| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच ।
अत्र सर्गो विसर्गश्च स्थानं पोषणमूतयः । मन्वन्तरेशानुकथा निरोधो मुक्तिराश्रयः ॥ १ ॥
अत्र सर्गः विसर्गः च स्थानम् पोषणम् ऊतयः । मन्वन्तर-ईश-अनुकथाः निरोधः मुक्तिः आश्रयः ॥ १ ॥
atra sargaḥ visargaḥ ca sthānam poṣaṇam ūtayaḥ . manvantara-īśa-anukathāḥ nirodhaḥ muktiḥ āśrayaḥ .. 1 ..
(अनुष्टुप्)
दशमस्य विशुद्ध्यर्थं नवानामिह लक्षणम् । वर्णयन्ति महात्मानः श्रुतेनार्थेन चाञ्जसा ॥ २ ॥
दशमस्य विशुद्धि-अर्थम् नवानाम् इह लक्षणम् । वर्णयन्ति महात्मानः श्रुतेन अर्थेन च अञ्जसा ॥ २ ॥
daśamasya viśuddhi-artham navānām iha lakṣaṇam . varṇayanti mahātmānaḥ śrutena arthena ca añjasā .. 2 ..
भूतमात्रेन्द्रियधियां जन्म सर्ग उदाहृतः । ब्रह्मणो गुणवैषम्यात् विसर्गः पौरुषः स्मृतः ॥ ३ ॥
भूतमात्र-इन्द्रिय-धियाम् जन्म सर्गः उदाहृतः । ब्रह्मणः गुण-वैषम्यात् विसर्गः पौरुषः स्मृतः ॥ ३ ॥
bhūtamātra-indriya-dhiyām janma sargaḥ udāhṛtaḥ . brahmaṇaḥ guṇa-vaiṣamyāt visargaḥ pauruṣaḥ smṛtaḥ .. 3 ..
स्थितिर्वैकुण्ठविजयः पोषणं तदनुग्रहः । मन्वन्तराणि सद्धर्म ऊतयः कर्मवासनाः ॥ ४ ॥
स्थितिः वैकुण्ठ-विजयः पोषणम् तद्-अनुग्रहः । मन्वन्तराणि सत्-धर्मः ऊतयः कर्म-वासनाः ॥ ४ ॥
sthitiḥ vaikuṇṭha-vijayaḥ poṣaṇam tad-anugrahaḥ . manvantarāṇi sat-dharmaḥ ūtayaḥ karma-vāsanāḥ .. 4 ..
अवतारानुचरितं हरेश्चास्यानुवर्तिनाम् । पुंसां ईशकथाः प्रोक्ता नानाख्यान उपबृंहिताः ॥ ५ ॥
अवतार-अनुचरितम् हरेः च अस्य अनुवर्तिनाम् । पुंसाम् ईश-कथाः प्रोक्ताः नाना आख्याने उपबृंहिताः ॥ ५ ॥
avatāra-anucaritam hareḥ ca asya anuvartinām . puṃsām īśa-kathāḥ proktāḥ nānā ākhyāne upabṛṃhitāḥ .. 5 ..
निरोधोऽस्यानुशयनं आत्मनः सह शक्तिभिः । मुक्तिः हित्वान्यथा रूपं स्वरूपेण व्यवस्थितिः ॥ ॥ ६ ॥
निरोधः अस्य अनुशयनम् आत्मनः सह शक्तिभिः । मुक्तिः हित्वा अन्यथा रूपम् स्व-रूपेण व्यवस्थितिः ॥ ॥ ६ ॥
nirodhaḥ asya anuśayanam ātmanaḥ saha śaktibhiḥ . muktiḥ hitvā anyathā rūpam sva-rūpeṇa vyavasthitiḥ .. .. 6 ..
