| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच । ( अनुष्टुप् )
गर्गः पुरोहितो राजन् यदूनां सुमहातपाः । व्रजं जगाम नन्दस्य वसुदेव प्रचोदितः ॥ १ ॥
गर्गः पुरोहितः राजन् यदूनाम् सु महा-तपाः । व्रजम् जगाम नन्दस्य वसुदेव प्रचोदितः ॥ १ ॥
gargaḥ purohitaḥ rājan yadūnām su mahā-tapāḥ . vrajam jagāma nandasya vasudeva pracoditaḥ .. 1 ..
तं दृष्ट्वा परमप्रीतः प्रत्युत्थाय कृताञ्जलिः । आनर्चाधोक्षजधिया प्रणिपातपुरःसरम् ॥ २ ॥
तम् दृष्ट्वा परम-प्रीतः प्रत्युत्थाय कृताञ्जलिः । आनर्च अधोक्षज-धिया प्रणिपात-पुरःसरम् ॥ २ ॥
tam dṛṣṭvā parama-prītaḥ pratyutthāya kṛtāñjaliḥ . ānarca adhokṣaja-dhiyā praṇipāta-puraḥsaram .. 2 ..
सूपविष्टं कृतातिथ्यं गिरा सूनृतया मुनिम् । नन्दयित्वाब्रवीद् ब्रह्मन् पूर्णस्य करवाम किम् ॥ ३ ॥
सु उपविष्टम् कृत-आतिथ्यम् गिरा सूनृतया मुनिम् । नन्दयित्वा अब्रवीत् ब्रह्मन् पूर्णस्य करवाम किम् ॥ ३ ॥
su upaviṣṭam kṛta-ātithyam girā sūnṛtayā munim . nandayitvā abravīt brahman pūrṇasya karavāma kim .. 3 ..
महद्विचलनं नॄणां गृहिणां दीनचेतसाम् । निःश्रेयसाय भगवन् कल्पते नान्यथा क्वचित् ॥ ४ ॥
महत् विचलनम् नॄणाम् गृहिणाम् दीन-चेतसाम् । निःश्रेयसाय भगवन् कल्पते ना अन्यथा क्वचिद् ॥ ४ ॥
mahat vicalanam nṝṇām gṛhiṇām dīna-cetasām . niḥśreyasāya bhagavan kalpate nā anyathā kvacid .. 4 ..
ज्योतिषामयनं साक्षाद् यत्तज्ज्ञानं अतीन्द्रियम् । प्रणीतं भवता येन पुमान्वेद परावरम् ॥ ५ ॥
ज्योतिषाम् अयनम् साक्षात् यत् तत् ज्ञानम् अतीन्द्रियम् । प्रणीतम् भवता येन पुमान् वेद परावरम् ॥ ५ ॥
jyotiṣām ayanam sākṣāt yat tat jñānam atīndriyam . praṇītam bhavatā yena pumān veda parāvaram .. 5 ..
त्वं हि ब्रह्मविदां श्रेष्ठः संस्कारान् कर्तुमर्हसि । बालयोरनयोर्नॄणां जन्मना ब्राह्मणो गुरुः ॥ ६ ॥
त्वम् हि ब्रह्म-विदाम् श्रेष्ठः संस्कारान् कर्तुम् अर्हसि । बालयोः अनयोः नॄणाम् जन्मना ब्राह्मणः गुरुः ॥ ६ ॥
tvam hi brahma-vidām śreṣṭhaḥ saṃskārān kartum arhasi . bālayoḥ anayoḥ nṝṇām janmanā brāhmaṇaḥ guruḥ .. 6 ..
श्रीगर्ग उवाच ।
यदूनां अहमाचार्यः ख्यातश्च भुवि सर्वतः । सुतं मया संस्कृतं ते मन्यते देवकीसुतम् ॥ ७ ॥
यदूनाम् अहम् आचार्यः ख्यातः च भुवि सर्वतस् । सुतम् मया संस्कृतम् ते मन्यते देवकी-सुतम् ॥ ७ ॥
yadūnām aham ācāryaḥ khyātaḥ ca bhuvi sarvatas . sutam mayā saṃskṛtam te manyate devakī-sutam .. 7 ..
कंसः पापमतिः सख्यं तव चानकदुन्दुभेः । देवक्या अष्टमो गर्भो न स्त्री भवितुमर्हति ॥ ८ ॥
कंसः पाप-मतिः सख्यम् तव च आनकदुन्दुभेः । देवक्याः अष्टमः गर्भः न स्त्री भवितुम् अर्हति ॥ ८ ॥
kaṃsaḥ pāpa-matiḥ sakhyam tava ca ānakadundubheḥ . devakyāḥ aṣṭamaḥ garbhaḥ na strī bhavitum arhati .. 8 ..
