| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

नारद उवाच ।
देवदेव नमस्तेऽस्तु भूतभावन पूर्वज । तद्विजानीहि यद् ज्ञानं आत्मतत्त्वनिदर्शनम् ॥ १ ॥
देवदेव नमः ते अस्तु भूतभावन पूर्वज । तत् विजानीहि यत् ज्ञानम् आत्म-तत्त्व-निदर्शनम् ॥ १ ॥
devadeva namaḥ te astu bhūtabhāvana pūrvaja . tat vijānīhi yat jñānam ātma-tattva-nidarśanam .. 1 ..
यद् रूपं यद् अधिष्ठानं यतः सृष्टमिदं प्रभो । यत्संस्थं यत्परं यच्च तत् तत्त्वं वद तत्त्वतः ॥ २ ॥
यत् रूपम् यत् अधिष्ठानम् यतस् सृष्टम् इदम् प्रभो । यद्-संस्थम् यत् परम् यत् च तत् तत्त्वम् वद तत्त्वतः ॥ २ ॥
yat rūpam yat adhiṣṭhānam yatas sṛṣṭam idam prabho . yad-saṃstham yat param yat ca tat tattvam vada tattvataḥ .. 2 ..
सर्वं ह्येतद् भवान् वेद भूतभव्यभवत्प्रभुः । करामलकवद् विश्वं विज्ञानावसितं तव ॥ ३ ॥
सर्वम् हि एतत् भवान् वेद भूत-भव्य-भवत्-प्रभुः । कर-आमलक-वत् विश्वम् विज्ञान-अवसितम् तव ॥ ३ ॥
sarvam hi etat bhavān veda bhūta-bhavya-bhavat-prabhuḥ . kara-āmalaka-vat viśvam vijñāna-avasitam tava .. 3 ..
यद् विज्ञानो यद् आधारो यत् परस्त्वं यदात्मकः । एकः सृजसि भूतानि भूतैरेवात्ममायया ॥ ४ ॥
यत् विज्ञानः यत् आधारः यत् परः त्वम् यद्-आत्मकः । एकः सृजसि भूतानि भूतैः एव आत्म-मायया ॥ ४ ॥
yat vijñānaḥ yat ādhāraḥ yat paraḥ tvam yad-ātmakaḥ . ekaḥ sṛjasi bhūtāni bhūtaiḥ eva ātma-māyayā .. 4 ..
आत्मन् भावयसे तानि न पराभावयन् स्वयम् । आत्मशक्तिमवष्टभ्य ऊर्णनाभिरिवाक्लमः ॥ ५ ॥
आत्मन् भावयसे तानि न पराभावयन् स्वयम् । आत्म-शक्तिम् अवष्टभ्य ऊर्णनाभिः इव अक्लमः ॥ ५ ॥
ātman bhāvayase tāni na parābhāvayan svayam . ātma-śaktim avaṣṭabhya ūrṇanābhiḥ iva aklamaḥ .. 5 ..
नाहं वेद परं ह्यस्मिन् नापरं न समं विभो । नामरूपगुणैर्भाव्यं सदसत् किञ्चिदन्यतः ॥ ६ ॥
न अहम् वेद परम् हि अस्मिन् न अपरम् न समम् विभो । नाम-रूप-गुणैः भाव्यम् सत्-असत् किञ्चिद् अन्यतस् ॥ ६ ॥
na aham veda param hi asmin na aparam na samam vibho . nāma-rūpa-guṇaiḥ bhāvyam sat-asat kiñcid anyatas .. 6 ..
स भवानचरद् घोरं यत्तपः सुसमाहितः । तेन खेदयसे नस्त्वं पराशङ्कां च यच्छसि ॥ ७ ॥
स भवान् अचरत् घोरम् यत् तपः सु समाहितः । तेन खेदयसे नः त्वम् पर-आशङ्काम् च यच्छसि ॥ ७ ॥
sa bhavān acarat ghoram yat tapaḥ su samāhitaḥ . tena khedayase naḥ tvam para-āśaṅkām ca yacchasi .. 7 ..
एतन्मे पृच्छतः सर्वं सर्वज्ञ सकलेश्वर । विजानीहि यथैवेदं अहं बुध्येऽनुशासितः ॥ ८ ॥
एतत् मे पृच्छतः सर्वम् सर्वज्ञ सकल-ईश्वर । विजानीहि यथा एवा इदम् अहम् बुध्ये अनुशासितः ॥ ८ ॥
etat me pṛcchataḥ sarvam sarvajña sakala-īśvara . vijānīhi yathā evā idam aham budhye anuśāsitaḥ .. 8 ..
