| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच । ( अनुष्टुप् )
नन्दः पथि वचः शौरेः न मृषेति विचिन्तयन् । हरिं जगाम शरणं उत्पातागमशङ्कितः ॥ १ ॥
नन्दः पथि वचः शौरेः न मृषा इति विचिन्तयन् । हरिम् जगाम शरणम् उत्पात-आगम-शङ्कितः ॥ १ ॥
nandaḥ pathi vacaḥ śaureḥ na mṛṣā iti vicintayan . harim jagāma śaraṇam utpāta-āgama-śaṅkitaḥ .. 1 ..
कंसेन प्रहिता घोरा पूतना बालघातिनी । शिशूंश्चचार निघ्नन्ती पुरग्रामव्रजादिषु ॥ २ ॥
कंसेन प्रहिता घोरा पूतना बाल-घातिनी । शिशून् चचार निघ्नन्ती पुर-ग्राम-व्रज-आदिषु ॥ २ ॥
kaṃsena prahitā ghorā pūtanā bāla-ghātinī . śiśūn cacāra nighnantī pura-grāma-vraja-ādiṣu .. 2 ..
न यत्र श्रवणादीनि रक्षोघ्नानि स्वकर्मसु । कुर्वन्ति सात्वतां भर्तुः यातुधान्यश्च तत्र हि ॥ ३ ॥
न यत्र श्रवण-आदीनि रक्षः-घ्नानि स्व-कर्मसु । कुर्वन्ति सात्वताम् भर्तुः यातुधान्यः च तत्र हि ॥ ३ ॥
na yatra śravaṇa-ādīni rakṣaḥ-ghnāni sva-karmasu . kurvanti sātvatām bhartuḥ yātudhānyaḥ ca tatra hi .. 3 ..
सा खेचर्येकदोत्पत्य पूतना नन्दगोकुलम् । योषित्वा माययाऽऽत्मानं प्राविशत् कामचारिणी ॥ ४ ॥
सा खेचरी एकदा उत्पत्य पूतना नन्द-गोकुलम् । मायया आत्मानम् प्राविशत् काम-चारिणी ॥ ४ ॥
sā khecarī ekadā utpatya pūtanā nanda-gokulam . māyayā ātmānam prāviśat kāma-cāriṇī .. 4 ..
( मिश्र )
बृहन्नितंब स्तनकृच्छ्रमध्यमाम् । सुवाससं कल्पितकर्णभूषण त्विषोल्लसत् कुन्तलमण्डिताननाम् ॥ ५ ॥
बृहत्-नितंब स्तनकृच्छ्र-मध्यमाम् । सु वाससम् कल्पित-कर्णभूषण त्विषा उल्लसत् कुन्तल-मण्डित-आननाम् ॥ ५ ॥
bṛhat-nitaṃba stanakṛcchra-madhyamām . su vāsasam kalpita-karṇabhūṣaṇa tviṣā ullasat kuntala-maṇḍita-ānanām .. 5 ..
वल्गुस्मितापाङ्ग विसर्गवीक्षितैः मनो हरन्तीं वनितां व्रजौकसाम् । अमंसताम्भोजकरेण रूपिणीं गोप्यः श्रियं द्रष्टुमिवागतां पतिम् ॥ ६ ॥
वल्गु-स्मित-अपाङ्ग विसर्ग-वीक्षितैः मनः हरन्तीम् वनिताम् व्रजौकसाम् । अमंसत अम्भोज-करेण रूपिणीम् गोप्यः श्रियम् द्रष्टुम् इव आगताम् पतिम् ॥ ६ ॥
valgu-smita-apāṅga visarga-vīkṣitaiḥ manaḥ harantīm vanitām vrajaukasām . amaṃsata ambhoja-kareṇa rūpiṇīm gopyaḥ śriyam draṣṭum iva āgatām patim .. 6 ..
बालग्रहस्तत्र विचिन्वती शिशून् यदृच्छया नन्दगृहेऽसदन्तकम् । बालं प्रतिच्छन्ननिजोरुतेजसं ददर्श तल्पेऽग्निमिवाहितं भसि ॥ ७ ॥
बालग्रहः तत्र विचिन्वती शिशून् यदृच्छया नन्द-गृहे असत् अन्तकम् । बालम् प्रतिच्छन्न-निज-ऊरु-तेजसम् ददर्श तल्पे अग्निम् इव आहितम् भसि ॥ ७ ॥
bālagrahaḥ tatra vicinvatī śiśūn yadṛcchayā nanda-gṛhe asat antakam . bālam praticchanna-nija-ūru-tejasam dadarśa talpe agnim iva āhitam bhasi .. 7 ..