इति सञ्चिन्तयन् श्रुत्वा देवक्या दारिकावचः । अपि हन्ता आगताशङ्कः तर्हि तन्नोऽनयो भवेत् ॥ ९ ॥
इति सञ्चिन्तयन् श्रुत्वा देवक्याः दारिका-वचः । अपि हन्ता आगत-आशङ्कः तर्हि तत् नः अनयः भवेत् ॥ ९ ॥
iti sañcintayan śrutvā devakyāḥ dārikā-vacaḥ . api hantā āgata-āśaṅkaḥ tarhi tat naḥ anayaḥ bhavet .. 9 ..
श्रीनन्द उवाच ।
अलक्षितोऽस्मिन् रहसि मामकैरपि गोव्रजे । कुरु द्विजातिसंस्कारं स्वस्तिवाचनपूर्वकम् ॥ १० ॥
अलक्षितः अस्मिन् रहसि मामकैः अपि गोव्रजे । कुरु द्विजाति-संस्कारम् स्वस्तिवाचन-पूर्वकम् ॥ १० ॥
alakṣitaḥ asmin rahasi māmakaiḥ api govraje . kuru dvijāti-saṃskāram svastivācana-pūrvakam .. 10 ..
श्रीशुक उवाच ।
एवं संप्रार्थितो विप्रः स्वचिकीर्षितमेव तत् । चकार नामकरणं गूढो रहसि बालयोः ॥ ११ ॥
एवम् संप्रार्थितः विप्रः स्व-चिकीर्षितम् एव तत् । चकार नामकरणम् गूढः रहसि बालयोः ॥ ११ ॥
evam saṃprārthitaḥ vipraḥ sva-cikīrṣitam eva tat . cakāra nāmakaraṇam gūḍhaḥ rahasi bālayoḥ .. 11 ..
श्रीगर्ग उवाच ।
अयं हि रोहिणीपुत्रो रमयन् सुहृदो गुणैः । आख्यास्यते राम इति बलाधिक्याद् बलं विदुः । यदूनामपृथग्भावात् सङ्कर्षणमुशन्त्युत ॥ १२ ॥
अयम् हि रोहिणी-पुत्रः रमयन् सुहृदः गुणैः । आख्यास्यते रामः इति बल-आधिक्यात् बलम् विदुः । यदूनाम् अपृथग्भावात् सङ्कर्षणम् उशन्ति उत ॥ १२ ॥
ayam hi rohiṇī-putraḥ ramayan suhṛdaḥ guṇaiḥ . ākhyāsyate rāmaḥ iti bala-ādhikyāt balam viduḥ . yadūnām apṛthagbhāvāt saṅkarṣaṇam uśanti uta .. 12 ..
आसन् वर्णास्त्रयो ह्यस्य गृह्णतोऽनुयुगं तनूः । शुक्लो रक्तस्तथा पीत इदानीं कृष्णतां गतः ॥ १३ ॥
आसन् वर्णाः त्रयः हि अस्य गृह्णतः अनुयुगम् तनूः । शुक्लः रक्तः तथा पीतः इदानीम् कृष्ण-ताम् गतः ॥ १३ ॥
āsan varṇāḥ trayaḥ hi asya gṛhṇataḥ anuyugam tanūḥ . śuklaḥ raktaḥ tathā pītaḥ idānīm kṛṣṇa-tām gataḥ .. 13 ..
प्रागयं वसुदेवस्य क्वचित् जातस्तवात्मजः । वासुदेव इति श्रीमान् अभिज्ञाः संप्रचक्षते ॥ १४ ॥
प्राक् अयम् वसुदेवस्य क्वचिद् जातः तव आत्मजः । वासुदेवः इति श्रीमान् अभिज्ञाः संप्रचक्षते ॥ १४ ॥
prāk ayam vasudevasya kvacid jātaḥ tava ātmajaḥ . vāsudevaḥ iti śrīmān abhijñāḥ saṃpracakṣate .. 14 ..
बहूनि सन्ति नामानि रूपाणि च सुतस्य ते । गुणकर्मानुरूपाणि तान्यहं वेद नो जनाः ॥ १५ ॥
बहूनि सन्ति नामानि रूपाणि च सुतस्य ते । गुण-कर्म-अनुरूपाणि तानि अहम् वेद नः जनाः ॥ १५ ॥
bahūni santi nāmāni rūpāṇi ca sutasya te . guṇa-karma-anurūpāṇi tāni aham veda naḥ janāḥ .. 15 ..
