| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच ।
वरीयान् एष ते प्रश्नः कृतो लोकहितं नृप । आत्मवित् सम्मतः पुंसां श्रोतव्यादिषु यः परः ॥ १ ॥
वरीयान् एष ते प्रश्नः कृतः लोक-हितम् नृप । आत्म-विद् सम्मतः पुंसाम् श्रोतव्य-आदिषु यः परः ॥ १ ॥
varīyān eṣa te praśnaḥ kṛtaḥ loka-hitam nṛpa . ātma-vid sammataḥ puṃsām śrotavya-ādiṣu yaḥ paraḥ .. 1 ..
श्रोतव्यादीनि राजेन्द्र नृणां सन्ति सहस्रशः । अपश्यतां आत्मतत्त्वं गृहेषु गृहमेधिनाम् ॥ २ ॥
श्रोतव्य-आदीनि राज-इन्द्र नृणाम् सन्ति सहस्रशस् । अपश्यताम् आत्म-तत्त्वम् गृहेषु गृहमेधिनाम् ॥ २ ॥
śrotavya-ādīni rāja-indra nṛṇām santi sahasraśas . apaśyatām ātma-tattvam gṛheṣu gṛhamedhinām .. 2 ..
निद्रया ह्रियते नक्तं व्यवायेन च वा वयः । दिवा चार्थेहया राजन् कुटुंबभरणेन वा ॥ ३ ॥
निद्रया ह्रियते नक्तम् व्यवायेन च वा वयः । दिवा च अर्थ-ईहया राजन् कुटुंब-भरणेन वा ॥ ३ ॥
nidrayā hriyate naktam vyavāyena ca vā vayaḥ . divā ca artha-īhayā rājan kuṭuṃba-bharaṇena vā .. 3 ..
देहापत्यकलत्रादिषु आत्मसैन्येष्वसत्स्वपि । तेषां प्रमत्तो निधनं पश्यन्नपि न पश्यति ॥ ४ ॥
देह-अपत्य-कलत्र-आदिषु आत्म-सैन्येषु असत्सु अपि । तेषाम् प्रमत्तः निधनम् पश्यन् अपि न पश्यति ॥ ४ ॥
deha-apatya-kalatra-ādiṣu ātma-sainyeṣu asatsu api . teṣām pramattaḥ nidhanam paśyan api na paśyati .. 4 ..
तस्माद्भारत सर्वात्मा भगवान् ईश्वरो हरिः । श्रोतव्यः कीर्तितव्यश्च स्मर्तव्यश्चेच्छताभयम् ॥ ५ ॥
तस्मात् भारत सर्व-आत्मा भगवान् ईश्वरः हरिः । श्रोतव्यः कीर्तितव्यः च स्मर्तव्यः च इच्छता अभयम् ॥ ५ ॥
tasmāt bhārata sarva-ātmā bhagavān īśvaraḥ hariḥ . śrotavyaḥ kīrtitavyaḥ ca smartavyaḥ ca icchatā abhayam .. 5 ..
एतावान् सांख्ययोगाभ्यां स्वधर्मपरिनिष्ठया । जन्मलाभः परः पुंसां अंते नारायणस्मृतिः ॥ ६ ॥
एतावान् सांख्य-योगाभ्याम् स्वधर्म-परिनिष्ठया । जन्म-लाभः परः पुंसाम् अन्ते नारायण-स्मृतिः ॥ ६ ॥
etāvān sāṃkhya-yogābhyām svadharma-pariniṣṭhayā . janma-lābhaḥ paraḥ puṃsām ante nārāyaṇa-smṛtiḥ .. 6 ..
