| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच । ( अनुष्टुप् )
गर्गः पुरोहितो राजन् यदूनां सुमहातपाः । व्रजं जगाम नन्दस्य वसुदेव प्रचोदितः ॥ १ ॥
gargaḥ purohito rājan yadūnāṃ sumahātapāḥ . vrajaṃ jagāma nandasya vasudeva pracoditaḥ .. 1 ..
तं दृष्ट्वा परमप्रीतः प्रत्युत्थाय कृताञ्जलिः । आनर्चाधोक्षजधिया प्रणिपातपुरःसरम् ॥ २ ॥
taṃ dṛṣṭvā paramaprītaḥ pratyutthāya kṛtāñjaliḥ . ānarcādhokṣajadhiyā praṇipātapuraḥsaram .. 2 ..
सूपविष्टं कृतातिथ्यं गिरा सूनृतया मुनिम् । नन्दयित्वाब्रवीद् ब्रह्मन् पूर्णस्य करवाम किम् ॥ ३ ॥
sūpaviṣṭaṃ kṛtātithyaṃ girā sūnṛtayā munim . nandayitvābravīd brahman pūrṇasya karavāma kim .. 3 ..
महद्विचलनं नॄणां गृहिणां दीनचेतसाम् । निःश्रेयसाय भगवन् कल्पते नान्यथा क्वचित् ॥ ४ ॥
mahadvicalanaṃ nṝṇāṃ gṛhiṇāṃ dīnacetasām . niḥśreyasāya bhagavan kalpate nānyathā kvacit .. 4 ..
ज्योतिषामयनं साक्षाद् यत्तज्ज्ञानं अतीन्द्रियम् । प्रणीतं भवता येन पुमान्वेद परावरम् ॥ ५ ॥
jyotiṣāmayanaṃ sākṣād yattajjñānaṃ atīndriyam . praṇītaṃ bhavatā yena pumānveda parāvaram .. 5 ..
त्वं हि ब्रह्मविदां श्रेष्ठः संस्कारान् कर्तुमर्हसि । बालयोरनयोर्नॄणां जन्मना ब्राह्मणो गुरुः ॥ ६ ॥
tvaṃ hi brahmavidāṃ śreṣṭhaḥ saṃskārān kartumarhasi . bālayoranayornṝṇāṃ janmanā brāhmaṇo guruḥ .. 6 ..
श्रीगर्ग उवाच ।
यदूनां अहमाचार्यः ख्यातश्च भुवि सर्वतः । सुतं मया संस्कृतं ते मन्यते देवकीसुतम् ॥ ७ ॥
yadūnāṃ ahamācāryaḥ khyātaśca bhuvi sarvataḥ . sutaṃ mayā saṃskṛtaṃ te manyate devakīsutam .. 7 ..
कंसः पापमतिः सख्यं तव चानकदुन्दुभेः । देवक्या अष्टमो गर्भो न स्त्री भवितुमर्हति ॥ ८ ॥
kaṃsaḥ pāpamatiḥ sakhyaṃ tava cānakadundubheḥ . devakyā aṣṭamo garbho na strī bhavitumarhati .. 8 ..
इति सञ्चिन्तयन् श्रुत्वा देवक्या दारिकावचः । अपि हन्ता आगताशङ्कः तर्हि तन्नोऽनयो भवेत् ॥ ९ ॥
iti sañcintayan śrutvā devakyā dārikāvacaḥ . api hantā āgatāśaṅkaḥ tarhi tanno'nayo bhavet .. 9 ..
श्रीनन्द उवाच ।
अलक्षितोऽस्मिन् रहसि मामकैरपि गोव्रजे । कुरु द्विजातिसंस्कारं स्वस्तिवाचनपूर्वकम् ॥ १० ॥
alakṣito'smin rahasi māmakairapi govraje . kuru dvijātisaṃskāraṃ svastivācanapūrvakam .. 10 ..
