| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

ब्रह्मोवाच ।
यत्रोद्यतः क्षितितलोद्धरणाय बिभ्रत् । क्रौडीं तनुं सकलयज्ञमयीमनन्तः । अन्तर्महार्णव उपागतमादिदैत्यं । तं दंष्ट्रयाऽद्रिमिव वज्रधरो ददार ॥ १ ॥
यत्र उद्यतः क्षिति-तल-उद्धरणाय बिभ्रत् । क्रौडीम् तनुम् सकल-यज्ञ-मयीम् अनन्तः । अन्तर् महा-अर्णवे उपागतम् आदिदैत्यम् । तम् दंष्ट्रया अद्रिम् इव वज्रधरः ददार ॥ १ ॥
yatra udyataḥ kṣiti-tala-uddharaṇāya bibhrat . krauḍīm tanum sakala-yajña-mayīm anantaḥ . antar mahā-arṇave upāgatam ādidaityam . tam daṃṣṭrayā adrim iva vajradharaḥ dadāra .. 1 ..
जातो रुचेरजनयत् सुयमान् सुयज्ञ । आकूतिसूनुः अमरान् अथ दक्षिणायाम् । लोकत्रयस्य महतीं अहरद् यदार्तिं । स्वायम्भुवेन मनुना हरिरित्यनूक्तः ॥ २ ॥
जातः रुचेः अजनयत् सु यमान् सु यज्ञ । आकूतिसूनुः अमरान् अथ दक्षिणायाम् । लोकत्रयस्य महतीम् अहरत् यत् आर्तिम् । स्वायम्भुवेन मनुना हरिः इति अनूक्तः ॥ २ ॥
jātaḥ ruceḥ ajanayat su yamān su yajña . ākūtisūnuḥ amarān atha dakṣiṇāyām . lokatrayasya mahatīm aharat yat ārtim . svāyambhuvena manunā hariḥ iti anūktaḥ .. 2 ..
जज्ञे च कर्दमगृहे द्विज देवहूत्यां । स्त्रीभिः समं नवभिरात्मगतिं स्वमात्रे । ऊचे ययाऽत्मशमलं गुणसङ्गपङ्कम् । अस्मिन् विधूय कपिलस्य गतिं प्रपेदे ॥ ३ ॥
जज्ञे च कर्दमगृहे द्विज देवहूत्याम् । स्त्रीभिः समम् नवभिः आत्म-गतिम् स्व-मात्रे । ऊचे यया आत्म-शमलम् गुण-सङ्ग-पङ्कम् । अस्मिन् विधूय कपिलस्य गतिम् प्रपेदे ॥ ३ ॥
jajñe ca kardamagṛhe dvija devahūtyām . strībhiḥ samam navabhiḥ ātma-gatim sva-mātre . ūce yayā ātma-śamalam guṇa-saṅga-paṅkam . asmin vidhūya kapilasya gatim prapede .. 3 ..
अत्रेः अपत्यमभिकाङ्क्षत आह तुष्टो । दत्तो मयाहमिति यद् भगवान् स दत्तः । यत् पादपङ्कजपराग पवित्रदेहा । योगर्द्धिमापुरुभयीं यदुहैहयाद्याः ॥ ४ ॥
अत्रेः अपत्यम् अभिकाङ्क्षतः आह तुष्टः । दत्तः मया अहम् इति यत् भगवान् स दत्तः । यत् पाद-पङ्कज-पराग पवित्र-देहा । योग-ऋद्धिम् आपुः उभयीम् यदु-हैहय-आद्याः ॥ ४ ॥
atreḥ apatyam abhikāṅkṣataḥ āha tuṣṭaḥ . dattaḥ mayā aham iti yat bhagavān sa dattaḥ . yat pāda-paṅkaja-parāga pavitra-dehā . yoga-ṛddhim āpuḥ ubhayīm yadu-haihaya-ādyāḥ .. 4 ..
तप्तं तपो विविधलोकसिसृक्षया मे । आदौ सनात् स्वतपसः स चतुःसनोऽभूत् । प्राक्कल्प संप्लवविनष्टमिह आत्मतत्त्वं । सम्यग् जगाद मुनयो यदचक्षतात्मन् ॥ ५ ॥
तप्तम् तपः विविध-लोक-सिसृक्षया मे । आदौ सनात् स्व-तपसः स चतुःसनः अभूत् । आत्म-तत्त्वम् । सम्यक् जगाद मुनयः यत् अचक्षत आत्मन् ॥ ५ ॥
taptam tapaḥ vividha-loka-sisṛkṣayā me . ādau sanāt sva-tapasaḥ sa catuḥsanaḥ abhūt . ātma-tattvam . samyak jagāda munayaḥ yat acakṣata ātman .. 5 ..
धर्मस्य दक्षदुहितर्यजनिष्ट मूर्त्यां । नारायणो नर इति स्वतपः प्रभावः । दृष्ट्वात्मनो भगवतो नियमावलोपं । देव्यस्त्वनङ्गपृतना घटितुं न शेकुः ॥ ६ ॥
धर्मस्य दक्ष-दुहितरि अजनिष्ट मूर्त्याम् । नारायणः नरः इति स्व-तपः प्रभावः । दृष्ट्वा आत्मनः भगवतः नियम-अवलोपम् । देव्यः तु अनङ्ग-पृतनाः घटितुम् न शेकुः ॥ ६ ॥
dharmasya dakṣa-duhitari ajaniṣṭa mūrtyām . nārāyaṇaḥ naraḥ iti sva-tapaḥ prabhāvaḥ . dṛṣṭvā ātmanaḥ bhagavataḥ niyama-avalopam . devyaḥ tu anaṅga-pṛtanāḥ ghaṭitum na śekuḥ .. 6 ..
