| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीराजोवाच
येन येनावतारेण भगवान्हरिरीश्वरः । करोति कर्णरम्याणि मनोज्ञानि च नः प्रभो १
येन येन अवतारेण भगवान् हरिः ईश्वरः । करोति कर्ण-रम्याणि मनोज्ञानि च नः प्रभो
yena yena avatāreṇa bhagavān hariḥ īśvaraḥ . karoti karṇa-ramyāṇi manojñāni ca naḥ prabho
यच्छृण्वतोऽपैत्यरतिर्वितृष्णा सत्त्वं च शुद्ध्यत्यचिरेण पुंसः । भक्तिर्हरौ तत्पुरुषे च सख्यं तदेव हारं वद मन्यसे चेत् २
यत् शृण्वतः अपैति अरतिः वितृष्णा सत्त्वम् च शुद्धी अति अचिरेण पुंसः । भक्तिः हरौ तत्पुरुषे च सख्यम् तत् एव हारम् वद मन्यसे चेद्
yat śṛṇvataḥ apaiti aratiḥ vitṛṣṇā sattvam ca śuddhī ati acireṇa puṃsaḥ . bhaktiḥ harau tatpuruṣe ca sakhyam tat eva hāram vada manyase ced
अथान्यदपि कृष्णस्य तोकाचरितमद्भुतम् । मानुषं लोकमासाद्य तज्जातिमनुरुन्धतः ३
अथ अन्यत् अपि कृष्णस्य तोक-आचरितम् अद्भुतम् । मानुषम् लोकम् आसाद्य तद्-जातिम् अनुरुन्धतः
atha anyat api kṛṣṇasya toka-ācaritam adbhutam . mānuṣam lokam āsādya tad-jātim anurundhataḥ
श्रीशुक उवाच
कदाचिदौत्थानिककौतुकाप्लवे जन्मर्क्षयोगे समवेतयोषिताम् । वादित्रगीतद्विजमन्त्रवाचकैश्चकार सूनोरभिषेचनं सती ४
कदाचिद् औत्थानिक-कौतुक-आप्लवे जन्म-ऋक्ष-योगे समवेत-योषिताम् । वादित्र-गीत-द्विज-मन्त्र-वाचकैः चकार सूनोः अभिषेचनम् सती
kadācid autthānika-kautuka-āplave janma-ṛkṣa-yoge samaveta-yoṣitām . vāditra-gīta-dvija-mantra-vācakaiḥ cakāra sūnoḥ abhiṣecanam satī
नन्दस्य पत्नी कृतमज्जनादिकं विप्रैः कृतस्वस्त्ययनं सुपूजितैः । अन्नाद्यवासःस्रगभीष्टधेनुभिः सञ्जातनिद्रा क्षमशीशयच्छनैः ५
नन्दस्य पत्नी कृत-मज्जन-आदिकम् विप्रैः कृत-स्वस्त्ययनम् सु पूजितैः । अन्नाद्य-वासः-स्रज्-अभीष्ट-धेनुभिः सञ्जात-निद्रा क्षमशीशयत् शनैस्
nandasya patnī kṛta-majjana-ādikam vipraiḥ kṛta-svastyayanam su pūjitaiḥ . annādya-vāsaḥ-sraj-abhīṣṭa-dhenubhiḥ sañjāta-nidrā kṣamaśīśayat śanais
औत्थानिकौत्सुक्यमना मनस्विनी समागतान्पूजयती व्रजौकसः । नैवाशृणोद्वै रुदितं सुतस्य सा रुदन्स्तनार्थी चरणावुदक्षिपत् ६
औत्थानिक-औत्सुक्य-मनाः मनस्विनी समागतान् पूजयती व्रज-ओकसः । न एव अशृणोत् वै रुदितम् सुतस्य सा रुदन् स्तन-अर्थी चरणौ उदक्षिपत्
autthānika-autsukya-manāḥ manasvinī samāgatān pūjayatī vraja-okasaḥ . na eva aśṛṇot vai ruditam sutasya sā rudan stana-arthī caraṇau udakṣipat
अधःशयानस्य शिशोरनोऽल्पक प्रवालमृद्वङ्घ्रिहतं व्यवर्तत । विध्वस्तनानारसकुप्यभाजनं व्यत्यस्तचक्राक्षविभिन्नकूबरम् ७
अधस् शयानस्य शिशोः अनः-अल्पक प्रवाल-मृदु-अङ्घ्रि-हतम् व्यवर्तत । विध्वस्त-नाना रस-कुप्य-भाजनम् व्यत्यस्त-चक्र-अक्ष-विभिन्न-कूबरम्