प्रायेण मुनयो राजन् निवृत्ता विधिषेधतः । नैर्गुण्यस्था रमंते स्म गुणानुकथने हरेः ॥ ७ ॥
प्रायेण मुनयः राजन् निवृत्ताः । नैर्गुण्य-स्थाः रमंते स्म गुण-अनुकथने हरेः ॥ ७ ॥
prāyeṇa munayaḥ rājan nivṛttāḥ . nairguṇya-sthāḥ ramaṃte sma guṇa-anukathane hareḥ .. 7 ..
इदं भागवतं नाम पुराणं ब्रह्मसम्मितम् । अधीतवान् द्वापरादौ पितुर्द्वैपायनादहम् ॥ ८ ॥
इदम् भागवतम् नाम पुराणम् ब्रह्म-सम्मितम् । अधीतवान् द्वापर-आदौ पितुः द्वैपायनात् अहम् ॥ ८ ॥
idam bhāgavatam nāma purāṇam brahma-sammitam . adhītavān dvāpara-ādau pituḥ dvaipāyanāt aham .. 8 ..
परिनिष्ठितोऽपि नैर्गुण्य उत्तमश्लोकलीलया । गृहीतचेता राजर्षे आख्यानं यत् अधीतवान् ॥ ९ ॥
परिनिष्ठितः अपि नैर्गुण्ये उत्तमश्लोक-लीलया । गृहीत-चेताः राजर्षे आख्यानम् यत् अधीतवान् ॥ ९ ॥
pariniṣṭhitaḥ api nairguṇye uttamaśloka-līlayā . gṛhīta-cetāḥ rājarṣe ākhyānam yat adhītavān .. 9 ..
तदहं तेऽभिधास्यामि महापौरुषिको भवान् । यस्य श्रद्दधतामाशु स्यान् मुकुंदे मतिः सती ॥ १० ॥
तत् अहम् ते अभिधास्यामि महा-पौरुषिकः भवान् । यस्य श्रद्दधताम् आशु स्यात् मुकुन्दे मतिः सती ॥ १० ॥
tat aham te abhidhāsyāmi mahā-pauruṣikaḥ bhavān . yasya śraddadhatām āśu syāt mukunde matiḥ satī .. 10 ..
एतन्निर्विद्यमानानां इच्छतां अकुतोभयम् । योगिनां नृप निर्णीतं हरेर्नामानुकीर्तनम् ॥ ११ ॥
एतत् निर्विद्यमानानाम् इच्छताम् अकुतोभयम् । योगिनाम् नृप निर्णीतम् हरेः नाम-अनुकीर्तनम् ॥ ११ ॥
etat nirvidyamānānām icchatām akutobhayam . yoginām nṛpa nirṇītam hareḥ nāma-anukīrtanam .. 11 ..
किं प्रमत्तस्य बहुभिः परोक्षैर्हायनैरिह । वरं मुहूर्तं विदितं घटते श्रेयसे यतः ॥ १२ ॥
किम् प्रमत्तस्य बहुभिः परोक्षैः हायनैः इह । वरम् मुहूर्तम् विदितम् घटते श्रेयसे यतस् ॥ १२ ॥
kim pramattasya bahubhiḥ parokṣaiḥ hāyanaiḥ iha . varam muhūrtam viditam ghaṭate śreyase yatas .. 12 ..
खट्वाङ्गो नाम राजर्षिः ज्ञात्वेयत्तामिहायुषः । मुहूर्तात् सर्वं उत्सृज्य गतवान् अभयं हरिम् ॥ १३ ॥
खट्वाङ्गः नाम राजर्षिः ज्ञात्वा इयत्ताम् इह आयुषः । मुहूर्तात् सर्वम् उत्सृज्य गतवान् अभयम् हरिम् ॥ १३ ॥
khaṭvāṅgaḥ nāma rājarṣiḥ jñātvā iyattām iha āyuṣaḥ . muhūrtāt sarvam utsṛjya gatavān abhayam harim .. 13 ..
