| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच । ( अनुष्टुप् )
नन्दः पथि वचः शौरेः न मृषेति विचिन्तयन् । हरिं जगाम शरणं उत्पातागमशङ्कितः ॥ १ ॥
nandaḥ pathi vacaḥ śaureḥ na mṛṣeti vicintayan . hariṃ jagāma śaraṇaṃ utpātāgamaśaṅkitaḥ .. 1 ..
कंसेन प्रहिता घोरा पूतना बालघातिनी । शिशूंश्चचार निघ्नन्ती पुरग्रामव्रजादिषु ॥ २ ॥
kaṃsena prahitā ghorā pūtanā bālaghātinī . śiśūṃścacāra nighnantī puragrāmavrajādiṣu .. 2 ..
न यत्र श्रवणादीनि रक्षोघ्नानि स्वकर्मसु । कुर्वन्ति सात्वतां भर्तुः यातुधान्यश्च तत्र हि ॥ ३ ॥
na yatra śravaṇādīni rakṣoghnāni svakarmasu . kurvanti sātvatāṃ bhartuḥ yātudhānyaśca tatra hi .. 3 ..
सा खेचर्येकदोत्पत्य पूतना नन्दगोकुलम् । योषित्वा माययाऽऽत्मानं प्राविशत् कामचारिणी ॥ ४ ॥
sā khecaryekadotpatya pūtanā nandagokulam . yoṣitvā māyayā''tmānaṃ prāviśat kāmacāriṇī .. 4 ..
( मिश्र )
बृहन्नितंब स्तनकृच्छ्रमध्यमाम् । सुवाससं कल्पितकर्णभूषण त्विषोल्लसत् कुन्तलमण्डिताननाम् ॥ ५ ॥
bṛhannitaṃba stanakṛcchramadhyamām . suvāsasaṃ kalpitakarṇabhūṣaṇa tviṣollasat kuntalamaṇḍitānanām .. 5 ..
वल्गुस्मितापाङ्ग विसर्गवीक्षितैः मनो हरन्तीं वनितां व्रजौकसाम् । अमंसताम्भोजकरेण रूपिणीं गोप्यः श्रियं द्रष्टुमिवागतां पतिम् ॥ ६ ॥
valgusmitāpāṅga visargavīkṣitaiḥ mano harantīṃ vanitāṃ vrajaukasām . amaṃsatāmbhojakareṇa rūpiṇīṃ gopyaḥ śriyaṃ draṣṭumivāgatāṃ patim .. 6 ..
बालग्रहस्तत्र विचिन्वती शिशून् यदृच्छया नन्दगृहेऽसदन्तकम् । बालं प्रतिच्छन्ननिजोरुतेजसं ददर्श तल्पेऽग्निमिवाहितं भसि ॥ ७ ॥
bālagrahastatra vicinvatī śiśūn yadṛcchayā nandagṛhe'sadantakam . bālaṃ praticchannanijorutejasaṃ dadarśa talpe'gnimivāhitaṃ bhasi .. 7 ..
विबुध्य तां बालक मारिकाग्रहं चराचरात्मा स निमीलितेक्षणः । अनन्तमारोपयदङ्कमन्तकं यथोरगं सुप्तमबुद्धिरज्जुधीः ॥ ८ ॥
vibudhya tāṃ bālaka mārikāgrahaṃ carācarātmā sa nimīlitekṣaṇaḥ . anantamāropayadaṅkamantakaṃ yathoragaṃ suptamabuddhirajjudhīḥ .. 8 ..
तां तीक्ष्णचित्तामतिवामचेष्टितां वीक्ष्यान्तरा कोषपरिच्छदासिवत् । वरस्त्रियं तत्प्रभया च धर्षिते निरीक्ष्यमाणे जननी ह्यतिष्ठताम् ॥ ९ ॥
tāṃ tīkṣṇacittāmativāmaceṣṭitāṃ vīkṣyāntarā koṣaparicchadāsivat . varastriyaṃ tatprabhayā ca dharṣite nirīkṣyamāṇe jananī hyatiṣṭhatām .. 9 ..
तस्मिन् स्तनं दुर्जरवीर्यमुल्बणं । घोराङ्कमादाय शिशोर्ददावथ । गाढं कराभ्यां भगवान् प्रपीड्य तत् प्राणैः समं रोषसमन्वितोऽपिबत् ॥ १० ॥
tasmin stanaṃ durjaravīryamulbaṇaṃ . ghorāṅkamādāya śiśordadāvatha . gāḍhaṃ karābhyāṃ bhagavān prapīḍya tat prāṇaiḥ samaṃ roṣasamanvito'pibat .. 10 ..
