| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

राजोवाच ।
ब्रह्मणा चोदितो ब्रह्मन् गुणाख्यानेऽगुणस्य च । यस्मै यस्मै यथा प्राह नारदो देवदर्शनः ॥ १ ॥
ब्रह्मणा चोदितः ब्रह्मन् गुण-आख्याने अगुणस्य च । यस्मै यस्मै यथा प्राह नारदः देवदर्शनः ॥ १ ॥
brahmaṇā coditaḥ brahman guṇa-ākhyāne aguṇasya ca . yasmai yasmai yathā prāha nāradaḥ devadarśanaḥ .. 1 ..
(अनुष्टुप्)
एतत् वेदितुमिच्छामि तत्त्वं तत्त्वविदां वर । हरेरद्भुतवीर्यस्य कथा लोकसुमङ्गलाः ॥ २ ॥
एतत् वेदितुम् इच्छामि तत्त्वम् तत्त्व-विदाम् वर । हरेः अद्भुत-वीर्यस्य कथाः लोक-सु मङ्गलाः ॥ २ ॥
etat veditum icchāmi tattvam tattva-vidām vara . hareḥ adbhuta-vīryasya kathāḥ loka-su maṅgalāḥ .. 2 ..
कथयस्व महाभाग यथाऽहं अखिलात्मनि । कृष्णे निवेश्य निःसङ्गं मनस्त्यक्ष्ये कलेवरम् ॥ ३ ॥
कथयस्व महाभाग यथा अहम् अखिलात्मनि । कृष्णे निवेश्य निःसङ्गम् मनः त्यक्ष्ये कलेवरम् ॥ ३ ॥
kathayasva mahābhāga yathā aham akhilātmani . kṛṣṇe niveśya niḥsaṅgam manaḥ tyakṣye kalevaram .. 3 ..
शृण्वतः श्रद्धया नित्यं गृणतश्च स्वचेष्टितम् । कालेन नातिदीर्घेण भगवान्विशते हृदि ॥ ४ ॥
शृण्वतः श्रद्धया नित्यम् गृणतः च स्व-चेष्टितम् । कालेन न अति दीर्घेण भगवान् विशते हृदि ॥ ४ ॥
śṛṇvataḥ śraddhayā nityam gṛṇataḥ ca sva-ceṣṭitam . kālena na ati dīrgheṇa bhagavān viśate hṛdi .. 4 ..
प्रविष्टः कर्णरन्ध्रेण स्वानां भावसरोरुहम् । धुनोति शमलं कृष्णः सलिलस्य यथा शरत् ॥ ५ ॥
प्रविष्टः कर्ण-रन्ध्रेण स्वानाम् भाव-सरोरुहम् । धुनोति शमलम् कृष्णः सलिलस्य यथा शरद् ॥ ५ ॥
praviṣṭaḥ karṇa-randhreṇa svānām bhāva-saroruham . dhunoti śamalam kṛṣṇaḥ salilasya yathā śarad .. 5 ..
धौतात्मा पुरुषः कृष्ण पादमूलं न मुञ्चति । मुक्तसर्वपरिक्लेशः पान्थः स्वशरणं यथा ॥ ६ ॥
धौत-आत्मा पुरुषः कृष्ण पाद-मूलम् न मुञ्चति । मुक्त-सर्व-परिक्लेशः पान्थः स्व-शरणम् यथा ॥ ६ ॥
dhauta-ātmā puruṣaḥ kṛṣṇa pāda-mūlam na muñcati . mukta-sarva-parikleśaḥ pānthaḥ sva-śaraṇam yathā .. 6 ..
यदधातुमतो ब्रह्मन्देहारम्भोऽस्य धातुभिः । यदृच्छया हेतुना वा भवन्तो जानते यथा ॥ ७ ॥
यत् अ धातुमतः ब्रह्मन् देह-आरम्भः अस्य धातुभिः । यदृच्छया हेतुना वा भवन्तः जानते यथा ॥ ७ ॥
yat a dhātumataḥ brahman deha-ārambhaḥ asya dhātubhiḥ . yadṛcchayā hetunā vā bhavantaḥ jānate yathā .. 7 ..