आभासश्च निरोधश्च यतश्चाध्यवसीयते । स आश्रयः परं ब्रह्म परमात्मेति शब्द्यते ॥ ७ ॥
आभासः च निरोधः च यतस् च अध्यवसीयते । सः आश्रयः परम् ब्रह्म परमात्मा इति शब्द्यते ॥ ७ ॥
ābhāsaḥ ca nirodhaḥ ca yatas ca adhyavasīyate . saḥ āśrayaḥ param brahma paramātmā iti śabdyate .. 7 ..
योऽध्यात्मिकोऽयं पुरुषः सोऽसौ एवाधिदैविकः । यः तत्र उभय विच्छेदः स स्मृतोह्याधिभौतिकः ॥ ८ ॥
यः अध्यात्मिकः अयम् पुरुषः सः असौ एव आधिदैविकः । यः तत्र उभय-विच्छेदः स स्मृत-ऊह्य-आधिभौतिकः ॥ ८ ॥
yaḥ adhyātmikaḥ ayam puruṣaḥ saḥ asau eva ādhidaivikaḥ . yaḥ tatra ubhaya-vicchedaḥ sa smṛta-ūhya-ādhibhautikaḥ .. 8 ..
एकं एकतराभावे यदा न उपलभामहे । त्रितयं तत्र यो वेद स आत्मा स्वाश्रयाश्रयः ॥ ९ ॥
एकम् एकतर-अभावे यदा न उपलभामहे । त्रितयम् तत्र यः वेद सः आत्मा स्व-आश्रय-आश्रयः ॥ ९ ॥
ekam ekatara-abhāve yadā na upalabhāmahe . tritayam tatra yaḥ veda saḥ ātmā sva-āśraya-āśrayaḥ .. 9 ..
पुरुषोऽण्डं विनिर्भिद्य यदाऽसौ स विनिर्गतः । आत्मनोऽयनमन्विच्छन् अपः अस्राक्षीच्छुचिः शुचीः ॥ १० ॥
पुरुषः अण्डम् विनिर्भिद्य यदा असौ स विनिर्गतः । आत्मनः अयनम् अन्विच्छन् अपः अस्राक्षीत् शुचिः शुचीः ॥ १० ॥
puruṣaḥ aṇḍam vinirbhidya yadā asau sa vinirgataḥ . ātmanaḥ ayanam anvicchan apaḥ asrākṣīt śuciḥ śucīḥ .. 10 ..
तास्ववात्सीत् स्वसृष्टासु सहस्रं परिवत्सरान् । तेन नारायणो नाम यदापः पुरुषोद्भवाः ॥ ११ ॥
तासु अवात्सीत् स्व-सृष्टासु सहस्रम् परिवत्सरान् । तेन नारायणः नाम यदा आपः पुरुष-उद्भवाः ॥ ११ ॥
tāsu avātsīt sva-sṛṣṭāsu sahasram parivatsarān . tena nārāyaṇaḥ nāma yadā āpaḥ puruṣa-udbhavāḥ .. 11 ..
द्रव्यं कर्म च कालश्च स्वभावो जीव एव च । यदनुग्रहतः सन्ति न सन्ति यद् उपेक्षया ॥ १२ ॥
द्रव्यम् कर्म च कालः च स्वभावः जीवः एव च । यद्-अनुग्रहतः सन्ति न सन्ति यत् उपेक्षया ॥ १२ ॥
dravyam karma ca kālaḥ ca svabhāvaḥ jīvaḥ eva ca . yad-anugrahataḥ santi na santi yat upekṣayā .. 12 ..
एको नानात्वमन्विच्छन् योगतल्पात् समुत्थितः । वीर्यं हिरण्मयं देवो मायया व्यसृजत् त्रिधा ॥ १३ ॥
एकः नानात्वम् अन्विच्छन् योगतल्पात् समुत्थितः । वीर्यम् हिरण्मयम् देवः मायया व्यसृजत् त्रिधा ॥ १३ ॥
ekaḥ nānātvam anvicchan yogatalpāt samutthitaḥ . vīryam hiraṇmayam devaḥ māyayā vyasṛjat tridhā .. 13 ..
