| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच । ( अनुष्टुप् )
नन्दस्त्वात्मज उत्पन्ने जाताह्लादो महामनाः । आहूय विप्रान् वेदज्ञान् स्नातः शुचिरलंकृतः ॥ १ ॥
नन्दः तु आत्मजः उत्पन्ने जात-आह्लादः महामनाः । आहूय विप्रान् वेद-ज्ञान् स्नातः शुचिः अलंकृतः ॥ १ ॥
nandaḥ tu ātmajaḥ utpanne jāta-āhlādaḥ mahāmanāḥ . āhūya viprān veda-jñān snātaḥ śuciḥ alaṃkṛtaḥ .. 1 ..
वाचयित्वा स्वस्त्ययनं जातकर्मात्मजस्य वै । कारयामास विधिवत् पितृदेवार्चनं तथा ॥ २ ॥
वाचयित्वा स्वस्त्ययनम् जातकर्म आत्मजस्य वै । कारयामास विधिवत् पितृ-देव-अर्चनम् तथा ॥ २ ॥
vācayitvā svastyayanam jātakarma ātmajasya vai . kārayāmāsa vidhivat pitṛ-deva-arcanam tathā .. 2 ..
धेनूनां नियुते प्रादाद् विप्रेभ्यः समलंकृते । तिलाद्रीन् सप्त रत्नौघ शातकौंभांबरावृतान् ॥ ३ ॥
धेनूनाम् नियुते प्रादात् विप्रेभ्यः समलंकृते । तिल-अद्रीन् सप्त रत्न-ओघ-शातकौंभ-अम्बर-आवृतान् ॥ ३ ॥
dhenūnām niyute prādāt viprebhyaḥ samalaṃkṛte . tila-adrīn sapta ratna-ogha-śātakauṃbha-ambara-āvṛtān .. 3 ..
कालेन स्नानशौचाभ्यां संस्कारैः तपसेज्यया । शुध्यन्ति दानैः सन्तुष्ट्या द्रव्याण्यात्माऽऽत्मविद्यया ॥ ४ ॥
कालेन स्नान-शौचाभ्याम् संस्कारैः तपसा इज्यया । शुध्यन्ति दानैः सन्तुष्ट्या द्रव्याणि आत्म-आत्म-विद्यया ॥ ४ ॥
kālena snāna-śaucābhyām saṃskāraiḥ tapasā ijyayā . śudhyanti dānaiḥ santuṣṭyā dravyāṇi ātma-ātma-vidyayā .. 4 ..
सौमंगल्यगिरो विप्राः सूतमागधवन्दिनः । गायकाश्च जगुर्नेदुः भेर्यो दुन्दुभयो मुहुः ॥ ५ ॥
सौमंगल्य-गिरः विप्राः सूत-मागध-वन्दिनः । गायकाः च जगुः नेदुः भेर्यः दुन्दुभयः मुहुर् ॥ ५ ॥
saumaṃgalya-giraḥ viprāḥ sūta-māgadha-vandinaḥ . gāyakāḥ ca jaguḥ neduḥ bheryaḥ dundubhayaḥ muhur .. 5 ..
व्रजः सम्मृष्टसंसिक्त द्वाराजिरगृहान्तरः । चित्रध्वज पताकास्रक् चैलपल्लवतोरणैः ॥ ६ ॥
व्रजः सम्मृष्ट-संसिक्त-द्वार-अजिर-गृह-अन्तरः । चित्र-ध्वज-पताका-स्रज्-चैल-पल्लव-तोरणैः ॥ ६ ॥
vrajaḥ sammṛṣṭa-saṃsikta-dvāra-ajira-gṛha-antaraḥ . citra-dhvaja-patākā-sraj-caila-pallava-toraṇaiḥ .. 6 ..
गावो वृषा वत्सतरा हरिद्रातैलरूषिताः । विचित्र धातुबर्हस्रग् वस्त्रकाञ्चनमालिनः ॥ ७ ॥
गावः वृषाः वत्सतराः हरिद्रा-तैल-रूषिताः । वस्त्र-काञ्चन-मालिनः ॥ ७ ॥
gāvaḥ vṛṣāḥ vatsatarāḥ haridrā-taila-rūṣitāḥ . vastra-kāñcana-mālinaḥ .. 7 ..
