| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

सूत उवाच ।
वैयासकेरिति वचः तत्त्वनिश्चयमात्मनः । उपधार्य मतिं कृष्णे औत्तरेयः सतीं व्यधात् ॥ १ ॥
वैयासकेः इति वचः तत्त्व-निश्चयम् आत्मनः । उपधार्य मतिम् कृष्णे औत्तरेयः सतीम् व्यधात् ॥ १ ॥
vaiyāsakeḥ iti vacaḥ tattva-niścayam ātmanaḥ . upadhārya matim kṛṣṇe auttareyaḥ satīm vyadhāt .. 1 ..
आत्मजायासुतागार पशुद्रविणबन्धुषु । राज्ये चाविकले नित्यं विरूढां ममतां जहौ ॥ २ ॥
आत्म-जाया-सुत-आगार-पशु-द्रविण-बन्धुषु । राज्ये च अविकले नित्यम् विरूढाम् ममताम् जहौ ॥ २ ॥
ātma-jāyā-suta-āgāra-paśu-draviṇa-bandhuṣu . rājye ca avikale nityam virūḍhām mamatām jahau .. 2 ..
पप्रच्छ चेममेवार्थं यन्मां पृच्छथ सत्तमाः । कृष्णानुभावश्रवणे श्रद्दधानो महामनाः ॥ ३ ॥
पप्रच्छ च इमम् एव अर्थम् यत् माम् पृच्छथ सत्तमाः । कृष्ण-अनुभाव-श्रवणे श्रद्दधानः महामनाः ॥ ३ ॥
papraccha ca imam eva artham yat mām pṛcchatha sattamāḥ . kṛṣṇa-anubhāva-śravaṇe śraddadhānaḥ mahāmanāḥ .. 3 ..
संस्थां विज्ञाय सन्न्यस्य कर्म त्रैवर्गिकं च यत् । वासुदेवे भगवति आत्मभावं दृढं गतः ॥ ४ ॥
संस्थाम् विज्ञाय सन्न्यस्य कर्म त्रैवर्गिकम् च यत् । वासुदेवे भगवति आत्म-भावम् दृढम् गतः ॥ ४ ॥
saṃsthām vijñāya sannyasya karma traivargikam ca yat . vāsudeve bhagavati ātma-bhāvam dṛḍham gataḥ .. 4 ..
राजोवाच ॥
समीचीनं वचो ब्रह्मन् सर्वज्ञस्य तवानघ । तमो विशीर्यते मह्यं हरेः कथयतः कथाम् ॥ ५ ॥
समीचीनम् वचः ब्रह्मन् सर्व-ज्ञस्य तव अनघ । तमः विशीर्यते मह्यम् हरेः कथयतः कथाम् ॥ ५ ॥
samīcīnam vacaḥ brahman sarva-jñasya tava anagha . tamaḥ viśīryate mahyam hareḥ kathayataḥ kathām .. 5 ..
भूय एव विवित्सामि भगवान् आत्ममायया । यथेदं सृजते विश्वं दुर्विभाव्यमधीश्वरैः ॥ ६ ॥
भूयस् एव विवित्सामि भगवान् आत्म-मायया । यथा इदम् सृजते विश्वम् दुर्विभाव्यम् अधीश्वरैः ॥ ६ ॥
bhūyas eva vivitsāmi bhagavān ātma-māyayā . yathā idam sṛjate viśvam durvibhāvyam adhīśvaraiḥ .. 6 ..
यथा गोपायति विभुः यथा संयच्छते पुनः । यां यां शक्तिमुपाश्रित्य पुरुशक्तिः परः पुमान् । आत्मानं क्रीडयन्क्रीडन् करोति विकरोति च ॥ ७ ॥
यथा गोपायति विभुः यथा संयच्छते पुनर् । याम् याम् शक्तिम् उपाश्रित्य पुरु-शक्तिः परः पुमान् । आत्मानम् क्रीडयन् क्रीडन् करोति विकरोति च ॥ ७ ॥
yathā gopāyati vibhuḥ yathā saṃyacchate punar . yām yām śaktim upāśritya puru-śaktiḥ paraḥ pumān . ātmānam krīḍayan krīḍan karoti vikaroti ca .. 7 ..