अधिदैवं अथ अध्यात्मं अधिभूतमिति प्रभुः । अथैकं पौरुषं वीर्यं त्रिधा भिद्यत तच्छृणु ॥ १४ ॥
अधिदैवम् अथ अध्यात्मम् अधिभूतम् इति प्रभुः । अथ एकम् पौरुषम् वीर्यम् त्रिधा भिद्यत तत् शृणु ॥ १४ ॥
adhidaivam atha adhyātmam adhibhūtam iti prabhuḥ . atha ekam pauruṣam vīryam tridhā bhidyata tat śṛṇu .. 14 ..
अन्तः शरीर आकाशात् पुरुषस्य विचेष्टतः । ओजः सहो बलं जज्ञे ततः प्राणो महान् असुः ॥ १५ ॥
अन्तर् शरीरे आकाशात् पुरुषस्य विचेष्टतः । ओजः सहः बलम् जज्ञे ततस् प्राणः महान् असुः ॥ १५ ॥
antar śarīre ākāśāt puruṣasya viceṣṭataḥ . ojaḥ sahaḥ balam jajñe tatas prāṇaḥ mahān asuḥ .. 15 ..
अनुप्राणन्ति यं प्राणाः प्राणन्तं सर्वजन्तुषु । अपानंतं अपानन्ति नरदेवं इवानुगाः ॥ १६ ॥
अनुप्राणन्ति यम् प्राणाः प्राणन्तम् सर्व-जन्तुषु । अपानन्तम् अपानन्ति नरदेवम् इव अनुगाः ॥ १६ ॥
anuprāṇanti yam prāṇāḥ prāṇantam sarva-jantuṣu . apānantam apānanti naradevam iva anugāḥ .. 16 ..
प्राणेन आक्षिपता क्षुत् तृड् अन्तरा जायते विभोः । पिपासतो जक्षतश्च प्राङ् मुखं निरभिद्यत ॥ १७ ॥
प्राणेन आक्षिपता क्षुध् तृष् अन्तरा जायते विभोः । पिपासतः जक्षतः च प्राक् मुखम् निरभिद्यत ॥ १७ ॥
prāṇena ākṣipatā kṣudh tṛṣ antarā jāyate vibhoḥ . pipāsataḥ jakṣataḥ ca prāk mukham nirabhidyata .. 17 ..
मुखतः तालु निर्भिन्नं जिह्वा तत्र उपजायते । ततो नानारसो जज्ञे जिह्वया योऽधिगम्यते ॥ १८ ॥
मुखतः तालु निर्भिन्नम् जिह्वा तत्र उपजायते । ततस् नाना रसः जज्ञे जिह्वया यः अधिगम्यते ॥ १८ ॥
mukhataḥ tālu nirbhinnam jihvā tatra upajāyate . tatas nānā rasaḥ jajñe jihvayā yaḥ adhigamyate .. 18 ..
विवक्षोर्मुखतो भूम्नो वह्निर्वाग् व्याहृतं तयोः । जले वै तस्य सुचिरं निरोधः समजायत ॥ १९ ॥
विवक्षोः मुखतः भूम्नः वह्निः वाच् व्याहृतम् तयोः । जले वै तस्य सुचिरम् निरोधः समजायत ॥ १९ ॥
vivakṣoḥ mukhataḥ bhūmnaḥ vahniḥ vāc vyāhṛtam tayoḥ . jale vai tasya suciram nirodhaḥ samajāyata .. 19 ..
नासिके निरभिद्येतां दोधूयति नभस्वति । तत्र वायुः गन्धवहो घ्राणो नसि जिघृक्षतः ॥ २० ॥
नासिके निरभिद्येताम् दोधूयति नभस्वति । तत्र वायुः गन्धवहः घ्राणः जिघृक्षतः ॥ २० ॥
nāsike nirabhidyetām dodhūyati nabhasvati . tatra vāyuḥ gandhavahaḥ ghrāṇaḥ jighṛkṣataḥ .. 20 ..