श्रीशुक उवाच ।
एवं संप्रार्थितो विप्रः स्वचिकीर्षितमेव तत् । चकार नामकरणं गूढो रहसि बालयोः ॥ ११ ॥
evaṃ saṃprārthito vipraḥ svacikīrṣitameva tat . cakāra nāmakaraṇaṃ gūḍho rahasi bālayoḥ .. 11 ..
श्रीगर्ग उवाच ।
अयं हि रोहिणीपुत्रो रमयन् सुहृदो गुणैः । आख्यास्यते राम इति बलाधिक्याद् बलं विदुः । यदूनामपृथग्भावात् सङ्कर्षणमुशन्त्युत ॥ १२ ॥
ayaṃ hi rohiṇīputro ramayan suhṛdo guṇaiḥ . ākhyāsyate rāma iti balādhikyād balaṃ viduḥ . yadūnāmapṛthagbhāvāt saṅkarṣaṇamuśantyuta .. 12 ..
आसन् वर्णास्त्रयो ह्यस्य गृह्णतोऽनुयुगं तनूः । शुक्लो रक्तस्तथा पीत इदानीं कृष्णतां गतः ॥ १३ ॥
āsan varṇāstrayo hyasya gṛhṇato'nuyugaṃ tanūḥ . śuklo raktastathā pīta idānīṃ kṛṣṇatāṃ gataḥ .. 13 ..
प्रागयं वसुदेवस्य क्वचित् जातस्तवात्मजः । वासुदेव इति श्रीमान् अभिज्ञाः संप्रचक्षते ॥ १४ ॥
prāgayaṃ vasudevasya kvacit jātastavātmajaḥ . vāsudeva iti śrīmān abhijñāḥ saṃpracakṣate .. 14 ..
बहूनि सन्ति नामानि रूपाणि च सुतस्य ते । गुणकर्मानुरूपाणि तान्यहं वेद नो जनाः ॥ १५ ॥
bahūni santi nāmāni rūpāṇi ca sutasya te . guṇakarmānurūpāṇi tānyahaṃ veda no janāḥ .. 15 ..
एष वः श्रेय आधास्यद् गोपगोकुल-नन्दनः । अनेन सर्वदुर्गाणि यूयं अञ्जस्तरिष्यथ ॥ १६ ॥
eṣa vaḥ śreya ādhāsyad gopagokula-nandanaḥ . anena sarvadurgāṇi yūyaṃ añjastariṣyatha .. 16 ..
पुरानेन व्रजपते साधवो दस्युपीडिताः । अराजके रक्ष्यमाणा जिग्युर्दस्यून् समेधिताः ॥ १७ ॥
purānena vrajapate sādhavo dasyupīḍitāḥ . arājake rakṣyamāṇā jigyurdasyūn samedhitāḥ .. 17 ..
य एतस्मिन् महाभागाः प्रीतिं कुर्वन्ति मानवाः । नारयोऽभिभवन्त्येतान् विष्णुपक्षानिवासुराः ॥ १८ ॥
ya etasmin mahābhāgāḥ prītiṃ kurvanti mānavāḥ . nārayo'bhibhavantyetān viṣṇupakṣānivāsurāḥ .. 18 ..
तस्मात् नन्दात्मजोऽयं ते नारायणसमो गुणैः । श्रिया कीर्त्यानुभावेन गोपायस्व समाहितः ॥ १९ ॥
tasmāt nandātmajo'yaṃ te nārāyaṇasamo guṇaiḥ . śriyā kīrtyānubhāvena gopāyasva samāhitaḥ .. 19 ..
श्रीशुक उवाच ।
इत्यात्मानं समादिश्य गर्गे च स्वगृहं गते । नन्दः प्रमुदितो मेने आत्मानं पूर्णमाशिषाम् ॥ २० ॥
ityātmānaṃ samādiśya garge ca svagṛhaṃ gate . nandaḥ pramudito mene ātmānaṃ pūrṇamāśiṣām .. 20 ..