नूनं भगवतो ब्रह्मन् हरेरद्भुतकर्मणः । दुर्विभाव्यमिवाभाति कविभिश्चापि चेष्टितम् ॥ ८ ॥
नूनम् भगवतः ब्रह्मन् हरेः अद्भुत-कर्मणः । दुर्विभाव्यम् इव आभाति कविभिः च अपि चेष्टितम् ॥ ८ ॥
nūnam bhagavataḥ brahman hareḥ adbhuta-karmaṇaḥ . durvibhāvyam iva ābhāti kavibhiḥ ca api ceṣṭitam .. 8 ..
यथा गुणांस्तु प्रकृतेः युगपत् क्रमशोऽपि वा । बिभर्ति भूरिशस्त्वेकः कुर्वन् कर्माणि जन्मभिः ॥ ९ ॥
यथा गुणान् तु प्रकृतेः युगपद् क्रमशस् अपि वा । बिभर्ति भूरिशस् तु एकः कुर्वन् कर्माणि जन्मभिः ॥ ९ ॥
yathā guṇān tu prakṛteḥ yugapad kramaśas api vā . bibharti bhūriśas tu ekaḥ kurvan karmāṇi janmabhiḥ .. 9 ..
विचिकित्सितमेतन्मे ब्रवीतु भगवान् यथा । शाब्दे ब्रह्मणि निष्णातः परस्मिंश्च भवान्खलु ॥ १० ॥
विचिकित्सितम् एतत् मे ब्रवीतु भगवान् यथा । शाब्दे ब्रह्मणि निष्णातः परस्मिन् च भवान् खलु ॥ १० ॥
vicikitsitam etat me bravītu bhagavān yathā . śābde brahmaṇi niṣṇātaḥ parasmin ca bhavān khalu .. 10 ..
सूत उवाच ।
इत्युपामंत्रितो राज्ञा गुणानुकथने हरेः । हृषीकेशं अनुस्मृत्य प्रतिवक्तुं प्रचक्रमे ॥ ११ ॥
इति उपामंत्रितः राज्ञा गुण-अनुकथने हरेः । हृषीकेशम् अनुस्मृत्य प्रतिवक्तुम् प्रचक्रमे ॥ ११ ॥
iti upāmaṃtritaḥ rājñā guṇa-anukathane hareḥ . hṛṣīkeśam anusmṛtya prativaktum pracakrame .. 11 ..
श्रीशुक उवाच ।
नमः परस्मै पुरुषाय भूयसे सदुद्भवस्थाननिरोधलीलया । गृहीतशक्तित्रितयाय देहिनां अंतर्भवायानुपलक्ष्यवर्त्मने ॥ १२ ॥
नमः परस्मै पुरुषाय भूयसे सत्-उद्भव-स्थान-निरोध-लीलया । गृहीत-शक्ति-त्रितयाय देहिनाम् अंतर्भवाय अनुपलक्ष्य-वर्त्मने ॥ १२ ॥
namaḥ parasmai puruṣāya bhūyase sat-udbhava-sthāna-nirodha-līlayā . gṛhīta-śakti-tritayāya dehinām aṃtarbhavāya anupalakṣya-vartmane .. 12 ..
भूयो नमः सद्वृजिनच्छिदेऽसतां असंभवायाखिलसत्त्वमूर्तये । पुंसां पुनः पारमहंस्य आश्रमे व्यवस्थितानामनुमृग्यदाशुषे ॥ १३ ॥
भूयस् नमः सत्-वृजिन-छिदे असताम् असंभवाय अखिल-सत्त्व-मूर्तये । पुंसाम् पुनर् पारमहंस्ये आश्रमे व्यवस्थितानाम् अनुमृग्य दाशुषे ॥ १३ ॥
bhūyas namaḥ sat-vṛjina-chide asatām asaṃbhavāya akhila-sattva-mūrtaye . puṃsām punar pāramahaṃsye āśrame vyavasthitānām anumṛgya dāśuṣe .. 13 ..
नमो नमस्तेऽस्त्वृषभाय सात्वतां विदूरकाष्ठाय मुहुः कुयोगिनाम् । निरस्तसाम्यातिशयेन राधसा स्वधामनि ब्रह्मणि रंस्यते नमः ॥ १४ ॥
नमः नमः ते अस्तु ऋषभाय सात्वताम् विदूर-काष्ठाय मुहुर् कुयोगिनाम् । निरस्त-साम्य-अतिशयेन राधसा स्व-धामनि ब्रह्मणि रंस्यते नमः ॥ १४ ॥
namaḥ namaḥ te astu ṛṣabhāya sātvatām vidūra-kāṣṭhāya muhur kuyoginām . nirasta-sāmya-atiśayena rādhasā sva-dhāmani brahmaṇi raṃsyate namaḥ .. 14 ..