यदाऽऽत्मनि निरालोकं आत्मानं च दिदृक्षतः । निर्भिन्ने ह्यक्षिणी तस्य ज्योतिः चक्षुः गुणग्रहः ॥ २१ ॥
निरालोकम् आत्मानम् च दिदृक्षतः । निर्भिन्ने हि अक्षिणी तस्य ज्योतिः चक्षुः गुण-ग्रहः ॥ २१ ॥
nirālokam ātmānam ca didṛkṣataḥ . nirbhinne hi akṣiṇī tasya jyotiḥ cakṣuḥ guṇa-grahaḥ .. 21 ..
बोध्यमानस्य ऋषिभिः आत्मनः तत् जिघृक्षतः । कर्णौ च निरभिद्येतां दिशः श्रोत्रं गुणग्रहः ॥ २२ ॥
बोध्यमानस्य ऋषिभिः आत्मनः तत् जिघृक्षतः । कर्णौ च निरभिद्येताम् दिशः श्रोत्रम् गुण-ग्रहः ॥ २२ ॥
bodhyamānasya ṛṣibhiḥ ātmanaḥ tat jighṛkṣataḥ . karṇau ca nirabhidyetām diśaḥ śrotram guṇa-grahaḥ .. 22 ..
वस्तुनो मृदुकाठिन्य लघुगुर्वोष्ण शीतताम् । जिघृक्षतः त्वङ् निर्भिन्ना तस्यां रोम महीरुहाः । तत्र चान्तर्बहिर्वातः त्वचा लब्धगुणो वृतः ॥ २३ ॥
वस्तुनः । जिघृक्षतः त्वच् निर्भिन्ना तस्याम् रोम महीरुहाः । तत्र च अन्तर् बहिस् वातः त्वचा लब्ध-गुणः वृतः ॥ २३ ॥
vastunaḥ . jighṛkṣataḥ tvac nirbhinnā tasyām roma mahīruhāḥ . tatra ca antar bahis vātaḥ tvacā labdha-guṇaḥ vṛtaḥ .. 23 ..
हस्तौ रुरुहतुः तस्य नाना कर्म चिकीर्षया । तयोस्तु बलमिन्द्रश्च आदानं उभयाश्रयम् ॥ २४ ॥
हस्तौ रुरुहतुः तस्य नाना कर्म-चिकीर्षया । तयोः तु बलम् इन्द्रः च आदानम् उभय-आश्रयम् ॥ २४ ॥
hastau ruruhatuḥ tasya nānā karma-cikīrṣayā . tayoḥ tu balam indraḥ ca ādānam ubhaya-āśrayam .. 24 ..
गतिं जिगीषतः पादौ रुरुहातेऽभिकामिकाम् । पद्भ्यां यज्ञः स्वयं हव्यं कर्मभिः क्रियते नृभिः ॥ २५ ॥
गतिम् जिगीषतः पादौ रुरुहाते अभिकामिकाम् । पद्भ्याम् यज्ञः स्वयम् हव्यम् कर्मभिः क्रियते नृभिः ॥ २५ ॥
gatim jigīṣataḥ pādau ruruhāte abhikāmikām . padbhyām yajñaḥ svayam havyam karmabhiḥ kriyate nṛbhiḥ .. 25 ..
निरभिद्यत शिश्नो वै प्रजानन्द अमृतार्थिनः । उपस्थ आसीत् कामानां प्रियं तद् उभयाश्रयम् ॥ २६ ॥
निरभिद्यत शिश्नः वै प्रजा-आनन्द अमृत-अर्थिनः । उपस्थः आसीत् कामानाम् प्रियम् तत् उभय-आश्रयम् ॥ २६ ॥
nirabhidyata śiśnaḥ vai prajā-ānanda amṛta-arthinaḥ . upasthaḥ āsīt kāmānām priyam tat ubhaya-āśrayam .. 26 ..
