| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच ।
आत्ममायामृते राजन् पन्परस्यानुभवात्मनः । न घटेतार्थसम्बन्धः स्वप्नद्रष्टुरिवाञ्जसा ॥ १ ॥
आत्म-माया-अमृते राजन् पन्परस्य अनुभव-आत्मनः । न घटेत अर्थ-सम्बन्धः स्वप्न-द्रष्टुः इव अञ्जसा ॥ १ ॥
ātma-māyā-amṛte rājan panparasya anubhava-ātmanaḥ . na ghaṭeta artha-sambandhaḥ svapna-draṣṭuḥ iva añjasā .. 1 ..
(अनुष्टुप्)
बहुरूप इवाभाति मायया बहुरूपया । रममाणो गुणेष्वस्या ममाहमिति मन्यते ॥ २ ॥
बहु-रूपः इव आभाति मायया बहु-रूपया । रममाणः गुणेषु अस्याः मम अहम् इति मन्यते ॥ २ ॥
bahu-rūpaḥ iva ābhāti māyayā bahu-rūpayā . ramamāṇaḥ guṇeṣu asyāḥ mama aham iti manyate .. 2 ..
यर्हि वाव महिम्नि स्वे परस्मिन् कालमाययोः । रमेत गतसम्मोहः त्यक्त्वोदास्ते तदोभयम् ॥ ३ ॥
यर्हि वा अव महिम्नि स्वे परस्मिन् काल-माययोः । रमेत गत-सम्मोहः त्यक्त्वा उदास्ते तदा उभयम् ॥ ३ ॥
yarhi vā ava mahimni sve parasmin kāla-māyayoḥ . rameta gata-sammohaḥ tyaktvā udāste tadā ubhayam .. 3 ..
आत्मतत्त्वविशुद्ध्यर्थं यदाह भगवानृतम् । ब्रह्मणे दर्शयन् रूपं अव्यलीकव्रतादृतः ॥ ४ ॥
आत्म-तत्त्व-विशुद्धि-अर्थम् यत् आह भगवान् अनृतम् । ब्रह्मणे दर्शयन् रूपम् अव्यलीक-व्रत-आदृतः ॥ ४ ॥
ātma-tattva-viśuddhi-artham yat āha bhagavān anṛtam . brahmaṇe darśayan rūpam avyalīka-vrata-ādṛtaḥ .. 4 ..
स आदिदेवो जगतां परो गुरुः स्वधिष्ण्यमास्थाय सिसृक्षयैक्षत । तां नाध्यगछ्रद्दृशमत्र सम्मतां प्रपञ्चनिर्माणविधिर्यया भवेत् ॥ ५ ॥
सः आदिदेवः जगताम् परः गुरुः स्व-धिष्ण्यम् आस्थाय सिसृक्षया ऐक्षत । ताम् न अध्यगच्छ्रत् दृशम् अत्र सम्मताम् प्रपञ्च-निर्माण-विधिः यया भवेत् ॥ ५ ॥
saḥ ādidevaḥ jagatām paraḥ guruḥ sva-dhiṣṇyam āsthāya sisṛkṣayā aikṣata . tām na adhyagacchrat dṛśam atra sammatām prapañca-nirmāṇa-vidhiḥ yayā bhavet .. 5 ..
स चिन्तयन् द्व्यक्षरमेकदाम्भसि उपाशृणोत् द्विर्गदितं वचो विभुः । स्पर्शेषु यत्षोडशमेकविंशं निष्किञ्चनानां नृप यद्धनं विदुः ॥ ६ ॥
स चिन्तयन् द्वि-अक्षरम् एकदा अम्भसि उपाशृणोत् द्विस् गदितम् वचः विभुः । स्पर्शेषु यत् षोडशम् एकविंशम् निष्किञ्चनानाम् नृप यत् धनम् विदुः ॥ ६ ॥
sa cintayan dvi-akṣaram ekadā ambhasi upāśṛṇot dvis gaditam vacaḥ vibhuḥ . sparśeṣu yat ṣoḍaśam ekaviṃśam niṣkiñcanānām nṛpa yat dhanam viduḥ .. 6 ..