यत्कीर्तनं यत्स्मरणं यदीक्षणं यद् वंदनं यच्छ्रवणं यदर्हणम् । लोकस्य सद्यो विधुनोति कल्मषं तस्मै सुभद्रश्रवसे नमो नमः ॥ १५ ॥
यत् कीर्तनम् यद्-स्मरणम् यद्-ईक्षणम् यत् वंदनम् यद्-श्रवणम् यद्-अर्हणम् । लोकस्य सद्यस् विधुनोति कल्मषम् तस्मै सु भद्र-श्रवसे नमः नमः ॥ १५ ॥
yat kīrtanam yad-smaraṇam yad-īkṣaṇam yat vaṃdanam yad-śravaṇam yad-arhaṇam . lokasya sadyas vidhunoti kalmaṣam tasmai su bhadra-śravase namaḥ namaḥ .. 15 ..
विचक्षणा यच्चरणोपसादनात् सङ्गं व्युदस्योभयतोऽन्तरात्मनः । विन्दन्ति हि ब्रह्मगतिं गतक्लमाः तस्मै सुभद्रश्रवसे नमो नमः ॥ १६ ॥
विचक्षणाः यद्-चरण-उपसादनात् सङ्गम् व्युदस्य उभयतस् अन्तरात्मनः । विन्दन्ति हि ब्रह्म-गतिम् गत-क्लमाः तस्मै सु भद्र-श्रवसे नमः नमः ॥ १६ ॥
vicakṣaṇāḥ yad-caraṇa-upasādanāt saṅgam vyudasya ubhayatas antarātmanaḥ . vindanti hi brahma-gatim gata-klamāḥ tasmai su bhadra-śravase namaḥ namaḥ .. 16 ..
तपस्विनो दानपरा यशस्विनो मनस्विनो मंत्रविदः सुमङ्गलाः । क्षेमं न विन्दन्ति विना यदर्पणं तस्मै सुभद्रश्रवसे नमो नमः ॥ १७ ॥
तपस्विनः दान-पराः यशस्विनः मनस्विनः मंत्र-विदः सु मङ्गलाः । क्षेमम् न विन्दन्ति विना यद्-अर्पणम् तस्मै सु भद्र-श्रवसे नमः नमः ॥ १७ ॥
tapasvinaḥ dāna-parāḥ yaśasvinaḥ manasvinaḥ maṃtra-vidaḥ su maṅgalāḥ . kṣemam na vindanti vinā yad-arpaṇam tasmai su bhadra-śravase namaḥ namaḥ .. 17 ..
किरातहूणान्ध्रपुलिन्दपुल्कशा आभीरकङ्का यवनाः खसादयः । येऽन्ये च पापा यदपाश्रयाश्रयाः शुध्यन्ति तस्मै प्रभविष्णवे नमः ॥ १८ ॥
किरात-हूण-आन्ध्र-पुलिन्द-पुल्कशाः आभीर-कङ्काः यवनाः खस-आदयः । ये अन्ये च पापाः यद्-अपाश्रय-आश्रयाः शुध्यन्ति तस्मै प्रभविष्णवे नमः ॥ १८ ॥
kirāta-hūṇa-āndhra-pulinda-pulkaśāḥ ābhīra-kaṅkāḥ yavanāḥ khasa-ādayaḥ . ye anye ca pāpāḥ yad-apāśraya-āśrayāḥ śudhyanti tasmai prabhaviṣṇave namaḥ .. 18 ..
स एष आत्मात्मवतामधीश्वरः त्रयीमयो धर्ममयस्तपोमयः । गतव्यलीकैरजशङ्करादिभिः वितर्क्यलिङ्गो भगवान्प्रसीदताम् ॥ १९ ॥
सः एषः आत्मा आत्मवताम् अधीश्वरः त्रयी-मयः धर्म-मयः तपः-मयः । गत-व्यलीकैः अज-शङ्कर-आदिभिः वितर्क्य-लिङ्गः भगवान् प्रसीदताम् ॥ १९ ॥
saḥ eṣaḥ ātmā ātmavatām adhīśvaraḥ trayī-mayaḥ dharma-mayaḥ tapaḥ-mayaḥ . gata-vyalīkaiḥ aja-śaṅkara-ādibhiḥ vitarkya-liṅgaḥ bhagavān prasīdatām .. 19 ..