तवाप्येतर्हि कौरव्य सप्ताहं जीवितावधिः । उपकल्पय तत्सर्वं तावद् यद् सांपरायिकम् ॥ १४ ॥
तव अपि एतर्हि कौरव्य सप्त-अहम् जीवित-अवधिः । उपकल्पय तत् सर्वम् तावत् यत् सांपरायिकम् ॥ १४ ॥
tava api etarhi kauravya sapta-aham jīvita-avadhiḥ . upakalpaya tat sarvam tāvat yat sāṃparāyikam .. 14 ..
अंतकाले तु पुरुष आगते गतसाध्वसः । छिन्द्याद् असङ्गशस्त्रेण स्पृहां देहेऽनु ये च तम् ॥ १५ ॥
अंतकाले तु पुरुषः आगते गत-साध्वसः । छिन्द्यात् असङ्ग-शस्त्रेण स्पृहाम् देहे अनु ये च तम् ॥ १५ ॥
aṃtakāle tu puruṣaḥ āgate gata-sādhvasaḥ . chindyāt asaṅga-śastreṇa spṛhām dehe anu ye ca tam .. 15 ..
गृहात् प्रव्रजितो धीरः पुण्यतीर्थजलाप्लुतः । शुचौ विविक्त आसीनो विधिवत् कल्पितासने ॥ १६ ॥
गृहात् प्रव्रजितः धीरः पुण्य-तीर्थ-जल-आप्लुतः । शुचौ विविक्ते आसीनः विधिवत् कल्पित-आसने ॥ १६ ॥
gṛhāt pravrajitaḥ dhīraḥ puṇya-tīrtha-jala-āplutaḥ . śucau vivikte āsīnaḥ vidhivat kalpita-āsane .. 16 ..
अभ्यसेन् मनसा शुद्धं त्रिवृद् ब्रह्माक्षरं परम् । मनो यच्छेज्जितश्वासो ब्रह्मबीजं अविस्मरन् ॥ १७ ॥
अभ्यसेत् मनसा शुद्धम् त्रिवृत् ब्रह्म-अक्षरम् परम् । मनः यच्छेत् जित-श्वासः ब्रह्म-बीजम् अ विस्मरन् ॥ १७ ॥
abhyaset manasā śuddham trivṛt brahma-akṣaram param . manaḥ yacchet jita-śvāsaḥ brahma-bījam a vismaran .. 17 ..
नियच्छेद् विषयेभ्योऽक्षान् मनसा बुद्धिसारथिः । मनः कर्मभिराक्षिप्तं शुभार्थे धारयेत् धिया ॥ १८ ॥
नियच्छेत् विषयेभ्यः अक्षात् मनसा बुद्धि-सारथिः । मनः कर्मभिः आक्षिप्तम् शुभ-अर्थे धारयेत् धिया ॥ १८ ॥
niyacchet viṣayebhyaḥ akṣāt manasā buddhi-sārathiḥ . manaḥ karmabhiḥ ākṣiptam śubha-arthe dhārayet dhiyā .. 18 ..
तत्रैकावयवं ध्यायेत् अव्युच्छिन्नेन चेतसा । मनो निर्विषयं युक्त्वा ततः किञ्चन न स्मरेत् । पदं तत्परमं विष्णोः मनो यत्र प्रसीदति ॥ १९ ॥
तत्र एक-अवयवम् ध्यायेत् अव्युच्छिन्नेन चेतसा । मनः निर्विषयम् युक्त्वा ततस् किञ्चन न स्मरेत् । पदम् तत् परमम् विष्णोः मनः यत्र प्रसीदति ॥ १९ ॥
tatra eka-avayavam dhyāyet avyucchinnena cetasā . manaḥ nirviṣayam yuktvā tatas kiñcana na smaret . padam tat paramam viṣṇoḥ manaḥ yatra prasīdati .. 19 ..