एष वः श्रेय आधास्यद् गोपगोकुल-नन्दनः । अनेन सर्वदुर्गाणि यूयं अञ्जस्तरिष्यथ ॥ १६ ॥
एष वः श्रेयः आधास्यत् गोप-गोकुल-नन्दनः । अनेन सर्व-दुर्गाणि यूयम् अञ्जस् तरिष्यथ ॥ १६ ॥
eṣa vaḥ śreyaḥ ādhāsyat gopa-gokula-nandanaḥ . anena sarva-durgāṇi yūyam añjas tariṣyatha .. 16 ..
पुरानेन व्रजपते साधवो दस्युपीडिताः । अराजके रक्ष्यमाणा जिग्युर्दस्यून् समेधिताः ॥ १७ ॥
पुरा अनेन व्रज-पते साधवः दस्यु-पीडिताः । अराजके रक्ष्यमाणाः जिग्युः दस्यून् समेधिताः ॥ १७ ॥
purā anena vraja-pate sādhavaḥ dasyu-pīḍitāḥ . arājake rakṣyamāṇāḥ jigyuḥ dasyūn samedhitāḥ .. 17 ..
य एतस्मिन् महाभागाः प्रीतिं कुर्वन्ति मानवाः । नारयोऽभिभवन्त्येतान् विष्णुपक्षानिवासुराः ॥ १८ ॥
ये एतस्मिन् महाभागाः प्रीतिम् कुर्वन्ति मानवाः । न अरयः अभिभवन्ति एतान् विष्णु-पक्षान् इव असुराः ॥ १८ ॥
ye etasmin mahābhāgāḥ prītim kurvanti mānavāḥ . na arayaḥ abhibhavanti etān viṣṇu-pakṣān iva asurāḥ .. 18 ..
तस्मात् नन्दात्मजोऽयं ते नारायणसमो गुणैः । श्रिया कीर्त्यानुभावेन गोपायस्व समाहितः ॥ १९ ॥
तस्मात् नन्द-आत्मजः अयम् ते नारायण-समः गुणैः । श्रिया कीर्त्या अनुभावेन गोपायस्व समाहितः ॥ १९ ॥
tasmāt nanda-ātmajaḥ ayam te nārāyaṇa-samaḥ guṇaiḥ . śriyā kīrtyā anubhāvena gopāyasva samāhitaḥ .. 19 ..
श्रीशुक उवाच ।
इत्यात्मानं समादिश्य गर्गे च स्वगृहं गते । नन्दः प्रमुदितो मेने आत्मानं पूर्णमाशिषाम् ॥ २० ॥
इति आत्मानम् समादिश्य गर्गे च स्व-गृहम् गते । नन्दः प्रमुदितः मेने आत्मानम् पूर्णम् आशिषाम् ॥ २० ॥
iti ātmānam samādiśya garge ca sva-gṛham gate . nandaḥ pramuditaḥ mene ātmānam pūrṇam āśiṣām .. 20 ..
कालेन व्रजताल्पेन गोकुले रामकेशवौ । जानुभ्यां सह पाणिभ्यां रिङ्गमाणौ विजह्रतुः ॥ २१ ॥
कालेन व्रजता अल्पेन गोकुले राम-केशवौ । जानुभ्याम् सह पाणिभ्याम् रिङ्गमाणौ विजह्रतुः ॥ २१ ॥
kālena vrajatā alpena gokule rāma-keśavau . jānubhyām saha pāṇibhyām riṅgamāṇau vijahratuḥ .. 21 ..
( वसंततिलका )
तावङ्घ्रियुग्ममनुकृष्य सरीसृपन्तौ घोषप्रघोषरुचिरं व्रजकर्दमेषु । तन्नादहृष्टमनसावनुसृत्य लोकं मुग्धप्रभीतवदुपेयतुरन्ति मात्रोः ॥ २२ ॥
तौ अङ्घ्रि-युग्मम् अनुकृष्य सरीसृपन्तौ घोष-प्रघोष-रुचिरम् व्रज-कर्दमेषु । तद्-नाद-हृष्ट-मनसौ अनुसृत्य लोकम् मुग्ध-प्रभीत-वत् उपेयतुरन्ति मात्रोः ॥ २२ ॥
tau aṅghri-yugmam anukṛṣya sarīsṛpantau ghoṣa-praghoṣa-ruciram vraja-kardameṣu . tad-nāda-hṛṣṭa-manasau anusṛtya lokam mugdha-prabhīta-vat upeyaturanti mātroḥ .. 22 ..