कामं दहन्ति कृतिनो ननु रोषदृष्ट्या । रोषं दहन्तमुत ते न दहन्त्यसह्यम् । सोऽयं यदन्तरमलं प्रविशन् बिभेति । कामः कथं नु पुनरस्य मनः श्रयेत ॥ ७ ॥
कामम् दहन्ति कृतिनः ननु रोष-दृष्ट्या । रोषम् दहन्तम् उत ते न दहन्ति असह्यम् । सः अयम् यत् अन्तरम् अलम् प्रविशन् बिभेति । कामः कथम् नु पुनर् अस्य मनः श्रयेत ॥ ७ ॥
kāmam dahanti kṛtinaḥ nanu roṣa-dṛṣṭyā . roṣam dahantam uta te na dahanti asahyam . saḥ ayam yat antaram alam praviśan bibheti . kāmaḥ katham nu punar asya manaḥ śrayeta .. 7 ..
विद्धः सपत्न्युदितपत्रिभिरन्ति राज्ञो । बालोऽपि सन्नुपगतस्तपसे वनानि । तस्मा अदाद् ध्रुवगतिं गृणते प्रसन्नो । दिव्याः स्तुवन्ति मुनयो यदुपर्यधस्तात् ॥ ८ ॥
विद्धः सपत्नी-उदित-पत्रिभिः अन्ति राज्ञः । बालः अपि सन् उपगतः तपसे वनानि । तस्मै अदात् ध्रुव-गतिम् गृणते प्रसन्नो । दिव्याः स्तुवन्ति मुनयः यत् उपरि अधस्तात् ॥ ८ ॥
viddhaḥ sapatnī-udita-patribhiḥ anti rājñaḥ . bālaḥ api san upagataḥ tapase vanāni . tasmai adāt dhruva-gatim gṛṇate prasanno . divyāḥ stuvanti munayaḥ yat upari adhastāt .. 8 ..
यद्वेनमुत्पथगतं द्विजवाक्यवज्र । निष्प्लुष्टपौरुषभगं निरये पतन्तम् । त्रात्वाऽर्थितो जगति पुत्रपदं च लेभे । दुग्धा वसूनि वसुधा सकलानि येन ॥ ९ ॥
यत् वेनम् उत्पथ-गतम् द्विज-वाक्य-वज्र । निष्प्लुष्ट-पौरुष-भगम् निरये पतन्तम् । त्रात्वा अर्थितः जगति पुत्र-पदम् च लेभे । दुग्धा वसूनि वसुधा सकलानि येन ॥ ९ ॥
yat venam utpatha-gatam dvija-vākya-vajra . niṣpluṣṭa-pauruṣa-bhagam niraye patantam . trātvā arthitaḥ jagati putra-padam ca lebhe . dugdhā vasūni vasudhā sakalāni yena .. 9 ..
नाभेरसावृषभ आस सुदेविसूनुः । यो वै चचार समदृग् जडयोगचर्याम् । यत्पारमहंस्यमृषयः पदमामनन्ति । स्वस्थः प्रशान्तकरणः परिमुक्तसङ्गः ॥ १० ॥
नाभेः असौ ऋषभः आस सुदेवि-सूनुः । यः वै चचार समदृश् जड-योग-चर्याम् । यत् पारमहंस्यम् ऋषयः पदम् आमनन्ति । स्वस्थः प्रशान्त-करणः परिमुक्त-सङ्गः ॥ १० ॥
nābheḥ asau ṛṣabhaḥ āsa sudevi-sūnuḥ . yaḥ vai cacāra samadṛś jaḍa-yoga-caryām . yat pāramahaṃsyam ṛṣayaḥ padam āmananti . svasthaḥ praśānta-karaṇaḥ parimukta-saṅgaḥ .. 10 ..
सत्रे ममाऽस भगवान् हयशीर्ष एव । साक्षात् स यज्ञपुरुषः तपनीयवर्णः । छन्दोमयो मखमयोऽखिलदेवतात्मा । वाचो बभूवुरुशतीः श्वसतोऽस्य नस्तः ॥ ११ ॥
सत्रे मम आऽस भगवान् हयशीर्षः एव । साक्षात् स यज्ञपुरुषः तपनीय-वर्णः । छन्दः-मयः मख-मयः अखिल-देवता-आत्मा । वाचः बभूवुः उशतीः श्वसतः अस्य नस्तस् ॥ ११ ॥
satre mama ā'sa bhagavān hayaśīrṣaḥ eva . sākṣāt sa yajñapuruṣaḥ tapanīya-varṇaḥ . chandaḥ-mayaḥ makha-mayaḥ akhila-devatā-ātmā . vācaḥ babhūvuḥ uśatīḥ śvasataḥ asya nastas .. 11 ..
मत्स्यो युगान्तसमये मनुनोपलब्धः । क्षोणीमयो निखिलजीवनिकायकेतः । विस्रंसितानुरुभये सलिले मुखान्मे । आदाय तत्र विजहार ह वेदमार्गान् ॥ १२ ॥
मत्स्यः युग-अन्त-समये मनुना उपलब्धः । । विस्रंसित-अनुः उभये सलिले मुखात् मे । आदाय तत्र विजहार ह वेद-मार्गान् ॥ १२ ॥
matsyaḥ yuga-anta-samaye manunā upalabdhaḥ . . visraṃsita-anuḥ ubhaye salile mukhāt me . ādāya tatra vijahāra ha veda-mārgān .. 12 ..
क्षीरोदधावमरदानवयूथपानाम् । उन्मथ्नताममृतलब्धय आदिदेवः । पृष्ठेन कच्छपवपुर्विदधार गोत्रं । निद्राक्षणोऽद्रिपरिवर्तकषाणकण्डूः ॥ १३ ॥
क्षीरोदधौ अमर-दानव-यूथपानाम् । उन्मथ्नताम् अमृत-लब्धये आदिदेवः । पृष्ठेन कच्छप-वपुः विदधार गोत्रम् । निद्रा-क्षणः अद्रि-परिवर्त-कषाण-कण्डूः ॥ १३ ॥
kṣīrodadhau amara-dānava-yūthapānām . unmathnatām amṛta-labdhaye ādidevaḥ . pṛṣṭhena kacchapa-vapuḥ vidadhāra gotram . nidrā-kṣaṇaḥ adri-parivarta-kaṣāṇa-kaṇḍūḥ .. 13 ..