कालेन व्रजताल्पेन गोकुले रामकेशवौ । जानुभ्यां सह पाणिभ्यां रिङ्गमाणौ विजह्रतुः ॥ २१ ॥
kālena vrajatālpena gokule rāmakeśavau . jānubhyāṃ saha pāṇibhyāṃ riṅgamāṇau vijahratuḥ .. 21 ..
( वसंततिलका )
तावङ्घ्रियुग्ममनुकृष्य सरीसृपन्तौ घोषप्रघोषरुचिरं व्रजकर्दमेषु । तन्नादहृष्टमनसावनुसृत्य लोकं मुग्धप्रभीतवदुपेयतुरन्ति मात्रोः ॥ २२ ॥
tāvaṅghriyugmamanukṛṣya sarīsṛpantau ghoṣapraghoṣaruciraṃ vrajakardameṣu . tannādahṛṣṭamanasāvanusṛtya lokaṃ mugdhaprabhītavadupeyaturanti mātroḥ .. 22 ..
तन्मातरौ निजसुतौ घृणया स्नुवन्त्यौ पङ्काङ्गरागरुचिरौ उपगृह्य दोर्भ्याम् । दत्त्वा स्तनं प्रपिबतोः स्म मुखं निरीक्ष्य मुग्धस्मिताल्पदशनं ययतुः प्रमोदम् ॥ २३ ॥
tanmātarau nijasutau ghṛṇayā snuvantyau paṅkāṅgarāgarucirau upagṛhya dorbhyām . dattvā stanaṃ prapibatoḥ sma mukhaṃ nirīkṣya mugdhasmitālpadaśanaṃ yayatuḥ pramodam .. 23 ..
यर्ह्यङ्गनादर्शनीय-कुमारलीलौ । अन्तर्व्रजे तदबलाः प्रगृहीतपुच्छैः । वत्सैरितस्तत उभावनुकृष्यमाणौ प्रेक्षन्त्य उज्झितगृहा जहृषुर्हसन्त्यः ॥ २४ ॥
yarhyaṅganādarśanīya-kumāralīlau . antarvraje tadabalāḥ pragṛhītapucchaiḥ . vatsairitastata ubhāvanukṛṣyamāṇau prekṣantya ujjhitagṛhā jahṛṣurhasantyaḥ .. 24 ..
शृङ्ग्यग्निदंष्ट्र्यसिजल द्विजकण्टकेभ्यः क्रीडापरावतिचलौ स्वसुतौ निषेद्धुम् । गृह्याणि कर्तुमपि यत्र न तज्जनन्यौ शेकात आपतुरलं मनसोऽनवस्थाम् ॥ २५ ॥
śṛṅgyagnidaṃṣṭryasijala dvijakaṇṭakebhyaḥ krīḍāparāvaticalau svasutau niṣeddhum . gṛhyāṇi kartumapi yatra na tajjananyau śekāta āpaturalaṃ manaso'navasthām .. 25 ..
( अनुष्टुप् )
कालेनाल्पेन राजर्षे रामः कृष्णश्च गोकुले । अघृष्टजानुभिः पद्भिः विचक्रमतुरञ्जसा ॥ २६ ॥
kālenālpena rājarṣe rāmaḥ kṛṣṇaśca gokule . aghṛṣṭajānubhiḥ padbhiḥ vicakramaturañjasā .. 26 ..
ततस्तु भगवान् कृष्णो वयस्यैर्व्रजबालकैः । सहरामो व्रजस्त्रीणां चिक्रीडे जनयन् मुदम् ॥ २७ ॥
tatastu bhagavān kṛṣṇo vayasyairvrajabālakaiḥ . saharāmo vrajastrīṇāṃ cikrīḍe janayan mudam .. 27 ..
