| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच । ( अनुष्टुप् )
एकदा गृहदासीषु यशोदा नन्दगेहिनी । कर्मान्तरनियुक्तासु निर्ममन्थ स्वयं दधि ॥ १ ॥
एकदा गृह-दासीषु यशोदा नन्द-गेहिनी । कर्म-अन्तर-नियुक्तासु निर्ममन्थ स्वयम् दधि ॥ १ ॥
ekadā gṛha-dāsīṣu yaśodā nanda-gehinī . karma-antara-niyuktāsu nirmamantha svayam dadhi .. 1 ..
( मंदाक्रांता )
यानि यानीह गीतानि तद्बालचरितानि च । दधिनिर्मन्थने काले स्मरन्ती तान्यगायत ॥ २ ॥
यानि यानि इह गीतानि तद्-बाल-चरितानि च । दधि-निर्मन्थने काले स्मरन्ती तानि अगायत ॥ २ ॥
yāni yāni iha gītāni tad-bāla-caritāni ca . dadhi-nirmanthane kāle smarantī tāni agāyata .. 2 ..
( अनुष्टुप् )
क्षौमं वासः पृथुकटितटे बिभ्रती सूत्रनद्धं । पुत्रस्नेहस्नुतकुचयुगं जातकम्पं च सुभ्रूः । रज्ज्वाकर्षश्रमभुजचलत् कङ्कणौ कुण्डले च स्विन्नं वक्त्रं कबरविगलन् मालती निर्ममन्थ ॥ ३ ॥
क्षौमम् वासः पृथु-कटि-तटे बिभ्रती सूत्र-नद्धम् । पुत्र-स्नेह-स्नुत-कुच-युगम् जात-कम्पम् च सुभ्रूः । रज्जु-आकर्ष-श्रम-भुज-चलत् कङ्कणौ कुण्डले च स्विन्नम् वक्त्रम् कबर-विगलन् मालती निर्ममन्थ ॥ ३ ॥
kṣaumam vāsaḥ pṛthu-kaṭi-taṭe bibhratī sūtra-naddham . putra-sneha-snuta-kuca-yugam jāta-kampam ca subhrūḥ . rajju-ākarṣa-śrama-bhuja-calat kaṅkaṇau kuṇḍale ca svinnam vaktram kabara-vigalan mālatī nirmamantha .. 3 ..
तां स्तन्यकाम आसाद्य मथ्नन्तीं जननीं हरिः । गृहीत्वा दधिमन्थानं न्यषेधत्प्रीतिमावहन् ॥ ४ ॥
ताम् स्तन्य-कामः आसाद्य मथ्नन्तीम् जननीम् हरिः । गृहीत्वा दधि-मन्थानम् न्यषेधत् प्रीतिम् आवहन् ॥ ४ ॥
tām stanya-kāmaḥ āsādya mathnantīm jananīm hariḥ . gṛhītvā dadhi-manthānam nyaṣedhat prītim āvahan .. 4 ..
( मिश्र )
तमङ्कमारूढमपाययत् स्तनं स्नेहस्नुतं सस्मितमीक्षती मुखम् । अतृप्तमुत्सृज्य जवेन सा ययौ उत्सिच्यमाने पयसि त्वधिश्रिते ॥ ५ ॥
तम् अङ्कम् आरूढम् अपाययत् स्तनम् स्नेह-स्नुतम् स स्मितम् ईक्षती मुखम् । अतृप्तम् उत्सृज्य जवेन सा ययौ उत्सिच्यमाने पयसि तु अधिश्रिते ॥ ५ ॥
tam aṅkam ārūḍham apāyayat stanam sneha-snutam sa smitam īkṣatī mukham . atṛptam utsṛjya javena sā yayau utsicyamāne payasi tu adhiśrite .. 5 ..