रजस्तमोभ्यां आक्षिप्तं विमूढं मन आत्मनः । यच्छेद्धारणया धीरो हंति या तत्कृतं मलम् ॥ २० ॥
रजः-तमोभ्याम् आक्षिप्तम् विमूढम् मनः आत्मनः । यच्छेत् धारणया धीरः हंति या तद्-कृतम् मलम् ॥ २० ॥
rajaḥ-tamobhyām ākṣiptam vimūḍham manaḥ ātmanaḥ . yacchet dhāraṇayā dhīraḥ haṃti yā tad-kṛtam malam .. 20 ..
यस्यां सन्धार्यमाणायां योगिनो भक्तिलक्षणः । आशु संपद्यते योग आश्रयं भद्रमीक्षतः ॥ २१ ॥
यस्याम् सन्धार्यमाणायाम् योगिनः भक्ति-लक्षणः । आशु संपद्यते योगः आश्रयम् भद्रम् ईक्षतः ॥ २१ ॥
yasyām sandhāryamāṇāyām yoginaḥ bhakti-lakṣaṇaḥ . āśu saṃpadyate yogaḥ āśrayam bhadram īkṣataḥ .. 21 ..
राजोवाच ॥
यथा सन्धार्यते ब्रह्मन् धारणा यत्र सम्मता । यादृशी वा हरेदाशु पुरुषस्य मनोमलम् ॥ २२ ॥
यथा सन्धार्यते ब्रह्मन् धारणा यत्र सम्मता । यादृशी वा हरेत् आशु पुरुषस्य मनः-मलम् ॥ २२ ॥
yathā sandhāryate brahman dhāraṇā yatra sammatā . yādṛśī vā haret āśu puruṣasya manaḥ-malam .. 22 ..
श्रीशुक उवाच ।
जितासनो जितश्वासो जितसङ्गो जितेंद्रियः । स्थूले भगवतो रूपे मनः सन्धारयेद् धिया ॥ २३ ॥
जित-आसनः जित-श्वासः जित-सङ्गः जित-इंद्रियः । स्थूले भगवतः रूपे मनः सन्धारयेत् धिया ॥ २३ ॥
jita-āsanaḥ jita-śvāsaḥ jita-saṅgaḥ jita-iṃdriyaḥ . sthūle bhagavataḥ rūpe manaḥ sandhārayet dhiyā .. 23 ..
विशेषस्तस्य देहोऽयं स्थविष्ठश्च स्थवीयसाम् । यत्रेदं दृश्यते विश्वं भूतं भव्यं भवच्च सत् ॥ २४ ॥
विशेषः तस्य देहः अयम् स्थविष्ठः च स्थवीयसाम् । यत्र इदम् दृश्यते विश्वम् भूतम् भव्यम् भवत् च सत् ॥ २४ ॥
viśeṣaḥ tasya dehaḥ ayam sthaviṣṭhaḥ ca sthavīyasām . yatra idam dṛśyate viśvam bhūtam bhavyam bhavat ca sat .. 24 ..
अण्डकोशे शरीरेऽस्मिन् सप्तावरणसंयुते । वैराजः पुरुषो योऽसौ भगवान् धारणाश्रयः ॥ २५ ॥
अण्ड-कोशे शरीरे अस्मिन् सप्त-आवरण-संयुते । वैराजः पुरुषः यः असौ भगवान् धारणाश्रयः ॥ २५ ॥
aṇḍa-kośe śarīre asmin sapta-āvaraṇa-saṃyute . vairājaḥ puruṣaḥ yaḥ asau bhagavān dhāraṇāśrayaḥ .. 25 ..
पातालमेतस्य हि पादमूलं पठंति पार्ष्णिप्रपदे रसातलम् । महातलं विश्वसृजोऽथ गुल्फौ तलातलं वै पुरुषस्य जङ्घे ॥ २६ ॥
पातालम् एतस्य हि पाद-मूलम् पठंति पार्ष्णि-प्रपदे रसातलम् । महातलम् विश्वसृजः अथ गुल्फौ तलातलम् वै पुरुषस्य जङ्घे ॥ २६ ॥
pātālam etasya hi pāda-mūlam paṭhaṃti pārṣṇi-prapade rasātalam . mahātalam viśvasṛjaḥ atha gulphau talātalam vai puruṣasya jaṅghe .. 26 ..