तन्मातरौ निजसुतौ घृणया स्नुवन्त्यौ पङ्काङ्गरागरुचिरौ उपगृह्य दोर्भ्याम् । दत्त्वा स्तनं प्रपिबतोः स्म मुखं निरीक्ष्य मुग्धस्मिताल्पदशनं ययतुः प्रमोदम् ॥ २३ ॥
तद्-मातरौ निज-सुतौ घृणया स्नुवन्त्यौ पङ्क-अङ्गराग-रुचिरौ उपगृह्य दोर्भ्याम् । दत्त्वा स्तनम् प्रपिबतोः स्म मुखम् निरीक्ष्य मुग्ध-स्मित-अल्प-दशनम् ययतुः प्रमोदम् ॥ २३ ॥
tad-mātarau nija-sutau ghṛṇayā snuvantyau paṅka-aṅgarāga-rucirau upagṛhya dorbhyām . dattvā stanam prapibatoḥ sma mukham nirīkṣya mugdha-smita-alpa-daśanam yayatuḥ pramodam .. 23 ..
यर्ह्यङ्गनादर्शनीय-कुमारलीलौ । अन्तर्व्रजे तदबलाः प्रगृहीतपुच्छैः । वत्सैरितस्तत उभावनुकृष्यमाणौ प्रेक्षन्त्य उज्झितगृहा जहृषुर्हसन्त्यः ॥ २४ ॥
यर्हि अङ्गना-दर्शनीय-कुमार-लीलौ । अन्तर् व्रजे तद्-अबलाः प्रगृहीत-पुच्छैः । वत्सैः इतस् ततस् उभौ अनुकृष्यमाणौ प्रेक्षन्त्यः उज्झित-गृहाः जहृषुः हसन्त्यः ॥ २४ ॥
yarhi aṅganā-darśanīya-kumāra-līlau . antar vraje tad-abalāḥ pragṛhīta-pucchaiḥ . vatsaiḥ itas tatas ubhau anukṛṣyamāṇau prekṣantyaḥ ujjhita-gṛhāḥ jahṛṣuḥ hasantyaḥ .. 24 ..
शृङ्ग्यग्निदंष्ट्र्यसिजल द्विजकण्टकेभ्यः क्रीडापरावतिचलौ स्वसुतौ निषेद्धुम् । गृह्याणि कर्तुमपि यत्र न तज्जनन्यौ शेकात आपतुरलं मनसोऽनवस्थाम् ॥ २५ ॥
शृङ्गि-अग्नि-दंष्ट्रि-असि-जल-द्विज-कण्टकेभ्यः क्रीडा-परौ अतिचलौ स्व-सुतौ निषेद्धुम् । गृह्याणि कर्तुम् अपि यत्र न तद्-जनन्यौ शेकातः आपतुः अलम् मनसः अनवस्थाम् ॥ २५ ॥
śṛṅgi-agni-daṃṣṭri-asi-jala-dvija-kaṇṭakebhyaḥ krīḍā-parau aticalau sva-sutau niṣeddhum . gṛhyāṇi kartum api yatra na tad-jananyau śekātaḥ āpatuḥ alam manasaḥ anavasthām .. 25 ..
( अनुष्टुप् )
कालेनाल्पेन राजर्षे रामः कृष्णश्च गोकुले । अघृष्टजानुभिः पद्भिः विचक्रमतुरञ्जसा ॥ २६ ॥
कालेन अल्पेन राज-ऋषे रामः कृष्णः च गोकुले । अ घृष्ट-जानुभिः पद्भिः विचक्रमतुः अञ्जसा ॥ २६ ॥
kālena alpena rāja-ṛṣe rāmaḥ kṛṣṇaḥ ca gokule . a ghṛṣṭa-jānubhiḥ padbhiḥ vicakramatuḥ añjasā .. 26 ..
ततस्तु भगवान् कृष्णो वयस्यैर्व्रजबालकैः । सहरामो व्रजस्त्रीणां चिक्रीडे जनयन् मुदम् ॥ २७ ॥
ततस् तु भगवान् कृष्णः वयस्यैः व्रज-बालकैः । सहरामः व्रजस्त्रीणाम् चिक्रीडे जनयन् मुदम् ॥ २७ ॥
tatas tu bhagavān kṛṣṇaḥ vayasyaiḥ vraja-bālakaiḥ . saharāmaḥ vrajastrīṇām cikrīḍe janayan mudam .. 27 ..