आसीद् यदुदरात्पद्मं लोकसंस्थानलक्षणम् । यावानयं वै पुरुष इयत्तावयवैः पृथक् । तावानसाविति प्रोक्तः संस्थावयववानिव ॥ ८ ॥
आसीत् यत् उदरात् पद्मम् लोक-संस्थान-लक्षणम् । यावान् अयम् वै पुरुषः इयत्-ता अवयवैः पृथक् । तावान् असौ इति प्रोक्तः संस्था-अवयववान् इव ॥ ८ ॥
āsīt yat udarāt padmam loka-saṃsthāna-lakṣaṇam . yāvān ayam vai puruṣaḥ iyat-tā avayavaiḥ pṛthak . tāvān asau iti proktaḥ saṃsthā-avayavavān iva .. 8 ..
अजः सृजति भूतानि भूतात्मा यदनुग्रहात् । ददृशे येन तद् रूपं नाभिपद्मसमुद्भवः ॥ ९ ॥
अजः सृजति भूतानि भूतात्मा यत् अनुग्रहात् । ददृशे येन तत् रूपम् नाभि-पद्म-समुद्भवः ॥ ९ ॥
ajaḥ sṛjati bhūtāni bhūtātmā yat anugrahāt . dadṛśe yena tat rūpam nābhi-padma-samudbhavaḥ .. 9 ..
स चाऽपि यत्र पुरुषो विश्वस्थित्युद्भवाप्ययः । मुक्त्वाऽऽत्ममायां मायेशः शेते सर्वगुहाशयः ॥ १० ॥
स च अपि यत्र पुरुषः विश्व-स्थिति-उद्भव-अप्ययः । मुक्त्वा आत्म-मायाम् माया-ईशः शेते सर्व-गुहा-आशयः ॥ १० ॥
sa ca api yatra puruṣaḥ viśva-sthiti-udbhava-apyayaḥ . muktvā ātma-māyām māyā-īśaḥ śete sarva-guhā-āśayaḥ .. 10 ..
पुरुषावयवैर्लोकाः सपालाः पूर्वकल्पिताः । लोकैरमुष्यावयवाः सपालैरिति शुश्रुम ॥ ११ ॥
पुरुष-अवयवैः लोकाः स पालाः पूर्व-कल्पिताः । लोकैः अमुष्य अवयवाः स पालैः इति शुश्रुम ॥ ११ ॥
puruṣa-avayavaiḥ lokāḥ sa pālāḥ pūrva-kalpitāḥ . lokaiḥ amuṣya avayavāḥ sa pālaiḥ iti śuśruma .. 11 ..
यावान् कल्पो विकल्पो वा यथा कालोऽनुमीयते । भूतभव्यभवच्छब्द आयुर्मानश्च यत् सतः ॥ १२ ॥
यावान् कल्पः विकल्पः वा यथा कालः अनुमीयते । भूत-भव्य-भवत्-शब्दः आयुः-मानः च यत् सतः ॥ १२ ॥
yāvān kalpaḥ vikalpaḥ vā yathā kālaḥ anumīyate . bhūta-bhavya-bhavat-śabdaḥ āyuḥ-mānaḥ ca yat sataḥ .. 12 ..
कालस्यानुगतिर्या तु लक्ष्यतेऽण्वी बृहत्यपि । यावत्यः कर्मगतयो यादृशी द्विजसत्तम ॥ १३ ॥
कालस्य अनुगतिः या तु लक्ष्यते अण्वी बृहती अपि । यावत्यः कर्म-गतयः यादृशी द्विजसत्तम ॥ १३ ॥
kālasya anugatiḥ yā tu lakṣyate aṇvī bṛhatī api . yāvatyaḥ karma-gatayaḥ yādṛśī dvijasattama .. 13 ..
यस्मिन् कर्मसमावायो यथा येनोपगृह्यते । गुणानां गुणिनाश्चैव परिणाममभीप्सताम् ॥ १४ ॥
यस्मिन् कर्म-समावायः यथा येन उपगृह्यते । गुणानाम् परिणामम् अभीप्सताम् ॥ १४ ॥
yasmin karma-samāvāyaḥ yathā yena upagṛhyate . guṇānām pariṇāmam abhīpsatām .. 14 ..
भूपातालककुब्व्योम ग्रहनक्षत्रभूभृताम् । सरित्समुद्रद्वीपानां सम्भवश्चैतदोकसाम् ॥ १५ ॥
भू-पाताल-ककुभ्-व्योम ग्रह-नक्षत्र-भूभृताम् । सरित्-समुद्र-द्वीपानाम् सम्भवः च एतत् ओकसाम् ॥ १५ ॥
bhū-pātāla-kakubh-vyoma graha-nakṣatra-bhūbhṛtām . sarit-samudra-dvīpānām sambhavaḥ ca etat okasām .. 15 ..
