शय्याम् अधिवेश्य रामया रेमे अनुलेप-अर्पण-पुण्य-लेशया ॥ ६ ॥
āhūya kāntām nava-saṅgama-hriyā viśaṅkitām kaṅkaṇa-bhūṣite kare . pragṛhya śayyām adhiveśya rāmayā reme anulepa-arpaṇa-puṇya-leśayā .. 6 ..
( वसंततिलका )
सानङ्गतप्तकुचयोरुरसस्तथाक्ष्णोः जिघ्रन्त्यनन्तचरणेन रुजो मृजन्ती । दोर्भ्यां स्तनान्तरगतं परिरभ्य कान्तम् आनन्दमूर्तिमजहादतिदीर्घतापम् ॥ ७ ॥
सा अनङ्ग-तप्त-कुचयोः उरसः तथा अक्ष्णोः जिघ्रन्ती अनन्त-चरणेन रुजः मृजन्ती । दोर्भ्याम् स्तन-अन्तर-गतम् परिरभ्य कान्तम् आनन्द-मूर्तिम् अजहात् अति दीर्घ-तापम् ॥ ७ ॥
sā anaṅga-tapta-kucayoḥ urasaḥ tathā akṣṇoḥ jighrantī ananta-caraṇena rujaḥ mṛjantī . dorbhyām stana-antara-gatam parirabhya kāntam ānanda-mūrtim ajahāt ati dīrgha-tāpam .. 7 ..
( अनुष्टुप् )
सैवं कैवल्यनाथं तं प्राप्य दुष्प्राप्यमीश्वरम् । अङ्गरागार्पणेनाहो दुर्भगेदमयाचत ॥ ८ ॥
सा एवम् कैवल्य-नाथम् तम् प्राप्य दुष्प्राप्यम् ईश्वरम् । अङ्गराग-अर्पणेन अहो दुर्भगा इदम् अयाचत ॥ ८ ॥
sā evam kaivalya-nātham tam prāpya duṣprāpyam īśvaram . aṅgarāga-arpaṇena aho durbhagā idam ayācata .. 8 ..
आहोष्यतामिह प्रेष्ठ दिनानि कतिचिन्मया । रमस्व नोत्सहे त्यक्तुं सङ्गं तेऽम्बुरुहेक्षण ॥ ९ ॥
आहोष्यताम् इह प्रेष्ठ दिनानि कतिचिद् मया । रमस्व ना उत्सहे त्यक्तुम् सङ्गम् ते अम्बुरुह-ईक्षण ॥ ९ ॥
āhoṣyatām iha preṣṭha dināni katicid mayā . ramasva nā utsahe tyaktum saṅgam te amburuha-īkṣaṇa .. 9 ..
तस्यै कामवरं दत्त्वा मानयित्वा च मानदः । सहोद्धवेन सर्वेशः स्वधामागमदर्चितम् ॥ १० ॥
तस्यै काम-वरम् दत्त्वा मानयित्वा च मानदः । सह उद्धवेन सर्व-ईशः स्वधाम् आगमत् अर्चितम् ॥ १० ॥
tasyai kāma-varam dattvā mānayitvā ca mānadaḥ . saha uddhavena sarva-īśaḥ svadhām āgamat arcitam .. 10 ..
दुरार्ध्यं समाराध्य विष्णुं सर्वेश्वरेश्वरम् । यो वृणीते मनोग्राह्यं असत्त्वात् कुमनीष्यसौ ॥ ११ ॥
दुरार्ध्यम् समाराध्य विष्णुम् सर्व-ईश्वर-ईश्वरम् । यः वृणीते मनः-ग्राह्यम् असत्त्वात् कुमनीषी असौ ॥ ११ ॥
durārdhyam samārādhya viṣṇum sarva-īśvara-īśvaram . yaḥ vṛṇīte manaḥ-grāhyam asattvāt kumanīṣī asau .. 11 ..
अक्रूरभवनं कृष्णः सहरामोद्धवः प्रभुः । किञ्चित् चिकीर्षयन् प्रागाद् अक्रूरप्रीयकाम्यया ॥ १२ ॥
अक्रूर-भवनम् कृष्णः सहराम उद्धवः प्रभुः । किञ्चिद् चिकीर्षयन् प्रागात् अक्रूर-प्रीय-काम्यया ॥ १२ ॥
akrūra-bhavanam kṛṣṇaḥ saharāma uddhavaḥ prabhuḥ . kiñcid cikīrṣayan prāgāt akrūra-prīya-kāmyayā .. 12 ..