निशम्य तद्वक्तृदिदृक्षया दिशो विलोक्य तत्रान्यदपश्यमानः । स्वधिष्ण्यमास्थाय विमृश्य तद्धितं तपस्युपादिष्ट इवादधे मनः ॥ ७ ॥
निशम्य तद्-वक्तृ-दिदृक्षया दिशः विलोक्य तत्र अन्यत् अपश्यमानः । स्व-धिष्ण्यम् आस्थाय विमृश्य तत् हितम् तपसि उपादिष्टे इव आदधे मनः ॥ ७ ॥
niśamya tad-vaktṛ-didṛkṣayā diśaḥ vilokya tatra anyat apaśyamānaḥ . sva-dhiṣṇyam āsthāya vimṛśya tat hitam tapasi upādiṣṭe iva ādadhe manaḥ .. 7 ..
दिव्यं सहस्राब्दममोघदर्शनो जितानिलात्मा विजितोभयेन्द्रियः । अतप्यत स्माखिललोकतापनं तपस्तपीयांस्तपतां समाहितः ॥ ८ ॥
दिव्यम् सहस्र-अब्दम् अमोघ-दर्शनः जित-अनिल-आत्मा विजित-उभय-इन्द्रियः । अतप्यत स्म अखिल-लोक-तापनम् तपः तपीयान् तपताम् समाहितः ॥ ८ ॥
divyam sahasra-abdam amogha-darśanaḥ jita-anila-ātmā vijita-ubhaya-indriyaḥ . atapyata sma akhila-loka-tāpanam tapaḥ tapīyān tapatām samāhitaḥ .. 8 ..
तस्मै स्वलोकं भगवान् सभाजितः सन्दर्शयामास परं न यत्परम् । व्यपेतसङ्क्लेशविमोहसाध्वसं स्वदृष्टवद्भिः विबुधैरभिष्टुतम् ॥ ९ ॥
तस्मै स्व-लोकम् भगवान् सभाजितः सन्दर्शयामास परम् न यत् परम् । व्यपेत-सङ्क्लेश-विमोह-साध्वसम् स्व-दृष्टवद्भिः विबुधैः अभिष्टुतम् ॥ ९ ॥
tasmai sva-lokam bhagavān sabhājitaḥ sandarśayāmāsa param na yat param . vyapeta-saṅkleśa-vimoha-sādhvasam sva-dṛṣṭavadbhiḥ vibudhaiḥ abhiṣṭutam .. 9 ..
प्रवर्तते यत्र रजस्तमस्तयोः सत्त्वं च मिश्रं न च कालविक्रमः । न यत्र माया किमुतापरे हरेः अनुव्रता यत्र सुरासुरार्चिताः ॥ १० ॥
प्रवर्तते यत्र रजः तमः तयोः सत्त्वम् च मिश्रम् न च काल-विक्रमः । न यत्र माया किम् उत अपरे हरेः अनुव्रताः यत्र सुर-असुर-अर्चिताः ॥ १० ॥
pravartate yatra rajaḥ tamaḥ tayoḥ sattvam ca miśram na ca kāla-vikramaḥ . na yatra māyā kim uta apare hareḥ anuvratāḥ yatra sura-asura-arcitāḥ .. 10 ..
श्यामावदाताः शतपत्रलोचनाः पिशङ्गवस्त्राः सुरुचः सुपेशसः । सर्वे चतुर्बाहव उन्मिषन्मणि प्रवेकनिष्काभरणाः सुवर्चसः । प्रवालवैदूर्यमृणालवर्चसः परिस्फुरत्कुण्डल मौलिमालिनः ॥ ११ ॥
श्याम-अवदाताः शतपत्र-लोचनाः पिशङ्ग-वस्त्राः सु रुचः सुपेशसः । सर्वे चतुर्-बाहवः उन्मिषत्-मणि प्रवेक-निष्क-आभरणाः सु वर्चसः । प्रवाल-वैदूर्य-मृणाल-वर्चसः परिस्फुरत्-कुण्डल-मौलि-मालिनः ॥ ११ ॥
śyāma-avadātāḥ śatapatra-locanāḥ piśaṅga-vastrāḥ su rucaḥ supeśasaḥ . sarve catur-bāhavaḥ unmiṣat-maṇi praveka-niṣka-ābharaṇāḥ su varcasaḥ . pravāla-vaidūrya-mṛṇāla-varcasaḥ parisphurat-kuṇḍala-mauli-mālinaḥ .. 11 ..