महार्हवस्त्राभरण कञ्चुकोष्णीषभूषिताः । गोपाः समाययू राजन् नानोपायनपाणयः ॥ ८ ॥
महार्ह-वस्त्र-आभरण-कञ्चुक-उष्णीष-भूषिताः । गोपाः समाययुः राजन् नाना उपायन-पाणयः ॥ ८ ॥
mahārha-vastra-ābharaṇa-kañcuka-uṣṇīṣa-bhūṣitāḥ . gopāḥ samāyayuḥ rājan nānā upāyana-pāṇayaḥ .. 8 ..
गोप्यश्चाकर्ण्य मुदिता यशोदायाः सुतोद्भवम् । आत्मानं भूषयां चक्रुः वस्त्राकल्पाञ्जनादिभिः ॥ ९ ॥
गोप्यः च आकर्ण्य मुदिताः यशोदायाः सुत-उद्भवम् । आत्मानम् भूषयाम् वस्त्र-आकल्प-अञ्जन-आदिभिः ॥ ९ ॥
gopyaḥ ca ākarṇya muditāḥ yaśodāyāḥ suta-udbhavam . ātmānam bhūṣayām vastra-ākalpa-añjana-ādibhiḥ .. 9 ..
नवकुंकुमकिञ्जल्क मुखपंकजभूतयः । बलिभिस्त्वरितं जग्मुः पृथुश्रोण्यश्चलत्कुचाः ॥ १० ॥
। बलिभिः त्वरितम् जग्मुः पृथु-श्रोण्यः चलत्-कुचाः ॥ १० ॥
. balibhiḥ tvaritam jagmuḥ pṛthu-śroṇyaḥ calat-kucāḥ .. 10 ..
( वसंततिलका )
गोप्यः सुमृष्टमणिकुण्डल निष्ककण्ठ्यः । चित्राम्बराः पथि शिखाच्युतमाल्यवर्षाः । नन्दालयं सवलया व्रजतीर्विरेजुः व्यालोलकुण्डल पयोधरहारशोभाः ॥ ११ ॥
गोप्यः सु मृष्ट-मणि-कुण्डल-निष्क-कण्ठ्यः । चित्र-अम्बराः पथि शिखा-च्युत-माल्य-वर्षाः । नन्द-आलयम् स वलयाः व्रजतीः विरेजुः व्यालोल-कुण्डल-पयोधर-हार-शोभाः ॥ ११ ॥
gopyaḥ su mṛṣṭa-maṇi-kuṇḍala-niṣka-kaṇṭhyaḥ . citra-ambarāḥ pathi śikhā-cyuta-mālya-varṣāḥ . nanda-ālayam sa valayāḥ vrajatīḥ virejuḥ vyālola-kuṇḍala-payodhara-hāra-śobhāḥ .. 11 ..
( अनुष्टुप् )
ता आशिषः प्रयुञ्जानाः चिरं पाहीति बालके । हरिद्राचूर्णतैलाद्भिः सिञ्चन्त्यो जनमुज्जगुः ॥ १२ ॥
ताः आशिषः प्रयुञ्जानाः चिरम् पाहि इति बालके । हरिद्रा-चूर्ण-तैल-अद्भिः सिञ्चन्त्यः जनम् उज्जगुः ॥ १२ ॥
tāḥ āśiṣaḥ prayuñjānāḥ ciram pāhi iti bālake . haridrā-cūrṇa-taila-adbhiḥ siñcantyaḥ janam ujjaguḥ .. 12 ..
अवाद्यन्त विचित्राणि वादित्राणि महोत्सवे । कृष्णे विश्वेश्वरेऽनन्ते नंदस्य व्रजमागते ॥ १३ ॥
अवाद्यन्त विचित्राणि वादित्राणि महा-उत्सवे । कृष्णे विश्वेश्वरे अनन्ते नंदस्य व्रजम् आगते ॥ १३ ॥
avādyanta vicitrāṇi vāditrāṇi mahā-utsave . kṛṣṇe viśveśvare anante naṃdasya vrajam āgate .. 13 ..