ब्रह्मोवाच ॥
सम्यक् कारुणिकस्येदं वत्स ते विचिकित्सितम् । यदहं चोदितः सौम्य भगवद्वीर्यदर्शने ॥ ९ ॥
सम्यक् कारुणिकस्य इदम् वत्स ते विचिकित्सितम् । यत् अहम् चोदितः सौम्य भगवत्-वीर्य-दर्शने ॥ ९ ॥
samyak kāruṇikasya idam vatsa te vicikitsitam . yat aham coditaḥ saumya bhagavat-vīrya-darśane .. 9 ..
नानृतं तव तच्चापि यथा मां प्रब्रवीषि भोः । अविज्ञाय परं मत्त एतावत्त्वं यतो हि मे ॥ १० ॥
न अनृतम् तव तत् च अपि यथा माम् प्रब्रवीषि भोः । अ विज्ञाय परम् मत्तः एतावत् त्वम् यतस् हि मे ॥ १० ॥
na anṛtam tava tat ca api yathā mām prabravīṣi bhoḥ . a vijñāya param mattaḥ etāvat tvam yatas hi me .. 10 ..
येन स्वरोचिषा विश्वं रोचितं रोचयाम्यहम् । यथार्कोऽग्निः यथा सोमो यथा ऋक्षग्रहतारकाः ॥ ११ ॥
येन स्व-रोचिषा विश्वम् रोचितम् रोचयामि अहम् । यथा अर्कः अग्निः यथा सोमः यथा ऋक्ष-ग्रह-तारकाः ॥ ११ ॥
yena sva-rociṣā viśvam rocitam rocayāmi aham . yathā arkaḥ agniḥ yathā somaḥ yathā ṛkṣa-graha-tārakāḥ .. 11 ..
तस्मै नमो भगवते वासुदेवाय धीमहि । यन्मायया दुर्जयया मां वदन्ति जगद्गुरुम् ॥ १२ ॥
तस्मै नमः भगवते वासुदेवाय धीमहि । यद्-मायया दुर्जयया माम् वदन्ति जगद्गुरुम् ॥ १२ ॥
tasmai namaḥ bhagavate vāsudevāya dhīmahi . yad-māyayā durjayayā mām vadanti jagadgurum .. 12 ..
विलज्जमानया यस्य स्थातुमीक्षापथेऽमुया । विमोहिता विकत्थन्ते ममाहमिति दुर्धियः ॥ १३ ॥
विलज्जमानया यस्य स्थातुम् ईक्षा-पथे अमुया । विमोहिताः विकत्थन्ते मम अहम् इति ॥ १३ ॥
vilajjamānayā yasya sthātum īkṣā-pathe amuyā . vimohitāḥ vikatthante mama aham iti .. 13 ..
द्रव्यं कर्म च कालश्च स्वभावो जीव एव च । वासुदेवात्परो ब्रह्मन् न चान्योऽर्थोऽस्ति तत्त्वतः ॥ १४ ॥
द्रव्यम् कर्म च कालः च स्वभावः जीवः एव च । वासुदेवात् परः ब्रह्मन् न च अन्यः अर्थः अस्ति तत्त्वतः ॥ १४ ॥
dravyam karma ca kālaḥ ca svabhāvaḥ jīvaḥ eva ca . vāsudevāt paraḥ brahman na ca anyaḥ arthaḥ asti tattvataḥ .. 14 ..
नारायणपरा वेदा देवा नारायणाङ्गजाः । नारायणपरा लोका नारायणपरा मखाः ॥ १५ ॥
नारायण-पराः वेदाः देवाः नारायण-अङ्गजाः । नारायण-पराः लोकाः नारायण-पराः मखाः ॥ १५ ॥
nārāyaṇa-parāḥ vedāḥ devāḥ nārāyaṇa-aṅgajāḥ . nārāyaṇa-parāḥ lokāḥ nārāyaṇa-parāḥ makhāḥ .. 15 ..