त्रैविष्टपोरुभयहा स नृसिंहरूपं । कृत्वा भ्रमद् भ्रुकुटिदंष्ट्रकरालवक्त्रम् । दैत्येन्द्रमाशु गदयाऽभिपतन्तमारात् । ऊरौ निपात्य विददार नखैः स्फुरन्तम् ॥ १४ ॥
त्रैविष्टपोः उभय-हा स नृसिंह-रूपम् । कृत्वा भ्रमत् भ्रुकुटि-दंष्ट्र-कराल-वक्त्रम् । दैत्य-इन्द्रम् आशु गदया अभिपतन्तम् आरात् । ऊरौ निपात्य विददार नखैः स्फुरन्तम् ॥ १४ ॥
traiviṣṭapoḥ ubhaya-hā sa nṛsiṃha-rūpam . kṛtvā bhramat bhrukuṭi-daṃṣṭra-karāla-vaktram . daitya-indram āśu gadayā abhipatantam ārāt . ūrau nipātya vidadāra nakhaiḥ sphurantam .. 14 ..
अन्तः सरस्युरुबलेन पदे गृहीतो । ग्राहेण यूथपतिरम्बुजहस्त आर्तः । आहेदमादिपुरुषाखिललोकनाथ । तीर्थश्रवः श्रवणमङ्गलनामधेय ॥ १५ ॥
अन्तर् सरसि उरु-बलेन पदे । ग्राहेण यूथ-पतिः अम्बुज-हस्तः आर्तः । आह इदम् आदि-पुरुष-अखिल-लोकनाथ । तीर्थ-श्रवः श्रवण-मङ्गल-नामधेय ॥ १५ ॥
antar sarasi uru-balena pade . grāheṇa yūtha-patiḥ ambuja-hastaḥ ārtaḥ . āha idam ādi-puruṣa-akhila-lokanātha . tīrtha-śravaḥ śravaṇa-maṅgala-nāmadheya .. 15 ..
श्रुत्वा हरिस्तमरणार्थिनमप्रमेयः । चक्रायुधः पतगराजभुजाधिरूढः । चक्रेण नक्रवदनं विनिपाद्य तस्माद् । धस्ते प्रगृह्य भगवान् कृपयोज्जहार ॥ १६ ॥
श्रुत्वा हरिः तम् अरण-अर्थिनम् अप्रमेयः । चक्रायुधः पतग-राज-भुज-अधिरूढः । चक्रेण नक्र-वदनम् विनिपाद्य तस्मात् । धस्ते प्रगृह्य भगवान् कृपया उज्जहार ॥ १६ ॥
śrutvā hariḥ tam araṇa-arthinam aprameyaḥ . cakrāyudhaḥ pataga-rāja-bhuja-adhirūḍhaḥ . cakreṇa nakra-vadanam vinipādya tasmāt . dhaste pragṛhya bhagavān kṛpayā ujjahāra .. 16 ..
ज्यायान् गुणैरवरजोऽप्यदितेः सुतानां । लोकान् विचक्रम इमान् यदथाधियज्ञः । क्ष्मां वामनेन जगृहे त्रिपदच्छलेन । याच्ञामृते पथि चरन् प्रभुभिर्न चाल्यः ॥ १७ ॥
ज्यायान् गुणैः अवरजः अपि अदितेः सुतानाम् । लोकान् विचक्रमे इमान् यत् अथ अधियज्ञः । क्ष्माम् वामनेन जगृहे त्रिपद-छलेन । याच्ञा-मृते पथि चरन् प्रभुभिः न चाल्यः ॥ १७ ॥
jyāyān guṇaiḥ avarajaḥ api aditeḥ sutānām . lokān vicakrame imān yat atha adhiyajñaḥ . kṣmām vāmanena jagṛhe tripada-chalena . yācñā-mṛte pathi caran prabhubhiḥ na cālyaḥ .. 17 ..
नार्थो बलेरयमुरुक्रमपादशौचम् । आपः शिखाधृतवतो विबुधाधिपत्यम् । यो वै प्रतिश्रुतमृते न चिकीर्षदन्यद् । आत्मानमङ्ग शिरसा हरयेऽभिमेने ॥ १८ ।
न अर्थः बलेः अयम् उरुक्रम-पाद-शौचम् । आपः शिखा-धृतवतः विबुध-आधिपत्यम् । यः वै प्रतिश्रुतम् ऋते न चिकीर्षत् अन्यत् । आत्मानम् अङ्ग शिरसा हरये अभिमेने ॥ १८ ।
na arthaḥ baleḥ ayam urukrama-pāda-śaucam . āpaḥ śikhā-dhṛtavataḥ vibudha-ādhipatyam . yaḥ vai pratiśrutam ṛte na cikīrṣat anyat . ātmānam aṅga śirasā haraye abhimene .. 18 .
तुभ्यं च नारद भृशं भगवान्विवृद्ध । भावेन साधु परितुष्ट उवाच योगम् । ज्ञानं च भागवतमात्मसतत्त्वदीपं । यद्वासुदेवशरणा विदुरञ्जसैव ॥ १९ ॥
तुभ्यम् च नारद भृशम् भगवान् विवृद्ध । भावेन साधु परितुष्टः उवाच योगम् । ज्ञानम् च भागवतम् आत्म-स तत्त्व-दीपम् । यत् वासुदेव-शरणाः विदुः अञ्जसा एव ॥ १९ ॥
tubhyam ca nārada bhṛśam bhagavān vivṛddha . bhāvena sādhu parituṣṭaḥ uvāca yogam . jñānam ca bhāgavatam ātma-sa tattva-dīpam . yat vāsudeva-śaraṇāḥ viduḥ añjasā eva .. 19 ..