द्वे जानुनी सुतलं विश्वमूर्तेः ऊरुद्वयं वितलं चातलं च । महीतलं तज्जघनं महीपते नभस्तलं नाभिसरो गृणन्ति ॥ २७ ॥
द्वे जानुनी सुतलम् विश्वमूर्तेः ऊरु-द्वयम् वितलम् च अतलम् च । मही-तलम् तद्-जघनम् महीपते नभस्तलम् नाभि-सरः गृणन्ति ॥ २७ ॥
dve jānunī sutalam viśvamūrteḥ ūru-dvayam vitalam ca atalam ca . mahī-talam tad-jaghanam mahīpate nabhastalam nābhi-saraḥ gṛṇanti .. 27 ..
उरःस्थलं ज्योतिरनीकमस्य ग्रीवा महर्वदनं वै जनोऽस्य । तपो रराटीं विदुरादिपुंसः सत्यं तु शीर्षाणि सहस्रशीर्ष्णः ॥ २८ ॥
उरः-स्थलम् ज्योतिः अनीकम् अस्य ग्रीवा महर् वदनम् वै जनः अस्य । तपः रराटीम् विदुः आदि-पुंसः सत्यम् तु शीर्षाणि सहस्र-शीर्ष्णः ॥ २८ ॥
uraḥ-sthalam jyotiḥ anīkam asya grīvā mahar vadanam vai janaḥ asya . tapaḥ rarāṭīm viduḥ ādi-puṃsaḥ satyam tu śīrṣāṇi sahasra-śīrṣṇaḥ .. 28 ..
इन्द्रादयो बाहव आहुरुस्राः कर्णौ दिशः श्रोत्रममुष्य शब्दः । नासत्यदस्रौ परमस्य नासे घ्राणोऽस्य गंधो मुखमग्निरिद्धः ॥ २९ ॥
इन्द्र-आदयः बाहवः आहुः उस्राः कर्णौ दिशः श्रोत्रम् अमुष्य शब्दः । नासत्य-दस्रौ परमस्य नासे घ्राणः अस्य गंधः मुखम् अग्निः इद्धः ॥ २९ ॥
indra-ādayaḥ bāhavaḥ āhuḥ usrāḥ karṇau diśaḥ śrotram amuṣya śabdaḥ . nāsatya-dasrau paramasya nāse ghrāṇaḥ asya gaṃdhaḥ mukham agniḥ iddhaḥ .. 29 ..
द्यौरक्षिणी चक्षुरभूत्पतङ्गः पक्ष्माणि विष्णोरहनी उभे च । तद्भ्रूविजृम्भः परमेष्ठिधिष्ण्यं आपोऽस्य तालू रस एव जिह्वा ॥ ३० ॥
द्यौः अक्षिणी चक्षुः अभूत् पतङ्गः पक्ष्माणि विष्णोः अहनी उभे च । तद्-भ्रू-विजृम्भः परमेष्ठि-धिष्ण्यम् आपः अस्य तालुः रसः एव जिह्वा ॥ ३० ॥
dyauḥ akṣiṇī cakṣuḥ abhūt pataṅgaḥ pakṣmāṇi viṣṇoḥ ahanī ubhe ca . tad-bhrū-vijṛmbhaḥ parameṣṭhi-dhiṣṇyam āpaḥ asya tāluḥ rasaḥ eva jihvā .. 30 ..