सा मुञ्च मुञ्चालमिति प्रभाषिणी निष्पीड्य मानाखिलजीवमर्मणि । विवृत्य नेत्रे चरणौ भुजौ मुहुः प्रस्विन्नगात्रा क्षिपती रुरोद ह ॥ ११ ॥
sā muñca muñcālamiti prabhāṣiṇī niṣpīḍya mānākhilajīvamarmaṇi . vivṛtya netre caraṇau bhujau muhuḥ prasvinnagātrā kṣipatī ruroda ha .. 11 ..
तस्याः स्वनेनातिगभीररंहसा साद्रिर्मही द्यौश्च चचाल सग्रहा । रसा दिशश्च प्रतिनेदिरे जनाः पेतुः क्षितौ वज्रनिपात शङ्कया ॥ १२ ॥
tasyāḥ svanenātigabhīraraṃhasā sādrirmahī dyauśca cacāla sagrahā . rasā diśaśca pratinedire janāḥ petuḥ kṣitau vajranipāta śaṅkayā .. 12 ..
निशाचरीत्थं व्यथितस्तना व्यसुः व्यादाय केशांश्चरणौ भुजावपि । प्रसार्य गोष्ठे निजरूपमास्थिता वज्राहतो वृत्र इवापतन्नृप ॥ १३ ॥
niśācarītthaṃ vyathitastanā vyasuḥ vyādāya keśāṃścaraṇau bhujāvapi . prasārya goṣṭhe nijarūpamāsthitā vajrāhato vṛtra ivāpatannṛpa .. 13 ..
( अनुष्टुप् )
पतमानोऽपि तद्देह त्रिगव्यूत्यन्तरद्रुमान् । चूर्णयामास राजेन्द्र महदासीत् तदद्भुतम् ॥ १४ ॥
patamāno'pi taddeha trigavyūtyantaradrumān . cūrṇayāmāsa rājendra mahadāsīt tadadbhutam .. 14 ..
ईषामात्रोग्रदंष्ट्रास्यं गिरिकन्दर नासिकम् । गण्डशैलस्तनं रौद्रं प्रकीर्णारुणमूर्धजम् ॥ १५ ॥
īṣāmātrogradaṃṣṭrāsyaṃ girikandara nāsikam . gaṇḍaśailastanaṃ raudraṃ prakīrṇāruṇamūrdhajam .. 15 ..
अन्धकूपगभीराक्षं पुलिनारोह भीषणम् । बद्धसेतुभुजोर्वङ्घ्रि शून्यतोय ह्रदोदरम् ॥ १६ ॥
andhakūpagabhīrākṣaṃ pulināroha bhīṣaṇam . baddhasetubhujorvaṅghri śūnyatoya hradodaram .. 16 ..
सन्तत्रसुः स्म तद्वीक्ष्य गोपा गोप्यः कलेवरम् । पूर्वं तु तन्निःस्वनित भिन्नहृत्कर्ण मस्तकाः ॥ १७ ॥
santatrasuḥ sma tadvīkṣya gopā gopyaḥ kalevaram . pūrvaṃ tu tanniḥsvanita bhinnahṛtkarṇa mastakāḥ .. 17 ..
बालं च तस्या उरसि क्रीडन्तं अकुतोभयम् । गोप्यस्तूर्णं समभ्येत्य जगृहुर्जातसंभ्रमाः ॥ १८ ॥
bālaṃ ca tasyā urasi krīḍantaṃ akutobhayam . gopyastūrṇaṃ samabhyetya jagṛhurjātasaṃbhramāḥ .. 18 ..
यशोदा रोहिणीभ्यां ताः समं बालस्य सर्वतः । रक्षां विदधिरे सम्यक् गोपुच्छभ्रमणादिभिः ॥ १९ ॥
yaśodā rohiṇībhyāṃ tāḥ samaṃ bālasya sarvataḥ . rakṣāṃ vidadhire samyak gopucchabhramaṇādibhiḥ .. 19 ..
गोमूत्रेण स्नापयित्वा पुनर्गोरजसार्भकम् । रक्षां चक्रुश्च शकृता द्वादशाङ्गेषु नामभिः ॥ २० ॥
gomūtreṇa snāpayitvā punargorajasārbhakam . rakṣāṃ cakruśca śakṛtā dvādaśāṅgeṣu nāmabhiḥ .. 20 ..
गोप्यः संस्पृष्टसलिला अङ्गेषु करयोः पृथक् । न्यस्यात्मन्यथ बालस्य बीजन्यासमकुर्वत ॥ २१ ॥
gopyaḥ saṃspṛṣṭasalilā aṅgeṣu karayoḥ pṛthak . nyasyātmanyatha bālasya bījanyāsamakurvata .. 21 ..