कृष्णस्य गोप्यो रुचिरं वीक्ष्य कौमारचापलम् । श्रृण्वन्त्याः किल तन्मातुः इति होचुः समागताः ॥ २८ ॥
kṛṣṇasya gopyo ruciraṃ vīkṣya kaumāracāpalam . śrṛṇvantyāḥ kila tanmātuḥ iti hocuḥ samāgatāḥ .. 28 ..
( मंदाक्रांता )
वत्सान् मुञ्चन् क्वचिदसमये क्रोशसञ्जातहासः स्तेयं स्वाद्वत्त्यथ दधिपयः कल्पितैः स्तेययोगैः । मर्कान् भोक्ष्यन् विभजति स चेन्नात्ति भाण्डं भिन्नत्ति द्रव्यालाभे सगृहकुपितो यात्युपक्रोश्य तोकान् ॥ २९ ॥
vatsān muñcan kvacidasamaye krośasañjātahāsaḥ steyaṃ svādvattyatha dadhipayaḥ kalpitaiḥ steyayogaiḥ . markān bhokṣyan vibhajati sa cennātti bhāṇḍaṃ bhinnatti dravyālābhe sagṛhakupito yātyupakrośya tokān .. 29 ..
( इंद्रवंशा )
हस्ताग्राह्ये रचयति विधिं पीठकोलूखलाद्यैः छिद्रं ह्यन्तर्निहितवयुनः शिक्यभाण्डेषु तद्वित् । ध्वान्तागारे धृतमणिगणं स्वाङ्गमर्थप्रदीपं काले गोप्यो यर्हि गृहकृत्येषु सुव्यग्रचित्ताः ॥ ३० ॥
hastāgrāhye racayati vidhiṃ pīṭhakolūkhalādyaiḥ chidraṃ hyantarnihitavayunaḥ śikyabhāṇḍeṣu tadvit . dhvāntāgāre dhṛtamaṇigaṇaṃ svāṅgamarthapradīpaṃ kāle gopyo yarhi gṛhakṛtyeṣu suvyagracittāḥ .. 30 ..
( मिश्र )
एवं धार्ष्ट्यान्युशति कुरुते मेहनादीनि वास्तौ स्तेयोपायैर्विरचितकृतिः सुप्रतीको यथास्ते । इत्थं स्त्रीभिः सभयनयन श्रीमुखालोकिनीभिः व्याख्यातार्था प्रहसितमुखी न ह्युपालब्धुमैच्छत् ॥ ३१ ॥
evaṃ dhārṣṭyānyuśati kurute mehanādīni vāstau steyopāyairviracitakṛtiḥ supratīko yathāste . itthaṃ strībhiḥ sabhayanayana śrīmukhālokinībhiḥ vyākhyātārthā prahasitamukhī na hyupālabdhumaicchat .. 31 ..
( अनुष्टुप् )
एकदा क्रीडमानास्ते रामाद्या गोपदारकाः । कृष्णो मृदं भक्षितवान् इति मात्रे न्यवेदयन् ॥ ३२ ॥
ekadā krīḍamānāste rāmādyā gopadārakāḥ . kṛṣṇo mṛdaṃ bhakṣitavān iti mātre nyavedayan .. 32 ..
सा गृहीत्वा करे कृष्णं उपालभ्य हितैषिणी । यशोदा भयसंभ्रान्त प्रेक्षणाक्षमभाषत ॥ ३३ ॥
sā gṛhītvā kare kṛṣṇaṃ upālabhya hitaiṣiṇī . yaśodā bhayasaṃbhrānta prekṣaṇākṣamabhāṣata .. 33 ..
कस्मान् मृदमदान्तात्मन् भवान् भक्षितवान् रहः । वदन्ति तावका ह्येते कुमारास्तेऽग्रजोऽप्ययम् ॥ ३४ ॥
kasmān mṛdamadāntātman bhavān bhakṣitavān rahaḥ . vadanti tāvakā hyete kumārāste'grajo'pyayam .. 34 ..