गोपाः परस्परं हृष्टा दधिक्षीरघृतांबुभिः । आसिञ्चन्तो विलिंपन्तो नवनीतैश्च चिक्षिपुः ॥ १४ ॥
गोपाः परस्परम् हृष्टाः दधि-क्षीर-घृत-अंबुभिः । आसिञ्चन्तः विलिंपन्तः नवनीतैः च चिक्षिपुः ॥ १४ ॥
gopāḥ parasparam hṛṣṭāḥ dadhi-kṣīra-ghṛta-aṃbubhiḥ . āsiñcantaḥ viliṃpantaḥ navanītaiḥ ca cikṣipuḥ .. 14 ..
नन्दो महामनास्तेभ्यो वासोऽलंकारगोधनम् । सूतमागधवन्दिभ्यो येऽन्ये विद्योपजीविनः ॥ १५ ॥
नन्दः महामनाः तेभ्यः वासः-अलंकार-गो-धनम् । सूत-मागध-वन्दिभ्यः ये अन्ये विद्या-उपजीविनः ॥ १५ ॥
nandaḥ mahāmanāḥ tebhyaḥ vāsaḥ-alaṃkāra-go-dhanam . sūta-māgadha-vandibhyaḥ ye anye vidyā-upajīvinaḥ .. 15 ..
तैस्तैः कामैरदीनात्मा यथोचितं अपूजयत् । विष्णोराराधनार्थाय स्वपुत्रस्योदयाय च ॥ १६ ॥
तैः तैः कामैः अदीन-आत्मा यथोचितम् अपूजयत् । विष्णोः आराधन-अर्थाय स्व-पुत्रस्य उदयाय च ॥ १६ ॥
taiḥ taiḥ kāmaiḥ adīna-ātmā yathocitam apūjayat . viṣṇoḥ ārādhana-arthāya sva-putrasya udayāya ca .. 16 ..
रोहिणी च महाभागा नंदगोपाभिनंदिता । व्यचरद् दिव्यवासःस्रक् कण्ठाभरणभूषिता ॥ १७ ॥
रोहिणी च महाभागा नंद-गोप-अभिनंदिता । व्यचरत् दिव्य-वासः-स्रज् कण्ठ-आभरण-भूषिता ॥ १७ ॥
rohiṇī ca mahābhāgā naṃda-gopa-abhinaṃditā . vyacarat divya-vāsaḥ-sraj kaṇṭha-ābharaṇa-bhūṣitā .. 17 ..
तत आरभ्य नंदस्य व्रजः सर्वसमृद्धिमान् । हरेर्निवासात्मगुणै रमाक्रीडमभून् नृप ॥ १८ ॥
ततस् आरभ्य नंदस्य व्रजः सर्व-समृद्धिमान् । हरेः निवास-आत्म-गुणैः रमा-क्रीडम् अभूत् नृप ॥ १८ ॥
tatas ārabhya naṃdasya vrajaḥ sarva-samṛddhimān . hareḥ nivāsa-ātma-guṇaiḥ ramā-krīḍam abhūt nṛpa .. 18 ..
गोपान् गोकुलरक्षायां निरूप्य मथुरां गतः । नंदः कंसस्य वार्षिक्यं करं दातुं कुरूद्वह ॥ १९ ॥
गोपान् गो कुल-रक्षायाम् निरूप्य मथुराम् गतः । नन्दः कंसस्य वार्षिक्यम् करम् दातुम् कुरु-उद्वह ॥ १९ ॥
gopān go kula-rakṣāyām nirūpya mathurām gataḥ . nandaḥ kaṃsasya vārṣikyam karam dātum kuru-udvaha .. 19 ..