( वसंततिलका )
अव्यादजोऽङ्घ्रि मणिमांस्तव जान्वथोरू यज्ञोऽच्युतः कटितटं जठरं हयास्यः । हृत्केशवस्त्वदुर ईश इनस्तु कण्ठं विष्णुर्भुजं मुखमुरुक्रम ईश्वरः कम् ॥ २२ ॥
avyādajo'ṅghri maṇimāṃstava jānvathorū yajño'cyutaḥ kaṭitaṭaṃ jaṭharaṃ hayāsyaḥ . hṛtkeśavastvadura īśa inastu kaṇṭhaṃ viṣṇurbhujaṃ mukhamurukrama īśvaraḥ kam .. 22 ..
चक्र्यग्रतः सहगदो हरिरस्तु पश्चात् । त्वत्पार्श्वयोर्धनुरसी मधुहाजनश्च । कोणेषु शङ्ख उरुगाय उपर्युपेन्द्रः तार्क्ष्यः क्षितौ हलधरः पुरुषः समन्तात् ॥ २३ ॥
cakryagrataḥ sahagado harirastu paścāt . tvatpārśvayordhanurasī madhuhājanaśca . koṇeṣu śaṅkha urugāya uparyupendraḥ tārkṣyaḥ kṣitau haladharaḥ puruṣaḥ samantāt .. 23 ..
( अनुष्टुप् )
इन्द्रियाणि हृषीकेशः प्राणान्नारायणोऽवतु । श्वेतद्वीपपतिश्चित्तं मनो योगेश्वरोऽवतु ॥ २४ ॥
indriyāṇi hṛṣīkeśaḥ prāṇānnārāyaṇo'vatu . śvetadvīpapatiścittaṃ mano yogeśvaro'vatu .. 24 ..
पृश्निगर्भस्तु ते बुद्धिं आत्मानं भगवान्परः । क्रीडन्तं पातु गोविन्दः शयानं पातु माधवः ॥ २५ ॥
pṛśnigarbhastu te buddhiṃ ātmānaṃ bhagavānparaḥ . krīḍantaṃ pātu govindaḥ śayānaṃ pātu mādhavaḥ .. 25 ..
व्रजन्तमव्याद् वैकुण्ठ आसीनं त्वां श्रियः पतिः । भुञ्जानं यज्ञभुक् पातु सर्वग्रहभयङ्करः ॥ २६ ॥
vrajantamavyād vaikuṇṭha āsīnaṃ tvāṃ śriyaḥ patiḥ . bhuñjānaṃ yajñabhuk pātu sarvagrahabhayaṅkaraḥ .. 26 ..
डाकिन्यो यातुधान्यश्च कुष्माण्डा येऽर्भकग्रहाः । भूतप्रेत पिशाचाश्च यक्षरक्षो विनायकाः ॥ २७ ॥
ḍākinyo yātudhānyaśca kuṣmāṇḍā ye'rbhakagrahāḥ . bhūtapreta piśācāśca yakṣarakṣo vināyakāḥ .. 27 ..
कोटरा रेवती ज्येष्ठा पूतना मातृकादयः । उन्मादा ये ह्यपस्मारा देह प्राणेन्द्रियद्रुहः ॥ २८ ॥
koṭarā revatī jyeṣṭhā pūtanā mātṛkādayaḥ . unmādā ye hyapasmārā deha prāṇendriyadruhaḥ .. 28 ..
स्वप्नदृष्टा महोत्पाता वृद्धा बालग्रहाश्च ये । सर्वे नश्यन्तु ते विष्णोः नामग्रहणभीरवः ॥ २९ ॥
svapnadṛṣṭā mahotpātā vṛddhā bālagrahāśca ye . sarve naśyantu te viṣṇoḥ nāmagrahaṇabhīravaḥ .. 29 ..
इति प्रणयबद्धाभिः गोपीभिः कृतरक्षणम् । पाययित्वा स्तनं माता संन्यवेशयदात्मजम् ॥ ३० ॥
iti praṇayabaddhābhiḥ gopībhiḥ kṛtarakṣaṇam . pāyayitvā stanaṃ mātā saṃnyaveśayadātmajam .. 30 ..
तावन्नन्दादयो गोपा मथुराया व्रजं गताः । विलोक्य पूतनादेहं बभूवुः अतिविस्मिताः ॥ ३१ ॥
tāvannandādayo gopā mathurāyā vrajaṃ gatāḥ . vilokya pūtanādehaṃ babhūvuḥ ativismitāḥ .. 31 ..
नूनं बतर्षिः सञ्जातो योगेशो वा समास सः । स एव दृष्टो ह्युत्पातो यद् आहानकदुन्दुभिः ॥ ३२ ॥
nūnaṃ batarṣiḥ sañjāto yogeśo vā samāsa saḥ . sa eva dṛṣṭo hyutpāto yad āhānakadundubhiḥ .. 32 ..