चक्रं च दिक्ष्वविहतं दशसु स्वतेजो । मन्वन्तरेषु मनुवंशधरो बिभर्ति । दुष्टेषु राजसु दमं व्यदधात्स्वकीर्तिं । सत्ये त्रिपृष्ठ उशतीं प्रथयंश्चरित्रैः ॥ २० ॥
चक्रम् च दिक्षु अविहतम् दशसु स्व-तेजः । मन्वन्तरेषु मनु-वंश-धरः बिभर्ति । दुष्टेषु राजसु दमम् व्यदधात् स्व-कीर्तिम् । सत्ये त्रि-पृष्ठे उशतीम् प्रथयन् चरित्रैः ॥ २० ॥
cakram ca dikṣu avihatam daśasu sva-tejaḥ . manvantareṣu manu-vaṃśa-dharaḥ bibharti . duṣṭeṣu rājasu damam vyadadhāt sva-kīrtim . satye tri-pṛṣṭhe uśatīm prathayan caritraiḥ .. 20 ..
धन्वन्तरिश्च भगवान् स्वयमेव कीर्तिः । नाम्ना नृणां पुरुरुजां रुज आशु हन्ति । यज्ञे च भागममृतायुरवावचन्ध । आयुश्च वेदमनुशास्त्यवतीर्य लोके ॥ २१ ॥
धन्वन्तरिः च भगवान् स्वयम् एव कीर्तिः । नाम्ना नृणाम् पुरु-रुजाम् रुजः आशु हन्ति । यज्ञे च भागम् अमृत-आयुः अवावचन्ध । आयुः च वेदम् अनुशास्ति अवतीर्य लोके ॥ २१ ॥
dhanvantariḥ ca bhagavān svayam eva kīrtiḥ . nāmnā nṛṇām puru-rujām rujaḥ āśu hanti . yajñe ca bhāgam amṛta-āyuḥ avāvacandha . āyuḥ ca vedam anuśāsti avatīrya loke .. 21 ..
क्षत्रं क्षयाय विधिनोपभृतं महात्मा । ब्रह्मध्रुगुज्झितपथं नरकार्तिलिप्सु । उद्धन्त्यसाववनिकण्टकमुग्रवीर्यः । त्रिःसप्तकृत्व उरुधारपरश्वधेन ॥ २२ ॥
क्षत्रम् क्षयाय विधिना उपभृतम् महात्मा । ब्रह्म-द्रुह्-उज्झित-पथम् नरक-आर्ति-लिप्सु । उद्धन्ति असौ अवनि-कण्टकम् उग्र-वीर्यः । त्रिस् सप्त-कृत्वस् उरु-धार-परश्वधेन ॥ २२ ॥
kṣatram kṣayāya vidhinā upabhṛtam mahātmā . brahma-druh-ujjhita-patham naraka-ārti-lipsu . uddhanti asau avani-kaṇṭakam ugra-vīryaḥ . tris sapta-kṛtvas uru-dhāra-paraśvadhena .. 22 ..
अस्मत्प्रसादसुमुखः कलया कलेश । इक्ष्वाकुवंश अवतीर्य गुरोर्निदेशे । तिष्ठन् वनं सदयितानुज आविवेश । यस्मिन् विरुध्य दशकन्धर आर्तिमार्च्छत् ॥ २३ ॥
अस्मद्-प्रसाद-सु मुखः कलया कला-ईश । इक्ष्वाकु-वंशे अवतीर्य गुरोः निदेशे । तिष्ठन् वनम् स दयित-अनुजः आविवेश । यस्मिन् विरुध्य दश-कन्धरः आर्तिम् आर्च्छत् ॥ २३ ॥
asmad-prasāda-su mukhaḥ kalayā kalā-īśa . ikṣvāku-vaṃśe avatīrya guroḥ nideśe . tiṣṭhan vanam sa dayita-anujaḥ āviveśa . yasmin virudhya daśa-kandharaḥ ārtim ārcchat .. 23 ..
यस्मा अदादुदधिरूढभयाङ्गवेपो । मार्गं सपद्यरिपुरं हरवद् दिधक्षोः । दूरे सुहृन्मथितरोष सुशोणदृष्ट्या । तातप्यमानमकरोरगनक्रचक्रः ॥ २४ ॥
यस्मै अदात् उदधि-रूढ-भय-अङ्ग-वेपः । मार्गम् सपदि अरि-पुरम् हर-वत् दिधक्षोः । दूरे सुहृद्-मथित-रोष सु शोण-दृष्ट्या । तातप्यमान-मकर-उरग-नक्र-चक्रः ॥ २४ ॥
yasmai adāt udadhi-rūḍha-bhaya-aṅga-vepaḥ . mārgam sapadi ari-puram hara-vat didhakṣoḥ . dūre suhṛd-mathita-roṣa su śoṇa-dṛṣṭyā . tātapyamāna-makara-uraga-nakra-cakraḥ .. 24 ..
वक्षःस्थलस्पर्शरुग्णमहेन्द्रवाह । दन्तैर्विडम्बितककुब्जुष ऊढहासम् । सद्योऽसुभिः सह विनेष्यति दारहर्तुः । विस्फूर्जितैर्धनुष उच्चरतोऽधि सैन्ये ॥ २५ ॥
वक्षः-स्थल-स्पर्श-रुग्ण-महा-इन्द्र-वाह । दन्तैः विडम्बित-ककुभ्-जुषः ऊढ-हासम् । सद्यस् असुभिः सह विनेष्यति दारहर्तुः । विस्फूर्जितैः धनुषः उच्चरतः अधि सैन्ये ॥ २५ ॥
vakṣaḥ-sthala-sparśa-rugṇa-mahā-indra-vāha . dantaiḥ viḍambita-kakubh-juṣaḥ ūḍha-hāsam . sadyas asubhiḥ saha vineṣyati dārahartuḥ . visphūrjitaiḥ dhanuṣaḥ uccarataḥ adhi sainye .. 25 ..
भूमेः सुरेतरवरूथविमर्दितायाः । क्लेशव्ययाय कलया सितकृष्णकेशः । जातः करिष्यति जनानुपलक्ष्यमार्गः । कर्माणि चाऽऽत्ममहिमोपनिबन्धनानि ॥ २६ ॥
भूमेः सुरेतर-वरूथ-विमर्दितायाः । क्लेश-व्ययाय कलया सित-कृष्ण-केशः । जातः करिष्यति जन-अनुपलक्ष्य-मार्गः । कर्माणि च आत्म-महिम-उपनिबन्धनानि ॥ २६ ॥
bhūmeḥ suretara-varūtha-vimarditāyāḥ . kleśa-vyayāya kalayā sita-kṛṣṇa-keśaḥ . jātaḥ kariṣyati jana-anupalakṣya-mārgaḥ . karmāṇi ca ātma-mahima-upanibandhanāni .. 26 ..
