| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच ।
एवमेतन्निगदितं पृष्टवान् यद् भवान् मम । नृणां यन्म्रियमाणानां मनुष्येषु मनीषिणाम् ॥ १ ॥
पृष्टवान् यत् भवान् मम । नृणाम् यत् म्रियमाणानाम् मनुष्येषु मनीषिणाम् ॥ १ ॥
pṛṣṭavān yat bhavān mama . nṛṇām yat mriyamāṇānām manuṣyeṣu manīṣiṇām .. 1 ..
ब्रह्मवर्चसकामस्तु यजेत ब्रह्मणस्पतिम् । इन्द्रं इन्द्रियकामस्तु प्रजाकामः प्रजापतीन् ॥ २ ॥
ब्रह्मवर्चस-कामः तु यजेत ब्रह्मणस्पतिम् । इन्द्रम् इन्द्रिय-कामः तु प्रजा-कामः प्रजापतीन् ॥ २ ॥
brahmavarcasa-kāmaḥ tu yajeta brahmaṇaspatim . indram indriya-kāmaḥ tu prajā-kāmaḥ prajāpatīn .. 2 ..
देवीं मायां तु श्रीकामः तेजस्कामो विभावसुम् । वसुकामो वसून् रुद्रान् वीर्यकामोऽथ वीर्यवान् ॥ ३ ॥
देवीम् मायाम् तु श्री-कामः तेजस्कामः विभावसुम् । वसु-कामः वसून् रुद्रान् वीर्य-कामः अथ वीर्यवान् ॥ ३ ॥
devīm māyām tu śrī-kāmaḥ tejaskāmaḥ vibhāvasum . vasu-kāmaḥ vasūn rudrān vīrya-kāmaḥ atha vīryavān .. 3 ..
अन्नाद्यकामस्तु अदितिं स्वर्गकामोऽदितेः सुतान् । विश्वान् देवान् राज्यकामः साध्यान् संसाधको विशाम् ॥ ४ ॥
अन्नाद्य-कामः तु अदितिम् स्वर्ग-कामः अदितेः सुतान् । विश्वान् देवान् राज्य-कामः साध्यान् संसाधकः विशाम् ॥ ४ ॥
annādya-kāmaḥ tu aditim svarga-kāmaḥ aditeḥ sutān . viśvān devān rājya-kāmaḥ sādhyān saṃsādhakaḥ viśām .. 4 ..
आयुष्कामोऽश्विनौ देवौ पुष्टिकाम इलां यजेत् । प्रतिष्ठाकामः पुरुषो रोदसी लोकमातरौ ॥ ५ ॥
आयुष्कामः अश्विनौ देवौ पुष्टि-कामः इलाम् यजेत् । प्रतिष्ठा-कामः पुरुषः रोदसी लोक-मातरौ ॥ ५ ॥
āyuṣkāmaḥ aśvinau devau puṣṭi-kāmaḥ ilām yajet . pratiṣṭhā-kāmaḥ puruṣaḥ rodasī loka-mātarau .. 5 ..
रूपाभिकामो गन्धर्वान् स्त्रीकामोऽप्सर उर्वशीम् । आधिपत्यकामः सर्वेषां यजेत परमेष्ठिनम् ॥ ६ ॥
रूप-अभिकामः गन्धर्वान् स्त्री-कामः अप्सरः उर्वशीम् । आधिपत्य-कामः सर्वेषाम् यजेत परमेष्ठिनम् ॥ ६ ॥
rūpa-abhikāmaḥ gandharvān strī-kāmaḥ apsaraḥ urvaśīm . ādhipatya-kāmaḥ sarveṣām yajeta parameṣṭhinam .. 6 ..
यज्ञं यजेत् यशस्कामः कोशकामः प्रचेतसम् । विद्याकामस्तु गिरिशं दाम्पत्यार्थ उमां सतीम् ॥ ७ ॥
यज्ञम् यजेत् यशस्कामः कोश-कामः प्रचेतसम् । विद्या-कामः तु गिरिशम् दाम्पत्य-अर्थे उमाम् सतीम् ॥ ७ ॥
yajñam yajet yaśaskāmaḥ kośa-kāmaḥ pracetasam . vidyā-kāmaḥ tu giriśam dāmpatya-arthe umām satīm .. 7 ..