भ्राजिष्णुभिर्यः परितो विराजते लसद्विमानावलिभिर्महात्मनाम् । विद्योतमानः प्रमदोत्तमाद्युभिः सविद्युदभ्रावलिभिर्यथा नभः ॥ १२ ॥
भ्राजिष्णुभिः यः परितस् विराजते लसत्-विमान-आवलिभिः महात्मनाम् । विद्योतमानः प्रमदा-उत्तमा-द्युभिः स विद्युत्-अभ्र-आवलिभिः यथा नभः ॥ १२ ॥
bhrājiṣṇubhiḥ yaḥ paritas virājate lasat-vimāna-āvalibhiḥ mahātmanām . vidyotamānaḥ pramadā-uttamā-dyubhiḥ sa vidyut-abhra-āvalibhiḥ yathā nabhaḥ .. 12 ..
श्रीर्यत्र रूपिण्युरुगायपादयोः करोति मानं बहुधा विभूतिभिः । प्रेङ्खं श्रिता या कुसुमाकरानुगैः विगीयमाना प्रियकर्म गायती ॥ १३ ॥
श्रीः यत्र रूपिणी उरु-गाय-पादयोः करोति मानम् बहुधा विभूतिभिः । प्रेङ्खम् श्रिता या कुसुमाकर-अनुगैः विगीयमाना प्रिय-कर्म गायती ॥ १३ ॥
śrīḥ yatra rūpiṇī uru-gāya-pādayoḥ karoti mānam bahudhā vibhūtibhiḥ . preṅkham śritā yā kusumākara-anugaiḥ vigīyamānā priya-karma gāyatī .. 13 ..
ददर्श तत्राखिलसात्वतां पतिं श्रियः पतिं यज्ञपतिं जगत्पतिम् । सुनंदनंदप्रबलार्हणादिभिः स्वपार्षदाग्रैः परिसेवितं विभुम् ॥ १४ ॥
ददर्श तत्र अखिल-सात्वताम् पतिम् श्रियः पतिम् यज्ञपतिम् जगत्पतिम् । सुनंद-नंद-प्रबल-अर्हण-आदिभिः स्व-पार्षद-अग्रैः परिसेवितम् विभुम् ॥ १४ ॥
dadarśa tatra akhila-sātvatām patim śriyaḥ patim yajñapatim jagatpatim . sunaṃda-naṃda-prabala-arhaṇa-ādibhiḥ sva-pārṣada-agraiḥ parisevitam vibhum .. 14 ..
भृत्यप्रसादाभिमुखं दृगासवं प्रसन्नहासारुणलोचनाननम् । किरीटिनं कुण्डलिनं चतुर्भुजं पीतांशुकं वक्षसि लक्षितं श्रिया ॥ १५ ॥
भृत्य-प्रसाद-अभिमुखम् दृश्-आसवम् प्रसन्न-हास-अरुण-लोचन-आननम् । किरीटिनम् कुण्डलिनम् चतुर्-भुजम् पीत-अंशुकम् वक्षसि लक्षितम् श्रिया ॥ १५ ॥
bhṛtya-prasāda-abhimukham dṛś-āsavam prasanna-hāsa-aruṇa-locana-ānanam . kirīṭinam kuṇḍalinam catur-bhujam pīta-aṃśukam vakṣasi lakṣitam śriyā .. 15 ..
अध्यर्हणीयासनमास्थितं परं वृतं चतुःषोडशपञ्चशक्तिभिः । युक्तं भगैः स्वैरितरत्र चाध्रुवैः स्व एव धामन् रममाणमीश्वरम् ॥ १६ ॥
अधि अर्हणीय-आसनम् आस्थितम् परम् वृतम् चतुर्-षोडश-पञ्च-शक्तिभिः । युक्तम् भगैः स्वैः इतरत्र च अध्रुवैः स्वे एव धामन् रममाणम् ईश्वरम् ॥ १६ ॥
adhi arhaṇīya-āsanam āsthitam param vṛtam catur-ṣoḍaśa-pañca-śaktibhiḥ . yuktam bhagaiḥ svaiḥ itaratra ca adhruvaiḥ sve eva dhāman ramamāṇam īśvaram .. 16 ..
