| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच - ( अनुष्टुप् )
स गत्वा हास्तिनपुरं पौरवेन्द्रयशोऽङ्कितम् । ददर्श तत्राम्बिकेयं सभीष्मं विदुरं पृथाम् ॥ १ ॥
स गत्वा हास्तिनपुरम् पौरव-इन्द्र-यशः-अङ्कितम् । ददर्श तत्र अम्बिकेयम् स भीष्मम् विदुरम् पृथाम् ॥ १ ॥
sa gatvā hāstinapuram paurava-indra-yaśaḥ-aṅkitam . dadarśa tatra ambikeyam sa bhīṣmam viduram pṛthām .. 1 ..
सहपुत्रं च बाह्लीकं भारद्वाजं सगौतमम् । कर्णं सुयोधनं द्रौणिं पाण्डवान्सुहृदोऽपरान् ॥ २ ॥
सह पुत्रम् च वाह्लीकम् भारद्वाजम् स गौतमम् । कर्णम् सुयोधनम् द्रौणिम् पाण्डवान् सुहृदः अपरान् ॥ २ ॥
saha putram ca vāhlīkam bhāradvājam sa gautamam . karṇam suyodhanam drauṇim pāṇḍavān suhṛdaḥ aparān .. 2 ..
यथावद् उपसङ्गम्य बन्धुभिर्गान्दिनीसुतः । सम्पृष्टस्तैः सुहृद्वार्तां स्वयं चापृच्छदव्ययम् ॥ ३ ॥
यथावत् उपसङ्गम्य बन्धुभिः गान्दिनी-सुतः । सम्पृष्टः तैः सुहृद्-वार्ताम् स्वयम् च अपृच्छत् अव्ययम् ॥ ३ ॥
yathāvat upasaṅgamya bandhubhiḥ gāndinī-sutaḥ . sampṛṣṭaḥ taiḥ suhṛd-vārtām svayam ca apṛcchat avyayam .. 3 ..
उवास कतिचिन्मासान् राज्ञो वृत्तविवित्सया । दुष्प्रजस्याल्पसारस्य खलच्छन्दानुवर्तिनः ॥ ४ ॥
उवास कतिचिद् मासान् राज्ञः वृत्त-विवित्सया । दुष्प्रजस्य अल्प-सारस्य खल-छन्द-अनुवर्तिनः ॥ ४ ॥
uvāsa katicid māsān rājñaḥ vṛtta-vivitsayā . duṣprajasya alpa-sārasya khala-chanda-anuvartinaḥ .. 4 ..
तेज ओजो बलं वीर्यं प्रश्रयादींश्च सद्गुणान् । प्रजानुरागं पार्थेषु न सहद्भिश्चिकीर्षितम् ॥ ५ ॥
तेजः ओजः बलम् वीर्यम् प्रश्रय-आदीन् च सत्-गुणान् । प्रजा-अनुरागम् पार्थेषु न सहद्भिः चिकीर्षितम् ॥ ५ ॥
tejaḥ ojaḥ balam vīryam praśraya-ādīn ca sat-guṇān . prajā-anurāgam pārtheṣu na sahadbhiḥ cikīrṣitam .. 5 ..
कृतं च धार्तराष्ट्रैर्यद् गरदानाद्यपेशलम् । आचख्यौ सर्वमेवास्मै पृथा विदुर एव च ॥ ६ ॥
कृतम् च धार्तराष्ट्रैः यत् गर-दान-आदि अपेशलम् । आचख्यौ सर्वम् एव अस्मै पृथा विदुरः एव च ॥ ६ ॥
kṛtam ca dhārtarāṣṭraiḥ yat gara-dāna-ādi apeśalam . ācakhyau sarvam eva asmai pṛthā viduraḥ eva ca .. 6 ..
पृथा तु भ्रातरं प्राप्तं अक्रूरमुपसृत्य तम् । उवाच जन्मनिलयं स्मरन्त्यश्रुकलेक्षणा ॥ ७ ॥
पृथा तु भ्रातरम् प्राप्तम् अक्रूरम् उपसृत्य तम् । उवाच जन्म-निलयम् स्मरन्ती अश्रु-कल-ईक्षणा ॥ ७ ॥
pṛthā tu bhrātaram prāptam akrūram upasṛtya tam . uvāca janma-nilayam smarantī aśru-kala-īkṣaṇā .. 7 ..
अपि स्मरन्ति नः सौम्य पितरौ भ्रातरश्च मे । भगिन्यौ भ्रातृपुत्राश्च जामयः सख्य एव च ॥ ८ ॥
अपि स्मरन्ति नः सौम्य पितरौ भ्रातरः च मे । भगिन्यौ भ्रातृ-पुत्राः च जामयः सख्यः एव च ॥ ८ ॥
api smaranti naḥ saumya pitarau bhrātaraḥ ca me . bhaginyau bhrātṛ-putrāḥ ca jāmayaḥ sakhyaḥ eva ca .. 8 ..
