| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

सूत उवाच - (अनुष्टुप्)
स एवं अनुभूयेदं नारायणविनिर्मितम् । वैभवं योगमायायाः तमेव शरणं ययौ ॥ १ ॥
सः एवम् अनुभूय इदम् नारायण-विनिर्मितम् । वैभवम् योगमायायाः तम् एव शरणम् ययौ ॥ १ ॥
saḥ evam anubhūya idam nārāyaṇa-vinirmitam . vaibhavam yogamāyāyāḥ tam eva śaraṇam yayau .. 1 ..
श्रीमार्कण्डेय उवाच -
प्रपन्नोऽस्म्यङ्घ्रिमूलं ते प्रपन्नाभयदं हरे । यन्माययापि विबुधा मुह्यन्ति ज्ञानकाशया ॥ २ ॥
प्रपन्नः अस्मि अङ्घ्रि-मूलम् ते प्रपन्न-अभय-दम् हरे । यद्-मायया अपि विबुधाः मुह्यन्ति ज्ञान-काशया ॥ २ ॥
prapannaḥ asmi aṅghri-mūlam te prapanna-abhaya-dam hare . yad-māyayā api vibudhāḥ muhyanti jñāna-kāśayā .. 2 ..
सूत उवाच -
तमेवं निभृतात्मानं वृषेण दिवि पर्यटन् । रुद्राण्या भगवान् रुद्रो ददर्श स्वगणैर्वृतः ॥ ३ ॥
तम् एवम् निभृत-आत्मानम् वृषेण दिवि पर्यटन् । रुद्राण्याः भगवान् रुद्रः ददर्श स्व-गणैः वृतः ॥ ३ ॥
tam evam nibhṛta-ātmānam vṛṣeṇa divi paryaṭan . rudrāṇyāḥ bhagavān rudraḥ dadarśa sva-gaṇaiḥ vṛtaḥ .. 3 ..
अथोमा तं ऋषिं वीक्ष्य गिरिशं समभाषत । पश्येमं भगवन् विप्रं निभृतात्मेन्द्रियाशयम् ॥ ४ ॥
अथ उमा तम् ऋषिम् वीक्ष्य गिरिशम् समभाषत । पश्य इमम् भगवन् विप्रम् निभृत-आत्म-इन्द्रिय-आशयम् ॥ ४ ॥
atha umā tam ṛṣim vīkṣya giriśam samabhāṣata . paśya imam bhagavan vipram nibhṛta-ātma-indriya-āśayam .. 4 ..
निभृतोदझषव्रातं वातापाये यथार्णवः । कुर्वस्य तपसः साक्षात् संसिद्धिं सिद्धिदो भवान् ॥ ५ ॥
निभृत-उद-झष-व्रातम् वात-अपाये यथा अर्णवः । तपसः साक्षात् संसिद्धिम् सिद्धि-दः भवान् ॥ ५ ॥
nibhṛta-uda-jhaṣa-vrātam vāta-apāye yathā arṇavaḥ . tapasaḥ sākṣāt saṃsiddhim siddhi-daḥ bhavān .. 5 ..
श्रीभगवानुवाच -
नैवेच्छत्याशिषः क्वापि ब्रह्मर्षिर्मोक्षमप्युत । भक्तिं परां भगवति लब्धवान् पुरुषेऽव्यये ॥ ६ ॥
न एव इच्छति आशिषः क्वापि ब्रह्मर्षिः मोक्षम् अपि उत । भक्तिम् पराम् भगवति लब्धवान् पुरुषे अव्यये ॥ ६ ॥
na eva icchati āśiṣaḥ kvāpi brahmarṣiḥ mokṣam api uta . bhaktim parām bhagavati labdhavān puruṣe avyaye .. 6 ..
अथापि संवदिष्यामो भवान्येतेन साधुना । अयं हि परमो लाभो नृणां साधुसमागमः ॥ ७ ॥
अथा अपि संवदिष्यामः भवानि एतेन साधुना । अयम् हि परमः लाभः नृणाम् साधु-समागमः ॥ ७ ॥
athā api saṃvadiṣyāmaḥ bhavāni etena sādhunā . ayam hi paramaḥ lābhaḥ nṛṇām sādhu-samāgamaḥ .. 7 ..