तद्दर्शनाह्लादपरिप्लुतान्तरो हृष्यत्तनुः प्रेमभराश्रुलोचनः । ननाम पादाम्बुजमस्य विश्वसृग् यत् पारमहंस्येन पथाधिगम्यते ॥ १७ ॥
तद्-दर्शन-आह्लाद-परिप्लुत-अन्तरः हृष्यत्-तनुः प्रेम-भर-अश्रु-लोचनः । ननाम पाद-अम्बुजम् अस्य विश्वसृज् यत् पारमहंस्येन पथा अधिगम्यते ॥ १७ ॥
tad-darśana-āhlāda-paripluta-antaraḥ hṛṣyat-tanuḥ prema-bhara-aśru-locanaḥ . nanāma pāda-ambujam asya viśvasṛj yat pāramahaṃsyena pathā adhigamyate .. 17 ..
तं प्रीयमाणं समुपस्थितं कविं प्रजाविसर्गे निजशासनार्हणम् । बभाष ईषत्स्मितशोचिषा गिरा प्रियः प्रियं प्रीतमनाः करे स्पृशन् ॥ १८ ॥
तम् प्रीयमाणम् समुपस्थितम् कविम् प्रजा-विसर्गे निज-शासन-अर्हणम् । बभाष ईषत् स्मित-शोचिषा गिरा प्रियः प्रियम् प्रीत-मनाः करे स्पृशन् ॥ १८ ॥
tam prīyamāṇam samupasthitam kavim prajā-visarge nija-śāsana-arhaṇam . babhāṣa īṣat smita-śociṣā girā priyaḥ priyam prīta-manāḥ kare spṛśan .. 18 ..
श्रीभगवानुवाच ।
त्वयाहं तोषितः सम्यग् वेदगर्भ सिसृक्षया । चिरं भृतेन तपसा दुस्तोषः कूटयोगिनाम् ॥ १९ ॥
त्वया अहम् तोषितः सम्यक् वेदगर्भ सिसृक्षया । चिरम् भृतेन तपसा दुस्तोषः कूट-योगिनाम् ॥ १९ ॥
tvayā aham toṣitaḥ samyak vedagarbha sisṛkṣayā . ciram bhṛtena tapasā dustoṣaḥ kūṭa-yoginām .. 19 ..
(अनुष्टुप्)
वरं वरय भद्रं ते वरेशं माभिवाञ्छितम् । ब्रह्मञ्छ्रेयः परिश्रामः पुंसां मद्दर्शनावधिः ॥ २० ॥
वरम् वरय भद्रम् ते वर-ईशम् मा अभिवाञ्छितम् । ब्रह्मन् श्रेयः परिश्रामः पुंसाम् मद्-दर्शन-अवधिः ॥ २० ॥
varam varaya bhadram te vara-īśam mā abhivāñchitam . brahman śreyaḥ pariśrāmaḥ puṃsām mad-darśana-avadhiḥ .. 20 ..
मनीषितानुभावोऽयं मम लोकावलोकनम् । यदुपश्रुत्य रहसि चकर्थ परमं तपः ॥ २१ ॥
मनीषित-अनुभावः अयम् मम लोक-अवलोकनम् । यत् उपश्रुत्य रहसि चकर्थ परमम् तपः ॥ २१ ॥
manīṣita-anubhāvaḥ ayam mama loka-avalokanam . yat upaśrutya rahasi cakartha paramam tapaḥ .. 21 ..
प्रत्यादिष्टं मया तत्र त्वयि कर्मविमोहिते । तपो मे हृदयं साक्षाद् आत्माऽहं तपसोऽनघ ॥ २२ ॥
प्रत्यादिष्टम् मया तत्र त्वयि कर्म-विमोहिते । तपः मे हृदयम् साक्षात् आत्मा अहम् तपसः अनघ ॥ २२ ॥
pratyādiṣṭam mayā tatra tvayi karma-vimohite . tapaḥ me hṛdayam sākṣāt ātmā aham tapasaḥ anagha .. 22 ..
सृजामि तपसैवेदं ग्रसामि तपसा पुनः । बिभर्मि तपसा विश्वं वीर्यं मे दुश्चरं तपः ॥ २३ ॥
सृजामि तपसा एव इदम् ग्रसामि तपसा पुनर् । बिभर्मि तपसा विश्वम् वीर्यम् मे दुश्चरम् तपः ॥ २३ ॥
sṛjāmi tapasā eva idam grasāmi tapasā punar . bibharmi tapasā viśvam vīryam me duścaram tapaḥ .. 23 ..