adhas śayānasya śiśoḥ anaḥ-alpaka pravāla-mṛdu-aṅghri-hatam vyavartata . vidhvasta-nānā rasa-kupya-bhājanam vyatyasta-cakra-akṣa-vibhinna-kūbaram
दृष्ट्वा यशोदाप्रमुखा व्रजस्त्रिय औत्थानिके कर्मणि याः समागताः । नन्दादयश्चाद्भुतदर्शनाकुलाः कथं स्वयं वै शकटं विपर्यगात् ८
दृष्ट्वा यशोदा-प्रमुखाः व्रज-स्त्रियः औत्थानिके कर्मणि याः समागताः । नन्द-आदयः च अद्भुत-दर्शन-आकुलाः कथम् स्वयम् वै शकटम् विपर्यगात्
dṛṣṭvā yaśodā-pramukhāḥ vraja-striyaḥ autthānike karmaṇi yāḥ samāgatāḥ . nanda-ādayaḥ ca adbhuta-darśana-ākulāḥ katham svayam vai śakaṭam viparyagāt
ऊचुरव्यवसितमतीन्गोपान्गोपीश्च बालकाः । रुदतानेन पादेन क्षिप्तमेतन्न संशयः ९
ऊचुः अव्यवसित-मतीन् गोपान् गोपीः च बालकाः । रुदता अनेन पादेन क्षिप्तम् एतत् न संशयः
ūcuḥ avyavasita-matīn gopān gopīḥ ca bālakāḥ . rudatā anena pādena kṣiptam etat na saṃśayaḥ
न ते श्रद्दधिरे गोपा बालभाषितमित्युत । अप्रमेयं बलं तस्य बालकस्य न ते विदुः १०
न ते श्रद्दधिरे गोपाः बाल-भाषितम् इति उत । अप्रमेयम् बलम् तस्य बालकस्य न ते विदुः
na te śraddadhire gopāḥ bāla-bhāṣitam iti uta . aprameyam balam tasya bālakasya na te viduḥ
रुदन्तं सुतमादाय यशोदा ग्रहशङ्किता । कृतस्वस्त्ययनं विप्रैः सूक्तैः स्तनमपाययत् ११
रुदन्तम् सुतम् आदाय यशोदा ग्रह-शङ्किता । कृत-स्वस्त्ययनम् विप्रैः सूक्तैः स्तनम् अपाययत्
rudantam sutam ādāya yaśodā graha-śaṅkitā . kṛta-svastyayanam vipraiḥ sūktaiḥ stanam apāyayat
पूर्ववत्स्थापितं गोपैर्बलिभिः सपरिच्छदम् । विप्रा हुत्वार्चयां चक्रुर्दध्यक्षतकुशाम्बुभिः १२
पूर्ववत् स्थापितम् गोपैः बलिभिः स परिच्छदम् । विप्राः चक्रुः दधि-अक्षत-कुश-अम्बुभिः
pūrvavat sthāpitam gopaiḥ balibhiḥ sa paricchadam . viprāḥ cakruḥ dadhi-akṣata-kuśa-ambubhiḥ
येऽसूयानृतदम्भेर्षा हिंसामानविवर्जिताः । न तेषां सत्यशीलानामाशिषो विफलाः कृताः १३
ये असूया-अनृत-दम्भ-ईर्षाः हिंसा-मान-विवर्जिताः । न तेषाम् सत्य-शीलानाम् आशिषः विफलाः कृताः
ye asūyā-anṛta-dambha-īrṣāḥ hiṃsā-māna-vivarjitāḥ . na teṣām satya-śīlānām āśiṣaḥ viphalāḥ kṛtāḥ
इति बालकमादाय सामर्ग्यजुरुपाकृतैः । जलैः पवित्रौषधिभिरभिषिच्य द्विजोत्तमैः १४
इति बालकम् आदाय साम-ऋच्-यजुः-उपाकृतैः । जलैः पवित्र-ओषधिभिः अभिषिच्य द्विजोत्तमैः
iti bālakam ādāya sāma-ṛc-yajuḥ-upākṛtaiḥ . jalaiḥ pavitra-oṣadhibhiḥ abhiṣicya dvijottamaiḥ
वाचयित्वा स्वस्त्ययनं नन्दगोपः समाहितः । हुत्वा चाग्निं द्विजातिभ्यः प्रादादन्नं महागुणम् १५
वाचयित्वा स्वस्त्ययनम् नन्द-गोपः समाहितः । हुत्वा च अग्निम् द्विजातिभ्यः प्रादात् अन्नम् महा-गुणम्
vācayitvā svastyayanam nanda-gopaḥ samāhitaḥ . hutvā ca agnim dvijātibhyaḥ prādāt annam mahā-guṇam