तोकेन जीवहरणं यदुलूकिकायाः । त्रैमासिकस्य च पदा शकटोऽपवृत्तः । यद् रिङ्गतान्तरगतेन दिविस्पृशोर्वा । उन्मूलनं त्वितरथाऽर्जुनयोर्न भाव्यम् ॥ २७ ॥
तोकेन जीव-हरणम् यत् उलूकिकायाः । त्रैमासिकस्य च पदा शकटः अपवृत्तः । यत् रिङ्गता अन्तर-गतेन दिविस्पृशोः वा । उन्मूलनम् तु इतरथा अर्जुनयोः न भाव्यम् ॥ २७ ॥
tokena jīva-haraṇam yat ulūkikāyāḥ . traimāsikasya ca padā śakaṭaḥ apavṛttaḥ . yat riṅgatā antara-gatena divispṛśoḥ vā . unmūlanam tu itarathā arjunayoḥ na bhāvyam .. 27 ..
यद्वै व्रजे व्रजपशून् विषतोयपीतान् । पालांस्त्वजीव यदनुग्रहदृष्टिवृष्ट्या । तच्छुद्धयेऽतिविषवीर्य विलोलजिह्वम् । उच्चाटयिष्यदुरगं विहरन् ह्रदिन्याम् ॥ २८ ॥
यत् वै व्रजे व्रज-पशून् विष-तोय-पीतान् । पालान् तु अजीव यत् अनुग्रह-दृष्टि-वृष्ट्या । तद्-शुद्धये अति विष-वीर्य विलोल-जिह्वम् । उच्चाटयिष्यत्-उरगम् विहरन् ह्रदिन्याम् ॥ २८ ॥
yat vai vraje vraja-paśūn viṣa-toya-pītān . pālān tu ajīva yat anugraha-dṛṣṭi-vṛṣṭyā . tad-śuddhaye ati viṣa-vīrya vilola-jihvam . uccāṭayiṣyat-uragam viharan hradinyām .. 28 ..
तत्कर्म दिव्यमिव यन्निशि निःशयानं । दावाग्निना शुचिवने परिदह्यमाने । उन्नेष्यति व्रजमतोऽवसितान्तकालं । नेत्रे पिधाप्य सबलोऽनधिगम्यवीर्यः ॥ २९ ॥
तत् कर्म दिव्यम् इव यत् निशि निःशयानम् । दाव-अग्निना शुचि-वने परिदह्यमाने । उन्नेष्यति व्रजम् अतस् अवसित-अन्त-कालम् । नेत्रे पिधाप्य स बलः अनधिगम्य-वीर्यः ॥ २९ ॥
tat karma divyam iva yat niśi niḥśayānam . dāva-agninā śuci-vane paridahyamāne . unneṣyati vrajam atas avasita-anta-kālam . netre pidhāpya sa balaḥ anadhigamya-vīryaḥ .. 29 ..
गृह्णीत यद् यदुपबन्धममुष्य माता । शुल्बं सुतस्य न तु तत् तदमुष्य माति । यज्जृम्भतोऽस्य वदने भुवनानि गोपी । संवीक्ष्य शंकितमनाः प्रतिबोधिताऽऽसीत् ॥ ३० ॥
गृह्णीत यत् यत् उपबन्धम् अमुष्य माता । शुल्बम् सुतस्य न तु तत् तत् अमुष्य मा अति । यत् जृम्भतः अस्य वदने भुवनानि गोपी । संवीक्ष्य शंकित-मनाः प्रतिबोधिता आसीत् ॥ ३० ॥
gṛhṇīta yat yat upabandham amuṣya mātā . śulbam sutasya na tu tat tat amuṣya mā ati . yat jṛmbhataḥ asya vadane bhuvanāni gopī . saṃvīkṣya śaṃkita-manāḥ pratibodhitā āsīt .. 30 ..
नन्दं च मोक्ष्यति भयाद् वरुणस्य पाशात् । गोपान् बिलेषु पिहितान् मयसूनुना च । अह्न्यापृतं निशि शयानमतिश्रमेण । लोकं विकुण्ठ मुपनेष्यति गोकुलं स्म ॥ ३१ ॥
नन्दम् च मोक्ष्यति भयात् वरुणस्य पाशात् । गोपान् बिलेषु पिहितान् मय-सूनुना च । अह्न्यापृतम् निशि शयानम् अति श्रमेण । लोकम् विकुण्ठ उपनेष्यति गोकुलम् स्म ॥ ३१ ॥
nandam ca mokṣyati bhayāt varuṇasya pāśāt . gopān bileṣu pihitān maya-sūnunā ca . ahnyāpṛtam niśi śayānam ati śrameṇa . lokam vikuṇṭha upaneṣyati gokulam sma .. 31 ..
गोपैर्मखे प्रतिहते व्रजविप्लवाय । देवेऽभिवर्षति पशून् कृपया रिरक्षुः । धर्तोच्छिलीन्ध्रमिव सप्तदिनानि सप्त । वर्षो महीध्रमनघैककरे सलीलम् ॥ ३२ ॥
गोपैः मखे प्रतिहते व्रज-विप्लवाय । देवे अभिवर्षति पशून् कृपया रिरक्षुः । धर्ता उच्छिलीन्ध्रम् इव सप्त-दिनानि सप्त । वर्षः महीध्रम् अनघ-एक-करे स लीलम् ॥ ३२ ॥
gopaiḥ makhe pratihate vraja-viplavāya . deve abhivarṣati paśūn kṛpayā rirakṣuḥ . dhartā ucchilīndhram iva sapta-dināni sapta . varṣaḥ mahīdhram anagha-eka-kare sa līlam .. 32 ..