ब्रह्मोवाच
भगवन् सर्वभूतानां अध्यक्षोऽवस्थितो गुहाम् । वेद ह्यप्रतिरुद्धेन प्रज्ञानेन चिकीर्षितम् ॥ २४ ॥
भगवन् सर्व-भूतानाम् अध्यक्षः अवस्थितः गुहाम् । वेद हि अ प्रतिरुद्धेन प्रज्ञानेन चिकीर्षितम् ॥ २४ ॥
bhagavan sarva-bhūtānām adhyakṣaḥ avasthitaḥ guhām . veda hi a pratiruddhena prajñānena cikīrṣitam .. 24 ..
तथापि नाथमानस्य नाथ नाथय नाथितम् । परावरे यथा रूपे जानीयां ते त्वरूपिणः ॥ २५ ॥
तथा अपि नाथमानस्य नाथ नाथय नाथितम् । परावरे यथा रूपे जानीयाम् ते तु अरूपिणः ॥ २५ ॥
tathā api nāthamānasya nātha nāthaya nāthitam . parāvare yathā rūpe jānīyām te tu arūpiṇaḥ .. 25 ..
यथात्ममायायोगेन नानाशक्त्युपबृंहितम् । विलुम्पन् विसृजन् गृह्णन् बिभ्रदात्मानमात्मना ॥ २६ ॥
यथा आत्म-माया-योगेन नाना शक्ति-उपबृंहितम् । विलुम्पन् विसृजन् गृह्णन् बिभ्रत् आत्मानम् आत्मना ॥ २६ ॥
yathā ātma-māyā-yogena nānā śakti-upabṛṃhitam . vilumpan visṛjan gṛhṇan bibhrat ātmānam ātmanā .. 26 ..
क्रीडस्यमोघसङ्कल्प ऊर्णनाभिर्यथोर्णुते । तथा तद्विषयां धेहि मनीषां मयि माधव ॥ २७ ॥
क्रीडसि अमोघ-सङ्कल्पः ऊर्णनाभिः यथा ऊर्णुते । तथा तद्-विषयाम् धेहि मनीषाम् मयि माधव ॥ २७ ॥
krīḍasi amogha-saṅkalpaḥ ūrṇanābhiḥ yathā ūrṇute . tathā tad-viṣayām dhehi manīṣām mayi mādhava .. 27 ..
भगवच्छिक्षितमहं करवाणि ह्यतन्द्रितः । नेहमानः प्रजासर्गं बध्येयं यदनुग्रहात् ॥ २८ ॥
भगवत्-शिक्षितम् अहम् करवाणि हि अतन्द्रितः । न ईहमानः प्रजा-सर्गम् बध्येयम् यत् अनुग्रहात् ॥ २८ ॥
bhagavat-śikṣitam aham karavāṇi hi atandritaḥ . na īhamānaḥ prajā-sargam badhyeyam yat anugrahāt .. 28 ..
यावत्सखा सख्युरिवेश ते कृतः प्रजाविसर्गे विभजामि भो जनम् । अविक्लबस्ते परिकर्मणि स्थितो मा मे समुन्नद्धमदोऽजमानिनः ॥ २९ ॥
यावत् सखा सख्युः इव ईश ते कृतः प्रजा-विसर्गे विभजामि भो जनम् । अविक्लबः ते परिकर्मणि स्थितः मा मे समुन्नद्ध-मदः अज-मानिनः ॥ २९ ॥
yāvat sakhā sakhyuḥ iva īśa te kṛtaḥ prajā-visarge vibhajāmi bho janam . aviklabaḥ te parikarmaṇi sthitaḥ mā me samunnaddha-madaḥ aja-māninaḥ .. 29 ..
ज्ञानं परमगुह्यं मे यद्विज्ञानसमन्वितम् । सरहस्यं तदङ्गं च गृहाण गदितं मया ॥ ३० ॥
ज्ञानम् परम-गुह्यम् मे यत् विज्ञान-समन्वितम् । स रहस्यम् तद्-अङ्गम् च गृहाण गदितम् मया ॥ ३० ॥
jñānam parama-guhyam me yat vijñāna-samanvitam . sa rahasyam tad-aṅgam ca gṛhāṇa gaditam mayā .. 30 ..
