| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

सूत उवाच - (अनुष्टुप्)
स एवं अनुभूयेदं नारायणविनिर्मितम् । वैभवं योगमायायाः तमेव शरणं ययौ ॥ १ ॥
sa evaṃ anubhūyedaṃ nārāyaṇavinirmitam . vaibhavaṃ yogamāyāyāḥ tameva śaraṇaṃ yayau .. 1 ..
श्रीमार्कण्डेय उवाच -
प्रपन्नोऽस्म्यङ्घ्रिमूलं ते प्रपन्नाभयदं हरे । यन्माययापि विबुधा मुह्यन्ति ज्ञानकाशया ॥ २ ॥
prapanno'smyaṅghrimūlaṃ te prapannābhayadaṃ hare . yanmāyayāpi vibudhā muhyanti jñānakāśayā .. 2 ..
सूत उवाच -
तमेवं निभृतात्मानं वृषेण दिवि पर्यटन् । रुद्राण्या भगवान् रुद्रो ददर्श स्वगणैर्वृतः ॥ ३ ॥
tamevaṃ nibhṛtātmānaṃ vṛṣeṇa divi paryaṭan . rudrāṇyā bhagavān rudro dadarśa svagaṇairvṛtaḥ .. 3 ..
अथोमा तं ऋषिं वीक्ष्य गिरिशं समभाषत । पश्येमं भगवन् विप्रं निभृतात्मेन्द्रियाशयम् ॥ ४ ॥
athomā taṃ ṛṣiṃ vīkṣya giriśaṃ samabhāṣata . paśyemaṃ bhagavan vipraṃ nibhṛtātmendriyāśayam .. 4 ..
निभृतोदझषव्रातं वातापाये यथार्णवः । कुर्वस्य तपसः साक्षात् संसिद्धिं सिद्धिदो भवान् ॥ ५ ॥
nibhṛtodajhaṣavrātaṃ vātāpāye yathārṇavaḥ . kurvasya tapasaḥ sākṣāt saṃsiddhiṃ siddhido bhavān .. 5 ..
श्रीभगवानुवाच -
नैवेच्छत्याशिषः क्वापि ब्रह्मर्षिर्मोक्षमप्युत । भक्तिं परां भगवति लब्धवान् पुरुषेऽव्यये ॥ ६ ॥
naivecchatyāśiṣaḥ kvāpi brahmarṣirmokṣamapyuta . bhaktiṃ parāṃ bhagavati labdhavān puruṣe'vyaye .. 6 ..
अथापि संवदिष्यामो भवान्येतेन साधुना । अयं हि परमो लाभो नृणां साधुसमागमः ॥ ७ ॥
athāpi saṃvadiṣyāmo bhavānyetena sādhunā . ayaṃ hi paramo lābho nṛṇāṃ sādhusamāgamaḥ .. 7 ..
सूत उवाच -
इत्युक्त्वा तमुपेयाय भगवान् स सतां गतिः । ईशानः सर्वविद्यानां ईश्वरः सर्वदेहिनाम् ॥ ८ ॥
ityuktvā tamupeyāya bhagavān sa satāṃ gatiḥ . īśānaḥ sarvavidyānāṃ īśvaraḥ sarvadehinām .. 8 ..
तयोरागमनं साक्षाद् ईशयोर्जगदात्मनोः । न वेद रुद्धधीवृत्तिः आत्मानं विश्वमेव च ॥ ९ ॥
tayorāgamanaṃ sākṣād īśayorjagadātmanoḥ . na veda ruddhadhīvṛttiḥ ātmānaṃ viśvameva ca .. 9 ..
भगवान् तदभिज्ञाय गिरिशो योगमायया । आविशत्तद्गुहाकाशं वायुश्छिद्रमिवेश्वरः ॥ १० ॥
bhagavān tadabhijñāya giriśo yogamāyayā . āviśattadguhākāśaṃ vāyuśchidramiveśvaraḥ .. 10 ..