क्रीडन् वने निशि निशाकररश्मिगौर्यां । रासोन्मुखः कलपदायतमूर्च्छितेन । उद्दीपितस्मररुजां व्रजभृद्वधूनां । हर्तुर्हरिष्यति शिरो धनदानुगस्य ॥ ३३ ॥
क्रीडन् वने निशि निशाकर-रश्मि-गौर्याम् । रास-उन्मुखः कल-पद-आयत-मूर्च्छितेन । उद्दीपित-स्मर-रुजाम् व्रजभृत्-वधूनाम् । हर्तुः हरिष्यति शिरः धनद-अनुगस्य ॥ ३३ ॥
krīḍan vane niśi niśākara-raśmi-gauryām . rāsa-unmukhaḥ kala-pada-āyata-mūrcchitena . uddīpita-smara-rujām vrajabhṛt-vadhūnām . hartuḥ hariṣyati śiraḥ dhanada-anugasya .. 33 ..
ये च प्रलम्बखरदर्दुरकेश्यरिष्ट । मल्लेभकंसयवनाः कपिपौण्ड्रकाद्याः । अन्ये च शाल्वकुजबल्वलदन्तवक्र । सप्तोक्षशम्बरविदूरथ रुक्मिमुख्याः ॥ ३४ ॥
ये च प्रलम्ब-खर-दर्दुर-केशी-अरिष्ट । मल्लेभ-कंसयवनाः कपि-पौण्ड्रक-आद्याः । अन्ये च । सप्त-उक्ष-शम्बर-विदूर-थ रुक्मि-मुख्याः ॥ ३४ ॥
ye ca pralamba-khara-dardura-keśī-ariṣṭa . mallebha-kaṃsayavanāḥ kapi-pauṇḍraka-ādyāḥ . anye ca . sapta-ukṣa-śambara-vidūra-tha rukmi-mukhyāḥ .. 34 ..
ये वा मृधे समितिशालिन आत्तचापाः । काम्बोजमत्स्यकुरुकैकयसृञ्जयाद्याः । यास्यन्त्यदर्शनमलं बलपार्थभीम । व्याजाह्वयेन हरिणा निलयं तदीयम् ॥ ३५ ॥
ये वा मृधे समिति-शालिनः आत्त-चापाः । काम्बोज-मत्स्य-कुरु-कैकय-सृञ्जय-आद्याः । यास्यन्ति अदर्शन-मलम् बल-पार्थ-भीम । व्याज-आह्वयेन हरिणा निलयम् तदीयम् ॥ ३५ ॥
ye vā mṛdhe samiti-śālinaḥ ātta-cāpāḥ . kāmboja-matsya-kuru-kaikaya-sṛñjaya-ādyāḥ . yāsyanti adarśana-malam bala-pārtha-bhīma . vyāja-āhvayena hariṇā nilayam tadīyam .. 35 ..
कालेन मीलितधियामवमृश्य नॄणां । स्तोकायुषां स्वनिगमो बत दूरपारः । आविर्हितस्त्वनुयुगं स हि सत्यवत्यां । वेदद्रुमं विटपशो विभजिष्यति स्म ॥ ३६ ॥
कालेन मीलित-धियाम् अवमृश्य नॄणाम् । स्तोक-आयुषाम् स्व-निगमः बत दूर-पारः । आविस् हितः तु अनुयुगम् स हि सत्यवत्याम् । वेद-द्रुमम् विट-पशः विभजिष्यति स्म ॥ ३६ ॥
kālena mīlita-dhiyām avamṛśya nṝṇām . stoka-āyuṣām sva-nigamaḥ bata dūra-pāraḥ . āvis hitaḥ tu anuyugam sa hi satyavatyām . veda-drumam viṭa-paśaḥ vibhajiṣyati sma .. 36 ..
देवद्विषां निगमवर्त्मनि निष्ठितानां । पूर्भिर्मयेन विहिताभिरदृश्यतूर्भिः । लोकान् घ्नतां मतिविमोहमतिप्रलोभं । वेषं विधाय बहु भाष्यत औपधर्म्यम् ॥ ३७ ॥
देव-द्विषाम् निगम-वर्त्मनि निष्ठितानाम् । पूर्भिः मयेन विहिताभिः अदृश्यतूर्भिः । लोकान् घ्नताम् मति-विमोह-मति-प्रलोभम् । वेषम् विधाय बहु भाष्यत औपधर्म्यम् ॥ ३७ ॥
deva-dviṣām nigama-vartmani niṣṭhitānām . pūrbhiḥ mayena vihitābhiḥ adṛśyatūrbhiḥ . lokān ghnatām mati-vimoha-mati-pralobham . veṣam vidhāya bahu bhāṣyata aupadharmyam .. 37 ..
यर्ह्यालयेष्वपि सतां न हरेः कथाः स्युः । पाषण्डिनो द्विजजना वृषला नृदेवाः । स्वाहा स्वधा वषडिति स्म गिरो न यत्र । शास्ता भविष्यति कलेर्भगवान् युगान्ते ॥ ३८ ॥
यर्हि आलयेषु अपि सताम् न हरेः कथाः स्युः । पाषण्डिनः द्विज-जनाः वृषलाः नृदेवाः । स्वाहा स्वधा वषट् इति स्म गिरः न यत्र । शास्ता भविष्यति कलेः भगवान् युग-अन्ते ॥ ३८ ॥
yarhi ālayeṣu api satām na hareḥ kathāḥ syuḥ . pāṣaṇḍinaḥ dvija-janāḥ vṛṣalāḥ nṛdevāḥ . svāhā svadhā vaṣaṭ iti sma giraḥ na yatra . śāstā bhaviṣyati kaleḥ bhagavān yuga-ante .. 38 ..
सर्गे तपोऽहमृषयो नव ये प्रजेशाः । स्थाने च धर्ममखमन्वमरावनीशाः । अन्ते त्वधर्महरमन्युवशासुराद्या । मायाविभूतय इमाः पुरुशक्तिभाजः ॥ ३९ ॥
सर्गे तपः अहम् ऋषयः नव ये प्रजा-ईशाः । स्थाने च धर्म-मखम् अनु अमर-अवनीशाः । अन्ते तु अधर्म-हर-मन्यु-वश-असुर-आद्या । माया-विभूतयः इमाः पुरु-शक्ति-भाजः ॥ ३९ ॥
sarge tapaḥ aham ṛṣayaḥ nava ye prajā-īśāḥ . sthāne ca dharma-makham anu amara-avanīśāḥ . ante tu adharma-hara-manyu-vaśa-asura-ādyā . māyā-vibhūtayaḥ imāḥ puru-śakti-bhājaḥ .. 39 ..