नाहं भक्षितवान् अंब सर्वे मिथ्याभिशंसिनः । यदि सत्यगिरस्तर्हि समक्षं पश्य मे मुखम् ॥ ३५ ॥
nāhaṃ bhakṣitavān aṃba sarve mithyābhiśaṃsinaḥ . yadi satyagirastarhi samakṣaṃ paśya me mukham .. 35 ..
यद्येवं तर्हि व्यादेही इत्युक्तः स भगवान् हरिः । व्यादत्ताव्याहतैश्वर्यः क्रीडामनुजबालकः ॥ ३६ ॥
yadyevaṃ tarhi vyādehī ityuktaḥ sa bhagavān hariḥ . vyādattāvyāhataiśvaryaḥ krīḍāmanujabālakaḥ .. 36 ..
सा तत्र ददृशे विश्वं जगत् स्थास्नु च खं दिशः । साद्रि-द्वीपाब्धि-भूगोलं सवाय्वग्नीन्दुतारकम् ॥ ३७ ॥
sā tatra dadṛśe viśvaṃ jagat sthāsnu ca khaṃ diśaḥ . sādri-dvīpābdhi-bhūgolaṃ savāyvagnīndutārakam .. 37 ..
ज्योतिश्चक्रं जलं तेजो नभस्वान् वियदेव च । वैकारिकाणीन्द्रियाणि मनो मात्रा गुणास्त्रयः ॥ ३८ ॥
jyotiścakraṃ jalaṃ tejo nabhasvān viyadeva ca . vaikārikāṇīndriyāṇi mano mātrā guṇāstrayaḥ .. 38 ..
( मिश्र - ११ अक्षरी)
एतद्विचित्रं सहजीवकाल स्वभावकर्माशयलिङ्गभेदम् । सूनोस्तनौ वीक्ष्य विदारितास्ये व्रजं सहात्मानमवाप शङ्काम् ॥ ३९ ॥
etadvicitraṃ sahajīvakāla svabhāvakarmāśayaliṅgabhedam . sūnostanau vīkṣya vidāritāsye vrajaṃ sahātmānamavāpa śaṅkām .. 39 ..
किं स्वप्न एतदुत देवमाया किं वा मदीयो बत बुद्धिमोहः । अथो अमुष्यैव ममार्भकस्य यः कश्चनौत्पत्तिक आत्मयोगः ॥ ४० ॥
kiṃ svapna etaduta devamāyā kiṃ vā madīyo bata buddhimohaḥ . atho amuṣyaiva mamārbhakasya yaḥ kaścanautpattika ātmayogaḥ .. 40 ..
( मिश्र - १२ अक्षरी)
अथो यथावन्न वितर्कगोचरं चेतोमनःकर्मवचोभिरञ्जसा । यदाश्रयं येन यतः प्रतीयते सुदुर्विभाव्यं प्रणतास्मि तत्पदम् ॥ ४१ ॥
atho yathāvanna vitarkagocaraṃ cetomanaḥkarmavacobhirañjasā . yadāśrayaṃ yena yataḥ pratīyate sudurvibhāvyaṃ praṇatāsmi tatpadam .. 41 ..
अहं ममासौ पतिरेष मे सुतो व्रजेश्वरस्याखिलवित्तपा सती । गोप्यश्च गोपाः सहगोधनाश्च मे यन्माययेत्थं कुमतिः स मे गतिः ॥ ४२ ॥
ahaṃ mamāsau patireṣa me suto vrajeśvarasyākhilavittapā satī . gopyaśca gopāḥ sahagodhanāśca me yanmāyayetthaṃ kumatiḥ sa me gatiḥ .. 42 ..