प्रमाणमण्डकोशस्य बाह्याभ्यन्तरभेदतः । महतां चानुचरितं वर्णाश्रमविनिश्चयः ॥ १६ ॥
। महताम् च अनुचरितम् वर्ण-आश्रम-विनिश्चयः ॥ १६ ॥
. mahatām ca anucaritam varṇa-āśrama-viniścayaḥ .. 16 ..
युगानि युगमानश्च धर्मो यश्च युगे युगे । अवतारानुचरितं यदाश्चर्यतमं हरेः ॥ १७ ॥
युगानि युग-मानः च धर्मः यः च युगे युगे । अवतार-अनुचरितम् यत् आश्चर्यतमम् हरेः ॥ १७ ॥
yugāni yuga-mānaḥ ca dharmaḥ yaḥ ca yuge yuge . avatāra-anucaritam yat āścaryatamam hareḥ .. 17 ..
नृणां साधारणो धर्मः सविशेषश्च यादृशः । श्रेणीनां राजर्षीणाञ्च धर्मः कृच्छ्रेषु जीवताम् ॥ १८ ॥
नृणाम् साधारणः धर्मः स विशेषः च यादृशः । श्रेणीनाम् राजर्षीणाम् च धर्मः कृच्छ्रेषु जीवताम् ॥ १८ ॥
nṛṇām sādhāraṇaḥ dharmaḥ sa viśeṣaḥ ca yādṛśaḥ . śreṇīnām rājarṣīṇām ca dharmaḥ kṛcchreṣu jīvatām .. 18 ..
तत्त्वानां परिसङ्ख्यानं लक्षणं हेतुलक्षणम् । पुरुषाराधनविधिः योगस्याध्यात्मिकस्य च ॥ १९ ॥
तत्त्वानाम् परिसङ्ख्यानम् लक्षणम् हेतु-लक्षणम् । पुरुष-आराधन-विधिः योगस्य आध्यात्मिकस्य च ॥ १९ ॥
tattvānām parisaṅkhyānam lakṣaṇam hetu-lakṣaṇam . puruṣa-ārādhana-vidhiḥ yogasya ādhyātmikasya ca .. 19 ..
योगेश्वरैश्वर्यगतिः लिङ्गभङ्गस्तु योगिनाम् । वेदोपवेदधर्माणां इतिहासपुराणयोः ॥ २० ॥
योग-ईश्वर-ऐश्वर्य-गतिः लिङ्ग-भङ्गः तु योगिनाम् । वेद-उपवेद-धर्माणाम् इतिहास-पुराणयोः ॥ २० ॥
yoga-īśvara-aiśvarya-gatiḥ liṅga-bhaṅgaḥ tu yoginām . veda-upaveda-dharmāṇām itihāsa-purāṇayoḥ .. 20 ..
सम्प्लवः सर्वभूतानां विक्रमः प्रतिसङ्क्रमः । इष्टापूर्तस्य काम्यानां त्रिवर्गस्य च यो विधिः ॥ २१ ॥
सम्प्लवः सर्व-भूतानाम् विक्रमः प्रतिसङ्क्रमः । इष्टापूर्तस्य काम्यानाम् त्रिवर्गस्य च यः विधिः ॥ २१ ॥
samplavaḥ sarva-bhūtānām vikramaḥ pratisaṅkramaḥ . iṣṭāpūrtasya kāmyānām trivargasya ca yaḥ vidhiḥ .. 21 ..
यश्चानुशायिनां सर्गः पाषण्डस्य च सम्भवः । आत्मनो बन्धमोक्षौ च व्यवस्थानं स्वरूपतः ॥ २२ ॥
यः च अनुशायिनाम् सर्गः पाषण्डस्य च सम्भवः । आत्मनः बन्ध-मोक्षौ च व्यवस्थानम् स्वरूपतः ॥ २२ ॥
yaḥ ca anuśāyinām sargaḥ pāṣaṇḍasya ca sambhavaḥ . ātmanaḥ bandha-mokṣau ca vyavasthānam svarūpataḥ .. 22 ..