स तान् नरवरश्रेष्ठान् आरात् वीक्ष्य स्वबान्धवान् । प्रत्युत्थाय प्रमुदितः परिष्वज्याभिनन्द्य च ॥ १३ ॥
स तान् नर-वर-श्रेष्ठान् आरात् वीक्ष्य स्व-बान्धवान् । प्रत्युत्थाय प्रमुदितः परिष्वज्य अभिनन्द्य च ॥ १३ ॥
sa tān nara-vara-śreṣṭhān ārāt vīkṣya sva-bāndhavān . pratyutthāya pramuditaḥ pariṣvajya abhinandya ca .. 13 ..
ननाम कृष्णं रामं च स तैरप्यभिवादितः । पूजयामास विधिवत् कृतासनपरिग्रहान् ॥ १४ ॥
ननाम कृष्णम् रामम् च स तैः अपि अभिवादितः । पूजयामास विधिवत् कृत-आसन-परिग्रहान् ॥ १४ ॥
nanāma kṛṣṇam rāmam ca sa taiḥ api abhivāditaḥ . pūjayāmāsa vidhivat kṛta-āsana-parigrahān .. 14 ..
पादावनेजनीरापो धारयन् शिरसा नृप । अर्हणेनाम्बरैर्दिव्यैः गन्धस्रग् भूषणोत्तमैः ॥ १५ ॥
पाद-अवनेजनीः आपः धारयन् शिरसा नृप । अर्हणेन अम्बरैः दिव्यैः गन्ध-स्रज् भूषण-उत्तमैः ॥ १५ ॥
pāda-avanejanīḥ āpaḥ dhārayan śirasā nṛpa . arhaṇena ambaraiḥ divyaiḥ gandha-sraj bhūṣaṇa-uttamaiḥ .. 15 ..
अर्चित्वा शिरसानम्य पादावङ्कगतौ मृजन् । प्रश्रयावनतोऽक्रूरः कृष्णरामावभाषत ॥ १६ ॥
अर्चित्वा शिरसा आनम्य पादौ अङ्क-गतौ मृजन् । प्रश्रय-अवनतः अक्रूरः कृष्ण-रामौ अभाषत ॥ १६ ॥
arcitvā śirasā ānamya pādau aṅka-gatau mṛjan . praśraya-avanataḥ akrūraḥ kṛṣṇa-rāmau abhāṣata .. 16 ..
दिष्ट्या पापो हतः कंसः सानुगो वामिदं कुलम् । भवद्भ्यामुद्धृतं कृच्छ्राद् दुरन्ताच्च समेधितम् ॥ १७ ॥
दिष्ट्या पापः हतः कंसः स अनुगः वाम् इदम् कुलम् । भवद्भ्याम् उद्धृतम् कृच्छ्रात् दुरन्तात् च समेधितम् ॥ १७ ॥
diṣṭyā pāpaḥ hataḥ kaṃsaḥ sa anugaḥ vām idam kulam . bhavadbhyām uddhṛtam kṛcchrāt durantāt ca samedhitam .. 17 ..
युवां प्रधानपुरुषौ जगद्धेतू जगन्मयौ । भवद्भ्यां न विना किञ्चित् परमस्ति न चापरम् ॥ १८ ॥
युवाम् प्रधान-पुरुषौ जगत्-हेतू जगत्-मयौ । भवद्भ्याम् न विना किञ्चिद् परम् अस्ति न च अपरम् ॥ १८ ॥
yuvām pradhāna-puruṣau jagat-hetū jagat-mayau . bhavadbhyām na vinā kiñcid param asti na ca aparam .. 18 ..
आत्मसृष्टमिदं विश्वं अन्वाविश्य स्वशक्तिभिः । ईयते बहुधा ब्रह्मन् श्रुतप्रत्यक्षगोचरम् ॥ १९ ॥
आत्म-सृष्टम् इदम् विश्वम् अन्वाविश्य स्व-शक्तिभिः । ईयते बहुधा ब्रह्मन् श्रुत-प्रत्यक्ष-गोचरम् ॥ १९ ॥
ātma-sṛṣṭam idam viśvam anvāviśya sva-śaktibhiḥ . īyate bahudhā brahman śruta-pratyakṣa-gocaram .. 19 ..