विष्णोर्नु वीर्यगणनां कतमोऽर्हतीह । यः पार्थिवान्यपि कविर्विममे रजांसि । चस्कम्भ यः स्वरहसास्खलता त्रिपृष्ठं । यस्मात् त्रिसाम्यसदनाद् उरुकम्पयानम् ॥ ४० ॥
विष्णोः नु वीर्य-गणनाम् कतमः अर्हति इह । यः पार्थिवानि अपि कविः विममे रजांसि । चस्कम्भ यः स्व-रहसा अ स्खलता त्रि-पृष्ठम् । यस्मात् त्रि-साम्य-सदनात् उरु-कम्पयानम् ॥ ४० ॥
viṣṇoḥ nu vīrya-gaṇanām katamaḥ arhati iha . yaḥ pārthivāni api kaviḥ vimame rajāṃsi . caskambha yaḥ sva-rahasā a skhalatā tri-pṛṣṭham . yasmāt tri-sāmya-sadanāt uru-kampayānam .. 40 ..
नान्तं विदाम्यहममी मुनयोऽग्रजास्ते । मायाबलस्य पुरुषस्य कुतोऽपरे ये । गायन् गुणान् दशशतानन आदिदेवः । शेषोऽधुनापि समवस्यति नास्य पारम् ॥ ४१ ॥
न अन्तम् विदामि अहम् अमी मुनयः अग्रजाः ते । माया-बलस्य पुरुषस्य कुतस् अपरे ये । गायन् गुणान् दश-शत-आननः आदिदेवः । शेषः अधुना अपि समवस्यति न अस्य पारम् ॥ ४१ ॥
na antam vidāmi aham amī munayaḥ agrajāḥ te . māyā-balasya puruṣasya kutas apare ye . gāyan guṇān daśa-śata-ānanaḥ ādidevaḥ . śeṣaḥ adhunā api samavasyati na asya pāram .. 41 ..
येषां स एष भगवान् दययेदनन्तः । सर्वात्मनाऽश्रितपदो यदि निर्व्यलीकम् । ते दुस्तरामतितरन्ति च देवमायां । नैषां ममाहमिति धीः श्वशृगालभक्ष्ये ॥ ४२ ॥
येषाम् सः एष भगवान् दयया इद् अनन्तः । सर्व-आत्मना आश्रित-पदः यदि निर्व्यलीकम् । ते दुस्तराम् अतितरन्ति च देव-मायाम् । न एषाम् मम अहम् इति धीः श्व-शृगाल-भक्ष्ये ॥ ४२ ॥
yeṣām saḥ eṣa bhagavān dayayā id anantaḥ . sarva-ātmanā āśrita-padaḥ yadi nirvyalīkam . te dustarām atitaranti ca deva-māyām . na eṣām mama aham iti dhīḥ śva-śṛgāla-bhakṣye .. 42 ..
वेदाहमङ्ग परमस्य हि योगमायां । यूयं भवश्च भगवानथ दैत्यवर्यः । पत्नी मनोः स च मनुश्च तदात्मजाश्च । प्राचीनबर्हि ऋभुरङ्ग उत ध्रुवश्च ॥ ४३ ॥
वेद अहम् अङ्ग परमस्य हि योग-मायाम् । यूयम् भवः च भगवान् अथ दैत्य-वर्यः । पत्नी मनोः स च मनुः च तद्-आत्मजाः च । प्राचीनबर्हिः ऋभुः अङ्गः उत ध्रुवः च ॥ ४३ ॥
veda aham aṅga paramasya hi yoga-māyām . yūyam bhavaḥ ca bhagavān atha daitya-varyaḥ . patnī manoḥ sa ca manuḥ ca tad-ātmajāḥ ca . prācīnabarhiḥ ṛbhuḥ aṅgaḥ uta dhruvaḥ ca .. 43 ..
इक्ष्वाकुरैलमुचुकुन्दविदेहगाधि । रघ्वम्बरीषसगरा गयनाहुषाद्याः । मान्धात्रलर्कशतधन्वनुरन्तिदेवा । देवव्रतो बलिरमूर्त्तरयो दिलीपः ॥ ४४ ॥
इक्ष्वाकु-रैल-मुचुकुन्द-विदेह-गाधि । रघु-अम्बरीष-सगराः गय-नाहुष-आद्याः । मान्धातृ-अलर्क-शतधन्व-नुरन्तिदेवा । देवव्रतः बलिः अमूर्त्त-रयः दिलीपः ॥ ४४ ॥
ikṣvāku-raila-mucukunda-videha-gādhi . raghu-ambarīṣa-sagarāḥ gaya-nāhuṣa-ādyāḥ . māndhātṛ-alarka-śatadhanva-nurantidevā . devavrataḥ baliḥ amūrtta-rayaḥ dilīpaḥ .. 44 ..
सौभर्युतङ्कशिबिदेवलपिप्पलाद । सारस्वतोद्धवपराशरभूरिषेणाः । येऽन्ये विभीषणहनूमदुपेन्द्रदत्त । पार्थार्ष्टिषेणविदुरश्रुतदेव वर्याः ॥ ४५ ॥
सौभरि-उतङ्क-शिबि-देवल-पिप्पलाद । सारस्वत-उद्धव-पराशर-भूरिषेणाः । ये अन्ये विभीषण-हनूमत्-उपेन्द्रदत्त । वर्याः ॥ ४५ ॥
saubhari-utaṅka-śibi-devala-pippalāda . sārasvata-uddhava-parāśara-bhūriṣeṇāḥ . ye anye vibhīṣaṇa-hanūmat-upendradatta . varyāḥ .. 45 ..