यथात्मतन्त्रो भगवान् विक्रीडत्यात्ममायया । विसृज्य वा यथा मायां उदास्ते साक्षिवद्विभुः ॥ २३ ॥
यथा आत्मतन्त्रः भगवान् विक्रीडति आत्म-मायया । विसृज्य वा यथा मायाम् उदास्ते साक्षि-वत् विभुः ॥ २३ ॥
yathā ātmatantraḥ bhagavān vikrīḍati ātma-māyayā . visṛjya vā yathā māyām udāste sākṣi-vat vibhuḥ .. 23 ..
सर्वमेतच्च भगवन् पृच्छतो मेऽनुपूर्वशः । तत्त्वतोऽर्हस्युदाहर्तुं प्रपन्नाय महामुने ॥ २४ ॥
सर्वम् एतत् च भगवन् पृच्छतः मे अनुपूर्वशस् । तत्त्वतः अर्हसि उदाहर्तुम् प्रपन्नाय महा-मुने ॥ २४ ॥
sarvam etat ca bhagavan pṛcchataḥ me anupūrvaśas . tattvataḥ arhasi udāhartum prapannāya mahā-mune .. 24 ..
अत्र प्रमाणं हि भवान् परमेष्ठी यथात्मभूः । अपरे चानुतिष्ठन्ति पूर्वेषां पूर्वजैः कृतम् ॥ २५ ॥
अत्र प्रमाणम् हि भवान् परमेष्ठी यथा आत्मभूः । अपरे च अनुतिष्ठन्ति पूर्वेषाम् पूर्वजैः कृतम् ॥ २५ ॥
atra pramāṇam hi bhavān parameṣṭhī yathā ātmabhūḥ . apare ca anutiṣṭhanti pūrveṣām pūrvajaiḥ kṛtam .. 25 ..
न मेऽसवः परायन्ति ब्रह्मन् अनशनादमी । पिबतोऽच्युतपीयूषं अन्यत्र कुपिताद् द्विजात् ॥ २६ ॥
न मे असवः परायन्ति ब्रह्मन् अनशनात् अमी । पिबतः अच्युत-पीयूषम् अन्यत्र कुपितात् द्विजात् ॥ २६ ॥
na me asavaḥ parāyanti brahman anaśanāt amī . pibataḥ acyuta-pīyūṣam anyatra kupitāt dvijāt .. 26 ..
श्रीसूत उवाच
स उपामन्त्रितो राज्ञा कथायामिति सत्पतेः । ब्रह्मरातो भृशं प्रीतो विष्णुरातेन संसदि ॥ २७ ॥
सः उपामन्त्रितः राज्ञा कथायाम् इति सत्-पतेः । ब्रह्मरातः भृशम् प्रीतः विष्णुरातेन संसदि ॥ २७ ॥
saḥ upāmantritaḥ rājñā kathāyām iti sat-pateḥ . brahmarātaḥ bhṛśam prītaḥ viṣṇurātena saṃsadi .. 27 ..
प्राह भागवतं नाम पुराणं ब्रह्मसम्मितम् । ब्रह्मणे भगवत्प्रोक्तं ब्रह्मकल्प उपागते ॥ २८ ॥
प्राह भागवतम् नाम पुराणम् ब्रह्म-सम्मितम् । ब्रह्मणे भगवत्-प्रोक्तम् ब्रह्म-कल्पे उपागते ॥ २८ ॥
prāha bhāgavatam nāma purāṇam brahma-sammitam . brahmaṇe bhagavat-proktam brahma-kalpe upāgate .. 28 ..
यद्यत् परीक्षिदृषभः पाण्डूनामनुपृच्छति । आनुपूर्व्येण तत्सर्वं आख्यातुमुपचक्रमे ॥ २९ ॥
यत् यत् परीक्षित् ऋषभः पाण्डूनाम् अनुपृच्छति । आनुपूर्व्येण तत् सर्वम् आख्यातुम् उपचक्रमे ॥ २९ ॥
yat yat parīkṣit ṛṣabhaḥ pāṇḍūnām anupṛcchati . ānupūrvyeṇa tat sarvam ākhyātum upacakrame .. 29 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वितीयस्कंधे अष्टमोऽध्यायः ॥ ८ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् द्वितीय-स्कंधे अष्टमः अध्यायः ॥ ८ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām dvitīya-skaṃdhe aṣṭamaḥ adhyāyaḥ .. 8 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In