विबुध्य तां बालक मारिकाग्रहं चराचरात्मा स निमीलितेक्षणः । अनन्तमारोपयदङ्कमन्तकं यथोरगं सुप्तमबुद्धिरज्जुधीः ॥ ८ ॥
विबुध्य ताम् बालक मारिका-ग्रहम् चराचर-आत्मा स निमीलित-ईक्षणः । अनन्तम् आरोपयत् अङ्कम् अन्तकम् यथा उरगम् सुप्तम् अबुद्धि-रज्जु-धीः ॥ ८ ॥
vibudhya tām bālaka mārikā-graham carācara-ātmā sa nimīlita-īkṣaṇaḥ . anantam āropayat aṅkam antakam yathā uragam suptam abuddhi-rajju-dhīḥ .. 8 ..
तां तीक्ष्णचित्तामतिवामचेष्टितां वीक्ष्यान्तरा कोषपरिच्छदासिवत् । वरस्त्रियं तत्प्रभया च धर्षिते निरीक्ष्यमाणे जननी ह्यतिष्ठताम् ॥ ९ ॥
ताम् तीक्ष्ण-चित्ताम् अति वाम-चेष्टिताम् वीक्ष्य अन्तरा कोष-परिच्छद-असि-वत् । वर-स्त्रियम् तद्-प्रभया च धर्षिते निरीक्ष्यमाणे जननी हि अतिष्ठताम् ॥ ९ ॥
tām tīkṣṇa-cittām ati vāma-ceṣṭitām vīkṣya antarā koṣa-paricchada-asi-vat . vara-striyam tad-prabhayā ca dharṣite nirīkṣyamāṇe jananī hi atiṣṭhatām .. 9 ..
तस्मिन् स्तनं दुर्जरवीर्यमुल्बणं । घोराङ्कमादाय शिशोर्ददावथ । गाढं कराभ्यां भगवान् प्रपीड्य तत् प्राणैः समं रोषसमन्वितोऽपिबत् ॥ १० ॥
तस्मिन् स्तनम् दुर्जर-वीर्यम् उल्बणम् । घोर-अङ्कम् आदाय शिशोः ददौ अथ । गाढम् कराभ्याम् भगवान् प्रपीड्य तत् प्राणैः समम् रोष-समन्वितः अपिबत् ॥ १० ॥
tasmin stanam durjara-vīryam ulbaṇam . ghora-aṅkam ādāya śiśoḥ dadau atha . gāḍham karābhyām bhagavān prapīḍya tat prāṇaiḥ samam roṣa-samanvitaḥ apibat .. 10 ..
सा मुञ्च मुञ्चालमिति प्रभाषिणी निष्पीड्य मानाखिलजीवमर्मणि । विवृत्य नेत्रे चरणौ भुजौ मुहुः प्रस्विन्नगात्रा क्षिपती रुरोद ह ॥ ११ ॥
सा मुञ्च मुञ्च अलम् इति प्रभाषिणी निष्पीड्य मान-अखिल-जीव-मर्मणि । विवृत्य नेत्रे चरणौ भुजौ मुहुर् प्रस्विन्न-गात्रा क्षिपती रुरोद ह ॥ ११ ॥
sā muñca muñca alam iti prabhāṣiṇī niṣpīḍya māna-akhila-jīva-marmaṇi . vivṛtya netre caraṇau bhujau muhur prasvinna-gātrā kṣipatī ruroda ha .. 11 ..
तस्याः स्वनेनातिगभीररंहसा साद्रिर्मही द्यौश्च चचाल सग्रहा । रसा दिशश्च प्रतिनेदिरे जनाः पेतुः क्षितौ वज्रनिपात शङ्कया ॥ १२ ॥
तस्याः स्वनेन अति गभीर-रंहसा स अद्रिः मही द्यौः च चचाल स ग्रहा । रसाः दिशः च प्रतिनेदिरे जनाः पेतुः क्षितौ वज्र-निपात-शङ्कया ॥ १२ ॥
tasyāḥ svanena ati gabhīra-raṃhasā sa adriḥ mahī dyauḥ ca cacāla sa grahā . rasāḥ diśaḥ ca pratinedire janāḥ petuḥ kṣitau vajra-nipāta-śaṅkayā .. 12 ..