आत्मन्यपि शिवं प्राप्तं तडित्पिङ्गजटाधरम् । त्र्यक्षं दशभुजं प्रांशुं उद्यन्तं इव भास्करम् ॥ ११ ॥
ātmanyapi śivaṃ prāptaṃ taḍitpiṅgajaṭādharam . tryakṣaṃ daśabhujaṃ prāṃśuṃ udyantaṃ iva bhāskaram .. 11 ..
व्याघ्रचर्माम्बरं शूल खट्वाङ्गचर्मभिः । अक्षमालाडमरुक कपालासिधनुः सह ॥ १२ ॥
vyāghracarmāmbaraṃ śūla khaṭvāṅgacarmabhiḥ . akṣamālāḍamaruka kapālāsidhanuḥ saha .. 12 ..
बिभ्राणं सहसा भातं विचक्ष्य हृदि विस्मितः । किमिदं कुत एवेति समाधेर्विरतो मुनिः ॥ १३ ॥
bibhrāṇaṃ sahasā bhātaṃ vicakṣya hṛdi vismitaḥ . kimidaṃ kuta eveti samādhervirato muniḥ .. 13 ..
नेत्रे उन्मील्य ददृशे सगणं सोमयाऽऽगतम् । रुद्रं त्रिलोकैकगुरुं ननाम शिरसा मुनिः ॥ १४ ॥
netre unmīlya dadṛśe sagaṇaṃ somayā''gatam . rudraṃ trilokaikaguruṃ nanāma śirasā muniḥ .. 14 ..
तस्मै सपर्यां व्यदधात् सगणाय सहोमया । स्वागतासनपाद्यार्घ्य गन्धस्रग् धूपदीपकैः ॥ १५ ॥
tasmai saparyāṃ vyadadhāt sagaṇāya sahomayā . svāgatāsanapādyārghya gandhasrag dhūpadīpakaiḥ .. 15 ..
आह चात्मानुभावेन पूर्णकामस्य ते विभो । करवाम किमीशान येनेदं निर्वृतं जगत् ॥ १६ ॥
āha cātmānubhāvena pūrṇakāmasya te vibho . karavāma kimīśāna yenedaṃ nirvṛtaṃ jagat .. 16 ..
नमः शिवाय शान्ताय सत्त्वाय प्रमृडाय च । रजोजुषेऽप्य घोराय नमस्तुभ्यं तमोजुषे ॥ १७ ॥
namaḥ śivāya śāntāya sattvāya pramṛḍāya ca . rajojuṣe'pya ghorāya namastubhyaṃ tamojuṣe .. 17 ..
सूत उवाच -
एवं स्तुतः स भगवान् आदिदेवः सतां गतिः । परितुष्टः प्रसन्नात्मा प्रहसन् तं अभाषत ॥ १८ ॥
evaṃ stutaḥ sa bhagavān ādidevaḥ satāṃ gatiḥ . parituṣṭaḥ prasannātmā prahasan taṃ abhāṣata .. 18 ..
श्रीभगवानुवाच -
वरं वृणीष्व नः कामं वरदेशा वयं त्रयः । अमोघं दर्शनं येषां मर्त्यो यद् विन्दतेऽमृतम् ॥ १९ ॥
varaṃ vṛṇīṣva naḥ kāmaṃ varadeśā vayaṃ trayaḥ . amoghaṃ darśanaṃ yeṣāṃ martyo yad vindate'mṛtam .. 19 ..
ब्राह्मणाः साधवः शान्ता निःसङ्गा भूतवत्सलाः । एकान्तभक्ता अस्मासु निर्वैराः समदर्शिनः ॥ २० ॥
brāhmaṇāḥ sādhavaḥ śāntā niḥsaṅgā bhūtavatsalāḥ . ekāntabhaktā asmāsu nirvairāḥ samadarśinaḥ .. 20 ..
सलोका लोकपालास्तान् वन्दन्त्यर्चन्त्युपासते । अहं च भगवान् ब्रह्मा स्वयं च हरिरीश्वरः ॥ २१ ॥
salokā lokapālāstān vandantyarcantyupāsate . ahaṃ ca bhagavān brahmā svayaṃ ca harirīśvaraḥ .. 21 ..