श्रियः पतिर्यज्ञपतिः प्रजापतिः धियां पतिर्लोकपतिर्धरापतिः । पतिर्गतिश्चान्धकवृष्णिसात्वतां प्रसीदतां मे भगवान् सतां पतिः ॥ २० ॥
श्रियः पतिः यज्ञपतिः प्रजापतिः धियाम् पतिः लोकपतिः धरापतिः । पतिः गतिः च अन्धक-वृष्णि-सात्वताम् प्रसीदताम् मे भगवान् सताम् पतिः ॥ २० ॥
śriyaḥ patiḥ yajñapatiḥ prajāpatiḥ dhiyām patiḥ lokapatiḥ dharāpatiḥ . patiḥ gatiḥ ca andhaka-vṛṣṇi-sātvatām prasīdatām me bhagavān satām patiḥ .. 20 ..
यदङ्घ्र्यभिध्यानसमाधिधौतया धियानुपश्यन्ति हि तत्त्वमात्मनः । वदन्ति चैतत् कवयो यथारुचं स मे मुकुंदो भगवान् प्रसीदताम् ॥ २१ ॥
यत् अङ्घ्रि-अभिध्यान-समाधि-धौतया धिया अनुपश्यन्ति हि तत्त्वम् आत्मनः । वदन्ति च एतत् कवयः यथारुचम् स मे मुकुंदः भगवान् प्रसीदताम् ॥ २१ ॥
yat aṅghri-abhidhyāna-samādhi-dhautayā dhiyā anupaśyanti hi tattvam ātmanaḥ . vadanti ca etat kavayaḥ yathārucam sa me mukuṃdaḥ bhagavān prasīdatām .. 21 ..
प्रचोदिता येन पुरा सरस्वती वितन्वताऽजस्य सतीं स्मृतिं हृदि । स्वलक्षणा प्रादुरभूत् किलास्यतः स मे ऋषीणां ऋषभः प्रसीदताम् ॥ २२ ॥
प्रचोदिता येन पुरा सरस्वती वितन्वता अजस्य सतीम् स्मृतिम् हृदि । स्व-लक्षणा प्रादुरभूत् किलास्यतः स मे ऋषीणाम् ऋषभः प्रसीदताम् ॥ २२ ॥
pracoditā yena purā sarasvatī vitanvatā ajasya satīm smṛtim hṛdi . sva-lakṣaṇā prādurabhūt kilāsyataḥ sa me ṛṣīṇām ṛṣabhaḥ prasīdatām .. 22 ..
भूतैर्महद्भिर्य इमाः पुरो विभुः निर्माय शेते यदमूषु पूरुषः । भुङ्क्ते गुणान् षोडश षोडशात्मकः सोऽलङ्कृषीष्ट भगवान् वचांसि मे ॥ २३ ॥
भूतैः महद्भिः यः इमाः पुरस् विभुः निर्माय शेते यत् अमूषु पूरुषः । भुङ्क्ते गुणान् षोडश षोडश-आत्मकः सः भगवान् वचांसि मे ॥ २३ ॥
bhūtaiḥ mahadbhiḥ yaḥ imāḥ puras vibhuḥ nirmāya śete yat amūṣu pūruṣaḥ . bhuṅkte guṇān ṣoḍaśa ṣoḍaśa-ātmakaḥ saḥ bhagavān vacāṃsi me .. 23 ..
नमस्तस्मै भगवते वासुदेवाय वेधसे । पपुर्ज्ञानमयं सौम्या यन्मुखाम्बुरुहासवम् ॥ २४ ॥
नमः तस्मै भगवते वासुदेवाय वेधसे । पपुः ज्ञान-मयम् सौम्याः यद्-मुख-अम्बुरुह-आसवम् ॥ २४ ॥
namaḥ tasmai bhagavate vāsudevāya vedhase . papuḥ jñāna-mayam saumyāḥ yad-mukha-amburuha-āsavam .. 24 ..
एतद् एवात्मभू राजन् नारदाय विपृच्छते । वेदगर्भोऽभ्यधात् साक्षाद् यदाह हरिरात्मनः ॥ २५ ॥
राजन् नारदाय विपृच्छते । वेदगर्भः अभ्यधात् साक्षात् यत् आह हरिः आत्मनः ॥ २५ ॥
rājan nāradāya vipṛcchate . vedagarbhaḥ abhyadhāt sākṣāt yat āha hariḥ ātmanaḥ .. 25 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वितीयस्कंधे चतुर्थोऽध्यायः ॥ ४ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् द्वितीय-स्कंधे चतुर्थः अध्यायः ॥ ४ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām dvitīya-skaṃdhe caturthaḥ adhyāyaḥ .. 4 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In