उत्सिसृक्षोः धातुमलं निरभिद्यत वै गुदम् । ततः पायुस्ततो मित्र उत्सर्ग उभयाश्रयः ॥ २७ ॥
उत्सिसृक्षोः धातुमलम् निरभिद्यत वै गुदम् । ततस् पायुः ततस् मित्रः उत्सर्गः उभय-आश्रयः ॥ २७ ॥
utsisṛkṣoḥ dhātumalam nirabhidyata vai gudam . tatas pāyuḥ tatas mitraḥ utsargaḥ ubhaya-āśrayaḥ .. 27 ..
आसिसृप्सोः पुरः पुर्या नाभिद्वारं अपानतः । तत्र अपानः ततो मृत्युः पृथक्त्वं उभयाश्रयम् ॥ २८ ॥
आसिसृप्सोः पुरस् पुर्याः नाभि-द्वारम् अपानतः । तत्र अपानः ततस् मृत्युः पृथक्त्वम् उभय-आश्रयम् ॥ २८ ॥
āsisṛpsoḥ puras puryāḥ nābhi-dvāram apānataḥ . tatra apānaḥ tatas mṛtyuḥ pṛthaktvam ubhaya-āśrayam .. 28 ..
आदित्सोः अन्नपानानां आसन् कुक्ष्यन्न नाडयः । नद्यः समुद्राश्च तयोः तुष्टिः पुष्टिः तदाश्रये ॥ २९ ॥
आदित्सोः अन्नपानानाम् आसन् कुक्षि-अन्न-नाडयः । नद्यः समुद्राः च तयोः तुष्टिः पुष्टिः तद्-आश्रये ॥ २९ ॥
āditsoḥ annapānānām āsan kukṣi-anna-nāḍayaḥ . nadyaḥ samudrāḥ ca tayoḥ tuṣṭiḥ puṣṭiḥ tad-āśraye .. 29 ..
निदिध्यासोः आत्ममायां हृदयं निरभिद्यत । ततो मनः ततश्चंद्रः सङ्कल्पः काम एव च ॥ ३० ॥
निदिध्यासोः आत्म-मायाम् हृदयम् निरभिद्यत । ततस् मनः ततस् चंद्रः सङ्कल्पः कामः एव च ॥ ३० ॥
nididhyāsoḥ ātma-māyām hṛdayam nirabhidyata . tatas manaḥ tatas caṃdraḥ saṅkalpaḥ kāmaḥ eva ca .. 30 ..
त्वक् चर्म मांस रुधिर मेदो मज्जास्थि धातवः । भूम्यप्तेजोमयाः सप्त प्राणो व्योमाम्बु वायुभिः ॥ ३१ ॥
त्वच्-चर्म-मांस-रुधिर-मेदः-मज्ज-अस्थि-धातवः । भूमि-अप्-तेजः-मयाः सप्त प्राणः व्योम-अम्बु वायुभिः ॥ ३१ ॥
tvac-carma-māṃsa-rudhira-medaḥ-majja-asthi-dhātavaḥ . bhūmi-ap-tejaḥ-mayāḥ sapta prāṇaḥ vyoma-ambu vāyubhiḥ .. 31 ..
गुणात्मकान् इंद्रियाणि भूतादि प्रभवा गुणाः । मनः सर्व विकारात्मा बुद्धिर्विज्ञानरूपिणी ॥ ३२ ॥
गुण-आत्मकान् इंद्रियाणि भूतादि प्रभवाः गुणाः । मनः विकार-आत्मा बुद्धिः विज्ञान-रूपिणी ॥ ३२ ॥
guṇa-ātmakān iṃdriyāṇi bhūtādi prabhavāḥ guṇāḥ . manaḥ vikāra-ātmā buddhiḥ vijñāna-rūpiṇī .. 32 ..
