| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

अथेममर्थं पृच्छामो भवन्तं बहुवित्तमम्। समस्ततन्त्रराद्धान्ते भवान् भागवततत्त्ववित् १।
अथा इमम् अर्थम् पृच्छामः भवन्तम् बहु-वित्तमम्। ।
athā imam artham pṛcchāmaḥ bhavantam bahu-vittamam. .
तान्त्रिकाः परिचर्यायां केवलस्य श्रियः पतेः। अङ्गोपाङ्गायुधाकल्पं कल्पयन्ति यथा च यैः २।
तान्त्रिकाः परिचर्यायाम् केवलस्य श्रियः पतेः। अङ्ग-उपाङ्ग-आयुध-आकल्पम् कल्पयन्ति यथा च यैः।
tāntrikāḥ paricaryāyām kevalasya śriyaḥ pateḥ. aṅga-upāṅga-āyudha-ākalpam kalpayanti yathā ca yaiḥ.
तन्नो वर्णय भद्रं ते क्रियायोगं बुभुत्सताम्। येन क्रियानैपुणेन मर्त्यो यायादमर्त्यताम् ३।
तत् नः वर्णय भद्रम् ते क्रिया-योगम् बुभुत्सताम्। येन क्रिया-नैपुणेन मर्त्यः यायात् अमर्त्य-ताम्।
tat naḥ varṇaya bhadram te kriyā-yogam bubhutsatām. yena kriyā-naipuṇena martyaḥ yāyāt amartya-tām.
सूत उवाच।
नमस्कृत्य गुरून्वक्ष्ये विभूतीर्वैष्णवीरपि। याः प्रोक्ता वेदतन्त्राभ्यामाचार्यैः पद्मजादिभिः ४।
नमस्कृत्य गुरून् वक्ष्ये विभूतीः वैष्णवीः अपि। याः प्रोक्ताः वेद-तन्त्राभ्याम् आचार्यैः पद्मज-आदिभिः।
namaskṛtya gurūn vakṣye vibhūtīḥ vaiṣṇavīḥ api. yāḥ proktāḥ veda-tantrābhyām ācāryaiḥ padmaja-ādibhiḥ.
मायाद्यैर्नवभिस्तत्त्वैः स विकारमयो विराट्। निर्मितो दृश्यते यत्र सचित्के भुवनत्रयम् ५।
माया-आद्यैः नवभिः तत्त्वैः स विकार-मयः विराज्। निर्मितः दृश्यते यत्र सचित्के भुवनत्रयम्।
māyā-ādyaiḥ navabhiḥ tattvaiḥ sa vikāra-mayaḥ virāj. nirmitaḥ dṛśyate yatra sacitke bhuvanatrayam.
एतद्वै पौरुषं रूपं भूः पादौ द्यौः शिरो नभः। नाभिः सूर्योऽक्षिणी नासे वायुः कर्णौ दिशः प्रभोः ६।
एतत् वै पौरुषम् रूपम् भूः पादौ द्यौः शिरः नभः। नाभिः सूर्यः अक्षिणी नासे वायुः कर्णौ दिशः प्रभोः।
etat vai pauruṣam rūpam bhūḥ pādau dyauḥ śiraḥ nabhaḥ. nābhiḥ sūryaḥ akṣiṇī nāse vāyuḥ karṇau diśaḥ prabhoḥ.
प्रजापतिः प्रजननमपानो मृत्युरीशितुः। तद्बाहवो लोकपाला मनश्चन्द्रो भ्रुवौ यमः ७।
प्रजापतिः प्रजननम् अपानः मृत्युः ईशितुः। तद्-बाहवः लोकपालाः मनः चन्द्रः भ्रुवौ यमः।
prajāpatiḥ prajananam apānaḥ mṛtyuḥ īśituḥ. tad-bāhavaḥ lokapālāḥ manaḥ candraḥ bhruvau yamaḥ.