निशाचरीत्थं व्यथितस्तना व्यसुः व्यादाय केशांश्चरणौ भुजावपि । प्रसार्य गोष्ठे निजरूपमास्थिता वज्राहतो वृत्र इवापतन्नृप ॥ १३ ॥
निशाचरी इत्थम् व्यथित-स्तना व्यसुः व्यादाय केशान् चरणौ भुजौ अपि । प्रसार्य गोष्ठे निज-रूपम् आस्थिता वज्र-आहतः वृत्रः इव अपतत् नृप ॥ १३ ॥
niśācarī ittham vyathita-stanā vyasuḥ vyādāya keśān caraṇau bhujau api . prasārya goṣṭhe nija-rūpam āsthitā vajra-āhataḥ vṛtraḥ iva apatat nṛpa .. 13 ..
( अनुष्टुप् )
पतमानोऽपि तद्देह त्रिगव्यूत्यन्तरद्रुमान् । चूर्णयामास राजेन्द्र महदासीत् तदद्भुतम् ॥ १४ ॥
पतमानः अपि त्रि-गव्यूति-अन्तर-द्रुमान् । चूर्णयामास राज-इन्द्र महत् आसीत् तत् अद्भुतम् ॥ १४ ॥
patamānaḥ api tri-gavyūti-antara-drumān . cūrṇayāmāsa rāja-indra mahat āsīt tat adbhutam .. 14 ..
ईषामात्रोग्रदंष्ट्रास्यं गिरिकन्दर नासिकम् । गण्डशैलस्तनं रौद्रं प्रकीर्णारुणमूर्धजम् ॥ १५ ॥
ईषा-मात्र-उग्र-दंष्ट्र-आस्यम् गिरि-कन्दर नासिकम् । गण्डशैल-स्तनम् रौद्रम् प्रकीर्ण-अरुण-मूर्धजम् ॥ १५ ॥
īṣā-mātra-ugra-daṃṣṭra-āsyam giri-kandara nāsikam . gaṇḍaśaila-stanam raudram prakīrṇa-aruṇa-mūrdhajam .. 15 ..
अन्धकूपगभीराक्षं पुलिनारोह भीषणम् । बद्धसेतुभुजोर्वङ्घ्रि शून्यतोय ह्रदोदरम् ॥ १६ ॥
अन्धकूप-गभीर-अक्षम् पुलिन-आरोह भीषणम् । बद्ध-सेतु-भुज-ऊरु-अङ्घ्रि शून्य-तोय ह्रद-उदरम् ॥ १६ ॥
andhakūpa-gabhīra-akṣam pulina-āroha bhīṣaṇam . baddha-setu-bhuja-ūru-aṅghri śūnya-toya hrada-udaram .. 16 ..
सन्तत्रसुः स्म तद्वीक्ष्य गोपा गोप्यः कलेवरम् । पूर्वं तु तन्निःस्वनित भिन्नहृत्कर्ण मस्तकाः ॥ १७ ॥
सन्तत्रसुः स्म तत् वीक्ष्य गोपाः गोप्यः कलेवरम् । पूर्वम् तु तद्-निःस्वनित-भिन्न-हृद्-कर्ण-मस्तकाः ॥ १७ ॥
santatrasuḥ sma tat vīkṣya gopāḥ gopyaḥ kalevaram . pūrvam tu tad-niḥsvanita-bhinna-hṛd-karṇa-mastakāḥ .. 17 ..
बालं च तस्या उरसि क्रीडन्तं अकुतोभयम् । गोप्यस्तूर्णं समभ्येत्य जगृहुर्जातसंभ्रमाः ॥ १८ ॥
बालम् च तस्याः उरसि क्रीडन्तम् अकुतोभयम् । गोप्यः तूर्णम् समभ्येत्य जगृहुः जात-संभ्रमाः ॥ १८ ॥
bālam ca tasyāḥ urasi krīḍantam akutobhayam . gopyaḥ tūrṇam samabhyetya jagṛhuḥ jāta-saṃbhramāḥ .. 18 ..