गावः सर्वगुणोपेता वासःस्रग्रुक्ममालिनीः । आत्मजाभ्युदयार्थाय प्रादात्ते चान्वयुञ्जत १६
गावः सर्व-गुण-उपेताः वासः-स्रज्-रुक्म-मालिनीः । आत्मज-अभ्युदय-अर्थाय प्रादात् ते च अन्वयुञ्जत
gāvaḥ sarva-guṇa-upetāḥ vāsaḥ-sraj-rukma-mālinīḥ . ātmaja-abhyudaya-arthāya prādāt te ca anvayuñjata
विप्रा मन्त्रविदो युक्तास्तैर्याः प्रोक्तास्तथाशिषः । ता निष्फला भविष्यन्ति न कदाचिदपि स्फुटम् १७
विप्राः मन्त्र-विदः युक्ताः तैः याः प्रोक्ताः तथा आशिषः । ताः निष्फलाः भविष्यन्ति न कदाचिद् अपि स्फुटम्
viprāḥ mantra-vidaḥ yuktāḥ taiḥ yāḥ proktāḥ tathā āśiṣaḥ . tāḥ niṣphalāḥ bhaviṣyanti na kadācid api sphuṭam
एकदारोहमारूढं लालयन्ती सुतं सती । गरिमाणं शिशोर्वोढुं न सेहे गिरिकूटवत् १८
एकदा आरोहम् आरूढम् लालयन्ती सुतम् सती । गरिमाणम् शिशोः वोढुम् न सेहे गिरि-कूट-वत्
ekadā āroham ārūḍham lālayantī sutam satī . garimāṇam śiśoḥ voḍhum na sehe giri-kūṭa-vat
भूमौ निधाय तं गोपी विस्मिता भारपीडिता । महापुरुषमादध्यौ जगतामास कर्मसु १९
भूमौ निधाय तम् गोपी विस्मिता भार-पीडिता । महापुरुषम् आदध्यौ जगताम् आस कर्मसु
bhūmau nidhāya tam gopī vismitā bhāra-pīḍitā . mahāpuruṣam ādadhyau jagatām āsa karmasu
दैत्यो नाम्ना तृणावर्तः कंसभृत्यः प्रणोदितः । चक्रवातस्वरूपेण जहारासीनमर्भकम् २०
दैत्यः नाम्ना तृणावर्तः कंस-भृत्यः प्रणोदितः । चक्रवात-स्व-रूपेण जहार आसीनम् अर्भकम्
daityaḥ nāmnā tṛṇāvartaḥ kaṃsa-bhṛtyaḥ praṇoditaḥ . cakravāta-sva-rūpeṇa jahāra āsīnam arbhakam
गोकुलं सर्वमावृण्वन्मुष्णंश्चक्षूंषि रेणुभिः । ईरयन्सुमहाघोर शब्देन प्रदिशो दिशः २१
गोकुलम् सर्वम् आवृण्वन् मुष्णन् चक्षूंषि रेणुभिः । ईरयन् सु महा-घोर शब्देन प्रदिशः दिशः
gokulam sarvam āvṛṇvan muṣṇan cakṣūṃṣi reṇubhiḥ . īrayan su mahā-ghora śabdena pradiśaḥ diśaḥ
मुहूर्तमभवद्गोष्ठं रजसा तमसावृतम् । सुतं यशोदा नापश्यत्तस्मिन्न्यस्तवती यतः २२
मुहूर्तम् अभवत् गोष्ठम् रजसा तमसा आवृतम् । सुतम् यशोदा ना अपश्यत् तस्मिन् न्यस्तवती यतस्
muhūrtam abhavat goṣṭham rajasā tamasā āvṛtam . sutam yaśodā nā apaśyat tasmin nyastavatī yatas
नापश्यत्कश्चनात्मानं परं चापि विमोहितः । तृणावर्तनिसृष्टाभिः शर्कराभिरुपद्रुतः २३
न अपश्यत् कश्चन आत्मानम् परम् च अपि विमोहितः । तृण-आवर्त-निसृष्टाभिः शर्कराभिः उपद्रुतः
na apaśyat kaścana ātmānam param ca api vimohitaḥ . tṛṇa-āvarta-nisṛṣṭābhiḥ śarkarābhiḥ upadrutaḥ
इति खरपवनचक्रपांशुवर्षे सुतपदवीमबलाविलक्ष्य माता । अतिकरुमनुस्मरन्त्यशोचद्भुवि पतिता मृतवत्सका यथा गौः २४
इति खर-पवन-चक्र-पांशु-वर्षे सुत-पदवीम् अबला विलक्ष्य माता । अतिकरुम् अनुस्मरन्ती अशोचत् भुवि पतिता मृत-वत्सका यथा गौः