कृष्णस्य गोप्यो रुचिरं वीक्ष्य कौमारचापलम् । श्रृण्वन्त्याः किल तन्मातुः इति होचुः समागताः ॥ २८ ॥
कृष्णस्य गोप्यः रुचिरम् वीक्ष्य कौमार-चापलम् । श्रृण्वन्त्याः किल तद्-मातुः इति ह ऊचुः समागताः ॥ २८ ॥
kṛṣṇasya gopyaḥ ruciram vīkṣya kaumāra-cāpalam . śrṛṇvantyāḥ kila tad-mātuḥ iti ha ūcuḥ samāgatāḥ .. 28 ..
( मंदाक्रांता )
वत्सान् मुञ्चन् क्वचिदसमये क्रोशसञ्जातहासः स्तेयं स्वाद्वत्त्यथ दधिपयः कल्पितैः स्तेययोगैः । मर्कान् भोक्ष्यन् विभजति स चेन्नात्ति भाण्डं भिन्नत्ति द्रव्यालाभे सगृहकुपितो यात्युपक्रोश्य तोकान् ॥ २९ ॥
वत्सान् मुञ्चन् क्वचिद् असमये क्रोश-सञ्जात-हासः स्तेयम् स्वादु-अत्ति अथ दधि-पयः कल्पितैः स्तेय-योगैः । मर्कान् भोक्ष्यन् विभजति स चेद् न अत्ति भाण्डम् द्रव्य-अलाभे स गृह-कुपितः याति उपक्रोश्य तोकान् ॥ २९ ॥
vatsān muñcan kvacid asamaye krośa-sañjāta-hāsaḥ steyam svādu-atti atha dadhi-payaḥ kalpitaiḥ steya-yogaiḥ . markān bhokṣyan vibhajati sa ced na atti bhāṇḍam dravya-alābhe sa gṛha-kupitaḥ yāti upakrośya tokān .. 29 ..
( इंद्रवंशा )
हस्ताग्राह्ये रचयति विधिं पीठकोलूखलाद्यैः छिद्रं ह्यन्तर्निहितवयुनः शिक्यभाण्डेषु तद्वित् । ध्वान्तागारे धृतमणिगणं स्वाङ्गमर्थप्रदीपं काले गोप्यो यर्हि गृहकृत्येषु सुव्यग्रचित्ताः ॥ ३० ॥
रचयति विधिम् पीठक-उलूखल-आद्यैः छिद्रम् हि अन्तर् निहित-वयुनः शिक्य-भाण्डेषु तद्-विद् । ध्वान्त-आगारे धृत-मणि-गणम् स्व-अङ्गम् अर्थ-प्रदीपम् काले गोप्यः यर्हि गृह-कृत्येषु सु व्यग्र-चित्ताः ॥ ३० ॥
racayati vidhim pīṭhaka-ulūkhala-ādyaiḥ chidram hi antar nihita-vayunaḥ śikya-bhāṇḍeṣu tad-vid . dhvānta-āgāre dhṛta-maṇi-gaṇam sva-aṅgam artha-pradīpam kāle gopyaḥ yarhi gṛha-kṛtyeṣu su vyagra-cittāḥ .. 30 ..
( मिश्र )
एवं धार्ष्ट्यान्युशति कुरुते मेहनादीनि वास्तौ स्तेयोपायैर्विरचितकृतिः सुप्रतीको यथास्ते । इत्थं स्त्रीभिः सभयनयन श्रीमुखालोकिनीभिः व्याख्यातार्था प्रहसितमुखी न ह्युपालब्धुमैच्छत् ॥ ३१ ॥
एवम् धार्ष्ट्यानि उशति कुरुते मेहन-आदीनि वास्तौ स्तेय-उपायैः विरचित-कृतिः सुप्रतीकः यथा आस्ते । इत्थम् स्त्रीभिः स भय-नयन श्री-मुख-आलोकिनीभिः व्याख्यात-अर्था प्रहसित-मुखी न हि उपालब्धुम् ऐच्छत् ॥ ३१ ॥
evam dhārṣṭyāni uśati kurute mehana-ādīni vāstau steya-upāyaiḥ viracita-kṛtiḥ supratīkaḥ yathā āste . ittham strībhiḥ sa bhaya-nayana śrī-mukha-ālokinībhiḥ vyākhyāta-arthā prahasita-mukhī na hi upālabdhum aicchat .. 31 ..