सूत उवाच -
इत्युक्त्वा तमुपेयाय भगवान् स सतां गतिः । ईशानः सर्वविद्यानां ईश्वरः सर्वदेहिनाम् ॥ ८ ॥
इति उक्त्वा तम् उपेयाय भगवान् स सताम् गतिः । ईशानः सर्व-विद्यानाम् ईश्वरः सर्व-देहिनाम् ॥ ८ ॥
iti uktvā tam upeyāya bhagavān sa satām gatiḥ . īśānaḥ sarva-vidyānām īśvaraḥ sarva-dehinām .. 8 ..
तयोरागमनं साक्षाद् ईशयोर्जगदात्मनोः । न वेद रुद्धधीवृत्तिः आत्मानं विश्वमेव च ॥ ९ ॥
तयोः आगमनम् साक्षात् ईशयोः जगदात्मनोः । न वेद रुद्ध-धी-वृत्तिः आत्मानम् विश्वम् एव च ॥ ९ ॥
tayoḥ āgamanam sākṣāt īśayoḥ jagadātmanoḥ . na veda ruddha-dhī-vṛttiḥ ātmānam viśvam eva ca .. 9 ..
भगवान् तदभिज्ञाय गिरिशो योगमायया । आविशत्तद्गुहाकाशं वायुश्छिद्रमिवेश्वरः ॥ १० ॥
भगवान् तत् अभिज्ञाय गिरिशः योग-मायया । आविशत् तत् गुहा-आकाशम् वायुः छिद्रम् इव ईश्वरः ॥ १० ॥
bhagavān tat abhijñāya giriśaḥ yoga-māyayā . āviśat tat guhā-ākāśam vāyuḥ chidram iva īśvaraḥ .. 10 ..
आत्मन्यपि शिवं प्राप्तं तडित्पिङ्गजटाधरम् । त्र्यक्षं दशभुजं प्रांशुं उद्यन्तं इव भास्करम् ॥ ११ ॥
आत्मनि अपि शिवम् प्राप्तम् तडित्-पिङ्ग-जटा-धरम् । त्रि-अक्षम् दश-भुजम् प्रांशुम् उद्यन्तम् इव भास्करम् ॥ ११ ॥
ātmani api śivam prāptam taḍit-piṅga-jaṭā-dharam . tri-akṣam daśa-bhujam prāṃśum udyantam iva bhāskaram .. 11 ..
व्याघ्रचर्माम्बरं शूल खट्वाङ्गचर्मभिः । अक्षमालाडमरुक कपालासिधनुः सह ॥ १२ ॥
व्याघ्र-चर्म-अम्बरम् शूल खट्वाङ्ग-चर्मभिः । अक्षमाला-डमरुक-कपाल-असि-धनुः सह ॥ १२ ॥
vyāghra-carma-ambaram śūla khaṭvāṅga-carmabhiḥ . akṣamālā-ḍamaruka-kapāla-asi-dhanuḥ saha .. 12 ..
बिभ्राणं सहसा भातं विचक्ष्य हृदि विस्मितः । किमिदं कुत एवेति समाधेर्विरतो मुनिः ॥ १३ ॥
बिभ्राणम् सहसा भातम् विचक्ष्य हृदि विस्मितः । किम् इदम् कुतस् एव इति समाधेः विरतः मुनिः ॥ १३ ॥
bibhrāṇam sahasā bhātam vicakṣya hṛdi vismitaḥ . kim idam kutas eva iti samādheḥ virataḥ muniḥ .. 13 ..
नेत्रे उन्मील्य ददृशे सगणं सोमयाऽऽगतम् । रुद्रं त्रिलोकैकगुरुं ननाम शिरसा मुनिः ॥ १४ ॥
नेत्रे उन्मील्य ददृशे स गणम् सोमया आगतम् । रुद्रम् त्रिलोक-एक-गुरुम् ननाम शिरसा मुनिः ॥ १४ ॥
netre unmīlya dadṛśe sa gaṇam somayā āgatam . rudram triloka-eka-gurum nanāma śirasā muniḥ .. 14 ..