iti khara-pavana-cakra-pāṃśu-varṣe suta-padavīm abalā vilakṣya mātā . atikarum anusmarantī aśocat bhuvi patitā mṛta-vatsakā yathā gauḥ
रुदितमनुनिशम्य तत्र गोप्यो भृशमनुतप्तधियोऽश्रुपूर्णमुख्यः । रुरुदुरनुपलभ्य नन्दसूनुं पवन उपारतपांशुवर्षवेगे २५
रुदितम् अनुनिशम्य तत्र गोप्यः भृशम् अनुतप्त-धियः अश्रु-पूर्ण-मुख्यः । रुरुदुः अन् उपलभ्य नन्द-सूनुम् पवने उपारत-पांशु-वर्ष-वेगे
ruditam anuniśamya tatra gopyaḥ bhṛśam anutapta-dhiyaḥ aśru-pūrṇa-mukhyaḥ . ruruduḥ an upalabhya nanda-sūnum pavane upārata-pāṃśu-varṣa-vege
तृणावर्तः शान्तरयो वात्यारूपधरो हरन् । कृष्णं नभोगतो गन्तुं नाशक्नोद्भूरिभारभृत् २६
हरन् । कृष्णम् नभः-गतः गन्तुम् न अशक्नोत् भूरि-भार-भृत्
haran . kṛṣṇam nabhaḥ-gataḥ gantum na aśaknot bhūri-bhāra-bhṛt
तमश्मानं मन्यमान आत्मनो गुरुमत्तया । गले गृहीत उत्स्रष्टुं नाशक्नोदद्भुतार्भकम् २७
तम् अश्मानम् मन्यमानः आत्मनः गुरुमत्-तया । गले गृहीतः उत्स्रष्टुम् न अशक्नोत् अद्भुत-अर्भकम्
tam aśmānam manyamānaḥ ātmanaḥ gurumat-tayā . gale gṛhītaḥ utsraṣṭum na aśaknot adbhuta-arbhakam
गलग्रहणनिश्चेष्टो दैत्यो निर्गतलोचनः । अव्यक्तरावो न्यपतत्सहबालो व्यसुर्व्रजे २८
गल-ग्रहण-निश्चेष्टः दैत्यः निर्गत-लोचनः । अव्यक्त-रावः न्यपतत् सहबालः व्यसुः व्रजे
gala-grahaṇa-niśceṣṭaḥ daityaḥ nirgata-locanaḥ . avyakta-rāvaḥ nyapatat sahabālaḥ vyasuḥ vraje
तमन्तरिक्षात्पतितं शिलायां विशीर्णसर्वावयवं करालम् । पुरं यथा रुद्र शरेण विद्धं स्त्रियो रुदत्यो ददृशुः समेताः २९
तम् अन्तरिक्षात् पतितम् शिलायाम् विशीर्ण-सर्व-अवयवम् करालम् । पुरम् यथा रुद्र शरेण विद्धम् स्त्रियः रुदत्यः ददृशुः समेताः
tam antarikṣāt patitam śilāyām viśīrṇa-sarva-avayavam karālam . puram yathā rudra śareṇa viddham striyaḥ rudatyaḥ dadṛśuḥ sametāḥ
प्रादाय मात्रे प्रतिहृत्य विस्मिताः कृष्णं च तस्योरसि लम्बमानम् । तं स्वस्तिमन्तं पुरुषादनीतं विहायसा मृत्युमुखात्प्रमुक्तम् । गोप्यश्च गोपाः किल नन्दमुख्या लब्ध्वा पुनः प्रापुरतीव मोदम् ३०
प्रादाय मात्रे प्रतिहृत्य विस्मिताः कृष्णम् च तस्य उरसि लम्बमानम् । तम् स्वस्तिमन्तम् पुरुषाद-नीतम् विहायसा मृत्यु-मुखात् प्रमुक्तम् । गोप्यः च गोपाः किल नन्द-मुख्याः लब्ध्वा पुनर् प्रापुः अतीव मोदम्
prādāya mātre pratihṛtya vismitāḥ kṛṣṇam ca tasya urasi lambamānam . tam svastimantam puruṣāda-nītam vihāyasā mṛtyu-mukhāt pramuktam . gopyaḥ ca gopāḥ kila nanda-mukhyāḥ labdhvā punar prāpuḥ atīva modam
अहो बतात्यद्भुतमेष रक्षसा बालो निवृत्तिं गमितोऽभ्यगात्पुनः । हिंस्रः स्वपापेन विहिंसितः खलः साधुः समत्वेन भयाद्विमुच्यते ३१
अहो बत अति अद्भुतम् एष रक्षसा बालः निवृत्तिम् गमितः अभ्यगात् पुनर् । हिंस्रः स्व-पापेन विहिंसितः खलः साधुः समत्वेन भयात् विमुच्यते