वसुदेव उपश्रुत्य भ्रातरं नंदमागतम् । ज्ञात्वा दत्तकरं राज्ञे ययौ तद् अवमोचनम् ॥ २० ॥
वसुदेवः उपश्रुत्य भ्रातरम् नंदम् आगतम् । ज्ञात्वा दत्त-करम् राज्ञे ययौ तत् अवमोचनम् ॥ २० ॥
vasudevaḥ upaśrutya bhrātaram naṃdam āgatam . jñātvā datta-karam rājñe yayau tat avamocanam .. 20 ..
तं दृष्ट्वा सहसोत्थाय देहः प्राणमिवागतम् । प्रीतः प्रियतमं दोर्भ्यां सस्वजे प्रेमविह्वलः ॥ २१ ॥
तम् दृष्ट्वा सहसा उत्थाय देहः प्राणम् इव आगतम् । प्रीतः प्रियतमम् दोर्भ्याम् सस्वजे प्रेम-विह्वलः ॥ २१ ॥
tam dṛṣṭvā sahasā utthāya dehaḥ prāṇam iva āgatam . prītaḥ priyatamam dorbhyām sasvaje prema-vihvalaḥ .. 21 ..
पूजितः सुखमासीनः पृष्ट्वा अनामयमादृतः । प्रसक्तधीः स्वात्मजयोः इदमाह विशांपते ॥ २२ ॥
पूजितः सुखम् आसीनः पृष्ट्वा अनामयम् आदृतः । प्रसक्त-धीः स्व-आत्मजयोः इदम् आह विशाम् पते ॥ २२ ॥
pūjitaḥ sukham āsīnaḥ pṛṣṭvā anāmayam ādṛtaḥ . prasakta-dhīḥ sva-ātmajayoḥ idam āha viśām pate .. 22 ..
दिष्ट्या भ्रातः प्रवयस इदानीमप्रजस्य ते । प्रजाशाया निवृत्तस्य प्रजा यत् समपद्यत ॥ २३ ॥
दिष्ट्या भ्रातर् प्रवयसः इदानीम् अप्रजस्य ते । प्रजा-शायाः निवृत्तस्य प्रजा यत् समपद्यत ॥ २३ ॥
diṣṭyā bhrātar pravayasaḥ idānīm aprajasya te . prajā-śāyāḥ nivṛttasya prajā yat samapadyata .. 23 ..
दिष्ट्या संसारचक्रेऽस्मिन् वर्तमानः पुनर्भवः । उपलब्धो भवानद्य दुर्लभं प्रियदर्शनम् ॥ २४ ॥
दिष्ट्या संसार-चक्रे अस्मिन् वर्तमानः पुनर्भवः । उपलब्धः भवान् अद्य दुर्लभम् प्रिय-दर्शनम् ॥ २४ ॥
diṣṭyā saṃsāra-cakre asmin vartamānaḥ punarbhavaḥ . upalabdhaḥ bhavān adya durlabham priya-darśanam .. 24 ..
नैकत्र प्रियसंवासः सुहृदां चित्रकर्मणाम् । ओघेन व्यूह्यमानानां प्लवानां स्रोतसो यथा ॥ २५ ॥
न एकत्र प्रिय-संवासः सुहृदाम् चित्र-कर्मणाम् । ओघेन व्यूह्यमानानाम् प्लवानाम् स्रोतसः यथा ॥ २५ ॥
na ekatra priya-saṃvāsaḥ suhṛdām citra-karmaṇām . oghena vyūhyamānānām plavānām srotasaḥ yathā .. 25 ..
कच्चित् पशव्यं निरुजं भूर्यम्बुतृणवीरुधम् । बृहद्वनं तदधुना यत्रास्से त्वं सुहृद्वृतः ॥ २६ ॥
कच्चित् पशव्यम् निरुजम् भूरि-अम्बु-तृण-वीरुधम् । बृहत् वनम् तत् अधुना यत्र आस्से त्वम् सुहृद्-वृतः ॥ २६ ॥
kaccit paśavyam nirujam bhūri-ambu-tṛṇa-vīrudham . bṛhat vanam tat adhunā yatra āsse tvam suhṛd-vṛtaḥ .. 26 ..