नारायणपरो योगो नारायणपरं तपः । नारायणपरं ज्ञानं नारायणपरा गतिः ॥ १६ ॥
नारायण-परः योगः नारायण-परम् तपः । नारायण-परम् ज्ञानम् नारायण-परा गतिः ॥ १६ ॥
nārāyaṇa-paraḥ yogaḥ nārāyaṇa-param tapaḥ . nārāyaṇa-param jñānam nārāyaṇa-parā gatiḥ .. 16 ..
तस्यापि द्रष्टुः ईशस्य कूटस्थस्याखिलात्मनः । सृज्यं सृजामि सृष्टोऽहं ईक्षयैवाभिचोदितः ॥ १७ ॥
तस्य अपि द्रष्टुः ईशस्य कूटस्थस्य अखिलात्मनः । सृज्यम् सृजामि सृष्टः अहम् ईक्षय एव अभिचोदितः ॥ १७ ॥
tasya api draṣṭuḥ īśasya kūṭasthasya akhilātmanaḥ . sṛjyam sṛjāmi sṛṣṭaḥ aham īkṣaya eva abhicoditaḥ .. 17 ..
सत्त्वं रजस्तम इति निर्गुणस्य गुणास्त्रयः । स्थितिसर्गनिरोधेषु गृहीता मायया विभोः ॥ १८ ॥
सत्त्वम् रजः तमः इति निर्गुणस्य गुणाः त्रयः । स्थिति-सर्ग-निरोधेषु गृहीताः मायया विभोः ॥ १८ ॥
sattvam rajaḥ tamaḥ iti nirguṇasya guṇāḥ trayaḥ . sthiti-sarga-nirodheṣu gṛhītāḥ māyayā vibhoḥ .. 18 ..
कार्यकारणकर्तृत्वे द्रव्यज्ञानक्रियाश्रयाः । बध्नन्ति नित्यदा मुक्तं मायिनं पुरुषं गुणाः ॥ १९ ॥
कार्य-कारण-कर्तृ-त्वे द्रव्य-ज्ञान-क्रिया-आश्रयाः । बध्नन्ति नित्यदा मुक्तम् मायिनम् पुरुषम् गुणाः ॥ १९ ॥
kārya-kāraṇa-kartṛ-tve dravya-jñāna-kriyā-āśrayāḥ . badhnanti nityadā muktam māyinam puruṣam guṇāḥ .. 19 ..
स एष भगवान् लिङ्गैः त्रिभिरेतैरधोक्षजः । स्वलक्षितगतिर्ब्रह्मन् सर्वेषां मम चेश्वरः ॥ २० ॥
सः एष भगवान् लिङ्गैः त्रिभिः एतैः अधोक्षजः । स्व-लक्षित-गतिः ब्रह्मन् सर्वेषाम् मम च ईश्वरः ॥ २० ॥
saḥ eṣa bhagavān liṅgaiḥ tribhiḥ etaiḥ adhokṣajaḥ . sva-lakṣita-gatiḥ brahman sarveṣām mama ca īśvaraḥ .. 20 ..
कालं कर्म स्वभावं च मायेशो मायया स्वया । आत्मन् यदृच्छया प्राप्तं विबुभूषुरुपाददे ॥ २१ ॥
कालम् कर्म स्वभावम् च माया-ईशः मायया स्वया । आत्मन् यदृच्छया प्राप्तम् विबुभूषुः उपाददे ॥ २१ ॥
kālam karma svabhāvam ca māyā-īśaḥ māyayā svayā . ātman yadṛcchayā prāptam vibubhūṣuḥ upādade .. 21 ..
कालाद् गुणव्यतिकरः परिणामः स्वभावतः । कर्मणो जन्म महतः पुरुषाधिष्ठितात् अभूत् ॥ २२ ॥
कालात् गुण-व्यतिकरः परिणामः स्वभावतः । कर्मणः जन्म महतः पुरुष-धिष्ठितात् अभूत् ॥ २२ ॥
kālāt guṇa-vyatikaraḥ pariṇāmaḥ svabhāvataḥ . karmaṇaḥ janma mahataḥ puruṣa-dhiṣṭhitāt abhūt .. 22 ..
महतस्तु विकुर्वाणाद् रजःसत्त्वोपबृंहितात् । तमःप्रधानस्त्वभवद् द्रव्यज्ञानक्रियात्मकः ॥ २३ ॥
महतः तु विकुर्वाणात् रजः-सत्त्व-उपबृंहितात् । तमः-प्रधानः तु अभवत् द्रव्य-ज्ञान-क्रिया-आत्मकः ॥ २३ ॥
mahataḥ tu vikurvāṇāt rajaḥ-sattva-upabṛṃhitāt . tamaḥ-pradhānaḥ tu abhavat dravya-jñāna-kriyā-ātmakaḥ .. 23 ..