श्रीभगवानुवाच ।
यावानहं यथाभावो यद् रूपगुणकर्मकः । तथैव तत्त्वविज्ञानं अस्तु ते मदनुग्रहात् ॥ ३१ ॥
यावान् अहम् यथा भावः यत् रूप-गुण-कर्मकः । तथा एव तत्त्व-विज्ञानम् अस्तु ते मद्-अनुग्रहात् ॥ ३१ ॥
yāvān aham yathā bhāvaḥ yat rūpa-guṇa-karmakaḥ . tathā eva tattva-vijñānam astu te mad-anugrahāt .. 31 ..
(अनुष्टुप्)
अहमेवासमेकोऽग्रे नान्यत् यत्सदसत्परम् । पश्चादहं यदेतच्च योऽवशिष्येत सोऽस्म्यहम् ॥ ३२ ॥
अहम् एव आसम् एकः अग्रे न अन्यत् यत् सत्-असत् परम् । पश्चात् अहम् यत् एतत् च यः अवशिष्येत सः अस्मि अहम् ॥ ३२ ॥
aham eva āsam ekaḥ agre na anyat yat sat-asat param . paścāt aham yat etat ca yaḥ avaśiṣyeta saḥ asmi aham .. 32 ..
ऋतेऽर्थं यत्प्रतीयेत न प्रतीयेत चात्मनि । तद्विद्याद् आत्मनो मायां यथाभासो यथा तमः ॥ ३३ ॥
ऋते अर्थम् यत् प्रतीयेत न प्रतीयेत च आत्मनि । तत् विद्यात् आत्मनः मायाम् यथा आभासः यथा तमः ॥ ३३ ॥
ṛte artham yat pratīyeta na pratīyeta ca ātmani . tat vidyāt ātmanaḥ māyām yathā ābhāsaḥ yathā tamaḥ .. 33 ..
यथा महान्ति भूतानि भूतेषूच्चावचेष्वनु । प्रविष्टानि अप्रविष्टानि तथा तेषु न तेष्वहम् ॥ ३४ ॥
यथा महान्ति भूतानि भूतेषु उच्चावचेषु अनु । प्रविष्टानि अप्रविष्टानि तथा तेषु न तेषु अहम् ॥ ३४ ॥
yathā mahānti bhūtāni bhūteṣu uccāvaceṣu anu . praviṣṭāni apraviṣṭāni tathā teṣu na teṣu aham .. 34 ..
एतावदेव जिज्ञास्यं तत्त्वजिज्ञासुनाऽऽत्मनः । अन्वयव्यतिरेकाभ्यां यत्स्यात् सर्वत्र सर्वदा ॥ ३५ ॥
एतावत् एव जिज्ञास्यम् तत्त्व-जिज्ञासुना आत्मनः । अन्वय-व्यतिरेकाभ्याम् यत् स्यात् सर्वत्र सर्वदा ॥ ३५ ॥
etāvat eva jijñāsyam tattva-jijñāsunā ātmanaḥ . anvaya-vyatirekābhyām yat syāt sarvatra sarvadā .. 35 ..
एतन्मतं समातिष्ठ परमेण समाधिना । भवान् कल्पविकल्पेषु न विमुह्यति कर्हिचित् ॥ ३६ ॥
एतत् मतम् समातिष्ठ परमेण समाधिना । भवान् कल्प-विकल्पेषु न विमुह्यति कर्हिचित् ॥ ३६ ॥
etat matam samātiṣṭha parameṇa samādhinā . bhavān kalpa-vikalpeṣu na vimuhyati karhicit .. 36 ..
श्रीशुक उवाच ।
सम्प्रदिश्यैवमजनो जनानां परमेष्ठिनम् । पश्यतः तस्य तद् रूपं आत्मनो न्यरुणद्धरिः ॥ ३७ ॥
सम्प्रदिश्य एवम् अजनः जनानाम् परमेष्ठिनम् । पश्यतः तस्य तत् रूपम् आत्मनः न्यरुणत् हरिः ॥ ३७ ॥
sampradiśya evam ajanaḥ janānām parameṣṭhinam . paśyataḥ tasya tat rūpam ātmanaḥ nyaruṇat hariḥ .. 37 ..
अन्तर्हितेन्द्रियार्थाय हरये विहिताञ्जलिः । सर्वभूतमयो विश्वं ससर्जेदं स पूर्ववत् ॥ ३८ ॥
अन्तर्हित-इन्द्रिय-अर्थाय हरये विहित-अञ्जलिः । सर्व-भूत-मयः विश्वम् ससर्ज इदम् स पूर्ववत् ॥ ३८ ॥
antarhita-indriya-arthāya haraye vihita-añjaliḥ . sarva-bhūta-mayaḥ viśvam sasarja idam sa pūrvavat .. 38 ..