भ्रातर्मम सुतः कच्चित् मात्रा सह भवद्व्रजे । तातं भवन्तं मन्वानो भवद्भ्यामुपलालितः ॥ २७ ॥
भ्रातर् मम सुतः कच्चित् मात्रा सह भवत्-व्रजे । तातम् भवन्तम् मन्वानः भवद्भ्याम् उपलालितः ॥ २७ ॥
bhrātar mama sutaḥ kaccit mātrā saha bhavat-vraje . tātam bhavantam manvānaḥ bhavadbhyām upalālitaḥ .. 27 ..
पुंसस्त्रिवर्गो विहितः सुहृदो ह्यनुभावितः । न तेषु क्लिश्यमानेषु त्रिवर्गोऽर्थाय कल्पते ॥ २८ ॥
पुंसः त्रिवर्गः विहितः सुहृदः हि अनुभावितः । न तेषु क्लिश्यमानेषु त्रिवर्गः अर्थाय कल्पते ॥ २८ ॥
puṃsaḥ trivargaḥ vihitaḥ suhṛdaḥ hi anubhāvitaḥ . na teṣu kliśyamāneṣu trivargaḥ arthāya kalpate .. 28 ..
श्रीनंद उवाच ।
अहो ते देवकी पुत्राः कंसेन बहवो हताः । एकावशिष्टावरजा कन्या सापि दिवं गता ॥ २९ ॥
अहो ते देवकी पुत्राः कंसेन बहवः हताः । एक-अवशिष्ट-अवरजा कन्या सा अपि दिवम् गता ॥ २९ ॥
aho te devakī putrāḥ kaṃsena bahavaḥ hatāḥ . eka-avaśiṣṭa-avarajā kanyā sā api divam gatā .. 29 ..
नूनं ह्यदृष्टनिष्ठोऽयं अदृष्टपरमो जनः । अदृष्टमात्मनस्तत्त्वं यो वेद न स मुह्यति ॥ ३० ॥
नूनम् हि अदृष्ट-निष्ठः अयम् अदृष्ट-परमः जनः । अदृष्टम् आत्मनः तत्त्वम् यः वेद न स मुह्यति ॥ ३० ॥
nūnam hi adṛṣṭa-niṣṭhaḥ ayam adṛṣṭa-paramaḥ janaḥ . adṛṣṭam ātmanaḥ tattvam yaḥ veda na sa muhyati .. 30 ..
श्रीवसुदेव उवाच ।
करो वै वार्षिको दत्तो राज्ञे दृष्टा वयं च वः । नेह स्थेयं बहुतिथं सन्त्युत्पाताश्च गोकुले ॥ ३१ ॥
करः वै वार्षिकः दत्तः राज्ञे दृष्टाः वयम् च वः । न इह स्थेयम् बहुतिथम् सन्ति उत्पाताः च गोकुले ॥ ३१ ॥
karaḥ vai vārṣikaḥ dattaḥ rājñe dṛṣṭāḥ vayam ca vaḥ . na iha stheyam bahutitham santi utpātāḥ ca gokule .. 31 ..
श्रीशुक उवाच ।
इति नंदादयो गोपाः प्रोक्तास्ते शौरिणा ययुः । अनोभिः अनडुद्युक्तैः तं अनुज्ञाप्य गोकुलम् ॥ ३२ ॥
इति नंद-आदयः गोपाः प्रोक्ताः ते शौरिणा ययुः । अनोभिः अनडुह्-युक्तैः तम् अनुज्ञाप्य गोकुलम् ॥ ३२ ॥
iti naṃda-ādayaḥ gopāḥ proktāḥ te śauriṇā yayuḥ . anobhiḥ anaḍuh-yuktaiḥ tam anujñāpya gokulam .. 32 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे पञ्चमोऽध्यायः ॥ ५ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् दशम-स्कन्धे पूर्व-अर्धे पञ्चमः अध्यायः ॥ ५ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām daśama-skandhe pūrva-ardhe pañcamaḥ adhyāyaḥ .. 5 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In