तस्मै सपर्यां व्यदधात् सगणाय सहोमया । स्वागतासनपाद्यार्घ्य गन्धस्रग् धूपदीपकैः ॥ १५ ॥
तस्मै सपर्याम् व्यदधात् स गणाय सह उमया । स्वागत-आसन-पाद्य-अर्घ्य-गन्ध-स्रज् धूप-दीपकैः ॥ १५ ॥
tasmai saparyām vyadadhāt sa gaṇāya saha umayā . svāgata-āsana-pādya-arghya-gandha-sraj dhūpa-dīpakaiḥ .. 15 ..
आह चात्मानुभावेन पूर्णकामस्य ते विभो । करवाम किमीशान येनेदं निर्वृतं जगत् ॥ १६ ॥
आह च आत्म-अनुभावेन पूर्ण-कामस्य ते विभो । करवाम किम् ईशान येन इदम् निर्वृतम् जगत् ॥ १६ ॥
āha ca ātma-anubhāvena pūrṇa-kāmasya te vibho . karavāma kim īśāna yena idam nirvṛtam jagat .. 16 ..
नमः शिवाय शान्ताय सत्त्वाय प्रमृडाय च । रजोजुषेऽप्य घोराय नमस्तुभ्यं तमोजुषे ॥ १७ ॥
नमः शिवाय शान्ताय सत्त्वाय प्रमृडाय च । रजः-जुषे अप्य घोराय नमः तुभ्यम् तमः-जुषे ॥ १७ ॥
namaḥ śivāya śāntāya sattvāya pramṛḍāya ca . rajaḥ-juṣe apya ghorāya namaḥ tubhyam tamaḥ-juṣe .. 17 ..
सूत उवाच -
एवं स्तुतः स भगवान् आदिदेवः सतां गतिः । परितुष्टः प्रसन्नात्मा प्रहसन् तं अभाषत ॥ १८ ॥
एवम् स्तुतः स भगवान् आदिदेवः सताम् गतिः । परितुष्टः प्रसन्न-आत्मा प्रहसन् तम् अभाषत ॥ १८ ॥
evam stutaḥ sa bhagavān ādidevaḥ satām gatiḥ . parituṣṭaḥ prasanna-ātmā prahasan tam abhāṣata .. 18 ..
श्रीभगवानुवाच -
वरं वृणीष्व नः कामं वरदेशा वयं त्रयः । अमोघं दर्शनं येषां मर्त्यो यद् विन्दतेऽमृतम् ॥ १९ ॥
वरम् वृणीष्व नः कामम् वर-देशाः वयम् त्रयः । अमोघम् दर्शनम् येषाम् मर्त्यः यत् विन्दते अमृतम् ॥ १९ ॥
varam vṛṇīṣva naḥ kāmam vara-deśāḥ vayam trayaḥ . amogham darśanam yeṣām martyaḥ yat vindate amṛtam .. 19 ..
ब्राह्मणाः साधवः शान्ता निःसङ्गा भूतवत्सलाः । एकान्तभक्ता अस्मासु निर्वैराः समदर्शिनः ॥ २० ॥
ब्राह्मणाः साधवः शान्ताः निःसङ्गाः भूत-वत्सलाः । एकान्त-भक्ताः अस्मासु निर्वैराः सम-दर्शिनः ॥ २० ॥
brāhmaṇāḥ sādhavaḥ śāntāḥ niḥsaṅgāḥ bhūta-vatsalāḥ . ekānta-bhaktāḥ asmāsu nirvairāḥ sama-darśinaḥ .. 20 ..
सलोका लोकपालास्तान् वन्दन्त्यर्चन्त्युपासते । अहं च भगवान् ब्रह्मा स्वयं च हरिरीश्वरः ॥ २१ ॥
स लोकाः लोकपालाः तान् वन्दन्ति अर्चन्ति उपासते । अहम् च भगवान् ब्रह्मा स्वयम् च हरिः ईश्वरः ॥ २१ ॥
sa lokāḥ lokapālāḥ tān vandanti arcanti upāsate . aham ca bhagavān brahmā svayam ca hariḥ īśvaraḥ .. 21 ..
न ते मय्यच्युतेऽजे च भिदामण्वपि चक्षते । नात्मनश्च जनस्यापि तद् युष्मान् वयमीमहि ॥ २२ ॥
न ते मयि अच्युते अजे च भिदाम् अणु अपि चक्षते । न आत्मनः च जनस्य अपि तत् युष्मान् वयमीमहि ॥ २२ ॥
na te mayi acyute aje ca bhidām aṇu api cakṣate . na ātmanaḥ ca janasya api tat yuṣmān vayamīmahi .. 22 ..