aho bata ati adbhutam eṣa rakṣasā bālaḥ nivṛttim gamitaḥ abhyagāt punar . hiṃsraḥ sva-pāpena vihiṃsitaḥ khalaḥ sādhuḥ samatvena bhayāt vimucyate
किं नस्तपश्चीर्णमधोक्षजार्चनं पूर्तेष्टदत्तमुत भूतसौहृदम् । यत्सम्परेतः पुनरेव बालको दिष्ट्या स्वबन्धून्प्रणयन्नुपस्थितः ३२
किम् नः तपः चीर्णम् अधोक्षज-अर्चनम् पूर्त-इष्ट-दत्तम् उत भूत-सौहृदम् । यद्-सम्परेतः पुनर् एव बालकः दिष्ट्या स्व-बन्धून् प्रणयन् उपस्थितः
kim naḥ tapaḥ cīrṇam adhokṣaja-arcanam pūrta-iṣṭa-dattam uta bhūta-sauhṛdam . yad-samparetaḥ punar eva bālakaḥ diṣṭyā sva-bandhūn praṇayan upasthitaḥ
दृष्ट्वाद्भुतानि बहुशो नन्दगोपो बृहद्वने । वसुदेववचो भूयो मानयामास विस्मितः ३३
दृष्ट्वा अद्भुतानि बहुशस् नन्द-गोपः बृहत्-वने । वसुदेव-वचः भूयस् मानयामास विस्मितः
dṛṣṭvā adbhutāni bahuśas nanda-gopaḥ bṛhat-vane . vasudeva-vacaḥ bhūyas mānayāmāsa vismitaḥ
एकदार्भकमादाय स्वाङ्कमारोप्य भामिनी । प्रस्नुतं पाययामास स्तनं स्नेहपरिप्लुता ३४
एक-दार्भकम् आदाय स्व-अङ्कम् आरोप्य भामिनी । प्रस्नुतम् पाययामास स्तनम् स्नेह-परिप्लुता
eka-dārbhakam ādāya sva-aṅkam āropya bhāminī . prasnutam pāyayāmāsa stanam sneha-pariplutā
पीतप्रायस्य जननी सुतस्य रुचिरस्मितम् । मुखं लालयती राजञ्जृम्भतो ददृशे इदम् ३५
पीत-प्रायस्य जननी सुतस्य रुचिर-स्मितम् । मुखम् लालयती राजन् जृम्भतः ददृशे इदम्
pīta-prāyasya jananī sutasya rucira-smitam . mukham lālayatī rājan jṛmbhataḥ dadṛśe idam
खं रोदसी ज्योतिरनीकमाशाः सूर्येन्दुवह्निश्वसनाम्बुधींश्च । द्वीपान्नगांस्तद्दुहितॄर्वनानि भूतानि यानि स्थिरजङ्गमानि ३६
खम् रोदसी ज्योतिः अनीकम् आशाः सूर्य-इन्दु-वह्नि-श्वसन-अम्बुधीन् च । द्वीपान् नगान् तद्-दुहितॄः वनानि भूतानि यानि स्थिर-जङ्गमानि
kham rodasī jyotiḥ anīkam āśāḥ sūrya-indu-vahni-śvasana-ambudhīn ca . dvīpān nagān tad-duhitṝḥ vanāni bhūtāni yāni sthira-jaṅgamāni
सा वीक्ष्य विश्वं सहसा राजन्सञ्जातवेपथुः । सम्मील्य मृगशावाक्षी नेत्रे आसीत्सुविस्मिता ३७
सा वीक्ष्य विश्वम् सहसा राजन् सञ्जात-वेपथुः । सम्मील्य मृगशावाक्षी नेत्रे आसीत् सु विस्मिता
sā vīkṣya viśvam sahasā rājan sañjāta-vepathuḥ . sammīlya mṛgaśāvākṣī netre āsīt su vismitā
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे तृणावर्तमोक्षो नाम सप्तमोऽध्यायः
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् दशम-स्कन्धे पूर्व-अर्धे तृणावर्तमोक्षः नाम सप्तमः अध्यायः
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām daśama-skandhe pūrva-ardhe tṛṇāvartamokṣaḥ nāma saptamaḥ adhyāyaḥ

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In