न ते मय्यच्युतेऽजे च भिदामण्वपि चक्षते । नात्मनश्च जनस्यापि तद् युष्मान् वयमीमहि ॥ २२ ॥
na te mayyacyute'je ca bhidāmaṇvapi cakṣate . nātmanaśca janasyāpi tad yuṣmān vayamīmahi .. 22 ..
न ह्यम्मयानि तीर्थानि न देवाश्चेतनोज्झिताः । ते पुनन्ति उरुकालेन यूयं दर्शनमात्रतः ॥ २३ ॥
na hyammayāni tīrthāni na devāścetanojjhitāḥ . te punanti urukālena yūyaṃ darśanamātrataḥ .. 23 ..
ब्राह्मणेभ्यो नमस्यामो येऽस्मद् रूपं त्रयीमयम् । बिभ्रत्यात्मसमाधान तपःस्वाध्यायसंयमैः ॥ २४ ॥
brāhmaṇebhyo namasyāmo ye'smad rūpaṃ trayīmayam . bibhratyātmasamādhāna tapaḥsvādhyāyasaṃyamaiḥ .. 24 ..
श्रवणाद् दर्शनाद् वापि महापातकिनोऽपि वः । शुध्येरन् अन्त्यजाश्चापि किमु संभाषणादिभिः ॥ २५ ॥
śravaṇād darśanād vāpi mahāpātakino'pi vaḥ . śudhyeran antyajāścāpi kimu saṃbhāṣaṇādibhiḥ .. 25 ..
सूत उवाच -
इति चन्द्रललामस्य धर्मगुह्योपबृंहितम् । वचोऽमृतायनं ऋषिः नातृप्यत् कर्णयोः पिबन् ॥ २६ ॥
iti candralalāmasya dharmaguhyopabṛṃhitam . vaco'mṛtāyanaṃ ṛṣiḥ nātṛpyat karṇayoḥ piban .. 26 ..
स चिरं मायया विष्णोः भ्रामितः कर्शितो भृशम् । शिववागमृतध्वस्त क्लेशपुञ्जस्तमब्रवीत् ॥ २७ ॥
sa ciraṃ māyayā viṣṇoḥ bhrāmitaḥ karśito bhṛśam . śivavāgamṛtadhvasta kleśapuñjastamabravīt .. 27 ..
श्रीमार्कण्डेय उवाच -
अहो ईश्वरलीलेयं दुर्विभाव्या शरीरिणाम् । यन्नमन्तीशितव्यानि स्तुवन्ति जगदीश्वराः ॥ २८ ॥
aho īśvaralīleyaṃ durvibhāvyā śarīriṇām . yannamantīśitavyāni stuvanti jagadīśvarāḥ .. 28 ..
धर्मं ग्राहयितुं प्रायः प्रवक्तारश्च देहिनाम् । आचरन्ति अनुमोदन्ते क्रियमाणं स्तुवन्ति च ॥ २९ ॥
dharmaṃ grāhayituṃ prāyaḥ pravaktāraśca dehinām . ācaranti anumodante kriyamāṇaṃ stuvanti ca .. 29 ..
नैतावता भगवतः स्वमायामयवृत्तिभिः । न दुष्येतानुभावस्तैः मायिनः कुहकं यथा ॥ ३० ॥
naitāvatā bhagavataḥ svamāyāmayavṛttibhiḥ . na duṣyetānubhāvastaiḥ māyinaḥ kuhakaṃ yathā .. 30 ..
सृष्ट्वेदं मनसा विश्वं आत्मनानुप्रविश्य यः । गुणैः कुर्वद्भिराभाति कर्तेव स्वप्नदृग् यथा ॥ ३१ ॥
sṛṣṭvedaṃ manasā viśvaṃ ātmanānupraviśya yaḥ . guṇaiḥ kurvadbhirābhāti karteva svapnadṛg yathā .. 31 ..
तस्मै नमो भगवते त्रिगुणाय गुणात्मने । केवलायाद्वितीयाय गुरवे ब्रह्ममूर्तये ॥ ३२ ॥
tasmai namo bhagavate triguṇāya guṇātmane . kevalāyādvitīyāya gurave brahmamūrtaye .. 32 ..