कलेवरं परशुभिः छित्त्वा तत्ते व्रजौकसः । दूरे क्षिप्त्वावयवशो न्यदहन् काष्ठवेष्टितम् ॥ ३३ ॥
kalevaraṃ paraśubhiḥ chittvā tatte vrajaukasaḥ . dūre kṣiptvāvayavaśo nyadahan kāṣṭhaveṣṭitam .. 33 ..
दह्यमानस्य देहस्य धूमश्चागुरुसौरभः । उत्थितः कृष्णनिर्भुक्त सपद्याहतपाप्मनः ॥ ३४ ॥
dahyamānasya dehasya dhūmaścāgurusaurabhaḥ . utthitaḥ kṛṣṇanirbhukta sapadyāhatapāpmanaḥ .. 34 ..
पूतना लोकबालघ्नी राक्षसी रुधिराशना । जिघांसयापि हरये स्तनं दत्त्वाप सद्गतिम् ॥ ३५ ॥
pūtanā lokabālaghnī rākṣasī rudhirāśanā . jighāṃsayāpi haraye stanaṃ dattvāpa sadgatim .. 35 ..
किं पुनः श्रद्धया भक्त्या कृष्णाय परमात्मने । यच्छन्प्रियतमं किं नु रक्तास्तन्मातरो यथा ॥ ३६ ॥
kiṃ punaḥ śraddhayā bhaktyā kṛṣṇāya paramātmane . yacchanpriyatamaṃ kiṃ nu raktāstanmātaro yathā .. 36 ..
पद्भ्यां भक्तहृदिस्थाभ्यां वन्द्याभ्यां लोकवन्दितैः । अङ्गं यस्याः समाक्रम्य भगवान् अपिबत् स्तनम् ॥ ३७ ॥
padbhyāṃ bhaktahṛdisthābhyāṃ vandyābhyāṃ lokavanditaiḥ . aṅgaṃ yasyāḥ samākramya bhagavān apibat stanam .. 37 ..
यातुधान्यपि सा स्वर्गं अवाप जननीगतिम् । कृष्णभुक्तस्तनक्षीराः किमु गावोऽनुमातरः ॥ ३८ ॥
yātudhānyapi sā svargaṃ avāpa jananīgatim . kṛṣṇabhuktastanakṣīrāḥ kimu gāvo'numātaraḥ .. 38 ..
पयांसि यासामपिबत् पुत्रस्नेहस्नुतान्यलम् । भगवान् देवकीपुत्रः कैवल्याद्यखिलप्रदः ॥ ३९ ॥
payāṃsi yāsāmapibat putrasnehasnutānyalam . bhagavān devakīputraḥ kaivalyādyakhilapradaḥ .. 39 ..
तासामविरतं कृष्णे कुर्वतीनां सुतेक्षणम् । न पुनः कल्पते राजन् संसारोऽज्ञानसंभवः ॥ ४० ॥
tāsāmavirataṃ kṛṣṇe kurvatīnāṃ sutekṣaṇam . na punaḥ kalpate rājan saṃsāro'jñānasaṃbhavaḥ .. 40 ..
कटधूमस्य सौरभ्यं अवघ्राय व्रजौकसः । किमिदं कुत एवेति वदन्तो व्रजमाययुः ॥ ४१ ॥
kaṭadhūmasya saurabhyaṃ avaghrāya vrajaukasaḥ . kimidaṃ kuta eveti vadanto vrajamāyayuḥ .. 41 ..
ते तत्र वर्णितं गोपैः पूतना गमनादिकम् । श्रुत्वा तन्निधनं स्वस्ति शिशोश्चासन् सुविस्मिताः ॥ ४२ ॥
te tatra varṇitaṃ gopaiḥ pūtanā gamanādikam . śrutvā tannidhanaṃ svasti śiśoścāsan suvismitāḥ .. 42 ..
नन्दः स्वपुत्रमादाय प्रेत्यागतमुदारधीः । मूर्ध्न्युपाघ्राय परमां मुदं लेभे कुरूद्वह ॥ ४३ ॥
nandaḥ svaputramādāya pretyāgatamudāradhīḥ . mūrdhnyupāghrāya paramāṃ mudaṃ lebhe kurūdvaha .. 43 ..
य एतत्पूतनामोक्षं कृष्णस्यार्भकमद्भुतम् । श्रृणुयात् श्रद्धया मर्त्यो गोविन्दे लभते रतिम् ॥ ४४ ॥
ya etatpūtanāmokṣaṃ kṛṣṇasyārbhakamadbhutam . śrṛṇuyāt śraddhayā martyo govinde labhate ratim .. 44 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे षष्ठोऽध्यायः ॥ ६ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ daśamaskandhe pūrvārdhe ṣaṣṭho'dhyāyaḥ .. 6 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ oṃ tatsat śrīkṛṣṇārpaṇamastu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In