एतद् भगवतो रूपं स्थूलं ते व्याहृतं मया । मह्यादिभिश्च आवरणैः अष्टभिः बहिरावृतम् ॥ ३३ ॥
एतत् भगवतः रूपम् स्थूलम् ते व्याहृतम् मया । मही-आदिभिः च आवरणैः अष्टभिः बहिस् आवृतम् ॥ ३३ ॥
etat bhagavataḥ rūpam sthūlam te vyāhṛtam mayā . mahī-ādibhiḥ ca āvaraṇaiḥ aṣṭabhiḥ bahis āvṛtam .. 33 ..
अतः परं सूक्ष्मतमं अव्यक्तं निर्विशेषणम् । अनादिमध्यनिधनं नित्यं वाङ् मनसः परम् ॥ ३४ ॥
अतस् परम् सूक्ष्मतमम् अव्यक्तम् निर्विशेषणम् । अन् आदि-मध्य-निधनम् नित्यम् वाच् मनसः परम् ॥ ३४ ॥
atas param sūkṣmatamam avyaktam nirviśeṣaṇam . an ādi-madhya-nidhanam nityam vāc manasaḥ param .. 34 ..
अमुनी भगवद् रूपे मया ते ह्यनुवर्णिते । उभे अपि न गृह्णन्ति मायासृष्टे विपश्चितः ॥ ३५ ॥
अमुनी भगवत् रूपे मया ते हि अनुवर्णिते । उभे अपि न गृह्णन्ति माया-सृष्टे विपश्चितः ॥ ३५ ॥
amunī bhagavat rūpe mayā te hi anuvarṇite . ubhe api na gṛhṇanti māyā-sṛṣṭe vipaścitaḥ .. 35 ..
स वाच्य वाचकतया भगवान् ब्रह्मरूपधृक् । नामरूपक्रिया धत्ते सकर्माकर्मकः परः ॥ ३६ ॥
स वाच्य वाचक-तया भगवान् ब्रह्म-रूप-धृक् । नाम-रूप-क्रियाः धत्ते स कर्मा अकर्मकः परः ॥ ३६ ॥
sa vācya vācaka-tayā bhagavān brahma-rūpa-dhṛk . nāma-rūpa-kriyāḥ dhatte sa karmā akarmakaḥ paraḥ .. 36 ..
प्रजापतीन् मनून् देवान् ऋषीन् पितृगणान् पृथक् । सिद्धचारणगन्धर्वान् विद्याध्रासुर गुह्यकान् ॥ ३७ ॥
प्रजापतीन् मनून् देवान् ऋषीन् पितृ-गणान् पृथक् । सिद्ध-चारण-गन्धर्वान् विद्याध्र-असुर गुह्यकान् ॥ ३७ ॥
prajāpatīn manūn devān ṛṣīn pitṛ-gaṇān pṛthak . siddha-cāraṇa-gandharvān vidyādhra-asura guhyakān .. 37 ..
किन्नराप्सरसो नागान् सर्पान् किम्पुरुषोरगान् । मातृरक्षःपिशाचांश्च प्रेतभूतविनायकान् ॥ ३८ ॥
किन्नर-अप्सरसः नागान् सर्पान् किम्पुरुष-उरगान् । मातृ-रक्षः-पिशाचान् च प्रेत-भूत-विनायकान् ॥ ३८ ॥
kinnara-apsarasaḥ nāgān sarpān kimpuruṣa-uragān . mātṛ-rakṣaḥ-piśācān ca preta-bhūta-vināyakān .. 38 ..
कूष्माण्दोन्माद वेतालान् यातुधानान् ग्रहानपि । खगान् मृगान् पशून् वृक्षान् गिरीन् नृप सरीसृपान् ॥ ३९ ॥
कूष्माण्द-उन्माद वेतालान् यातुधानान् ग्रहान् अपि । खगान् मृगान् पशून् वृक्षान् गिरीन् नृप सरीसृपान् ॥ ३९ ॥
kūṣmāṇda-unmāda vetālān yātudhānān grahān api . khagān mṛgān paśūn vṛkṣān girīn nṛpa sarīsṛpān .. 39 ..