लज्जोत्तरोऽधरो लोभो दन्ता ज्योत्स्ना स्मयो भ्रमः। रोमाणि भूरुहा भूम्नो मेघाः पुरुषमूर्धजाः ८।
लज्जा उत्तरः अधरः लोभः दन्ताः ज्योत्स्ना स्मयः भ्रमः। रोमाणि भूरुहाः भूम्नः मेघाः पुरुष-मूर्धजाः।
lajjā uttaraḥ adharaḥ lobhaḥ dantāḥ jyotsnā smayaḥ bhramaḥ. romāṇi bhūruhāḥ bhūmnaḥ meghāḥ puruṣa-mūrdhajāḥ.
यावानयं वै पुरुषो यावत्या संस्थया मितः। तावानसावपि महापुरुषो लोकसंस्थया ९।
यावान् अयम् वै पुरुषः यावत्या संस्थया मितः। तावान् असौ अपि महा-पुरुषः लोक-संस्थया।
yāvān ayam vai puruṣaḥ yāvatyā saṃsthayā mitaḥ. tāvān asau api mahā-puruṣaḥ loka-saṃsthayā.
कौस्तुभव्यपदेशेन स्वात्मज्योतिर्बिभर्त्यजः। तत्प्रभा व्यापिनी साक्षात्श्रीवत्समुरसा विभुः १०।
कौस्तुभ-व्यपदेशेन स्व-आत्म-ज्योतिः बिभर्ति अजः। तद्-प्रभा व्यापिनी साक्षात् श्रीवत्सम् उरसा विभुः।
kaustubha-vyapadeśena sva-ātma-jyotiḥ bibharti ajaḥ. tad-prabhā vyāpinī sākṣāt śrīvatsam urasā vibhuḥ.
स्वमायां वनमालाख्यां नानागुणमयीं दधत्। वासश्छन्दोमयं पीतं ब्रह्मसूत्रं त्रिवृत्स्वरम् ११।
स्व-मायाम् वनमाला-आख्याम् नाना गुण-मयीम् दधत्। वासः छन्दः-मयम् पीतम् ब्रह्मसूत्रम् त्रिवृत्-स्वरम्।
sva-māyām vanamālā-ākhyām nānā guṇa-mayīm dadhat. vāsaḥ chandaḥ-mayam pītam brahmasūtram trivṛt-svaram.
बिभर्ति साङ्ख्यं योगं च देवो मकरकुण्डले। मौलिं पदं पारमेष्ठ्यं सर्वलोकाभयङ्करम् १२।
बिभर्ति साङ्ख्यम् योगम् च देवः मकर-कुण्डले। मौलिम् पदम् पारमेष्ठ्यम् सर्व-लोक-अभयङ्करम्।
bibharti sāṅkhyam yogam ca devaḥ makara-kuṇḍale. maulim padam pārameṣṭhyam sarva-loka-abhayaṅkaram.
अव्याकृतमनन्ताख्यमासनं यदधिष्ठितः। धर्मज्ञानादिभिर्युक्तं सत्त्वं पद्ममिहोच्यते १३।
अव्याकृतम् अनन्त-आख्यम् आसनम् यद्-अधिष्ठितः। धर्म-ज्ञान-आदिभिः युक्तम् सत्त्वम् पद्मम् इह उच्यते।
avyākṛtam ananta-ākhyam āsanam yad-adhiṣṭhitaḥ. dharma-jñāna-ādibhiḥ yuktam sattvam padmam iha ucyate.
ओजःसहोबलयुतं मुख्यतत्त्वं गदां दधत्। अपां तत्त्वं दरवरं तेजस्तत्त्वं सुदर्शनम् १४।
ओजः-सहः-बल-युतम् मुख्य-तत्त्वम् गदाम् दधत्। अपाम् तत्त्वम् दरवरम् तेजः तत्त्वम् सुदर्शनम्।
ojaḥ-sahaḥ-bala-yutam mukhya-tattvam gadām dadhat. apām tattvam daravaram tejaḥ tattvam sudarśanam.
नभोनिभं नभस्तत्त्वमसिं चर्म तमोमयम्। कालरूपं धनुः शार्ङ्गं तथा कर्ममयेषुधिम् १५।
नभः-निभम् नभः-तत्त्वम् असिम् चर्म तमः-मयम्। काल-रूपम् धनुः शार्ङ्गम् तथा कर्म-मय-इषुधिम्।
nabhaḥ-nibham nabhaḥ-tattvam asim carma tamaḥ-mayam. kāla-rūpam dhanuḥ śārṅgam tathā karma-maya-iṣudhim.