यशोदा रोहिणीभ्यां ताः समं बालस्य सर्वतः । रक्षां विदधिरे सम्यक् गोपुच्छभ्रमणादिभिः ॥ १९ ॥
यशोदाः रोहिणीभ्याम् ताः समम् बालस्य सर्वतस् । रक्षाम् विदधिरे सम्यक् गो-पुच्छ-भ्रमण-आदिभिः ॥ १९ ॥
yaśodāḥ rohiṇībhyām tāḥ samam bālasya sarvatas . rakṣām vidadhire samyak go-puccha-bhramaṇa-ādibhiḥ .. 19 ..
गोमूत्रेण स्नापयित्वा पुनर्गोरजसार्भकम् । रक्षां चक्रुश्च शकृता द्वादशाङ्गेषु नामभिः ॥ २० ॥
गो-मूत्रेण स्नापयित्वा पुनर् गोरजसा अर्भकम् । रक्षाम् चक्रुः च शकृता द्वादश-अङ्गेषु नामभिः ॥ २० ॥
go-mūtreṇa snāpayitvā punar gorajasā arbhakam . rakṣām cakruḥ ca śakṛtā dvādaśa-aṅgeṣu nāmabhiḥ .. 20 ..
गोप्यः संस्पृष्टसलिला अङ्गेषु करयोः पृथक् । न्यस्यात्मन्यथ बालस्य बीजन्यासमकुर्वत ॥ २१ ॥
गोप्यः संस्पृष्ट-सलिलाः अङ्गेषु करयोः पृथक् । न्यस्य आत्मनि अथ बालस्य बीजन्यासम् अकुर्वत ॥ २१ ॥
gopyaḥ saṃspṛṣṭa-salilāḥ aṅgeṣu karayoḥ pṛthak . nyasya ātmani atha bālasya bījanyāsam akurvata .. 21 ..
( वसंततिलका )
अव्यादजोऽङ्घ्रि मणिमांस्तव जान्वथोरू यज्ञोऽच्युतः कटितटं जठरं हयास्यः । हृत्केशवस्त्वदुर ईश इनस्तु कण्ठं विष्णुर्भुजं मुखमुरुक्रम ईश्वरः कम् ॥ २२ ॥
मणिमान् तव जानु-अथ ऊरू यज्ञः अच्युतः कटि-तटम् जठरम् हयास्यः । हृद्-केशवः त्वद्-उरः ईशः इनः तु कण्ठम् विष्णुः भुजम् मुखम् उरुक्रमः ईश्वरः कम् ॥ २२ ॥
maṇimān tava jānu-atha ūrū yajñaḥ acyutaḥ kaṭi-taṭam jaṭharam hayāsyaḥ . hṛd-keśavaḥ tvad-uraḥ īśaḥ inaḥ tu kaṇṭham viṣṇuḥ bhujam mukham urukramaḥ īśvaraḥ kam .. 22 ..
चक्र्यग्रतः सहगदो हरिरस्तु पश्चात् । त्वत्पार्श्वयोर्धनुरसी मधुहाजनश्च । कोणेषु शङ्ख उरुगाय उपर्युपेन्द्रः तार्क्ष्यः क्षितौ हलधरः पुरुषः समन्तात् ॥ २३ ॥
चक्रि-अग्रतस् सह गदः हरिः अस्तु पश्चात् । त्वद्-पार्श्वयोः धनुः-असी मधुहा-जनः च । कोणेषु शङ्खः उरुगायः उपरि उपेन्द्रः तार्क्ष्यः क्षितौ हलधरः पुरुषः समन्तात् ॥ २३ ॥
cakri-agratas saha gadaḥ hariḥ astu paścāt . tvad-pārśvayoḥ dhanuḥ-asī madhuhā-janaḥ ca . koṇeṣu śaṅkhaḥ urugāyaḥ upari upendraḥ tārkṣyaḥ kṣitau haladharaḥ puruṣaḥ samantāt .. 23 ..