सोऽहङ्कार इति प्रोक्तो विकुर्वन्समभूत् त्रिधा । वैकारिकस्तैजसश्च तामसश्चेति यद्भिदा । द्रव्यशक्तिः क्रियाशक्तिः ज्ञानशक्तिरिति प्रभो ॥ २४ ॥
सः अहङ्कारः इति प्रोक्तः विकुर्वन् समभूत् त्रिधा । वैकारिकः तैजसः च तामसः च इति यद्-भिदा । द्रव्य-शक्तिः क्रिया-शक्तिः ज्ञान-शक्तिः इति प्रभो ॥ २४ ॥
saḥ ahaṅkāraḥ iti proktaḥ vikurvan samabhūt tridhā . vaikārikaḥ taijasaḥ ca tāmasaḥ ca iti yad-bhidā . dravya-śaktiḥ kriyā-śaktiḥ jñāna-śaktiḥ iti prabho .. 24 ..
तामसादपि भूतादेः विकुर्वाणाद् अभूत् नभः । तस्य मात्रा गुणः शब्दो लिङ्गं यद् द्रष्टृदृश्ययोः ॥ २५ ॥
तामसात् अपि भूतादेः विकुर्वाणात् अभूत् नभः । तस्य मात्रा गुणः शब्दः लिङ्गम् यत् द्रष्टृ-दृश्ययोः ॥ २५ ॥
tāmasāt api bhūtādeḥ vikurvāṇāt abhūt nabhaḥ . tasya mātrā guṇaḥ śabdaḥ liṅgam yat draṣṭṛ-dṛśyayoḥ .. 25 ..
नभसोऽथ विकुर्वाणाद् अभूत् स्पर्शगुणोऽनिलः । परान्वयाच्छब्दवांश्च प्राण ओजः सहो बलम् ॥ २६ ॥
नभसः अथ विकुर्वाणात् अभूत् स्पर्श-गुणः अनिलः । परान्वयात् शब्दवान् च प्राणः ओजः सहः बलम् ॥ २६ ॥
nabhasaḥ atha vikurvāṇāt abhūt sparśa-guṇaḥ anilaḥ . parānvayāt śabdavān ca prāṇaḥ ojaḥ sahaḥ balam .. 26 ..
वायोरपि विकुर्वाणात् कालकर्मस्वभावतः । उदपद्यत तेजो वै रूपवत् स्पर्शशब्दवत् ॥ २७ ॥
वायोः अपि विकुर्वाणात् काल-कर्म-स्वभावतः । उदपद्यत तेजः वै रूपवत् स्पर्श-शब्दवत् ॥ २७ ॥
vāyoḥ api vikurvāṇāt kāla-karma-svabhāvataḥ . udapadyata tejaḥ vai rūpavat sparśa-śabdavat .. 27 ..
तेजसस्तु विकुर्वाणाद् आसीत् अम्भो रसात्मकम् । रूपवत् स्पर्शवच्चाम्भो घोषवच्च परान्वयात् ॥ २८ ॥
तेजसः तु विकुर्वाणात् आसीत् अम्भः रस-आत्मकम् । रूपवत् स्पर्शवत् च अम्भः घोषवत् च परान्वयात् ॥ २८ ॥
tejasaḥ tu vikurvāṇāt āsīt ambhaḥ rasa-ātmakam . rūpavat sparśavat ca ambhaḥ ghoṣavat ca parānvayāt .. 28 ..
विशेषस्तु विकुर्वाणाद् अम्भसो गन्धवानभूत् । परान्वयाद् रसस्पर्श शब्दरूपगुणान्वितः ॥ २९ ॥
विशेषः तु विकुर्वाणात् अम्भसः गन्धवान् अभूत् । परा अन्वयात् रस-स्पर्श शब्द-रूप-गुण-अन्वितः ॥ २९ ॥
viśeṣaḥ tu vikurvāṇāt ambhasaḥ gandhavān abhūt . parā anvayāt rasa-sparśa śabda-rūpa-guṇa-anvitaḥ .. 29 ..