भ्रात्रेयो भगवान् कृष्णः शरण्यो भक्तवत्सलः । पैतृष्वसेयान् स्मरति रामश्चाम्बुरुहेक्षणः ॥ ९ ॥
भ्रात्रेयः भगवान् कृष्णः शरण्यः भक्त-वत्सलः । पैतृष्वसेयान् स्मरति रामः च अम्बुरुह-ईक्षणः ॥ ९ ॥
bhrātreyaḥ bhagavān kṛṣṇaḥ śaraṇyaḥ bhakta-vatsalaḥ . paitṛṣvaseyān smarati rāmaḥ ca amburuha-īkṣaṇaḥ .. 9 ..
सपत्नमध्ये शोचन्तीं वृकानां हरिणीमिव । सान्त्वयिष्यति मां वाक्यैः पितृहीनांश्च बालकान् ॥ १० ॥
सपत्न-मध्ये शोचन्तीम् वृकानाम् हरिणीम् इव । सान्त्वयिष्यति माम् वाक्यैः पितृ-हीनान् च बालकान् ॥ १० ॥
sapatna-madhye śocantīm vṛkānām hariṇīm iva . sāntvayiṣyati mām vākyaiḥ pitṛ-hīnān ca bālakān .. 10 ..
कृष्ण कृष्ण महायोगिन् विश्वात्मन् विश्वभावन । प्रपन्नां पाहि गोविन्द शिशुभिश्चावसीदतीम् ॥ ११ ॥
कृष्ण कृष्ण महायोगिन् विश्वात्मन् विश्वभावन । प्रपन्नाम् पाहि गोविन्द शिशुभिः च अवसीदतीम् ॥ ११ ॥
kṛṣṇa kṛṣṇa mahāyogin viśvātman viśvabhāvana . prapannām pāhi govinda śiśubhiḥ ca avasīdatīm .. 11 ..
नान्यत्तव पदाम्भोजात् पश्यामि शरणं नृणाम् । बिभ्यतां मृत्युसंसाराद् ईस्वरस्यापवर्गिकात् ॥ १२ ॥
न अन्यत् तव पद-अम्भोजात् पश्यामि शरणम् नृणाम् । बिभ्यताम् मृत्यु-संसारात् ॥ १२ ॥
na anyat tava pada-ambhojāt paśyāmi śaraṇam nṛṇām . bibhyatām mṛtyu-saṃsārāt .. 12 ..
नमः कृष्णाय शुद्धाय ब्रह्मणे परमात्मने । योगेश्वराय योगाय त्वामहं शरणं गता ॥ १३ ॥
नमः कृष्णाय शुद्धाय ब्रह्मणे परमात्मने । योगेश्वराय योगाय त्वाम् अहम् शरणम् गता ॥ १३ ॥
namaḥ kṛṣṇāya śuddhāya brahmaṇe paramātmane . yogeśvarāya yogāya tvām aham śaraṇam gatā .. 13 ..
श्रीशुक उवाच -
इत्यनुस्मृत्य स्वजनं कृष्णं च जगदीश्वरम् । प्रारुदद् दुखिता राजन् भवतां प्रपितामही ॥ १४ ॥
इति अनुस्मृत्य स्व-जनम् कृष्णम् च जगत्-ईश्वरम् । प्रारुदत् दुखिता राजन् भवताम् प्रपितामही ॥ १४ ॥
iti anusmṛtya sva-janam kṛṣṇam ca jagat-īśvaram . prārudat dukhitā rājan bhavatām prapitāmahī .. 14 ..
समदुःखसुखोऽक्रूरो विदुरश्च महायशाः । सान्त्वयामासतुः कुन्तीं तत्पुत्रोत्पत्तिहेतुभिः ॥ १५ ॥
सम-दुःख-सुखः अक्रूरः विदुरः च महा-यशाः । सान्त्वयामासतुः कुन्तीम् तद्-पुत्र-उत्पत्ति-हेतुभिः ॥ १५ ॥
sama-duḥkha-sukhaḥ akrūraḥ viduraḥ ca mahā-yaśāḥ . sāntvayāmāsatuḥ kuntīm tad-putra-utpatti-hetubhiḥ .. 15 ..
यास्यन् राजानमभ्येत्य विषमं पुत्रलालसम् । अवदत्सुहृदां मध्ये बन्धुभिः सौहृदोदितम् ॥ १६ ॥
यास्यन् राजानम् अभ्येत्य विषमम् पुत्र-लालसम् । अवदत् सुहृदाम् मध्ये बन्धुभिः सौहृद-उदितम् ॥ १६ ॥
yāsyan rājānam abhyetya viṣamam putra-lālasam . avadat suhṛdām madhye bandhubhiḥ sauhṛda-uditam .. 16 ..