( मिश्र )
यथा हि भूतेषु चराचरेषु मह्यादयो योनिषु भान्ति नाना । एवं भवान्केवल आत्मयोनिषु आत्मात्मतन्त्रो बहुधा विभाति ॥ २० ॥
यथा हि भूतेषु चराचरेषु मही-आदयः योनिषु भान्ति नाना । एवम् भवान् केवलः आत्मयोनिषु आत्मा आत्मतन्त्रः बहुधा विभाति ॥ २० ॥
yathā hi bhūteṣu carācareṣu mahī-ādayaḥ yoniṣu bhānti nānā . evam bhavān kevalaḥ ātmayoniṣu ātmā ātmatantraḥ bahudhā vibhāti .. 20 ..
सृजस्यथो लुम्पसि पासि विश्वं रजस्तमःसत्त्वगुणैः स्वशक्तिभिः । न बध्यसे तद्गुणकर्मभिर्वा ज्ञानात्मनस्ते क्व च बन्धहेतुः ॥ २१ ॥
सृजसि अथो लुम्पसि पासि विश्वम् रजः-तमः-सत्त्व-गुणैः स्व-शक्तिभिः । न बध्यसे तद्-गुण-कर्मभिः वा ज्ञान-आत्मनः ते क्व च बन्ध-हेतुः ॥ २१ ॥
sṛjasi atho lumpasi pāsi viśvam rajaḥ-tamaḥ-sattva-guṇaiḥ sva-śaktibhiḥ . na badhyase tad-guṇa-karmabhiḥ vā jñāna-ātmanaḥ te kva ca bandha-hetuḥ .. 21 ..
देहाद्युपाधेरनिरूपितत्वाद् भवो न साक्षान्न भिदात्मनः स्यात् । अतो न बन्धस्तव नैव मोक्षः स्यातां निकामस्त्वयि नोऽविवेकः ॥ २२ ॥
देह-आदि-उपाधेः अनिरूपित-त्वात् भवः न साक्षात् न भिदा आत्मनः स्यात् । अतस् न बन्धः तव ना एव मोक्षः स्याताम् निकामः त्वयि नो अविवेकः ॥ २२ ॥
deha-ādi-upādheḥ anirūpita-tvāt bhavaḥ na sākṣāt na bhidā ātmanaḥ syāt . atas na bandhaḥ tava nā eva mokṣaḥ syātām nikāmaḥ tvayi no avivekaḥ .. 22 ..
त्वयोदितोऽयं जगतो हिताय यदा यदा वेदपथः पुराणः । बाध्येत पाषण्डपथैरसद्भिः तदा भवान् सन्सत्त्वगुणं बिभर्ति ॥ २३ ॥
त्वया उदितः अयम् जगतः हिताय यदा यदा वेद-पथः पुराणः । बाध्येत पाषण्ड-पथैः असद्भिः तदा भवान् सन् सत्त्व-गुणम् बिभर्ति ॥ २३ ॥
tvayā uditaḥ ayam jagataḥ hitāya yadā yadā veda-pathaḥ purāṇaḥ . bādhyeta pāṣaṇḍa-pathaiḥ asadbhiḥ tadā bhavān san sattva-guṇam bibharti .. 23 ..
( वसंततिलका )
स त्वं प्रभोऽद्य वसुदेवगृहेऽवतीर्णः स्वांशेन भारमपनेतुमिहासि भूमेः । अक्षौहिणीशतवधेन सुरेतरांश राज्ञाममुष्य च कुलस्य यशो वितन्वन् ॥ २४ ॥
स त्वम् प्रभो अद्य वसुदेव-गृहे अवतीर्णः स्व-अंशेन भारम् अपनेतुम् इह असि भूमेः । अक्षौहिणी-शत-वधेन सुरेतर-अंश राज्ञाम् अमुष्य च कुलस्य यशः वितन्वन् ॥ २४ ॥
sa tvam prabho adya vasudeva-gṛhe avatīrṇaḥ sva-aṃśena bhāram apanetum iha asi bhūmeḥ . akṣauhiṇī-śata-vadhena suretara-aṃśa rājñām amuṣya ca kulasya yaśaḥ vitanvan .. 24 ..