( अनुष्टुप् )
इन्द्रियाणि हृषीकेशः प्राणान्नारायणोऽवतु । श्वेतद्वीपपतिश्चित्तं मनो योगेश्वरोऽवतु ॥ २४ ॥
इन्द्रियाणि हृषीकेशः प्राणान् नारायणः अवतु । श्वेतद्वीप-पतिः चित्तम् मनः योगेश्वरः अवतु ॥ २४ ॥
indriyāṇi hṛṣīkeśaḥ prāṇān nārāyaṇaḥ avatu . śvetadvīpa-patiḥ cittam manaḥ yogeśvaraḥ avatu .. 24 ..
पृश्निगर्भस्तु ते बुद्धिं आत्मानं भगवान्परः । क्रीडन्तं पातु गोविन्दः शयानं पातु माधवः ॥ २५ ॥
पृश्निगर्भः तु ते बुद्धिम् आत्मानम् भगवान् परः । क्रीडन्तम् पातु गोविन्दः शयानम् पातु माधवः ॥ २५ ॥
pṛśnigarbhaḥ tu te buddhim ātmānam bhagavān paraḥ . krīḍantam pātu govindaḥ śayānam pātu mādhavaḥ .. 25 ..
व्रजन्तमव्याद् वैकुण्ठ आसीनं त्वां श्रियः पतिः । भुञ्जानं यज्ञभुक् पातु सर्वग्रहभयङ्करः ॥ २६ ॥
व्रजन्तम् अव्यात् वैकुण्ठः आसीनम् त्वाम् श्रियः पतिः । भुञ्जानम् यज्ञभुज् पातु सर्व-ग्रह-भयङ्करः ॥ २६ ॥
vrajantam avyāt vaikuṇṭhaḥ āsīnam tvām śriyaḥ patiḥ . bhuñjānam yajñabhuj pātu sarva-graha-bhayaṅkaraḥ .. 26 ..
डाकिन्यो यातुधान्यश्च कुष्माण्डा येऽर्भकग्रहाः । भूतप्रेत पिशाचाश्च यक्षरक्षो विनायकाः ॥ २७ ॥
डाकिन्यः यातुधान्यः च कुष्माण्डाः ये अर्भक-ग्रहाः । भूत-प्रेत पिशाचाः च यक्ष-रक्षः विनायकाः ॥ २७ ॥
ḍākinyaḥ yātudhānyaḥ ca kuṣmāṇḍāḥ ye arbhaka-grahāḥ . bhūta-preta piśācāḥ ca yakṣa-rakṣaḥ vināyakāḥ .. 27 ..
कोटरा रेवती ज्येष्ठा पूतना मातृकादयः । उन्मादा ये ह्यपस्मारा देह प्राणेन्द्रियद्रुहः ॥ २८ ॥
कोटरा रेवती ज्येष्ठा पूतना मातृका-आदयः । उन्मादाः ये हि अपस्माराः देह प्राण-इन्द्रिय-द्रुहः ॥ २८ ॥
koṭarā revatī jyeṣṭhā pūtanā mātṛkā-ādayaḥ . unmādāḥ ye hi apasmārāḥ deha prāṇa-indriya-druhaḥ .. 28 ..
स्वप्नदृष्टा महोत्पाता वृद्धा बालग्रहाश्च ये । सर्वे नश्यन्तु ते विष्णोः नामग्रहणभीरवः ॥ २९ ॥
स्वप्न-दृष्टाः महा-उत्पाताः वृद्धाः बालग्रहाः च ये । सर्वे नश्यन्तु ते विष्णोः नाम-ग्रहण-भीरवः ॥ २९ ॥
svapna-dṛṣṭāḥ mahā-utpātāḥ vṛddhāḥ bālagrahāḥ ca ye . sarve naśyantu te viṣṇoḥ nāma-grahaṇa-bhīravaḥ .. 29 ..
इति प्रणयबद्धाभिः गोपीभिः कृतरक्षणम् । पाययित्वा स्तनं माता संन्यवेशयदात्मजम् ॥ ३० ॥
इति प्रणय-बद्धाभिः गोपीभिः कृत-रक्षणम् । पाययित्वा स्तनम् माता संन्यवेशयत् आत्मजम् ॥ ३० ॥
iti praṇaya-baddhābhiḥ gopībhiḥ kṛta-rakṣaṇam . pāyayitvā stanam mātā saṃnyaveśayat ātmajam .. 30 ..