इन्द्रियाणि शरानाहुराकूतीरस्य स्यन्दनम्। तन्मात्राण्यस्याभिव्यक्तिं मुद्रयार्थक्रियात्मताम् १६।
इन्द्रियाणि शरान् आहुः आकूतीरस्य स्यन्दनम्। तन्मात्राणि अस्य अभिव्यक्तिम् मुद्रया अर्थ-क्रिया-आत्म-ताम्।
indriyāṇi śarān āhuḥ ākūtīrasya syandanam. tanmātrāṇi asya abhivyaktim mudrayā artha-kriyā-ātma-tām.
मण्डलं देवयजनं दीक्षा संस्कार आत्मनः। परिचर्या भगवत आत्मनो दुरितक्षयः १७।
मण्डलम् देवयजनम् दीक्षा संस्कारः आत्मनः। परिचर्या भगवतः आत्मनः दुरित-क्षयः।
maṇḍalam devayajanam dīkṣā saṃskāraḥ ātmanaḥ. paricaryā bhagavataḥ ātmanaḥ durita-kṣayaḥ.
भगवान्भगशब्दार्थं लीलाकमलमुद्वहन्। धर्मं यशश्च भगवांश्चामरव्यजनेऽभजत् १८।
भगवान् भग-शब्द-अर्थम् लीला-कमलम् उद्वहन्। धर्मम् यशः च भगवान् चामर-व्यजने अभजत्।
bhagavān bhaga-śabda-artham līlā-kamalam udvahan. dharmam yaśaḥ ca bhagavān cāmara-vyajane abhajat.
आतपत्रं तु वैकुण्ठं द्विजा धामाकुतोभयम्। त्रिवृद्वेदः सुपर्णाख्यो यज्ञं वहति पूरुषम् १९।
आतपत्रम् तु वैकुण्ठम् द्विजाः धाम अकुतोभयम्। त्रिवृत् वेदः सुपर्ण-आख्यः यज्ञम् वहति पूरुषम्।
ātapatram tu vaikuṇṭham dvijāḥ dhāma akutobhayam. trivṛt vedaḥ suparṇa-ākhyaḥ yajñam vahati pūruṣam.
अनपायिनी भगवती श्रीः साक्षादात्मनो हरेः। विष्वक्सेनस्तन्त्रमूर्तिर्विदितः पार्षदाधिपः। नन्दादयोऽष्टौ द्वाःस्थाश्च तेऽणिमाद्या हरेर्गुणाः २०।
अनपायिनी भगवती श्रीः साक्षात् आत्मनः हरेः। । नन्द-आदयः अष्टौ द्वाःस्थाः च ते अणिम-आद्याः हरेः गुणाः।
anapāyinī bhagavatī śrīḥ sākṣāt ātmanaḥ hareḥ. . nanda-ādayaḥ aṣṭau dvāḥsthāḥ ca te aṇima-ādyāḥ hareḥ guṇāḥ.
वासुदेवः सङ्कर्षणः प्रद्युम्नः पुरुषः स्वयम्। अनिरुद्ध इति ब्रह्मन्मूर्तिव्यूहोऽभिधीयते २१।
वासुदेवः सङ्कर्षणः प्रद्युम्नः पुरुषः स्वयम्। अनिरुद्धः इति ब्रह्मन् मूर्ति-व्यूहः अभिधीयते।
vāsudevaḥ saṅkarṣaṇaḥ pradyumnaḥ puruṣaḥ svayam. aniruddhaḥ iti brahman mūrti-vyūhaḥ abhidhīyate.
स विश्वस्तैजसः प्राज्ञस्तुरीय इति वृत्तिभिः। अर्थेन्द्रियाशयज्ञानैर्भगवान्परिभाव्यते २२।
स विश्वः तैजसः प्राज्ञः तुरीयः इति वृत्तिभिः। अर्थ-इन्द्रिय-आशय-ज्ञानैः भगवान् परिभाव्यते।
sa viśvaḥ taijasaḥ prājñaḥ turīyaḥ iti vṛttibhiḥ. artha-indriya-āśaya-jñānaiḥ bhagavān paribhāvyate.