द्विविधाश्चतुर्विधा येऽन्ये जल स्थल वनौकसः । कुशला-अकुशला मिश्राः कर्मणां गतयस्त्विमाः ॥ ४० ॥
द्विविधाः चतुर्विधाः ये अन्ये जल-स्थल-वनौकसः । कुशल-अ अकुशलाः मिश्राः कर्मणाम् गतयः तु इमाः ॥ ४० ॥
dvividhāḥ caturvidhāḥ ye anye jala-sthala-vanaukasaḥ . kuśala-a akuśalāḥ miśrāḥ karmaṇām gatayaḥ tu imāḥ .. 40 ..
सत्त्वं रजस्तम इति तिस्रः सुर-नृ-नारकाः । तत्राप्येकैकशो राजन् भिद्यन्ते गतयस्त्रिधा । यद् एकैकतरोऽन्याभ्यां स्वभाव उपहन्यते ॥ ४१ ॥
सत्त्वम् रजः तमः इति तिस्रः सुर-नृ-नारकाः । तत्र अपि एकैकशस् राजन् भिद्यन्ते गतयः त्रिधा । यत् एक-एकतरः अन्याभ्याम् स्वभावः उपहन्यते ॥ ४१ ॥
sattvam rajaḥ tamaḥ iti tisraḥ sura-nṛ-nārakāḥ . tatra api ekaikaśas rājan bhidyante gatayaḥ tridhā . yat eka-ekataraḥ anyābhyām svabhāvaḥ upahanyate .. 41 ..
स एवेदं जगद्धाता भगवान् धर्मरूपधृक् । पुष्णाति स्थापयन् विश्वं तिर्यङ्नरसुरादिभिः ॥ ४२ ॥
सः एव इदम् जगत्-धाता भगवान् धर्म-रूप-धृक् । पुष्णाति स्थापयन् विश्वम् तिर्यक् नर-सुर-आदिभिः ॥ ४२ ॥
saḥ eva idam jagat-dhātā bhagavān dharma-rūpa-dhṛk . puṣṇāti sthāpayan viśvam tiryak nara-sura-ādibhiḥ .. 42 ..
ततः कालाग्निरुद्रात्मा यत्सृष्टं इदमात्मनः । सं नियच्छति तत्काले घनानीकं इवानिलः ॥ ४३ ॥
ततस् कालाग्नि-रुद्र-आत्मा यत् सृष्टम् इदम् आत्मनः । सम् नियच्छति तद्-काले घन-अनीकम् इव अनिलः ॥ ४३ ॥
tatas kālāgni-rudra-ātmā yat sṛṣṭam idam ātmanaḥ . sam niyacchati tad-kāle ghana-anīkam iva anilaḥ .. 43 ..
इत्थं भावेन कथितो भगवान् भगवत्तमः । न इत्थं भावेन हि परं द्रष्टुं अर्हन्ति सूरयः ॥ ४४ ॥
इत्थम् भावेन कथितः भगवान् भगवत्तमः । न इत्थम् भावेन हि परम् द्रष्टुम् अर्हन्ति सूरयः ॥ ४४ ॥
ittham bhāvena kathitaḥ bhagavān bhagavattamaḥ . na ittham bhāvena hi param draṣṭum arhanti sūrayaḥ .. 44 ..
नास्य कर्मणि जन्मादौ परस्य अनुविधीयते । कर्तृत्वप्रतिषेधार्थं माययारोपितं हि तत् ॥ ४५ ॥
न अस्य कर्मणि जन्म-आदौ परस्य अनुविधीयते । कर्तृ-त्व-प्रतिषेध-अर्थम् मायया आरोपितम् हि तत् ॥ ४५ ॥
na asya karmaṇi janma-ādau parasya anuvidhīyate . kartṛ-tva-pratiṣedha-artham māyayā āropitam hi tat .. 45 ..