अद्येश नो वसतयः खलु भूरिभागा यः सर्वदेवपितृभूतनृदेवमूर्तिः । यत्पादशौचसलिलं त्रिजगय् पुनाति स त्वं जगद्गुरुरधोक्षज याः प्रविष्टः ॥ २५ ॥
अद्या ईश नः वसतयः खलु भूरि-भागाः यः सर्व-देव-पितृ-भूत-नृदेव-मूर्तिः । यद्-पाद-शौच-सलिलम् त्रिजगय् पुनाति स त्वम् जगद्गुरुः अधोक्षज याः प्रविष्टः ॥ २५ ॥
adyā īśa naḥ vasatayaḥ khalu bhūri-bhāgāḥ yaḥ sarva-deva-pitṛ-bhūta-nṛdeva-mūrtiḥ . yad-pāda-śauca-salilam trijagay punāti sa tvam jagadguruḥ adhokṣaja yāḥ praviṣṭaḥ .. 25 ..
कः पण्डितस्त्वदपरं शरणं समीयाद् भक्तप्रियादृतगिरः सुहृदः कृतज्ञात् । सर्वान् ददाति सुहृदो भजतोऽभिकामान् आत्मानमप्युपचयापचयौ न यस्य ॥ २६ ॥
कः पण्डितः त्वद्-अपरम् शरणम् समीयात् भक्त-प्रिय-आदृत-गिरः सुहृदः कृतज्ञात् । सर्वान् ददाति सुहृदः भजतः अभिकामान् आत्मानम् अपि उपचय-अपचयौ न यस्य ॥ २६ ॥
kaḥ paṇḍitaḥ tvad-aparam śaraṇam samīyāt bhakta-priya-ādṛta-giraḥ suhṛdaḥ kṛtajñāt . sarvān dadāti suhṛdaḥ bhajataḥ abhikāmān ātmānam api upacaya-apacayau na yasya .. 26 ..
दिष्ट्या जनार्दन भवानिह नः प्रतीतो योगेश्वरैरपि दुरापगतिः सुरेशैः । छिन्ध्याशु नः सुतकलत्रधनाप्तगेह देहादिमोहरशनां भवदीयमायाम् ॥ २७ ॥
दिष्ट्या जनार्दन भवान् इह नः प्रतीतः योग-ईश्वरैः अपि दुरापगतिः सुर-ईशैः । छिन्द्धि आशु नः सुत-कलत्र-धन-आप्त-गेह देह-आदि-मोह-रशनाम् भवदीय-मायाम् ॥ २७ ॥
diṣṭyā janārdana bhavān iha naḥ pratītaḥ yoga-īśvaraiḥ api durāpagatiḥ sura-īśaiḥ . chinddhi āśu naḥ suta-kalatra-dhana-āpta-geha deha-ādi-moha-raśanām bhavadīya-māyām .. 27 ..
( अनुष्टुप् )
इत्यर्चितः संस्तुतश्च भक्तेन भगवान्हरिः । अक्रूरं सस्मितं प्राह गीर्भिः सम्मोहयन्निव ॥ २८ ॥
इति अर्चितः संस्तुतः च भक्तेन भगवान् हरिः । अक्रूरम् स स्मितम् प्राह गीर्भिः सम्मोहयन् इव ॥ २८ ॥
iti arcitaḥ saṃstutaḥ ca bhaktena bhagavān hariḥ . akrūram sa smitam prāha gīrbhiḥ sammohayan iva .. 28 ..
श्रीभगवानुवाच ।
त्वं नो गुरुः पितृव्यश्च श्लाघ्यो बन्धुश्च नित्यदा । वयं तु रक्ष्याः पोष्याश्च अनुकम्प्याः प्रजा हि वः ॥ २९ ॥
त्वम् नः गुरुः पितृव्यः च श्लाघ्यः बन्धुः च नित्यदा । वयम् तु रक्ष्याः पोष्याः च अनुकम्प्याः प्रजाः हि वः ॥ २९ ॥
tvam naḥ guruḥ pitṛvyaḥ ca ślāghyaḥ bandhuḥ ca nityadā . vayam tu rakṣyāḥ poṣyāḥ ca anukampyāḥ prajāḥ hi vaḥ .. 29 ..