अङ्गोपाङ्गायुधाकल्पैर्भगवांस्तच्चतुष्टयम्। बिभर्ति स्म चतुर्मूर्तिर्भगवान्हरिरीश्वरः २३।
अङ्ग-उपाङ्ग-आयुध-आकल्पैः भगवान् तत् चतुष्टयम्। बिभर्ति स्म चतुर्मूर्तिः भगवान् हरिः ईश्वरः।
aṅga-upāṅga-āyudha-ākalpaiḥ bhagavān tat catuṣṭayam. bibharti sma caturmūrtiḥ bhagavān hariḥ īśvaraḥ.
द्विजभ स एष ब्रह्मयोनिः स्वयंदृक्। स्वमहिमपरिपूर्णो मायया च स्वयैतत्। सृजति हरति पातीत्याख्ययानावृताक्षो। विवृत इव निरुक्तस्तत्परैरात्मलभ्यः २४।
सः एष ब्रह्म-योनिः स्वयंदृश्। स्व-महिम-परिपूर्णः मायया च स्वया एतत्। सृजति हरति पाति इति आख्यया अन् आवृत-अक्षः। विवृतः इव निरुक्तः तद्-परैः आत्म-लभ्यः।
saḥ eṣa brahma-yoniḥ svayaṃdṛś. sva-mahima-paripūrṇaḥ māyayā ca svayā etat. sṛjati harati pāti iti ākhyayā an āvṛta-akṣaḥ. vivṛtaḥ iva niruktaḥ tad-paraiḥ ātma-labhyaḥ.
श्रीकृष्ण कृष्णसख वृष्ण्यृषभावनिध्रुग्। राजन्यवंशदहनानपवर्गवीर्य। गोविन्द गोपवनिताव्रजभृत्यगीत। तीर्थश्रवः श्रवणमङ्गल पाहि भृत्यान् २५।
श्रीकृष्ण कृष्णसख। राजन्य-वंश-दहन-अनपवर्ग-वीर्य। गोविन्द गोप-वनिता-व्रज-भृत्य-गीत। तीर्थ-श्रवः श्रवण-मङ्गल पाहि भृत्यान्।
śrīkṛṣṇa kṛṣṇasakha. rājanya-vaṃśa-dahana-anapavarga-vīrya. govinda gopa-vanitā-vraja-bhṛtya-gīta. tīrtha-śravaḥ śravaṇa-maṅgala pāhi bhṛtyān.
य इदं कल्य उत्थाय महापुरुषलक्षणम्। तच्चित्तः प्रयतो जप्त्वा ब्रह्म वेद गुहाशयम् २६।
यः इदम् कल्ये उत्थाय महापुरुष-लक्षणम्। तद्-चित्तः प्रयतः जप्त्वा ब्रह्म वेद गुहा-आशयम्।
yaḥ idam kalye utthāya mahāpuruṣa-lakṣaṇam. tad-cittaḥ prayataḥ japtvā brahma veda guhā-āśayam.
श्रीशौनक उवाच।
शुको यदाह भगवान्विष्णुराताय शृण्वते। सौरो गणो मासि मासि नाना वसति सप्तकः २७।
शुकः यत् आह भगवान् विष्णुराताय शृण्वते। सौरः गणः मासि मासि नाना वसति सप्तकः।
śukaḥ yat āha bhagavān viṣṇurātāya śṛṇvate. sauraḥ gaṇaḥ māsi māsi nānā vasati saptakaḥ.
तेषां नामानि कर्माणि नियुक्तानामधीश्वरैः। ब्रूहि नः श्रद्दधानानां व्यूहं सूर्यात्मनो हरेः २८।
तेषाम् नामानि कर्माणि नियुक्तानाम् अधीश्वरैः। ब्रूहि नः श्रद्दधानानाम् व्यूहम् सूर्य-आत्मनः हरेः।
teṣām nāmāni karmāṇi niyuktānām adhīśvaraiḥ. brūhi naḥ śraddadhānānām vyūham sūrya-ātmanaḥ hareḥ.