धर्मार्थ उत्तमश्लोकं तन्तुं तन्वन् पितॄन् यजेत् । रक्षाकामः पुण्यजनान् ओजस्कामो मरुद्गणान् ॥ ८ ॥
धर्म-अर्थे उत्तमश्लोकम् तन्तुम् तन्वन् पितॄन् यजेत् । रक्षा-कामः पुण्यजनान् ओजस्कामः मरुत्-गणान् ॥ ८ ॥
dharma-arthe uttamaślokam tantum tanvan pitṝn yajet . rakṣā-kāmaḥ puṇyajanān ojaskāmaḥ marut-gaṇān .. 8 ..
राज्यकामो मनून् देवान् निर्ऋतिं त्वभिचरन् यजेत् । कामकामो यजेत्सोमं अकामः पुरुषं परम् ॥ ९ ॥
राज्य-कामः मनून् देवान् निरृतिम् तु अभिचरन् यजेत् । काम-कामः यजेत् सोमम् अकामः पुरुषम् परम् ॥ ९ ॥
rājya-kāmaḥ manūn devān nirṛtim tu abhicaran yajet . kāma-kāmaḥ yajet somam akāmaḥ puruṣam param .. 9 ..
अकामः सर्वकामो वा मोक्षकाम उदारधीः । तीव्रेण भक्तियोगेन यजेत पुरुषं परम् ॥ १० ॥
अकामः सर्व-कामः वा मोक्ष-कामः उदार-धीः । तीव्रेण भक्ति-योगेन यजेत पुरुषम् परम् ॥ १० ॥
akāmaḥ sarva-kāmaḥ vā mokṣa-kāmaḥ udāra-dhīḥ . tīvreṇa bhakti-yogena yajeta puruṣam param .. 10 ..
एतावानेव यजतां इह निःश्रेयसोदयः । भगवत्यचलो भावो यद्भागवतसङ्गतः ॥ ११ ॥
एतावान् एव इह निःश्रेयस-उदयः । भगवति अचलः भावः यत् भागवत-सङ्गतः ॥ ११ ॥
etāvān eva iha niḥśreyasa-udayaḥ . bhagavati acalaḥ bhāvaḥ yat bhāgavata-saṅgataḥ .. 11 ..
ज्ञानं यदाप्रतिनिवृत्तगुणोर्मिचक्रम् । आत्मप्रसाद उत यत्र गुणेष्वसङ्गः । कैवल्यसम्मतपथस्त्वथ भक्तियोगः । को निर्वृतो हरिकथासु रतिं न कुर्यात् ॥ १२ ॥
ज्ञानम् यदा अ प्रतिनिवृत्त-गुण-ऊर्मि-चक्रम् । आत्म-प्रसादः उत यत्र गुणेषु असङ्गः । कैवल्य-सम्मत-पथः तु अथ भक्ति-योगः । कः निर्वृतः हरि-कथासु रतिम् न कुर्यात् ॥ १२ ॥
jñānam yadā a pratinivṛtta-guṇa-ūrmi-cakram . ātma-prasādaḥ uta yatra guṇeṣu asaṅgaḥ . kaivalya-sammata-pathaḥ tu atha bhakti-yogaḥ . kaḥ nirvṛtaḥ hari-kathāsu ratim na kuryāt .. 12 ..
शौनक उवाच ।
इत्यभिव्याहृतं राजा निशम्य भरतर्षभः । किमन्यत् पृष्टवान् भूयो वैयासकिं ऋषिं कविम् ॥ १३ ॥
इति अभिव्याहृतम् राजा निशम्य भरत-ऋषभः । किम् अन्यत् पृष्टवान् भूयस् वैयासकिम् ऋषिम् कविम् ॥ १३ ॥
iti abhivyāhṛtam rājā niśamya bharata-ṛṣabhaḥ . kim anyat pṛṣṭavān bhūyas vaiyāsakim ṛṣim kavim .. 13 ..