वैकारिकान्मनो जज्ञे देवा वैकारिका दश । दिग्वातार्कप्रचेतोऽश्वि वह्नीन्द्रोपेन्द्रमित्रकाः ॥ ३० ॥
वैकारिकात् मनः जज्ञे देवाः वैकारिकाः दश । दिश्-वात-अर्क-प्रचेतः-अश्वि वह्नि-इन्द्र-उपेन्द्र-मित्रकाः ॥ ३० ॥
vaikārikāt manaḥ jajñe devāḥ vaikārikāḥ daśa . diś-vāta-arka-pracetaḥ-aśvi vahni-indra-upendra-mitrakāḥ .. 30 ..
तैजसात्तु विकुर्वाणाद् इंद्रियाणि दशाभवन् । ज्ञानशक्तिः क्रियाशक्तिः बुद्धिः प्राणश्च तैजसौ । श्रोत्रं त्वग् घ्राण दृग् जिह्वा वाग् दोर्मेढ्राङ्घ्रिपायवः ॥ ३१ ॥
तैजसात् तु विकुर्वाणात् इंद्रियाणि दश अभवन् । ज्ञान-शक्तिः क्रिया-शक्तिः बुद्धिः प्राणः च तैजसौ । श्रोत्रम् त्वच् घ्राण दृश् जिह्वा वाच् दोस्-मेढ्र-अङ्घ्रि-पायवः ॥ ३१ ॥
taijasāt tu vikurvāṇāt iṃdriyāṇi daśa abhavan . jñāna-śaktiḥ kriyā-śaktiḥ buddhiḥ prāṇaḥ ca taijasau . śrotram tvac ghrāṇa dṛś jihvā vāc dos-meḍhra-aṅghri-pāyavaḥ .. 31 ..
यदैतेऽसङ्गता भावा भूतेन्द्रियमनोगुणाः । यदाऽऽयतननिर्माणे न शेकुर्ब्रह्मवित्तम ॥ ३२ ॥
यदा एते असङ्ग-ताः भावाः भूत-इन्द्रिय-मनः-गुणाः । यदा आयतन-निर्माणे न शेकुः ब्रह्म-वित्तम ॥ ३२ ॥
yadā ete asaṅga-tāḥ bhāvāḥ bhūta-indriya-manaḥ-guṇāḥ . yadā āyatana-nirmāṇe na śekuḥ brahma-vittama .. 32 ..
तदा संहत्य चान्योन्यं भगवच्छक्तिचोदिताः । सदसत्त्वमुपादाय चोभयं ससृजुर्ह्यदः ॥ ३३ ॥
तदा संहत्य च अन्योन्यम् भगवत्-शक्ति-चोदिताः । सत्-असत्-त्वम् उपादाय च उभयम् ससृजुः हि अदः ॥ ३३ ॥
tadā saṃhatya ca anyonyam bhagavat-śakti-coditāḥ . sat-asat-tvam upādāya ca ubhayam sasṛjuḥ hi adaḥ .. 33 ..
वर्षपूगसहस्रान्ते तदण्डमुदके शयम् । कालकर्मस्वभावस्थो जीवोऽजीवमजीवयत् ॥ ३४ ॥
वर्ष-पूग-सहस्र-अन्ते तत् अण्डम् उदके शयम् । काल-कर्म-स्वभाव-स्थः जीवः अजीवम् अजीवयत् ॥ ३४ ॥
varṣa-pūga-sahasra-ante tat aṇḍam udake śayam . kāla-karma-svabhāva-sthaḥ jīvaḥ ajīvam ajīvayat .. 34 ..
स एव पुरुषः तस्माद् अण्डं निर्भिद्य निर्गतः । सहस्रोर्वङ्घ्रिबाह्वक्षः सहस्राननशीर्षवान् ॥ ३५ ॥
सः एव पुरुषः तस्मात् अण्डम् निर्भिद्य निर्गतः । सहस्र-ऊरु-अङ्घ्रि-बाहु-अक्षः सहस्र-आनन-शीर्षवान् ॥ ३५ ॥
saḥ eva puruṣaḥ tasmāt aṇḍam nirbhidya nirgataḥ . sahasra-ūru-aṅghri-bāhu-akṣaḥ sahasra-ānana-śīrṣavān .. 35 ..