ते वै विदन्त्यतितरन्ति च देवमायां । स्त्रीशूद्रहूणशबरा अपि पापजीवाः । यद्यद्भुतक्रम परायणशीलशिक्षाः । तिर्यग्जना अपि किमु श्रुतधारणा ये ॥ ४६ ॥
ते वै विदन्ति अतितरन्ति च देव-मायाम् । स्त्री-शूद्र-हूण-शबराः अपि पाप-जीवाः । यत् यद्भुत-क्रम परायण-शील-शिक्षाः । तिर्यग्जनाः अपि किमु श्रुत-धारणाः ये ॥ ४६ ॥
te vai vidanti atitaranti ca deva-māyām . strī-śūdra-hūṇa-śabarāḥ api pāpa-jīvāḥ . yat yadbhuta-krama parāyaṇa-śīla-śikṣāḥ . tiryagjanāḥ api kimu śruta-dhāraṇāḥ ye .. 46 ..
शश्वत् प्रशान्तमभयं प्रतिबोधमात्रं । शुद्धं समं सदसतः परमात्मतत्त्वम् । शब्दो न यत्र पुरुकारकवान् क्रियार्थो । माया परैत्यभिमुखे च विलज्जमाना ॥ ४७ ॥
शश्वत् प्रशान्तम् अभयम् प्रतिबोध-मात्रम् । शुद्धम् समम् सत्-असतः परमात्म-तत्त्वम् । शब्दः न यत्र पुरु-कारकवान् । माया परैति अभिमुखे च विलज्जमाना ॥ ४७ ॥
śaśvat praśāntam abhayam pratibodha-mātram . śuddham samam sat-asataḥ paramātma-tattvam . śabdaḥ na yatra puru-kārakavān . māyā paraiti abhimukhe ca vilajjamānā .. 47 ..
तद्वै पदं भगवतः परमस्य पुंसो । ब्रह्मेति यद्विदुरजस्रसुखं विशोकम् । सध्र्यङ् नियम्य यतयो यमकर्तहेतिं । जह्युः स्वराडिव निपानखनित्रमिन्द्रः ॥ ४८ ॥
तत् वै पदम् भगवतः परमस्य पुंसः । ब्रह्म इति यत् विदुः अजस्र-सुखम् विशोकम् । सध्र्यक् नियम्य यतयः यम-कर्त-हेतिम् । जह्युः स्वराज् इव निपान-खनित्रम् इन्द्रः ॥ ४८ ॥
tat vai padam bhagavataḥ paramasya puṃsaḥ . brahma iti yat viduḥ ajasra-sukham viśokam . sadhryak niyamya yatayaḥ yama-karta-hetim . jahyuḥ svarāj iva nipāna-khanitram indraḥ .. 48 ..
स श्रेयसामपि विभुर्भगवान् यतोऽस्य । भावस्वभावविहितस्य सतः प्रसिद्धिः । देहे स्वधातुविगमेऽनुविशीर्यमाणे । व्योमेव तत्र पुरुषो न विशीर्यतेऽजः ॥ ४९ ॥
स श्रेयसाम् अपि विभुः भगवान् यतस् अस्य । भाव-स्वभाव-विहितस्य सतः प्रसिद्धिः । देहे स्व-धातु-विगमे अनुविशीर्यमाणे । व्योम इव तत्र पुरुषः न विशीर्यते अजः ॥ ४९ ॥
sa śreyasām api vibhuḥ bhagavān yatas asya . bhāva-svabhāva-vihitasya sataḥ prasiddhiḥ . dehe sva-dhātu-vigame anuviśīryamāṇe . vyoma iva tatra puruṣaḥ na viśīryate ajaḥ .. 49 ..
(अनुष्टुप्)
सोऽयं तेऽभिहितस्तात भगवान् विश्वभावनः । समासेन हरेर्नान्यद् अन्यस्मात् सदसच्च यत् ॥ ५० ॥
सः अयम् ते अभिहितः तात भगवान् विश्वभावनः । समासेन हरेः न अन्यत् अन्यस्मात् सत्-असत् च यत् ॥ ५० ॥
saḥ ayam te abhihitaḥ tāta bhagavān viśvabhāvanaḥ . samāsena hareḥ na anyat anyasmāt sat-asat ca yat .. 50 ..
इदं भागवतं नाम यन्मे भगवतोदितम् । सङ्ग्रहोऽयं विभूतीनां त्वमेतद् विपुली कुरु ॥ ५१ ॥
इदम् भागवतम् नाम यत् मे भगवता उदितम् । सङ्ग्रहः अयम् विभूतीनाम् त्वम् एतत् विपुली कुरु ॥ ५१ ॥
idam bhāgavatam nāma yat me bhagavatā uditam . saṅgrahaḥ ayam vibhūtīnām tvam etat vipulī kuru .. 51 ..
राजोवाच
यथा हरौ भगवति नृणां भक्तिर्भविष्यति । सर्वात्मन्यखिलाधारे इति सङ्कल्प्य वर्णय ॥ ५२ ॥
यथा हरौ भगवति नृणाम् भक्तिः भविष्यति । सर्व-आत्मनि अखिल-आधारे इति सङ्कल्प्य वर्णय ॥ ५२ ॥
yathā harau bhagavati nṛṇām bhaktiḥ bhaviṣyati . sarva-ātmani akhila-ādhāre iti saṅkalpya varṇaya .. 52 ..
मायां वर्णयतोऽमुष्य ईश्वरस्यानुमोदतः । शृण्वतः श्रद्धया नित्यं माययाऽऽत्मा न मुह्यति ॥ ५3 ॥
मायाम् वर्णयतः अमुष्य ईश्वरस्य अनुमोदतः । शृण्वतः श्रद्धया नित्यम् मायया आत्मा न मुह्यति ॥ ५३ ॥
māyām varṇayataḥ amuṣya īśvarasya anumodataḥ . śṛṇvataḥ śraddhayā nityam māyayā ātmā na muhyati .. 53 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वितीयस्कंधे सप्तमोऽध्यायः ॥ ७ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् द्वितीय-स्कंधे सप्तमः अध्यायः ॥ ७ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām dvitīya-skaṃdhe saptamaḥ adhyāyaḥ .. 7 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In