प्रजापतिर्धर्मपतिः एकदा नियमान् यमान् । भद्रं प्रजानामन्विच्छन् नातिष्ठत्स्वार्थकाम्यया ॥ ३९ ॥
प्रजापतिः धर्म-पतिः एकदा नियमान् यमान् । भद्रम् प्रजानाम् अन्विच्छन् न अतिष्ठत् स्व-अर्थ-काम्यया ॥ ३९ ॥
prajāpatiḥ dharma-patiḥ ekadā niyamān yamān . bhadram prajānām anvicchan na atiṣṭhat sva-artha-kāmyayā .. 39 ..
तं नारदः प्रियतमो रिक्थादानामनुव्रतः । शुश्रूषमाणः शीलेन प्रश्रयेण दमेन च ॥ ४० ॥
तम् नारदः प्रियतमः रिक्थादानाम् अनुव्रतः । शुश्रूषमाणः शीलेन प्रश्रयेण दमेन च ॥ ४० ॥
tam nāradaḥ priyatamaḥ rikthādānām anuvrataḥ . śuśrūṣamāṇaḥ śīlena praśrayeṇa damena ca .. 40 ..
मायां विविदिषन् विष्णोः मायेशस्य महामुनिः । महाभागवतो राजन् पितरं पर्यतोषयत् ॥ ४१ ॥
मायाम् विविदिषन् विष्णोः माया-ईशस्य महा-मुनिः । महा-भागवतः राजन् पितरम् पर्यतोषयत् ॥ ४१ ॥
māyām vividiṣan viṣṇoḥ māyā-īśasya mahā-muniḥ . mahā-bhāgavataḥ rājan pitaram paryatoṣayat .. 41 ..
तुष्टं निशाम्य पितरं लोकानां प्रपितामहम् । देवर्षिः परिपप्रच्छ भवान् यन्मानुपृच्छति ॥ ४२ ॥
तुष्टम् निशाम्य पितरम् लोकानाम् प्रपितामहम् । देवर्षिः परिपप्रच्छ भवान् यत् मा अनुपृच्छति ॥ ४२ ॥
tuṣṭam niśāmya pitaram lokānām prapitāmaham . devarṣiḥ paripapraccha bhavān yat mā anupṛcchati .. 42 ..
तस्मा इदं भागवतं पुराणं दशलक्षणम् । प्रोक्तं भगवता प्राह प्रीतः पुत्राय भूतकृत् ॥ ४३ ॥
तस्मै इदम् भागवतम् पुराणम् दश-लक्षणम् । प्रोक्तम् भगवता प्राह प्रीतः पुत्राय भूतकृत् ॥ ४३ ॥
tasmai idam bhāgavatam purāṇam daśa-lakṣaṇam . proktam bhagavatā prāha prītaḥ putrāya bhūtakṛt .. 43 ..
नारदः प्राह मुनये सरस्वत्यास्तटे नृप । ध्यायते ब्रह्म परमं व्यासाय अमिततेजसे ॥ ४४ ॥
नारदः प्राह मुनये सरस्वत्याः तटे नृप । ध्यायते ब्रह्म परमम् व्यासाय अमित-तेजसे ॥ ४४ ॥
nāradaḥ prāha munaye sarasvatyāḥ taṭe nṛpa . dhyāyate brahma paramam vyāsāya amita-tejase .. 44 ..
यदुताहं त्वया पृष्टो वैराजात्पुरुषादिदम् । यथासीत् तदुपाख्यास्ते प्रश्नान् अन्यांश्च कृत्स्नशः ॥ ४५ ॥
यत् उत अहम् त्वया पृष्टः वैराजात् पुरुषात् इदम् । यथा आसीत् तत् उपाख्याः ते प्रश्नान् अन्यान् च कृत्स्नशस् ॥ ४५ ॥
yat uta aham tvayā pṛṣṭaḥ vairājāt puruṣāt idam . yathā āsīt tat upākhyāḥ te praśnān anyān ca kṛtsnaśas .. 45 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वितीयस्कंधे नवमोऽध्यायः ॥ ९ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् द्वितीय-स्कंधे नवमः अध्यायः ॥ ९ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām dvitīya-skaṃdhe navamaḥ adhyāyaḥ .. 9 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In