न ह्यम्मयानि तीर्थानि न देवाश्चेतनोज्झिताः । ते पुनन्ति उरुकालेन यूयं दर्शनमात्रतः ॥ २३ ॥
न हि अम्-मयानि तीर्थानि न देवाः चेतना-उज्झिताः । ते पुनन्ति उरु-कालेन यूयम् दर्शन-मात्रतः ॥ २३ ॥
na hi am-mayāni tīrthāni na devāḥ cetanā-ujjhitāḥ . te punanti uru-kālena yūyam darśana-mātrataḥ .. 23 ..
ब्राह्मणेभ्यो नमस्यामो येऽस्मद् रूपं त्रयीमयम् । बिभ्रत्यात्मसमाधान तपःस्वाध्यायसंयमैः ॥ २४ ॥
ब्राह्मणेभ्यः नमस्यामः ये अस्मत् रूपम् त्रयी-मयम् । बिभ्रति आत्म-समाधान-तपः-स्वाध्याय-संयमैः ॥ २४ ॥
brāhmaṇebhyaḥ namasyāmaḥ ye asmat rūpam trayī-mayam . bibhrati ātma-samādhāna-tapaḥ-svādhyāya-saṃyamaiḥ .. 24 ..
श्रवणाद् दर्शनाद् वापि महापातकिनोऽपि वः । शुध्येरन् अन्त्यजाश्चापि किमु संभाषणादिभिः ॥ २५ ॥
श्रवणात् दर्शनात् वा अपि महापातकिनः अपि वः । शुध्येरन् अन्त्यजाः च अपि किमु संभाषण-आदिभिः ॥ २५ ॥
śravaṇāt darśanāt vā api mahāpātakinaḥ api vaḥ . śudhyeran antyajāḥ ca api kimu saṃbhāṣaṇa-ādibhiḥ .. 25 ..
सूत उवाच -
इति चन्द्रललामस्य धर्मगुह्योपबृंहितम् । वचोऽमृतायनं ऋषिः नातृप्यत् कर्णयोः पिबन् ॥ २६ ॥
इति चन्द्रललामस्य धर्म-गुह्य-उपबृंहितम् । वचः अमृतायनम् ऋषिः न अतृप्यत् कर्णयोः पिबन् ॥ २६ ॥
iti candralalāmasya dharma-guhya-upabṛṃhitam . vacaḥ amṛtāyanam ṛṣiḥ na atṛpyat karṇayoḥ piban .. 26 ..
स चिरं मायया विष्णोः भ्रामितः कर्शितो भृशम् । शिववागमृतध्वस्त क्लेशपुञ्जस्तमब्रवीत् ॥ २७ ॥
स चिरम् मायया विष्णोः भ्रामितः कर्शितः भृशम् । शिव-वाच्-अमृत-ध्वस्त क्लेश-पुञ्जः तम् अब्रवीत् ॥ २७ ॥
sa ciram māyayā viṣṇoḥ bhrāmitaḥ karśitaḥ bhṛśam . śiva-vāc-amṛta-dhvasta kleśa-puñjaḥ tam abravīt .. 27 ..
श्रीमार्कण्डेय उवाच -
अहो ईश्वरलीलेयं दुर्विभाव्या शरीरिणाम् । यन्नमन्तीशितव्यानि स्तुवन्ति जगदीश्वराः ॥ २८ ॥
अहो ईश्वर-लीला इयम् दुर्विभाव्या शरीरिणाम् । यत् नमन्ति ईशितव्यानि स्तुवन्ति जगत्-ईश्वराः ॥ २८ ॥
aho īśvara-līlā iyam durvibhāvyā śarīriṇām . yat namanti īśitavyāni stuvanti jagat-īśvarāḥ .. 28 ..