अक्रूर उवाच -
भो भो वैचित्रवीर्य त्वं कुरूणां कीर्तिवर्धन । भ्रातर्युपरते पाण्डौ अधुनाऽऽसनमास्थितः ॥ १७ ॥
भो भो वैचित्रवीर्य त्वम् कुरूणाम् कीर्ति-वर्धन । भ्रातरि उपरते पाण्डौ अधुना आसनम् आस्थितः ॥ १७ ॥
bho bho vaicitravīrya tvam kurūṇām kīrti-vardhana . bhrātari uparate pāṇḍau adhunā āsanam āsthitaḥ .. 17 ..
धर्मेण पालयन् उर्वीं प्रजाः शीलेन रञ्जयन् । वर्तमानः समः स्वेषु श्रेयः कीर्तिमवाप्स्यसि ॥ १८ ॥
धर्मेण पालयन् उर्वीम् प्रजाः शीलेन रञ्जयन् । वर्तमानः समः स्वेषु श्रेयः कीर्तिम् अवाप्स्यसि ॥ १८ ॥
dharmeṇa pālayan urvīm prajāḥ śīlena rañjayan . vartamānaḥ samaḥ sveṣu śreyaḥ kīrtim avāpsyasi .. 18 ..
अन्यथा त्वाचरँल्लोके गर्हितो यास्यसे तमः । तस्मात्समत्वे वर्तस्व पाण्डवेष्वात्मजेषु च ॥ १९ ॥
अन्यथा त्वा आचरन् लोके गर्हितः यास्यसे तमः । तस्मात् समत्वे वर्तस्व पाण्डवेषु आत्मजेषु च ॥ १९ ॥
anyathā tvā ācaran loke garhitaḥ yāsyase tamaḥ . tasmāt samatve vartasva pāṇḍaveṣu ātmajeṣu ca .. 19 ..
नेह चात्यन्तसंवासः कस्यचित् केनचित् सह । राजन् स्वेनापि देहेन किमु जायात्मजादिभिः ॥ २० ॥
न इह च अत्यन्त-संवासः कस्यचिद् केनचिद् सह । राजन् स्वेन अपि देहेन किमु जाया-आत्मज-आदिभिः ॥ २० ॥
na iha ca atyanta-saṃvāsaḥ kasyacid kenacid saha . rājan svena api dehena kimu jāyā-ātmaja-ādibhiḥ .. 20 ..
एकः प्रसूयते जन्तुः एक एव प्रलीयते । एकोऽनुभुङ्क्ते सुकृतं एक एव च दुष्कृतम् ॥ २१ ॥
एकः प्रसूयते जन्तुः एकः एव प्रलीयते । एकः अनुभुङ्क्ते सुकृतम् एकः एव च दुष्कृतम् ॥ २१ ॥
ekaḥ prasūyate jantuḥ ekaḥ eva pralīyate . ekaḥ anubhuṅkte sukṛtam ekaḥ eva ca duṣkṛtam .. 21 ..
अधर्मोपचितं वित्तं हरन्त्यन्येऽल्पमेधसः । सम्भोजनीयापदेशैः जलानीव जलौकसः ॥ २२ ॥
अधर्म-उपचितम् वित्तम् हरन्ति अन्ये अल्पमेधसः । सम्भोजनीय-अपदेशैः जलानि इव जलौकसः ॥ २२ ॥
adharma-upacitam vittam haranti anye alpamedhasaḥ . sambhojanīya-apadeśaiḥ jalāni iva jalaukasaḥ .. 22 ..
पुष्णाति यानधर्मेण स्वबुद्ध्या तमपण्डितम् । तेऽकृतार्थं प्रहिण्वन्ति प्राणा रायः सुतादयः ॥ २३ ॥
पुष्णाति यान-धर्मेण स्व-बुद्ध्या तम् अपण्डितम् । ते अकृतार्थम् प्रहिण्वन्ति प्राणाः रायः सुत-आदयः ॥ २३ ॥
puṣṇāti yāna-dharmeṇa sva-buddhyā tam apaṇḍitam . te akṛtārtham prahiṇvanti prāṇāḥ rāyaḥ suta-ādayaḥ .. 23 ..
स्वयं किल्बिषमादाय तैस्त्यक्तो नार्थकोविदः । असिद्धार्थो विशत्यन्धं स्वधर्मविमुखस्तमः ॥ २४ ॥
स्वयम् किल्बिषम् आदाय तैः त्यक्तः न अर्थ-कोविदः । अ सिद्धार्थः विशति अन्धम् स्वधर्म-विमुखः तमः ॥ २४ ॥
svayam kilbiṣam ādāya taiḥ tyaktaḥ na artha-kovidaḥ . a siddhārthaḥ viśati andham svadharma-vimukhaḥ tamaḥ .. 24 ..