( अनुष्टुप् )
इत्थं विदित तत्त्वायां गोपिकायां स ईश्वरः । वैष्णवीं व्यतनोन्मायां पुत्रस्नेहमयीं विभुः ॥ ४३ ॥
itthaṃ vidita tattvāyāṃ gopikāyāṃ sa īśvaraḥ . vaiṣṇavīṃ vyatanonmāyāṃ putrasnehamayīṃ vibhuḥ .. 43 ..
सद्यो नष्टस्मृतिर्गोपी साऽऽरोप्यारोहमात्मजम् । प्रवृद्धस्नेहकलिल हृदयासीद् यथा पुरा ॥ ४४ ॥
sadyo naṣṭasmṛtirgopī sā''ropyārohamātmajam . pravṛddhasnehakalila hṛdayāsīd yathā purā .. 44 ..
त्रय्या चोपनिषद्भिश्च साङ्ख्ययोगैश्च सात्वतैः । उपगीयमान माहात्म्यं हरिं सामन्यतात्मजम् ॥ ४५ ॥
trayyā copaniṣadbhiśca sāṅkhyayogaiśca sātvataiḥ . upagīyamāna māhātmyaṃ hariṃ sāmanyatātmajam .. 45 ..
श्रीराजोवाच ।
नन्दः किमकरोद् ब्रह्मन् श्रेय एवं महोदयम् । यशोदा च महाभागा पपौ यस्याः स्तनं हरिः ॥ ४६ ॥
nandaḥ kimakarod brahman śreya evaṃ mahodayam . yaśodā ca mahābhāgā papau yasyāḥ stanaṃ hariḥ .. 46 ..
पितरौ नान्वविन्देतां कृष्णोदारार्भकेहितम् । गायन्त्यद्यापि कवयो यल्लोकशमलापहम् ॥ ४७ ॥
pitarau nānvavindetāṃ kṛṣṇodārārbhakehitam . gāyantyadyāpi kavayo yallokaśamalāpaham .. 47 ..
श्रीशुक उवाच ।
द्रोणो वसूनां प्रवरो धरया भार्यया सह । करिष्यमाण आदेशान् ब्रह्मणस्तमुवाच ह ॥ ४८ ॥
droṇo vasūnāṃ pravaro dharayā bhāryayā saha . kariṣyamāṇa ādeśān brahmaṇastamuvāca ha .. 48 ..
जातयोर्नौ महादेवे भुवि विश्वेश्वरे हरौ । भक्तिः स्यात्परमा लोके ययाञ्जो दुर्गतिं तरेत् ॥ ४९ ॥
jātayornau mahādeve bhuvi viśveśvare harau . bhaktiḥ syātparamā loke yayāñjo durgatiṃ taret .. 49 ..
अस्त्वित्युक्तः स भगवान् व्रजे द्रोणो महायशाः । जज्ञे नन्द इति ख्यातो यशोदा सा धराभवत् ॥ ५० ॥
astvityuktaḥ sa bhagavān vraje droṇo mahāyaśāḥ . jajñe nanda iti khyāto yaśodā sā dharābhavat .. 50 ..
ततो भक्तिर्भगवति पुत्रीभूते जनार्दने । दम्पत्योर्नितरामासीत् गोपगोपीषु भारत ॥ ५१ ॥
tato bhaktirbhagavati putrībhūte janārdane . dampatyornitarāmāsīt gopagopīṣu bhārata .. 51 ..
कृष्णो ब्रह्मण आदेशं सत्यं कर्तुं व्रजे विभुः । सहरामो वसंश्चक्रे तेषां प्रीतिं स्वलीलया ॥ ५२ ॥
kṛṣṇo brahmaṇa ādeśaṃ satyaṃ kartuṃ vraje vibhuḥ . saharāmo vasaṃścakre teṣāṃ prītiṃ svalīlayā .. 52 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे अष्टमोऽध्यायः ॥ ८ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ daśamaskandhe pūrvārdhe aṣṭamo'dhyāyaḥ .. 8 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ oṃ tatsat śrīkṛṣṇārpaṇamastu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In