धर्मं ग्राहयितुं प्रायः प्रवक्तारश्च देहिनाम् । आचरन्ति अनुमोदन्ते क्रियमाणं स्तुवन्ति च ॥ २९ ॥
धर्मम् ग्राहयितुम् प्रायस् प्रवक्तारः च देहिनाम् । आचरन्ति अनुमोदन्ते क्रियमाणम् स्तुवन्ति च ॥ २९ ॥
dharmam grāhayitum prāyas pravaktāraḥ ca dehinām . ācaranti anumodante kriyamāṇam stuvanti ca .. 29 ..
नैतावता भगवतः स्वमायामयवृत्तिभिः । न दुष्येतानुभावस्तैः मायिनः कुहकं यथा ॥ ३० ॥
न एतावता भगवतः स्व-माया-मय-वृत्तिभिः । न दुष्येत अनुभावः तैः मायिनः कुहकम् यथा ॥ ३० ॥
na etāvatā bhagavataḥ sva-māyā-maya-vṛttibhiḥ . na duṣyeta anubhāvaḥ taiḥ māyinaḥ kuhakam yathā .. 30 ..
सृष्ट्वेदं मनसा विश्वं आत्मनानुप्रविश्य यः । गुणैः कुर्वद्भिराभाति कर्तेव स्वप्नदृग् यथा ॥ ३१ ॥
सृष्ट्वा इदम् मनसा विश्वम् आत्मना अनुप्रविश्य यः । गुणैः कुर्वद्भिः आभाति कर्ता इव स्वप्नदृश् यथा ॥ ३१ ॥
sṛṣṭvā idam manasā viśvam ātmanā anupraviśya yaḥ . guṇaiḥ kurvadbhiḥ ābhāti kartā iva svapnadṛś yathā .. 31 ..
तस्मै नमो भगवते त्रिगुणाय गुणात्मने । केवलायाद्वितीयाय गुरवे ब्रह्ममूर्तये ॥ ३२ ॥
तस्मै नमः भगवते त्रिगुणाय गुण-आत्मने । केवलाय अद्वितीयाय गुरवे ब्रह्म-मूर्तये ॥ ३२ ॥
tasmai namaḥ bhagavate triguṇāya guṇa-ātmane . kevalāya advitīyāya gurave brahma-mūrtaye .. 32 ..
कं वृणे नु परं भूमन् वरं त्वद् वरदर्शनात् । यद्दर्शनात्पूर्णकामः सत्यकामः पुमान् भवेत् ॥ ३३ ॥
कम् वृणे नु परम् भूमन् वरम् त्वत् वर-दर्शनात् । यद्-दर्शनात् पूर्ण-कामः सत्य-कामः पुमान् भवेत् ॥ ३३ ॥
kam vṛṇe nu param bhūman varam tvat vara-darśanāt . yad-darśanāt pūrṇa-kāmaḥ satya-kāmaḥ pumān bhavet .. 33 ..
वरमेकं वृणेऽथापि पूर्णात् कामाभिवर्षणात् । भगवति अच्युतां भक्तिं तत्परेषु तथा त्वयि ॥ ३४ ॥
वरम् एकम् वृणे अथ अपि पूर्णात् काम-अभिवर्षणात् । भगवति अच्युताम् भक्तिम् तद्-परेषु तथा त्वयि ॥ ३४ ॥
varam ekam vṛṇe atha api pūrṇāt kāma-abhivarṣaṇāt . bhagavati acyutām bhaktim tad-pareṣu tathā tvayi .. 34 ..
सूत उवाच -
इत्यर्चितोऽभिष्टुतश्च मुनिना सूक्तया गिरा । तं आह भगवान् शर्वः शर्वया चाभिनन्दितः ॥ ३५ ॥
इति अर्चितः अभिष्टुतः च मुनिना सु उक्तया गिरा । तम् आह भगवान् शर्वः शर्वया च अभिनन्दितः ॥ ३५ ॥
iti arcitaḥ abhiṣṭutaḥ ca muninā su uktayā girā . tam āha bhagavān śarvaḥ śarvayā ca abhinanditaḥ .. 35 ..
कामो महर्षे सर्वोऽयं भक्तिमान् त्वं अमधोक्षजे । आकल्पान्ताद् यशः पुण्यं अमजरामरता तथा ॥ ३६ ॥
कामः महा-ऋषे सर्वः अयम् भक्तिमान् त्वम् । आ कल्प-अन्तात् यशः पुण्यम् तथा ॥ ३६ ॥
kāmaḥ mahā-ṛṣe sarvaḥ ayam bhaktimān tvam . ā kalpa-antāt yaśaḥ puṇyam tathā .. 36 ..
