| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच ।
अस्तिः प्राप्तिश्च कंसस्य महिष्यौ भरतर्षभ । मृते भर्तरि दुःखार्ते ईयतुः स्म पितुर्गृहान् १ ।
अस्तिः प्राप्तिः च कंसस्य महिष्यौ भरत-ऋषभ । मृते भर्तरि दुःख-आर्ते ईयतुः स्म पितुः गृहान् ।
astiḥ prāptiḥ ca kaṃsasya mahiṣyau bharata-ṛṣabha . mṛte bhartari duḥkha-ārte īyatuḥ sma pituḥ gṛhān .
पित्रे मगधराजाय जरासन्धाय दुःखिते । वेदयां चक्रतुः सर्वमात्मवैधव्यकारणम् २ ।
पित्रे मगध-राजाय जरासन्धाय दुःखिते । वेदयाम् सर्वम् आत्म-वैधव्य-कारणम् ।
pitre magadha-rājāya jarāsandhāya duḥkhite . vedayām sarvam ātma-vaidhavya-kāraṇam .
स तदप्रियमाकर्ण्य शोकामर्षयुतो नृप । अयादवीं महीं कर्तुं चक्रे परममुद्यमम् ३ ।
स तत् अप्रियम् आकर्ण्य शोक-अमर्ष-युतः नृप । अयादवीम् महीम् कर्तुम् चक्रे परमम् उद्यमम् ।
sa tat apriyam ākarṇya śoka-amarṣa-yutaḥ nṛpa . ayādavīm mahīm kartum cakre paramam udyamam .
अक्षौहिणीभिर्विंशत्या तिसृभिश्चापि संवृतः । यदुराजधानीं मथुरां न्यरुधत्सर्वतो दिशम् ४ ।
अक्षौहिणीभिः विंशत्या तिसृभिः च अपि संवृतः । यदु-राजधानीम् मथुराम् न्यरुधत् सर्वतस् दिशम् ।
akṣauhiṇībhiḥ viṃśatyā tisṛbhiḥ ca api saṃvṛtaḥ . yadu-rājadhānīm mathurām nyarudhat sarvatas diśam .
निरीक्ष्य तद्बलं कृष्ण उद्वेलमिव सागरम् । स्वपुरं तेन संरुद्धं स्वजनं च भयाकुलम् ५ ।
निरीक्ष्य तत् बलम् कृष्णः उद्वेलम् इव सागरम् । स्व-पुरम् तेन संरुद्धम् स्व-जनम् च भय-आकुलम् ।
nirīkṣya tat balam kṛṣṇaḥ udvelam iva sāgaram . sva-puram tena saṃruddham sva-janam ca bhaya-ākulam .
चिन्तयामास भगवान्हरिः कारणमानुषः । तद्देशकालानुगुणं स्वावतारप्रयोजनम् ६ ।
चिन्तयामास भगवान् हरिः कारण-मानुषः । तद्-देश-काल-अनुगुणम् स्व-अवतार-प्रयोजनम् ।
cintayāmāsa bhagavān hariḥ kāraṇa-mānuṣaḥ . tad-deśa-kāla-anuguṇam sva-avatāra-prayojanam .

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In