छन्दांस्यनन्तस्य शिरो गृणंति दंष्ट्रा यमः स्नेहकला द्विजानि । हासो जनोन्मादकरी च माया दुरन्तसर्गो यदपाङ्गमोक्षः ॥ ३१ ॥
छन्दांसि अनन्तस्य शिरः गृणंति दंष्ट्राः यमः स्नेह-कलाः द्विजानि । हासः जन-उन्माद-करी च माया दुरन्त-सर्गः यत् अपाङ्ग-मोक्षः ॥ ३१ ॥
chandāṃsi anantasya śiraḥ gṛṇaṃti daṃṣṭrāḥ yamaḥ sneha-kalāḥ dvijāni . hāsaḥ jana-unmāda-karī ca māyā duranta-sargaḥ yat apāṅga-mokṣaḥ .. 31 ..
व्रीडोत्तरौष्ठोऽधर एव लोभो धर्मः स्तनोऽधर्मपथोऽस्य पृष्ठम् । कस्तस्य मेढ्रं वृषणौ च मित्रौ कुक्षिः समुद्रा गिरयोऽस्थिसङ्घाः ॥ ३२ ॥
व्रीडा उत्तर-ओष्ठः अधरः एव लोभः धर्मः स्तनः अधर्म-पथः अस्य पृष्ठम् । कः तस्य मेढ्रम् वृषणौ च मित्रौ कुक्षिः समुद्राः गिरयः अस्थि-सङ्घाः ॥ ३२ ॥
vrīḍā uttara-oṣṭhaḥ adharaḥ eva lobhaḥ dharmaḥ stanaḥ adharma-pathaḥ asya pṛṣṭham . kaḥ tasya meḍhram vṛṣaṇau ca mitrau kukṣiḥ samudrāḥ girayaḥ asthi-saṅghāḥ .. 32 ..
नद्योऽस्य नाड्योऽथ तनूरुहाणि महीरुहा विश्वतनोर्नृपेन्द्र । अनन्तवीर्यः श्वसितं मातरिश्वा गतिर्वयः कर्म गुणप्रवाहः ॥ ३३ ॥
नद्यः अस्य नाड्यः अथ तनूरुहाणि महीरुहाः विश्व-तनोः नृप-इन्द्र । अनन्त-वीर्यः श्वसितम् मातरिश्वा गतिः वयः कर्म गुण-प्रवाहः ॥ ३३ ॥
nadyaḥ asya nāḍyaḥ atha tanūruhāṇi mahīruhāḥ viśva-tanoḥ nṛpa-indra . ananta-vīryaḥ śvasitam mātariśvā gatiḥ vayaḥ karma guṇa-pravāhaḥ .. 33 ..
ईशस्य केशान् विदुरम्बुवाहान् वासस्तु सन्ध्यां कुरुवर्य भूम्नः । अव्यक्तमाहुः हृदयं मनश्च स चन्द्रमाः सर्वविकारकोशः ॥ ३४ ॥
ईशस्य केशान् विदुः अम्बुवाहान् वासः तु सन्ध्याम् कुरु-वर्य भूम्नः । अव्यक्तम् आहुः हृदयम् मनः च स चन्द्रमाः सर्व-विकार-कोशः ॥ ३४ ॥
īśasya keśān viduḥ ambuvāhān vāsaḥ tu sandhyām kuru-varya bhūmnaḥ . avyaktam āhuḥ hṛdayam manaḥ ca sa candramāḥ sarva-vikāra-kośaḥ .. 34 ..
विज्ञानशक्तिं महिमामनन्ति सर्वात्मनोऽन्तःकरणं गिरित्रम् । अश्वाश्वतर्युष्ट्रगजा नखानि सर्वे मृगाः पशवः श्रोणिदेशे ॥ ३५ ॥
विज्ञान-शक्तिम् महिमा आमनन्ति सर्वात्मनः अन्तःकरणम् गिरित्रम् । अश्व-अश्वतरी-उष्ट्र-गजाः नखानि सर्वे मृगाः पशवः श्रोणि-देशे ॥ ३५ ॥
vijñāna-śaktim mahimā āmananti sarvātmanaḥ antaḥkaraṇam giritram . aśva-aśvatarī-uṣṭra-gajāḥ nakhāni sarve mṛgāḥ paśavaḥ śroṇi-deśe .. 35 ..