तावन्नन्दादयो गोपा मथुराया व्रजं गताः । विलोक्य पूतनादेहं बभूवुः अतिविस्मिताः ॥ ३१ ॥
तावत् नन्द-आदयः गोपाः मथुरायाः व्रजम् गताः । विलोक्य पूतना-देहम् बभूवुः अति विस्मिताः ॥ ३१ ॥
tāvat nanda-ādayaḥ gopāḥ mathurāyāḥ vrajam gatāḥ . vilokya pūtanā-deham babhūvuḥ ati vismitāḥ .. 31 ..
नूनं बतर्षिः सञ्जातो योगेशो वा समास सः । स एव दृष्टो ह्युत्पातो यद् आहानकदुन्दुभिः ॥ ३२ ॥
नूनम् बत ऋषिः सञ्जातः योगेशः वा समास सः । सः एव दृष्टः हि उत्पातः यत् आह आनकदुन्दुभिः ॥ ३२ ॥
nūnam bata ṛṣiḥ sañjātaḥ yogeśaḥ vā samāsa saḥ . saḥ eva dṛṣṭaḥ hi utpātaḥ yat āha ānakadundubhiḥ .. 32 ..
कलेवरं परशुभिः छित्त्वा तत्ते व्रजौकसः । दूरे क्षिप्त्वावयवशो न्यदहन् काष्ठवेष्टितम् ॥ ३३ ॥
कलेवरम् परशुभिः छित्त्वा तत् ते व्रज-ओकसः । दूरे क्षिप्त्वा अवयवशस् न्यदहन् काष्ठ-वेष्टितम् ॥ ३३ ॥
kalevaram paraśubhiḥ chittvā tat te vraja-okasaḥ . dūre kṣiptvā avayavaśas nyadahan kāṣṭha-veṣṭitam .. 33 ..
दह्यमानस्य देहस्य धूमश्चागुरुसौरभः । उत्थितः कृष्णनिर्भुक्त सपद्याहतपाप्मनः ॥ ३४ ॥
दह्यमानस्य देहस्य धूमः च अगुरु-सौरभः । उत्थितः सपदि आहत-पाप्मनः ॥ ३४ ॥
dahyamānasya dehasya dhūmaḥ ca aguru-saurabhaḥ . utthitaḥ sapadi āhata-pāpmanaḥ .. 34 ..
पूतना लोकबालघ्नी राक्षसी रुधिराशना । जिघांसयापि हरये स्तनं दत्त्वाप सद्गतिम् ॥ ३५ ॥
पूतना लोक-बाल-घ्नी राक्षसी रुधिर-अशना । जिघांसया अपि हरये स्तनम् दत्त्वा आप सत्-गतिम् ॥ ३५ ॥
pūtanā loka-bāla-ghnī rākṣasī rudhira-aśanā . jighāṃsayā api haraye stanam dattvā āpa sat-gatim .. 35 ..
किं पुनः श्रद्धया भक्त्या कृष्णाय परमात्मने । यच्छन्प्रियतमं किं नु रक्तास्तन्मातरो यथा ॥ ३६ ॥
किम् पुनर् श्रद्धया भक्त्या कृष्णाय परमात्मने । यच्छन् प्रियतमम् किम् नु रक्ताः तद्-मातरः यथा ॥ ३६ ॥
kim punar śraddhayā bhaktyā kṛṣṇāya paramātmane . yacchan priyatamam kim nu raktāḥ tad-mātaraḥ yathā .. 36 ..
पद्भ्यां भक्तहृदिस्थाभ्यां वन्द्याभ्यां लोकवन्दितैः । अङ्गं यस्याः समाक्रम्य भगवान् अपिबत् स्तनम् ॥ ३७ ॥
पद्भ्याम् भक्त-हृदिस्थाभ्याम् वन्द्याभ्याम् लोक-वन्दितैः । अङ्गम् यस्याः समाक्रम्य भगवान् अपिबत् स्तनम् ॥ ३७ ॥
padbhyām bhakta-hṛdisthābhyām vandyābhyām loka-vanditaiḥ . aṅgam yasyāḥ samākramya bhagavān apibat stanam .. 37 ..