एतद् शुश्रूषतां विद्वन् सूत नोऽर्हसि भाषितुम् । कथा हरिकथोदर्काः सतां स्युः सदसि ध्रुवम् ॥ १४ ॥
एतत् शुश्रूषताम् विद्वन् सूत नः अर्हसि भाषितुम् । कथाः हरि-कथा-उदर्काः सताम् स्युः सदसि ध्रुवम् ॥ १४ ॥
etat śuśrūṣatām vidvan sūta naḥ arhasi bhāṣitum . kathāḥ hari-kathā-udarkāḥ satām syuḥ sadasi dhruvam .. 14 ..
स वै भागवतो राजा पाण्डवेयो महारथः । बालक्रीडनकैः क्रीडन् कृष्णक्रीडां य आददे ॥ १५ ॥
स वै भागवतः राजा पाण्डवेयः महा-रथः । बाल-क्रीडनकैः क्रीडन् कृष्ण-क्रीडाम् यः आददे ॥ १५ ॥
sa vai bhāgavataḥ rājā pāṇḍaveyaḥ mahā-rathaḥ . bāla-krīḍanakaiḥ krīḍan kṛṣṇa-krīḍām yaḥ ādade .. 15 ..
वैयासकिश्च भगवान् वासुदेवपरायणः । उरुगायगुणोदाराः सतां स्युर्हि समागमे ॥ १६ ॥
वैयासकिः च भगवान् वासुदेव-परायणः । उरुगाय-गुण-उदाराः सताम् स्युः हि समागमे ॥ १६ ॥
vaiyāsakiḥ ca bhagavān vāsudeva-parāyaṇaḥ . urugāya-guṇa-udārāḥ satām syuḥ hi samāgame .. 16 ..
आयुर्हरति वै पुंसां उद्यन्नस्तं च यन्नसौ । तस्यर्ते यत्क्षणो नीत उत्तमश्लोकवार्तया ॥ १७ ॥
आयुः हरति वै पुंसाम् उद्यन् अस्तम् च । तस्य ऋते यत् क्षणः नीतः उत्तमश्लोक-वार्तया ॥ १७ ॥
āyuḥ harati vai puṃsām udyan astam ca . tasya ṛte yat kṣaṇaḥ nītaḥ uttamaśloka-vārtayā .. 17 ..
तरवः किं न जीवन्ति भस्त्राः किं न श्वसन्त्युत । न खादन्ति न मेहन्ति किं ग्रामपशवोऽपरे ॥ १८ ॥
तरवः किम् न जीवन्ति भस्त्राः किम् न श्वसन्ति उत । न खादन्ति न मेहन्ति किम् ग्राम-पशवः अपरे ॥ १८ ॥
taravaḥ kim na jīvanti bhastrāḥ kim na śvasanti uta . na khādanti na mehanti kim grāma-paśavaḥ apare .. 18 ..
श्वविड्वराहोष्ट्रखरैः संस्तुतः पुरुषः पशुः । न यत्कर्णपथोपेतो जातु नाम गदाग्रजः ॥ १९ ॥
श्व-विड्वराह-उष्ट्र-खरैः संस्तुतः पुरुषः पशुः । न यत् कर्ण-पथ-उपेतः जातु नाम गदाग्रजः ॥ १९ ॥
śva-viḍvarāha-uṣṭra-kharaiḥ saṃstutaḥ puruṣaḥ paśuḥ . na yat karṇa-patha-upetaḥ jātu nāma gadāgrajaḥ .. 19 ..
बिले बतोरुक्रमविक्रमान् ये न शृण्वतः कर्णपुटे नरस्य । जिह्वासती दार्दुरिकेव सूत न चोपगायत्युरुगायगाथाः ॥ २० ॥
बिले बत उरुक्रम-विक्रमान् ये न शृण्वतः कर्ण-पुटे नरस्य । जिह्वा-सती दार्दुरिका इव सूत न च उपगायति उरुगाय-गाथाः ॥ २० ॥
bile bata urukrama-vikramān ye na śṛṇvataḥ karṇa-puṭe narasya . jihvā-satī dārdurikā iva sūta na ca upagāyati urugāya-gāthāḥ .. 20 ..