भवद्विधा महाभागा निषेव्या अर्हसत्तमाः । श्रेयस्कामैर्नृभिर्नित्यं देवाः स्वार्था न साधवः ॥ ३० ॥
भवद्विधाः महाभागाः निषेव्याः अर्ह-सत्तमाः । श्रेयस्कामैः नृभिः नित्यम् देवाः स्व-अर्थाः न साधवः ॥ ३० ॥
bhavadvidhāḥ mahābhāgāḥ niṣevyāḥ arha-sattamāḥ . śreyaskāmaiḥ nṛbhiḥ nityam devāḥ sva-arthāḥ na sādhavaḥ .. 30 ..
न ह्यम्मयानि तीर्थानि न देवा मृच्छिलामयाः । ते पुनन्त्युरुकालेन दर्शनादेव साधवः ॥ ३१ ॥
न हि अम्-मयानि तीर्थानि न देवाः मृद्-शिला-मयाः । ते पुनन्ति उरु-कालेन दर्शनात् एव साधवः ॥ ३१ ॥
na hi am-mayāni tīrthāni na devāḥ mṛd-śilā-mayāḥ . te punanti uru-kālena darśanāt eva sādhavaḥ .. 31 ..
स भवान्सुहृदां वै नः श्रेयान् श्रेयश्चिकीर्षया । जिज्ञासार्थं पाण्डवानां गच्छस्व त्वं गजाह्वयम् ॥ ३२ ॥
स भवान् सुहृदाम् वै नः श्रेयान् श्रेयः-चिकीर्षया । जिज्ञासा-अर्थम् पाण्डवानाम् गच्छस्व त्वम् गजाह्वयम् ॥ ३२ ॥
sa bhavān suhṛdām vai naḥ śreyān śreyaḥ-cikīrṣayā . jijñāsā-artham pāṇḍavānām gacchasva tvam gajāhvayam .. 32 ..
पितर्युपरते बालाः सह मात्रा सुदुःखिताः । आनीताः स्वपुरं राज्ञा वसन्त इति शुश्रुम ॥ ३३ ॥
पितरि उपरते बालाः सह मात्रा सु दुःखिताः । आनीताः स्व-पुरम् राज्ञा वसन्ते इति शुश्रुम ॥ ३३ ॥
pitari uparate bālāḥ saha mātrā su duḥkhitāḥ . ānītāḥ sva-puram rājñā vasante iti śuśruma .. 33 ..
तेषु राजाम्बिकापुत्रो भ्रातृपुत्रेषु दीनधीः । समो न वर्तते नूनं दुष्पुत्रवशगोऽन्धदृक् ॥ ३४ ॥
तेषु राजा अम्बिका-पुत्रः भ्रातृ-पुत्रेषु दीन-धीः । समः न वर्तते नूनम् दुष्पुत्र-वशगः अन्ध-दृश् ॥ ३४ ॥
teṣu rājā ambikā-putraḥ bhrātṛ-putreṣu dīna-dhīḥ . samaḥ na vartate nūnam duṣputra-vaśagaḥ andha-dṛś .. 34 ..
गच्छ जानीहि तद्वृत्तं अधुना साध्वसाधु वा । विज्ञाय तद् विधास्यामो यथा शं सुहृदां भवेत् ॥ ३५ ॥
गच्छ जानीहि तद्-वृत्तम् अधुना साधु असाधु वा । विज्ञाय तत् विधास्यामः यथा शम् सुहृदाम् भवेत् ॥ ३५ ॥
gaccha jānīhi tad-vṛttam adhunā sādhu asādhu vā . vijñāya tat vidhāsyāmaḥ yathā śam suhṛdām bhavet .. 35 ..
इत्यक्रूरं समादिश्य भगवान् हरिरीश्वरः । सङ्कर्षणोद्धवाभ्यां वै ततः स्वभवनं ययौ ॥ ३६ ॥
इति अक्रूरम् समादिश्य भगवान् हरिः ईश्वरः । सङ्कर्षण-उद्धवाभ्याम् वै ततस् स्व-भवनम् ययौ ॥ ३६ ॥
iti akrūram samādiśya bhagavān hariḥ īśvaraḥ . saṅkarṣaṇa-uddhavābhyām vai tatas sva-bhavanam yayau .. 36 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे अष्टचत्वारिंशोऽध्यायः ॥ ४८ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् दशम-स्कन्धे पूर्व-अर्धे अष्टचत्वारिंशः अध्यायः ॥ ४८ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām daśama-skandhe pūrva-ardhe aṣṭacatvāriṃśaḥ adhyāyaḥ .. 48 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In