यातुधान्यपि सा स्वर्गं अवाप जननीगतिम् । कृष्णभुक्तस्तनक्षीराः किमु गावोऽनुमातरः ॥ ३८ ॥
यातुधानी अपि सा स्वर्गम् अवाप जननी-गतिम् । कृष्ण-भुक्त-स्तन-क्षीराः किमु गावः अनुमातरः ॥ ३८ ॥
yātudhānī api sā svargam avāpa jananī-gatim . kṛṣṇa-bhukta-stana-kṣīrāḥ kimu gāvaḥ anumātaraḥ .. 38 ..
पयांसि यासामपिबत् पुत्रस्नेहस्नुतान्यलम् । भगवान् देवकीपुत्रः कैवल्याद्यखिलप्रदः ॥ ३९ ॥
पयांसि यासाम् अपिबत् पुत्र-स्नेह-स्नुतानि अलम् । ॥ ३९ ॥
payāṃsi yāsām apibat putra-sneha-snutāni alam . .. 39 ..
तासामविरतं कृष्णे कुर्वतीनां सुतेक्षणम् । न पुनः कल्पते राजन् संसारोऽज्ञानसंभवः ॥ ४० ॥
तासाम् अविरतम् कृष्णे कुर्वतीनाम् सुत-ईक्षणम् । न पुनर् कल्पते राजन् संसारः अज्ञान-संभवः ॥ ४० ॥
tāsām aviratam kṛṣṇe kurvatīnām suta-īkṣaṇam . na punar kalpate rājan saṃsāraḥ ajñāna-saṃbhavaḥ .. 40 ..
कटधूमस्य सौरभ्यं अवघ्राय व्रजौकसः । किमिदं कुत एवेति वदन्तो व्रजमाययुः ॥ ४१ ॥
कटधूमस्य सौरभ्यम् अवघ्राय व्रजौकसः । किम् इदम् कुतस् एव इति वदन्तः व्रजम् आययुः ॥ ४१ ॥
kaṭadhūmasya saurabhyam avaghrāya vrajaukasaḥ . kim idam kutas eva iti vadantaḥ vrajam āyayuḥ .. 41 ..
ते तत्र वर्णितं गोपैः पूतना गमनादिकम् । श्रुत्वा तन्निधनं स्वस्ति शिशोश्चासन् सुविस्मिताः ॥ ४२ ॥
ते तत्र वर्णितम् गोपैः पूतना-गमन-आदिकम् । श्रुत्वा तद्-निधनम् स्वस्ति शिशोः च आसन् सु विस्मिताः ॥ ४२ ॥
te tatra varṇitam gopaiḥ pūtanā-gamana-ādikam . śrutvā tad-nidhanam svasti śiśoḥ ca āsan su vismitāḥ .. 42 ..
नन्दः स्वपुत्रमादाय प्रेत्यागतमुदारधीः । मूर्ध्न्युपाघ्राय परमां मुदं लेभे कुरूद्वह ॥ ४३ ॥
नन्दः स्व-पुत्रम् आदाय प्रेत्य आगतम् उदार-धीः । मूर्ध्नि उपाघ्राय परमाम् मुदम् लेभे कुरु-उद्वह ॥ ४३ ॥
nandaḥ sva-putram ādāya pretya āgatam udāra-dhīḥ . mūrdhni upāghrāya paramām mudam lebhe kuru-udvaha .. 43 ..
य एतत्पूतनामोक्षं कृष्णस्यार्भकमद्भुतम् । श्रृणुयात् श्रद्धया मर्त्यो गोविन्दे लभते रतिम् ॥ ४४ ॥
यः एतत् पूतना-मोक्षम् कृष्णस्य अर्भकम् अद्भुतम् । श्रृणुयात् श्रद्धया मर्त्यः गोविन्दे लभते रतिम् ॥ ४४ ॥
yaḥ etat pūtanā-mokṣam kṛṣṇasya arbhakam adbhutam . śrṛṇuyāt śraddhayā martyaḥ govinde labhate ratim .. 44 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे षष्ठोऽध्यायः ॥ ६ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् दशम-स्कन्धे पूर्व-अर्धे षष्ठः अध्यायः ॥ ६ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām daśama-skandhe pūrva-ardhe ṣaṣṭhaḥ adhyāyaḥ .. 6 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In