तस्माल्लोकमिमं राजन् स्वप्नमायामनोरथम् । वीक्ष्यायम्यात्मनात्मानं समः शान्तो भव प्रभो ॥ २५ ॥
तस्मात् लोकम् इमम् राजन् स्वप्न-माया-मनोरथम् । वीक्ष्य आयम्य आत्मना आत्मानम् समः शान्तः भव प्रभो ॥ २५ ॥
tasmāt lokam imam rājan svapna-māyā-manoratham . vīkṣya āyamya ātmanā ātmānam samaḥ śāntaḥ bhava prabho .. 25 ..
धृतराष्ट्र उवाच -
यथा वदति कल्याणीं वाचं दानपते भवान् । तथानया न तृप्यामि मर्त्यः प्राप्य यथामृतम् ॥ २६ ॥
यथा वदति कल्याणीम् वाचम् दानपते भवान् । तथा अनया न तृप्यामि मर्त्यः प्राप्य यथा अमृतम् ॥ २६ ॥
yathā vadati kalyāṇīm vācam dānapate bhavān . tathā anayā na tṛpyāmi martyaḥ prāpya yathā amṛtam .. 26 ..
तथापि सूनृता सौम्य हृदि न स्थीयते चले । पुत्रानुरागविषमे विद्युत् सौदामनी यथा ॥ २७ ॥
तथा अपि सूनृता सौम्य हृदि न स्थीयते चले । पुत्र-अनुराग-विषमे विद्युत् सौदामनी यथा ॥ २७ ॥
tathā api sūnṛtā saumya hṛdi na sthīyate cale . putra-anurāga-viṣame vidyut saudāmanī yathā .. 27 ..
ईश्वरस्य विधिं को नु विधुनोत्यन्यथा पुमान् । भूमेर्भारावताराय योऽवतीर्णो यदोः कुले ॥ २८ ॥
ईश्वरस्य विधिम् कः नु विधुनोति अन्यथा पुमान् । भूमेः भार-अवताराय यः अवतीर्णः यदोः कुले ॥ २८ ॥
īśvarasya vidhim kaḥ nu vidhunoti anyathā pumān . bhūmeḥ bhāra-avatārāya yaḥ avatīrṇaḥ yadoḥ kule .. 28 ..
( वसंततिलका )
यो दुर्विमर्शपथया निजमाययेदं सृष्ट्वा गुणान् विभजते तदनुप्रविष्टः । तस्मै नमो दुरवबोधविहारतन्त्र संसारचक्रगतये परमेश्वराय ॥ २९ ॥
यः दुर्विमर्श-पथया निज-मायया इदम् सृष्ट्वा गुणान् विभजते तद्-अनुप्रविष्टः । तस्मै नमः दुरवबोध-विहार-तन्त्र संसार-चक्र-गतये परमेश्वराय ॥ २९ ॥
yaḥ durvimarśa-pathayā nija-māyayā idam sṛṣṭvā guṇān vibhajate tad-anupraviṣṭaḥ . tasmai namaḥ duravabodha-vihāra-tantra saṃsāra-cakra-gataye parameśvarāya .. 29 ..
श्रीशुक उवाच - ( अनुष्टुप् )
इत्यभिप्रेत्य नृपतेः अभिप्रायं स यादवः । सुहृद्भिः समनुज्ञातः पुनर्यदुपुरीमगात् ॥ ३० ॥
इति अभिप्रेत्य नृपतेः अभिप्रायम् स यादवः । सुहृद्भिः समनुज्ञातः पुनर् यदु-पुरीम् अगात् ॥ ३० ॥
iti abhipretya nṛpateḥ abhiprāyam sa yādavaḥ . suhṛdbhiḥ samanujñātaḥ punar yadu-purīm agāt .. 30 ..
शशंस रामकृष्णाभ्यां धृतराष्ट्रविचेष्टितम् । पाण्डवान् प्रति कौरव्य यदर्थं प्रेषितः स्वयम् ॥ ३१ ॥
शशंस राम-कृष्णाभ्याम् धृतराष्ट्र-विचेष्टितम् । पाण्डवान् प्रति कौरव्य यद्-अर्थम् प्रेषितः स्वयम् ॥ ३१ ॥
śaśaṃsa rāma-kṛṣṇābhyām dhṛtarāṣṭra-viceṣṭitam . pāṇḍavān prati kauravya yad-artham preṣitaḥ svayam .. 31 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे एकोनपञ्चाशोऽध्यायः ॥ ४९ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् दशम-स्कन्धे पूर्व-अर्धे एकोनपञ्चाशः अध्यायः ॥ ४९ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām daśama-skandhe pūrva-ardhe ekonapañcāśaḥ adhyāyaḥ .. 49 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In