सञ्जातकोपः स्फुरितारुणाधरं सन्दश्य दद्भिर्दधिमन्थभाजनम् । भित्त्वा मृषाश्रुर्दृषदश्मना रहो जघास हैयङ्गवमन्तरं गतः ॥ ६ ॥
सञ्जात-कोपः स्फुरित-अरुण-अधरम् सन्दश्य दद्भिः दधिमन्थ-भाजनम् । भित्त्वा मृषा अश्रुः दृषद्-अश्मना रहः जघास हैयङ्गवम् अन्तरम् गतः ॥ ६ ॥
sañjāta-kopaḥ sphurita-aruṇa-adharam sandaśya dadbhiḥ dadhimantha-bhājanam . bhittvā mṛṣā aśruḥ dṛṣad-aśmanā rahaḥ jaghāsa haiyaṅgavam antaram gataḥ .. 6 ..
उत्तार्य गोपी सुशृतं पयः पुनः प्रविश्य संदृश्य च दध्यमत्रकम् । भग्नं विलोक्य स्वसुतस्य कर्म तज्जहास तं चापि न तत्र पश्यती ॥ ७ ॥
उत्तार्य गोपी सु शृतम् पयः पुनर् प्रविश्य संदृश्य च दधि-अमत्रकम् । भग्नम् विलोक्य स्व-सुतस्य कर्म तत् जहास तम् च अपि न तत्र पश्यती ॥ ७ ॥
uttārya gopī su śṛtam payaḥ punar praviśya saṃdṛśya ca dadhi-amatrakam . bhagnam vilokya sva-sutasya karma tat jahāsa tam ca api na tatra paśyatī .. 7 ..
उलूखलाङ्घ्रेरुपरि व्यवस्थितं मर्काय कामं ददतं शिचि स्थितम् । हैयङ्गवं चौर्यविशङ्कितेक्षणं निरीक्ष्य पश्चात् सुतमागमच्छनैः ॥ ८ ॥
उलूखल-अङ्घ्रेः उपरि व्यवस्थितम् मर्काय कामम् ददतम् शिचि स्थितम् । हैयङ्गवम् चौर्य-विशङ्कित-ईक्षणम् निरीक्ष्य पश्चात् सुतम् आगमत् शनैस् ॥ ८ ॥
ulūkhala-aṅghreḥ upari vyavasthitam markāya kāmam dadatam śici sthitam . haiyaṅgavam caurya-viśaṅkita-īkṣaṇam nirīkṣya paścāt sutam āgamat śanais .. 8 ..
तां आत्तयष्टिं प्रसमीक्ष्य सत्वरः ततोऽवरुह्यापससार भीतवत् । गोप्यन्वधावन्न यमाप योगिनां क्षमं प्रवेष्टुं तपसेरितं मनः ॥ ९ ॥
ताम् आत्त-यष्टिम् प्रसमीक्ष्य स त्वरः ततस् अवरुह्य अपससार भीत-वत् । गोपी अन्वधावत् न यम् आप योगिनाम् क्षमम् प्रवेष्टुम् तपसा ईरितम् मनः ॥ ९ ॥
tām ātta-yaṣṭim prasamīkṣya sa tvaraḥ tatas avaruhya apasasāra bhīta-vat . gopī anvadhāvat na yam āpa yoginām kṣamam praveṣṭum tapasā īritam manaḥ .. 9 ..
अन्वञ्चमाना जननी बृहच्चलत् श्रोणीभराक्रान्तगतिः सुमध्यमा । जवेन विस्रंसितकेशबन्धन च्युतप्रसूनानुगतिः परामृशत् ॥ १० ॥
अन्वञ्चमाना जननी बृहत् चलत् श्रोणी-भर-आक्रान्त-गतिः सुमध्यमा । जवेन विस्रंसित-केश-बन्धन च्युत-प्रसून-अनुगतिः परामृशत् ॥ १० ॥
anvañcamānā jananī bṛhat calat śroṇī-bhara-ākrānta-gatiḥ sumadhyamā . javena visraṃsita-keśa-bandhana cyuta-prasūna-anugatiḥ parāmṛśat .. 10 ..