( अनुष्टुप् )
एकदा क्रीडमानास्ते रामाद्या गोपदारकाः । कृष्णो मृदं भक्षितवान् इति मात्रे न्यवेदयन् ॥ ३२ ॥
एकदा क्रीडमानाः ते राम-आद्याः गोप-दारकाः । कृष्णः मृदम् भक्षितवान् इति मात्रे न्यवेदयन् ॥ ३२ ॥
ekadā krīḍamānāḥ te rāma-ādyāḥ gopa-dārakāḥ . kṛṣṇaḥ mṛdam bhakṣitavān iti mātre nyavedayan .. 32 ..
सा गृहीत्वा करे कृष्णं उपालभ्य हितैषिणी । यशोदा भयसंभ्रान्त प्रेक्षणाक्षमभाषत ॥ ३३ ॥
सा गृहीत्वा करे कृष्णम् उपालभ्य हित-एषिणी । यशोदा भय-संभ्रान्त प्रेक्षण-अक्षम् अभाषत ॥ ३३ ॥
sā gṛhītvā kare kṛṣṇam upālabhya hita-eṣiṇī . yaśodā bhaya-saṃbhrānta prekṣaṇa-akṣam abhāṣata .. 33 ..
कस्मान् मृदमदान्तात्मन् भवान् भक्षितवान् रहः । वदन्ति तावका ह्येते कुमारास्तेऽग्रजोऽप्ययम् ॥ ३४ ॥
कस्मात् मृदम् अदान्त-आत्मन् भवान् भक्षितवान् रहः । वदन्ति तावकाः हि एते कुमाराः ते अग्रजः अपि अयम् ॥ ३४ ॥
kasmāt mṛdam adānta-ātman bhavān bhakṣitavān rahaḥ . vadanti tāvakāḥ hi ete kumārāḥ te agrajaḥ api ayam .. 34 ..
नाहं भक्षितवान् अंब सर्वे मिथ्याभिशंसिनः । यदि सत्यगिरस्तर्हि समक्षं पश्य मे मुखम् ॥ ३५ ॥
न अहम् भक्षितवान् अंब सर्वे मिथ्या अभिशंसिनः । यदि सत्य-गिरः तर्हि समक्षम् पश्य मे मुखम् ॥ ३५ ॥
na aham bhakṣitavān aṃba sarve mithyā abhiśaṃsinaḥ . yadi satya-giraḥ tarhi samakṣam paśya me mukham .. 35 ..
यद्येवं तर्हि व्यादेही इत्युक्तः स भगवान् हरिः । व्यादत्ताव्याहतैश्वर्यः क्रीडामनुजबालकः ॥ ३६ ॥
यदि एवम् तर्हि व्यादेही इति उक्तः स भगवान् हरिः । ॥ ३६ ॥
yadi evam tarhi vyādehī iti uktaḥ sa bhagavān hariḥ . .. 36 ..
सा तत्र ददृशे विश्वं जगत् स्थास्नु च खं दिशः । साद्रि-द्वीपाब्धि-भूगोलं सवाय्वग्नीन्दुतारकम् ॥ ३७ ॥
सा तत्र ददृशे विश्वम् जगत् स्थास्नु च खम् दिशः । स अद्रि-द्वीप-अब्धि-भू-गोलम् स वायु-अग्नि-इन्दु-तारकम् ॥ ३७ ॥
sā tatra dadṛśe viśvam jagat sthāsnu ca kham diśaḥ . sa adri-dvīpa-abdhi-bhū-golam sa vāyu-agni-indu-tārakam .. 37 ..
ज्योतिश्चक्रं जलं तेजो नभस्वान् वियदेव च । वैकारिकाणीन्द्रियाणि मनो मात्रा गुणास्त्रयः ॥ ३८ ॥
ज्योतिः-चक्रम् जलम् तेजः नभस्वान् वियत् एव च । वैकारिकाणि इन्द्रियाणि मनः मात्रा गुणाः त्रयः ॥ ३८ ॥
jyotiḥ-cakram jalam tejaḥ nabhasvān viyat eva ca . vaikārikāṇi indriyāṇi manaḥ mātrā guṇāḥ trayaḥ .. 38 ..
( मिश्र - ११ अक्षरी)
एतद्विचित्रं सहजीवकाल स्वभावकर्माशयलिङ्गभेदम् । सूनोस्तनौ वीक्ष्य विदारितास्ये व्रजं सहात्मानमवाप शङ्काम् ॥ ३९ ॥
एतत् विचित्रम् सहजीव-काल-स्वभाव-कर्म-आशय-लिङ्ग-भेदम् । सूनोः तनौ वीक्ष्य विदारित-आस्ये व्रजम् सह आत्मानम् अवाप शङ्काम् ॥ ३९ ॥
etat vicitram sahajīva-kāla-svabhāva-karma-āśaya-liṅga-bhedam . sūnoḥ tanau vīkṣya vidārita-āsye vrajam saha ātmānam avāpa śaṅkām .. 39 ..