यस्येहावयवैर्लोकान् काल्पयन्ति मनीषिणः । कट्यादिभिरधः सप्त सप्तोर्ध्वं जघनादिभिः ॥ ३६ ॥
यस्य इह अवयवैः लोकान् काल्पयन्ति मनीषिणः । कटि-आदिभिः अधस् सप्त सप्त ऊर्ध्वम् जघन-आदिभिः ॥ ३६ ॥
yasya iha avayavaiḥ lokān kālpayanti manīṣiṇaḥ . kaṭi-ādibhiḥ adhas sapta sapta ūrdhvam jaghana-ādibhiḥ .. 36 ..
पुरुषस्य मुखं ब्रह्म क्षत्रमेतस्य बाहवः । ऊर्वोर्वैश्यो भगवतः पद्भ्यां शूद्रोऽभ्यजायत ॥ ३७ ॥
पुरुषस्य मुखम् ब्रह्म क्षत्रम् एतस्य बाहवः । ऊर्वोः वैश्यः भगवतः पद्भ्याम् शूद्रः अभ्यजायत ॥ ३७ ॥
puruṣasya mukham brahma kṣatram etasya bāhavaḥ . ūrvoḥ vaiśyaḥ bhagavataḥ padbhyām śūdraḥ abhyajāyata .. 37 ..
भूर्लोकः कल्पितः पद्भ्यां भुवर्लोकोऽस्य नाभितः । हृदा स्वर्लोक उरसा महर्लोको महात्मनः ॥ ३८ ॥
भूर्लोकः कल्पितः पद्भ्याम् भुवर्लोकः अस्य नाभितः । हृदा स्वर्लोकः उरसा महर् लोकः महात्मनः ॥ ३८ ॥
bhūrlokaḥ kalpitaḥ padbhyām bhuvarlokaḥ asya nābhitaḥ . hṛdā svarlokaḥ urasā mahar lokaḥ mahātmanaḥ .. 38 ..
ग्रीवायां जनलोकोऽस्य तपोलोकः स्तनद्वयात् । मूर्धभिः सत्यलोकस्तु ब्रह्मलोकः सनातनः ॥ ३९ ॥
ग्रीवायाम् जनलोकः अस्य तपोलोकः स्तन-द्वयात् । मूर्धभिः सत्यलोकः तु ब्रह्म-लोकः सनातनः ॥ ३९ ॥
grīvāyām janalokaḥ asya tapolokaḥ stana-dvayāt . mūrdhabhiḥ satyalokaḥ tu brahma-lokaḥ sanātanaḥ .. 39 ..
तत्कट्यां चातलं कॢप्तं ऊरूभ्यां वितलं विभोः । जानुभ्यां सुतलं शुद्धं जङ्घाभ्यां तु तलातलम् ॥ ४० ॥
तद्-कट्याम् च अतलम् कॢप्तम् ऊरूभ्याम् वितलम् विभोः । जानुभ्याम् सुतलम् शुद्धम् जङ्घाभ्याम् तु तलातलम् ॥ ४० ॥
tad-kaṭyām ca atalam kḷptam ūrūbhyām vitalam vibhoḥ . jānubhyām sutalam śuddham jaṅghābhyām tu talātalam .. 40 ..
महातलं तु गुल्फाभ्यां प्रपदाभ्यां रसातलम् । पातालं पादतलत इति लोकमयः पुमान् ॥ ४१ ॥
महातलम् तु गुल्फाभ्याम् प्रपदाभ्याम् रसातलम् । पातालम् पाद-तलतः इति लोक-मयः पुमान् ॥ ४१ ॥
mahātalam tu gulphābhyām prapadābhyām rasātalam . pātālam pāda-talataḥ iti loka-mayaḥ pumān .. 41 ..
भूर्लोकः कल्पितः पद्भ्यां भुवर्लोकोऽस्य नाभितः । स्वर्लोकः कल्पितो मूर्ध्ना इति वा लोककल्पना ॥ ४२ ॥
भूर्लोकः कल्पितः पद्भ्याम् भुवर्लोकः अस्य नाभितः । स्वर्लोकः कल्पितः मूर्ध्ना इति वा लोक-कल्पना ॥ ४२ ॥
bhūrlokaḥ kalpitaḥ padbhyām bhuvarlokaḥ asya nābhitaḥ . svarlokaḥ kalpitaḥ mūrdhnā iti vā loka-kalpanā .. 42 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वितीयस्कंधे पञ्चमोऽध्यायः ॥ ५ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् द्वितीय-स्कंधे पञ्चमः अध्यायः ॥ ५ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām dvitīya-skaṃdhe pañcamaḥ adhyāyaḥ .. 5 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In