कृतागसं तं प्ररुदन्तमक्षिणी कर्षन्तमञ्जन्मषिणी स्वपाणिना । उद्वीक्षमाणं भयविह्वलेक्षणं हस्ते गृहीत्वा भिषयन्त्यवागुरत् ॥ ११ ॥
कृत-आगसम् तम् प्ररुदन्तम् अक्षिणी कर्षन्तम् अञ्जत्-मषिणी स्व-पाणिना । उद्वीक्षमाणम् भय-विह्वल-ईक्षणम् हस्ते गृहीत्वा भिषयन्ती अवागुरत् ॥ ११ ॥
kṛta-āgasam tam prarudantam akṣiṇī karṣantam añjat-maṣiṇī sva-pāṇinā . udvīkṣamāṇam bhaya-vihvala-īkṣaṇam haste gṛhītvā bhiṣayantī avāgurat .. 11 ..
( अनुष्टुप् )
त्यक्त्वा यष्टिं सुतं भीतं विज्ञायार्भकवत्सला । इयेष किल तं बद्धुं दाम्नातद्वीर्यकोविदा ॥ १२ ॥
त्यक्त्वा यष्टिम् सुतम् भीतम् विज्ञाय अर्भक-वत्सला । इयेष किल तम् बद्धुम् दाम्नात-द्वीर्य-कोविदा ॥ १२ ॥
tyaktvā yaṣṭim sutam bhītam vijñāya arbhaka-vatsalā . iyeṣa kila tam baddhum dāmnāta-dvīrya-kovidā .. 12 ..
न चान्तर्न बहिर्यस्य न पूर्वं नापि चापरम् । पूर्वापरं बहिश्चान्तः जगतो यो जगच्च यः ॥ १३ ॥
न च अन्तर् न बहिस् यस्य न पूर्वम् ना अपि च अपरम् । पूर्व-अपरम् बहिस् च अन्तर् जगतः यः जगत् च यः ॥ १३ ॥
na ca antar na bahis yasya na pūrvam nā api ca aparam . pūrva-aparam bahis ca antar jagataḥ yaḥ jagat ca yaḥ .. 13 ..
तं मत्वात्मजमव्यक्तं मर्त्यलिङ्गमधोक्षजम् । गोपिकोलूखले दाम्ना बबन्ध प्राकृतं यथा ॥ १४ ॥
तम् मत्वा आत्मजम् अव्यक्तम् मर्त्य-लिङ्गम् अधोक्षजम् । गोपिका उलूखले दाम्ना बबन्ध प्राकृतम् यथा ॥ १४ ॥
tam matvā ātmajam avyaktam martya-liṅgam adhokṣajam . gopikā ulūkhale dāmnā babandha prākṛtam yathā .. 14 ..
तद्दाम बध्यमानस्य स्वार्भकस्य कृतागसः । द्व्यङ्गुलोनमभूत्तेन सन्दधेऽन्यच्च गोपिका ॥ १५ ॥
तत् दाम बध्यमानस्य सु अर्भकस्य कृत-आगसः । द्वि-अङ्गुल-ऊनम् अभूत् तेन सन्दधे अन्यत् च गोपिका ॥ १५ ॥
tat dāma badhyamānasya su arbhakasya kṛta-āgasaḥ . dvi-aṅgula-ūnam abhūt tena sandadhe anyat ca gopikā .. 15 ..
यदाऽऽसीत् तदपि न्यूनं तेनान्यदपि सन्दधे । तदपि द्व्यङ्गुलं न्यूनं यद् यद् आदत्त बन्धनम् ॥ १६ ॥
यदा आसीत् तत् अपि न्यूनम् तेन अन्यत् अपि सन्दधे । तत् अपि द्वि-अङ्गुलम् न्यूनम् यत् यत् आदत्त बन्धनम् ॥ १६ ॥
yadā āsīt tat api nyūnam tena anyat api sandadhe . tat api dvi-aṅgulam nyūnam yat yat ādatta bandhanam .. 16 ..
एवं स्वगेहदामानि यशोदा सन्दधत्यपि । गोपीनां सुस्मयन्तीनां स्मयन्ती विस्मिताभवत् ॥ १७ ॥
एवम् स्व-गेह-दामानि यशोदा सन्दधती अपि । गोपीनाम् सु स्मयन्तीनाम् स्मयन्ती विस्मिता भवत् ॥ १७ ॥
evam sva-geha-dāmāni yaśodā sandadhatī api . gopīnām su smayantīnām smayantī vismitā bhavat .. 17 ..