अयं तु ब्रह्मणः कल्पः सविकल्प उदाहृतः । विधिः साधारणो यत्र सर्गाः प्राकृतवैकृताः ॥ ४६ ॥
अयम् तु ब्रह्मणः कल्पः स विकल्पः उदाहृतः । विधिः साधारणः यत्र सर्गाः प्राकृत-वैकृताः ॥ ४६ ॥
ayam tu brahmaṇaḥ kalpaḥ sa vikalpaḥ udāhṛtaḥ . vidhiḥ sādhāraṇaḥ yatra sargāḥ prākṛta-vaikṛtāḥ .. 46 ..
परिमाणं च कालस्य कल्पलक्षण विग्रहम् । यथा पुरस्ताद् व्याख्यास्ये पाद्मं कल्पमथो श्रृणु ॥ ४७ ॥
परिमाणम् च कालस्य कल्प-लक्षण विग्रहम् । यथा पुरस्तात् व्याख्यास्ये पाद्मम् कल्पम् अथो श्रृणु ॥ ४७ ॥
parimāṇam ca kālasya kalpa-lakṣaṇa vigraham . yathā purastāt vyākhyāsye pādmam kalpam atho śrṛṇu .. 47 ..
शौनक उवाच ।
यदाह नो भवान् सूत क्षत्ता भागवतोत्तमः । चचार तीर्थानि भुवः त्यक्त्वा बंधून् सु-दुस्त्यजान् ॥ ४८ ॥
यत् आह नः भवान् सूत क्षत्ता भागवत-उत्तमः । चचार तीर्थानि भुवः त्यक्त्वा बंधून् सु दुस्त्यजान् ॥ ४८ ॥
yat āha naḥ bhavān sūta kṣattā bhāgavata-uttamaḥ . cacāra tīrthāni bhuvaḥ tyaktvā baṃdhūn su dustyajān .. 48 ..
क्षत्तुः कौशारवेः तस्य संवादोऽध्यात्मसंश्रितः । यद्वा स भगवान् तस्मै पृष्टः तत्त्वं उवाच ह ॥ ४९ ॥
क्षत्तुः कौशारवेः तस्य संवादः अध्यात्म-संश्रितः । यत् वा स भगवान् तस्मै पृष्टः तत्त्वम् उवाच ह ॥ ४९ ॥
kṣattuḥ kauśāraveḥ tasya saṃvādaḥ adhyātma-saṃśritaḥ . yat vā sa bhagavān tasmai pṛṣṭaḥ tattvam uvāca ha .. 49 ..
ब्रूहि नः तद् इदं सौम्य विदुरस्य विचेष्टितम् । बन्धुत्याग निमित्तं च यथैव आगतवान् पुनः ॥ ५० ॥
ब्रूहि नः तत् इदम् सौम्य विदुरस्य विचेष्टितम् । बन्धु-त्याग-निमित्तम् च यथा एव आगतवान् पुनर् ॥ ५० ॥
brūhi naḥ tat idam saumya vidurasya viceṣṭitam . bandhu-tyāga-nimittam ca yathā eva āgatavān punar .. 50 ..
सूत उवाच ।
राज्ञा परीक्षिता पृष्टो यद् अवोचत् महामुनिः । तद्वोऽभिधास्ये श्रृणुत राज्ञः प्रश्नानुसारतः ॥ ५१ ॥
राज्ञा परीक्षिता पृष्टः यत् अवोचत् महा-मुनिः । तत् वः अभिधास्ये श्रृणुत राज्ञः प्रश्न-अनुसारतः ॥ ५१ ॥
rājñā parīkṣitā pṛṣṭaḥ yat avocat mahā-muniḥ . tat vaḥ abhidhāsye śrṛṇuta rājñaḥ praśna-anusārataḥ .. 51 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वितीयस्कंधे दशमोऽध्यायः ॥ १० ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् द्वितीय-स्कंधे दशमः अध्यायः ॥ १० ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām dvitīya-skaṃdhe daśamaḥ adhyāyaḥ .. 10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In