न भारती मेऽङ्ग मृषोपलक्ष्यते न वै क्वचिन्मे मनसो मृषा गतिः । न मे हृषीकाणि पतन्त्यसत्पथे यन्मे हृदौत्कण्ठ्ययवता धृतो हरिः ॥ ३३ ॥
PADACHEDA
न भारती मे अङ्ग मृषा उपलक्ष्यते न वै क्वचिद् मे मनसः मृषा गतिः । न मे हृषीकाणि पतन्ति असत्-पथे यत् मे हृदा औत्कण्ठ्ययवता धृतः हरिः ॥ ३३ ॥
TRANSLITERATION
na bhāratī me aṅga mṛṣā upalakṣyate na vai kvacid me manasaḥ mṛṣā gatiḥ . na me hṛṣīkāṇi patanti asat-pathe yat me hṛdā autkaṇṭhyayavatā dhṛtaḥ hariḥ .. 33 ..
नाहं न यूयं यदृतां गतिं विदुः न वामदेवः किमुतापरे सुराः । तन्मायया मोहितबुद्धयस्त्विदं विनिर्मितं चात्मसमं विचक्ष्महे ॥ ३६ ॥
PADACHEDA
न अहम् न यूयम् यत् ऋताम् गतिम् विदुः न वामदेवः किम् उत अपरे सुराः । तद्-मायया मोहित-बुद्धयः तु इदम् विनिर्मितम् च आत्म-समम् विचक्ष्महे ॥ ३६ ॥
TRANSLITERATION
na aham na yūyam yat ṛtām gatim viduḥ na vāmadevaḥ kim uta apare surāḥ . tad-māyayā mohita-buddhayaḥ tu idam vinirmitam ca ātma-samam vicakṣmahe .. 36 ..