स्वमातुः स्विन्नगात्राया विस्रस्तकबरस्रजः । दृष्ट्वा परिश्रमं कृष्णः कृपयाऽऽसीत् स्वबन्धने ॥ १८ ॥
स्व-मातुः स्विन्न-गात्रायाः विस्रस्त-कबर-स्रजः । दृष्ट्वा परिश्रमम् कृष्णः कृपया आसीत् स्व-बन्धने ॥ १८ ॥
sva-mātuḥ svinna-gātrāyāḥ visrasta-kabara-srajaḥ . dṛṣṭvā pariśramam kṛṣṇaḥ kṛpayā āsīt sva-bandhane .. 18 ..
एवं सन्दर्शिता ह्यङ्ग हरिणा भृत्यवश्यता । स्ववशेनापि कृष्णेन यस्येदं सेश्वरं वशे ॥ १९ ॥
एवम् सन्दर्शिता हि अङ्ग हरिणा भृत्य-वश्य-ता । स्व-वशेन अपि कृष्णेन यस्य इदम् स ईश्वरम् वशे ॥ १९ ॥
evam sandarśitā hi aṅga hariṇā bhṛtya-vaśya-tā . sva-vaśena api kṛṣṇena yasya idam sa īśvaram vaśe .. 19 ..
नेमं विरिञ्चो न भवो न श्रीरप्यङ्गसंश्रया । प्रसादं लेभिरे गोपी यत् तत्प्राप विमुक्तिदात् ॥ २० ॥
न इमम् विरिञ्चः न भवः न श्रीः अपि अङ्ग-संश्रया । प्रसादम् लेभिरे गोपी यत् तत् प्राप विमुक्ति-दात् ॥ २० ॥
na imam viriñcaḥ na bhavaḥ na śrīḥ api aṅga-saṃśrayā . prasādam lebhire gopī yat tat prāpa vimukti-dāt .. 20 ..
नायं सुखापो भगवान् देहिनां गोपिकासुतः । ज्ञानिनां चात्मभूतानां यथा भक्तिमतां इह ॥ २१ ॥
न अयम् भगवान् देहिनाम् गोपिका-सुतः । ज्ञानिनाम् च आत्म-भूतानाम् यथा भक्तिमताम् इह ॥ २१ ॥
na ayam bhagavān dehinām gopikā-sutaḥ . jñāninām ca ātma-bhūtānām yathā bhaktimatām iha .. 21 ..
कृष्णस्तु गृहकृत्येषु व्यग्रायां मातरि प्रभुः । अद्राक्षीत् अर्जुनौ पूर्वं गुह्यकौ धनदात्मजौ ॥ २२ ॥
कृष्णः तु गृह-कृत्येषु व्यग्रायाम् मातरि प्रभुः । अद्राक्षीत् अर्जुनौ पूर्वम् गुह्यकौ धनद-आत्मजौ ॥ २२ ॥
kṛṣṇaḥ tu gṛha-kṛtyeṣu vyagrāyām mātari prabhuḥ . adrākṣīt arjunau pūrvam guhyakau dhanada-ātmajau .. 22 ..
पुरा नारदशापेन वृक्षतां प्रापितौ मदात् । नलकूवरमणिग्रीवौ इति ख्यातौ श्रियान्वितौ ॥ २३ ॥
पुरा नारद-शापेन वृक्ष-ताम् प्रापितौ मदात् । नलकूबर-मणिग्रीवौ इति ख्यातौ श्रिया अन्वितौ ॥ २३ ॥
purā nārada-śāpena vṛkṣa-tām prāpitau madāt . nalakūbara-maṇigrīvau iti khyātau śriyā anvitau .. 23 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे नवमोऽध्यायः ॥ ९ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् दशम-स्कन्धे पूर्व-अर्धे नवमः अध्यायः ॥ ९ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām daśama-skandhe pūrva-ardhe navamaḥ adhyāyaḥ .. 9 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In