भारः परं पट्टकिरीटजुष्टं अप्युत्तमाङ्गं न नमेन् मुकुंदम् । शावौ करौ नो कुरुते सपर्यां हरेर्लसत्काञ्चनकङ्कणौ वा ॥ २१ ॥
भारः परम् पट्ट-किरीट-जुष्टम् अपि उत्तमाङ्गम् न नमेत् मुकुन्दम् । शावौ करौ नो कुरुते सपर्याम् हरेः लसत्-काञ्चन-कङ्कणौ वा ॥ २१ ॥
bhāraḥ param paṭṭa-kirīṭa-juṣṭam api uttamāṅgam na namet mukundam . śāvau karau no kurute saparyām hareḥ lasat-kāñcana-kaṅkaṇau vā .. 21 ..
बर्हायिते ते नयने नराणां लिङ्गानि विष्णोर्न निरीक्षतो ये । पादौ नृणां तौ द्रुमजन्मभाजौ क्षेत्राणि नानुव्रजतो हरेर्यौ ॥ २२ ॥
बर्हायिते ते नयने नराणाम् लिङ्गानि विष्णोः न निरीक्षतः ये । पादौ नृणाम् तौ द्रुम-जन्म-भाजौ क्षेत्राणि न अनुव्रजतः हरेः यौ ॥ २२ ॥
barhāyite te nayane narāṇām liṅgāni viṣṇoḥ na nirīkṣataḥ ye . pādau nṛṇām tau druma-janma-bhājau kṣetrāṇi na anuvrajataḥ hareḥ yau .. 22 ..
जीवन् शवो भागवताङ्घ्रिरेणुं न जातु मर्त्योऽभिलभेत यस्तु । श्रीविष्णुपद्या मनुजस्तुलस्याः श्वसन् शवो यस्तु न वेद गन्धम् ॥ २३ ॥
जीवन् शवः भागवत-अङ्घ्रि-रेणुम् न जातु मर्त्यः अभिलभेत यः तु । श्रीविष्णुपद्या मनुजः तुलस्याः श्वसन् शवः यः तु न वेद गन्धम् ॥ २३ ॥
jīvan śavaḥ bhāgavata-aṅghri-reṇum na jātu martyaḥ abhilabheta yaḥ tu . śrīviṣṇupadyā manujaḥ tulasyāḥ śvasan śavaḥ yaḥ tu na veda gandham .. 23 ..
तदश्मसारं हृदयं बतेदं यद्गृह्यमाणैर्हरिनामधेयैः । न विक्रियेताथ यदा विकारो नेत्रे जलं गात्ररुहेषु हर्षः ॥ २४ ॥
तत् अश्मसारम् हृदयम् बत इदम् यत् गृह्यमाणैः हरि-नामधेयैः । न विक्रियेत अथ यदा विकारः नेत्रे जलम् गात्ररुहेषु हर्षः ॥ २४ ॥
tat aśmasāram hṛdayam bata idam yat gṛhyamāṇaiḥ hari-nāmadheyaiḥ . na vikriyeta atha yadā vikāraḥ netre jalam gātraruheṣu harṣaḥ .. 24 ..
अथाभिधेह्यङ्ग मनोऽनुकूलं प्रभाषसे भागवतप्रधानः । यदाह वैयासकिरात्मविद्या विशारदो नृपतिं साधु पृष्टः ॥ २५ ॥
अथ अभिधेहि अङ्ग मनः-अनुकूलम् प्रभाषसे भागवत-प्रधानः । यत् आह वैयासकिः आत्म-विद्या विशारदः नृपतिम् साधु पृष्टः ॥ २५ ॥
atha abhidhehi aṅga manaḥ-anukūlam prabhāṣase bhāgavata-pradhānaḥ . yat āha vaiyāsakiḥ ātma-vidyā viśāradaḥ nṛpatim sādhu pṛṣṭaḥ .. 25 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वितीयस्कंधे तृतीयोऽध्यायः ॥ ३ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् द्वितीय-स्कंधे तृतीयः अध्यायः ॥ ३ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām dvitīya-skaṃdhe tṛtīyaḥ adhyāyaḥ .. 3 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In