किं स्वप्न एतदुत देवमाया किं वा मदीयो बत बुद्धिमोहः । अथो अमुष्यैव ममार्भकस्य यः कश्चनौत्पत्तिक आत्मयोगः ॥ ४० ॥
किम् स्वप्नः एतत् उत देव-माया किम् वा मदीयः बत बुद्धि-मोहः । अथो अमुष्य एव मम अर्भकस्य यः कश्चन औत्पत्तिकः आत्म-योगः ॥ ४० ॥
kim svapnaḥ etat uta deva-māyā kim vā madīyaḥ bata buddhi-mohaḥ . atho amuṣya eva mama arbhakasya yaḥ kaścana autpattikaḥ ātma-yogaḥ .. 40 ..
( मिश्र - १२ अक्षरी)
अथो यथावन्न वितर्कगोचरं चेतोमनःकर्मवचोभिरञ्जसा । यदाश्रयं येन यतः प्रतीयते सुदुर्विभाव्यं प्रणतास्मि तत्पदम् ॥ ४१ ॥
अथो यथावत् न वितर्क-गोचरम् चेतः-मनः-कर्म-वचोभिः अञ्जसा । यद्-आश्रयम् येन यतस् प्रतीयते सु दुर्विभाव्यम् प्रणता अस्मि तत् पदम् ॥ ४१ ॥
atho yathāvat na vitarka-gocaram cetaḥ-manaḥ-karma-vacobhiḥ añjasā . yad-āśrayam yena yatas pratīyate su durvibhāvyam praṇatā asmi tat padam .. 41 ..
अहं ममासौ पतिरेष मे सुतो व्रजेश्वरस्याखिलवित्तपा सती । गोप्यश्च गोपाः सहगोधनाश्च मे यन्माययेत्थं कुमतिः स मे गतिः ॥ ४२ ॥
अहम् मम असौ पतिः एष मे सुतः व्रजेश्वरस्य अखिल-वित्तपा सती । गोप्यः च गोपाः सह गो-धनाः च मे यत् मायया इत्थम् कुमतिः स मे गतिः ॥ ४२ ॥
aham mama asau patiḥ eṣa me sutaḥ vrajeśvarasya akhila-vittapā satī . gopyaḥ ca gopāḥ saha go-dhanāḥ ca me yat māyayā ittham kumatiḥ sa me gatiḥ .. 42 ..
( अनुष्टुप् )
इत्थं विदित तत्त्वायां गोपिकायां स ईश्वरः । वैष्णवीं व्यतनोन्मायां पुत्रस्नेहमयीं विभुः ॥ ४३ ॥
इत्थम् विदित-तत्त्वायाम् गोपिकायाम् सः ईश्वरः । वैष्णवीम् व्यतनोत् मायाम् पुत्र-स्नेह-मयीम् विभुः ॥ ४३ ॥
ittham vidita-tattvāyām gopikāyām saḥ īśvaraḥ . vaiṣṇavīm vyatanot māyām putra-sneha-mayīm vibhuḥ .. 43 ..
सद्यो नष्टस्मृतिर्गोपी साऽऽरोप्यारोहमात्मजम् । प्रवृद्धस्नेहकलिल हृदयासीद् यथा पुरा ॥ ४४ ॥
सद्यस् नष्ट-स्मृतिः गोपी सा आरोप्य आरोहम् आत्मजम् । प्रवृद्ध-स्नेह-कलिल हृदय-आसीत् यथा पुरा ॥ ४४ ॥
sadyas naṣṭa-smṛtiḥ gopī sā āropya āroham ātmajam . pravṛddha-sneha-kalila hṛdaya-āsīt yathā purā .. 44 ..
त्रय्या चोपनिषद्भिश्च साङ्ख्ययोगैश्च सात्वतैः । उपगीयमान माहात्म्यं हरिं सामन्यतात्मजम् ॥ ४५ ॥
त्रय्या च उपनिषद्भिः च साङ्ख्य-योगैः च सात्वतैः । उपगीयमान माहात्म्यम् हरिम् सा अमन्यत आत्मजम् ॥ ४५ ॥
trayyā ca upaniṣadbhiḥ ca sāṅkhya-yogaiḥ ca sātvataiḥ . upagīyamāna māhātmyam harim sā amanyata ātmajam .. 45 ..