कं वृणे नु परं भूमन् वरं त्वद् वरदर्शनात् । यद्दर्शनात्पूर्णकामः सत्यकामः पुमान् भवेत् ॥ ३३ ॥
kaṃ vṛṇe nu paraṃ bhūman varaṃ tvad varadarśanāt . yaddarśanātpūrṇakāmaḥ satyakāmaḥ pumān bhavet .. 33 ..
वरमेकं वृणेऽथापि पूर्णात् कामाभिवर्षणात् । भगवति अच्युतां भक्तिं तत्परेषु तथा त्वयि ॥ ३४ ॥
varamekaṃ vṛṇe'thāpi pūrṇāt kāmābhivarṣaṇāt . bhagavati acyutāṃ bhaktiṃ tatpareṣu tathā tvayi .. 34 ..
सूत उवाच -
इत्यर्चितोऽभिष्टुतश्च मुनिना सूक्तया गिरा । तं आह भगवान् शर्वः शर्वया चाभिनन्दितः ॥ ३५ ॥
ityarcito'bhiṣṭutaśca muninā sūktayā girā . taṃ āha bhagavān śarvaḥ śarvayā cābhinanditaḥ .. 35 ..
कामो महर्षे सर्वोऽयं भक्तिमान् त्वं अमधोक्षजे । आकल्पान्ताद् यशः पुण्यं अमजरामरता तथा ॥ ३६ ॥
kāmo maharṣe sarvo'yaṃ bhaktimān tvaṃ amadhokṣaje . ākalpāntād yaśaḥ puṇyaṃ amajarāmaratā tathā .. 36 ..
ज्ञानं त्रैकालिकं ब्रह्मन् विज्ञानं च विरक्तिमत् । ब्रह्मवर्चस्विनो भूयात् पुराणाचार्यतास्तु ते ॥ ३७ ॥
jñānaṃ traikālikaṃ brahman vijñānaṃ ca viraktimat . brahmavarcasvino bhūyāt purāṇācāryatāstu te .. 37 ..
सूत उवाच -
एवं वरान् स मुनये दत्त्वागात् त्र्यक्ष ईश्वरः । देव्यै तत्कर्म कथयन् अनुभूतं पुरामुना ॥ ३८ ॥
evaṃ varān sa munaye dattvāgāt tryakṣa īśvaraḥ . devyai tatkarma kathayan anubhūtaṃ purāmunā .. 38 ..
सोऽप्यवाप्तमहायोग महिमा भार्गवोत्तमः । विचरति अधुनाप्यद्धा हरावेकान्ततां गतः ॥ ३९ ॥
so'pyavāptamahāyoga mahimā bhārgavottamaḥ . vicarati adhunāpyaddhā harāvekāntatāṃ gataḥ .. 39 ..
अनुवर्णितमेतत्ते मार्कण्डेयस्य धीमतः । अनुभूतं भगवतो मायावैभवमद्भुतम् ॥ ४० ॥
anuvarṇitametatte mārkaṇḍeyasya dhīmataḥ . anubhūtaṃ bhagavato māyāvaibhavamadbhutam .. 40 ..
एतत् केचिद् अविद्वांसो मायासंसृतिरात्मनः । अनाद्यावर्तितं नॄणां कादाचित्कं प्रचक्षते ॥ ४१ ॥
etat kecid avidvāṃso māyāsaṃsṛtirātmanaḥ . anādyāvartitaṃ nṝṇāṃ kādācitkaṃ pracakṣate .. 41 ..
(वंशस्था)
य एवमेतद्भृगुवर्य वर्णितं रथाङ्गपाणेः अनुभावभावितम् । संश्रावयेत् संश्रृणुयादु तावुभौ तयोर्न कर्माशयसंसृतिर्भवेत् ॥ ४२ ॥
ya evametadbhṛguvarya varṇitaṃ rathāṅgapāṇeḥ anubhāvabhāvitam . saṃśrāvayet saṃśrṛṇuyādu tāvubhau tayorna karmāśayasaṃsṛtirbhavet .. 42 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वादशस्कन्धे दशमोऽध्यायः ॥ १० ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ dvādaśaskandhe daśamo'dhyāyaḥ .. 10 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ oṃ tatsat śrīkṛṣṇārpaṇamastu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In