ज्ञानं त्रैकालिकं ब्रह्मन् विज्ञानं च विरक्तिमत् । ब्रह्मवर्चस्विनो भूयात् पुराणाचार्यतास्तु ते ॥ ३७ ॥
ज्ञानम् त्रैकालिकम् ब्रह्मन् विज्ञानम् च विरक्तिमत् । ब्रह्म-वर्चस्विनः भूयात् पुराण-आचार्य-ता अस्तु ते ॥ ३७ ॥
jñānam traikālikam brahman vijñānam ca viraktimat . brahma-varcasvinaḥ bhūyāt purāṇa-ācārya-tā astu te .. 37 ..
सूत उवाच -
एवं वरान् स मुनये दत्त्वागात् त्र्यक्ष ईश्वरः । देव्यै तत्कर्म कथयन् अनुभूतं पुरामुना ॥ ३८ ॥
एवम् वरान् स मुनये दत्त्वा अगात् त्र्यक्षः ईश्वरः । देव्यै तत् कर्म कथयन् अनुभूतम् पुरा अमुना ॥ ३८ ॥
evam varān sa munaye dattvā agāt tryakṣaḥ īśvaraḥ . devyai tat karma kathayan anubhūtam purā amunā .. 38 ..
सोऽप्यवाप्तमहायोग महिमा भार्गवोत्तमः । विचरति अधुनाप्यद्धा हरावेकान्ततां गतः ॥ ३९ ॥
सः अपि अवाप्त-महा-योग महिमा भार्गव-उत्तमः । विचरति अधुना अपि अद्धा हरौ एकान्त-ताम् गतः ॥ ३९ ॥
saḥ api avāpta-mahā-yoga mahimā bhārgava-uttamaḥ . vicarati adhunā api addhā harau ekānta-tām gataḥ .. 39 ..
अनुवर्णितमेतत्ते मार्कण्डेयस्य धीमतः । अनुभूतं भगवतो मायावैभवमद्भुतम् ॥ ४० ॥
अनुवर्णितम् एतत् ते मार्कण्डेयस्य धीमतः । अनुभूतम् भगवतः माया-वैभवम् अद्भुतम् ॥ ४० ॥
anuvarṇitam etat te mārkaṇḍeyasya dhīmataḥ . anubhūtam bhagavataḥ māyā-vaibhavam adbhutam .. 40 ..
एतत् केचिद् अविद्वांसो मायासंसृतिरात्मनः । अनाद्यावर्तितं नॄणां कादाचित्कं प्रचक्षते ॥ ४१ ॥
एतत् केचिद् अ विद्वांसः माया-संसृतिः आत्मनः । अनाद्य-आवर्तितम् नॄणाम् कादाचित्कम् प्रचक्षते ॥ ४१ ॥
etat kecid a vidvāṃsaḥ māyā-saṃsṛtiḥ ātmanaḥ . anādya-āvartitam nṝṇām kādācitkam pracakṣate .. 41 ..
(वंशस्था)
य एवमेतद्भृगुवर्य वर्णितं रथाङ्गपाणेः अनुभावभावितम् । संश्रावयेत् संश्रृणुयादु तावुभौ तयोर्न कर्माशयसंसृतिर्भवेत् ॥ ४२ ॥
यः एवम् एतत् भृगु-वर्य वर्णितम् रथाङ्ग-पाणेः अनुभाव-भावितम् । संश्रावयेत् संश्रृणुयात् उ तौ उभौ तयोः न कर्म-आशय-संसृतिः भवेत् ॥ ४२ ॥
yaḥ evam etat bhṛgu-varya varṇitam rathāṅga-pāṇeḥ anubhāva-bhāvitam . saṃśrāvayet saṃśrṛṇuyāt u tau ubhau tayoḥ na karma-āśaya-saṃsṛtiḥ bhavet .. 42 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वादशस्कन्धे दशमोऽध्यायः ॥ १० ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् द्वादश-स्कन्धे दशमः अध्यायः ॥ १० ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām dvādaśa-skandhe daśamaḥ adhyāyaḥ .. 10 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In