श्रीराजोवाच ।
नन्दः किमकरोद् ब्रह्मन् श्रेय एवं महोदयम् । यशोदा च महाभागा पपौ यस्याः स्तनं हरिः ॥ ४६ ॥
नन्दः किम् अकरोत् ब्रह्मन् श्रेयः एवम् महा-उदयम् । यशोदा च महाभागा पपौ यस्याः स्तनम् हरिः ॥ ४६ ॥
nandaḥ kim akarot brahman śreyaḥ evam mahā-udayam . yaśodā ca mahābhāgā papau yasyāḥ stanam hariḥ .. 46 ..
पितरौ नान्वविन्देतां कृष्णोदारार्भकेहितम् । गायन्त्यद्यापि कवयो यल्लोकशमलापहम् ॥ ४७ ॥
पितरौ न अन्वविन्देताम् कृष्ण-उदार-अर्भक-ईहितम् । गायन्ति अद्य अपि कवयः यत् लोक-शमल-अपहम् ॥ ४७ ॥
pitarau na anvavindetām kṛṣṇa-udāra-arbhaka-īhitam . gāyanti adya api kavayaḥ yat loka-śamala-apaham .. 47 ..
श्रीशुक उवाच ।
द्रोणो वसूनां प्रवरो धरया भार्यया सह । करिष्यमाण आदेशान् ब्रह्मणस्तमुवाच ह ॥ ४८ ॥
द्रोणः वसूनाम् प्रवरः धरया भार्यया सह । करिष्यमाणः आदेशान् ब्रह्मणः तम् उवाच ह ॥ ४८ ॥
droṇaḥ vasūnām pravaraḥ dharayā bhāryayā saha . kariṣyamāṇaḥ ādeśān brahmaṇaḥ tam uvāca ha .. 48 ..
जातयोर्नौ महादेवे भुवि विश्वेश्वरे हरौ । भक्तिः स्यात्परमा लोके ययाञ्जो दुर्गतिं तरेत् ॥ ४९ ॥
जातयोः नौ महादेवे भुवि विश्वेश्वरे हरौ । भक्तिः स्यात् परमा लोके यया अन् जः दुर्गतिम् तरेत् ॥ ४९ ॥
jātayoḥ nau mahādeve bhuvi viśveśvare harau . bhaktiḥ syāt paramā loke yayā an jaḥ durgatim taret .. 49 ..
अस्त्वित्युक्तः स भगवान् व्रजे द्रोणो महायशाः । जज्ञे नन्द इति ख्यातो यशोदा सा धराभवत् ॥ ५० ॥
अस्तु इति उक्तः स भगवान् व्रजे द्रोणः महा-यशाः । जज्ञे नन्दः इति ख्यातः यशोदा सा धरा भवत् ॥ ५० ॥
astu iti uktaḥ sa bhagavān vraje droṇaḥ mahā-yaśāḥ . jajñe nandaḥ iti khyātaḥ yaśodā sā dharā bhavat .. 50 ..
ततो भक्तिर्भगवति पुत्रीभूते जनार्दने । दम्पत्योर्नितरामासीत् गोपगोपीषु भारत ॥ ५१ ॥
ततस् भक्तिः भगवति पुत्रीभूते जनार्दने । दम्पत्योः नितराम् आसीत् गोप-गोपीषु भारत ॥ ५१ ॥
tatas bhaktiḥ bhagavati putrībhūte janārdane . dampatyoḥ nitarām āsīt gopa-gopīṣu bhārata .. 51 ..
कृष्णो ब्रह्मण आदेशं सत्यं कर्तुं व्रजे विभुः । सहरामो वसंश्चक्रे तेषां प्रीतिं स्वलीलया ॥ ५२ ॥
कृष्णः ब्रह्मणः आदेशम् सत्यम् कर्तुम् व्रजे विभुः । सह रामः वसन् चक्रे तेषाम् प्रीतिम् स्व-लीलया ॥ ५२ ॥
kṛṣṇaḥ brahmaṇaḥ ādeśam satyam kartum vraje vibhuḥ . saha rāmaḥ vasan cakre teṣām prītim sva-līlayā .. 52 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे अष्टमोऽध्यायः ॥ ८ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् दशम-स्कन्धे पूर्व-अर्धे अष्टमः अध्यायः ॥ ८ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām daśama-skandhe pūrva-ardhe aṣṭamaḥ adhyāyaḥ .. 8 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In