वयांसि तद् व्याकरणं विचित्रं मनुर्मनीषा मनुजो निवासः । गंधर्वविद्याधरचारणाप्सरः स्वरस्मृतीः असुरानीकवीर्यः ॥ ३६ ॥
वयांसि तत् व्याकरणम् विचित्रम् मनुः मनीषा मनुजः निवासः । गंधर्व-विद्याधर-चारण-अप्सरः स्वर-स्मृतीः असुर-अनीक-वीर्यः ॥ ३६ ॥
vayāṃsi tat vyākaraṇam vicitram manuḥ manīṣā manujaḥ nivāsaḥ . gaṃdharva-vidyādhara-cāraṇa-apsaraḥ svara-smṛtīḥ asura-anīka-vīryaḥ .. 36 ..
ब्रह्माननं क्षत्रभुजो महात्मा विडूरुरङ्घ्रिश्रितकृष्णवर्णः । नानाभिधाभीज्यगणोपपन्नो द्रव्यात्मकः कर्म वितानयोगः ॥ ३७ ॥
ब्रह्म-आननम् क्षत्र-भुजः महात्मा विश् ऊरुः अङ्घ्रि-श्रित-कृष्ण-वर्णः । नाना अभिधा-अभीज्य-गण-उपपन्नः द्रव्य-आत्मकः कर्म वितान-योगः ॥ ३७ ॥
brahma-ānanam kṣatra-bhujaḥ mahātmā viś ūruḥ aṅghri-śrita-kṛṣṇa-varṇaḥ . nānā abhidhā-abhījya-gaṇa-upapannaḥ dravya-ātmakaḥ karma vitāna-yogaḥ .. 37 ..
इयान् असौ ईश्वरविग्रहस्य यः सन्निवेशः कथितो मया ते । सन्धार्यतेऽस्मिन् वपुषि स्थविष्ठे मनः स्वबुद्ध्या न यतोऽस्ति किञ्चित् ॥ ३८ ॥
इयान् असौ ईश्वर-विग्रहस्य यः सन्निवेशः कथितः मया ते । सन्धार्यते अस्मिन् वपुषि स्थविष्ठे मनः स्व-बुद्ध्या न यतस् अस्ति किञ्चिद् ॥ ३८ ॥
iyān asau īśvara-vigrahasya yaḥ sanniveśaḥ kathitaḥ mayā te . sandhāryate asmin vapuṣi sthaviṣṭhe manaḥ sva-buddhyā na yatas asti kiñcid .. 38 ..
स सर्वधीवृत्त्यनुभूतसर्व आत्मा यथा स्वप्नजनेक्षितैकः । तं सत्यमानंदनिधिं भजेत नान्यत्र सज्जेद्यत आत्मपातः ॥ ३९ ॥
स सर्व-धी-वृत्ति-अनुभूत-सर्वः आत्मा यथा स्वप्न-जन-ईक्षित-एकः । तम् सत्यम् आनंद-निधिम् भजेत न अन्यत्र सज्जेत् यतस् आत्मपातः ॥ ३९ ॥
sa sarva-dhī-vṛtti-anubhūta-sarvaḥ ātmā yathā svapna-jana-īkṣita-ekaḥ . tam satyam ānaṃda-nidhim bhajeta na anyatra sajjet yatas ātmapātaḥ .. 39 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वितीयस्कंधे प्रथमोऽध्यायः ॥ १ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् द्वितीय-स्कंधे प्रथमः अध्यायः ॥ १ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām dvitīya-skaṃdhe prathamaḥ adhyāyaḥ .. 1 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In