सूत उवाच।
अनाद्यविद्यया विष्णोरात्मनः सर्वदेहिनाम्। निर्मितो लोकतन्त्रोऽयं लोकेषु परिवर्तते २९।
अनाद्य-विद्यया विष्णोः आत्मनः सर्व-देहिनाम्। निर्मितः लोकतन्त्रः अयम् लोकेषु परिवर्तते।
anādya-vidyayā viṣṇoḥ ātmanaḥ sarva-dehinām. nirmitaḥ lokatantraḥ ayam lokeṣu parivartate.
एक एव हि लोकानां सूर्य आत्मादिकृद्धरिः। सर्ववेदक्रियामूलमृषिभिर्बहुधोदितः ३०।
एकः एव हि लोकानाम् सूर्यः आत्म-आदि-कृत् हरिः। सर्व-वेद-क्रिया-मूलम् ऋषिभिः बहुधा उदितः।
ekaḥ eva hi lokānām sūryaḥ ātma-ādi-kṛt hariḥ. sarva-veda-kriyā-mūlam ṛṣibhiḥ bahudhā uditaḥ.
कालो देशः क्रिया कर्ता करणं कार्यमागमः। द्रव्यं फलमिति ब्रह्मन्नवधोक्तोऽजया हरिः ३१।
कालः देशः क्रिया कर्ता करणम् कार्यम् आगमः। द्रव्यम् फलम् इति ब्रह्मन् अवधा-उक्तः अजया हरिः।
kālaḥ deśaḥ kriyā kartā karaṇam kāryam āgamaḥ. dravyam phalam iti brahman avadhā-uktaḥ ajayā hariḥ.
मध्वादिषु द्वादशसु भगवान्कालरूपधृक्। लोकतन्त्राय चरति पृथग्द्वादशभिर्गणैः ३२।
मधु-आदिषु द्वादशसु भगवान् काल-रूपधृक्। लोकतन्त्राय चरति पृथक् द्वादशभिः गणैः।
madhu-ādiṣu dvādaśasu bhagavān kāla-rūpadhṛk. lokatantrāya carati pṛthak dvādaśabhiḥ gaṇaiḥ.
धाता[1] कृतस्थली हेतिर्वासुकी रथकृन्मुने। पुलस्त्यस्तुम्बुरुरिति मधुमासं नयन्त्यमी ३३।
धाता[१] कृतस्थली हेतिः वासुकी रथकृत् मुने। पुलस्त्यः तुम्बुरुः इति मधु-मासम् नयन्ति अमी।
dhātā[1] kṛtasthalī hetiḥ vāsukī rathakṛt mune. pulastyaḥ tumburuḥ iti madhu-māsam nayanti amī.
अर्यमा पुलहोऽथौजाः प्रहेतिः पुञ्जिकस्थली। नारदः कच्छनीरश्च नयन्त्येते स्म माधवम् ३४।
अर्यमा पुलहः अथ ओजाः प्रहेतिः पुञ्जिकस्थली। नारदः कच्छनीरः च नयन्ति एते स्म माधवम्।
aryamā pulahaḥ atha ojāḥ prahetiḥ puñjikasthalī. nāradaḥ kacchanīraḥ ca nayanti ete sma mādhavam.
मित्रोऽत्रिः पौरुषेयोऽथ तक्षको मेनका हहाः। रथस्वन इति ह्येते शुक्रमासं नयन्त्यमी ३५।
मित्रः अत्रिः पौरुषेयः अथ तक्षकः मेनका हहाः। रथस्वनः इति हि एते शुक्र-मासम् नयन्ति अमी।
mitraḥ atriḥ pauruṣeyaḥ atha takṣakaḥ menakā hahāḥ. rathasvanaḥ iti hi ete śukra-māsam nayanti amī.
वसिष्ठो वरुणो रम्भा सहजन्यस्तथा हुहूः। शुक्रश्चित्रस्वनश्चैव शुचिमासं नयन्त्यमी ३६।
वसिष्ठः वरुणः रम्भा सहजन्यः तथा हुहूः। शुक्रः चित्रस्वनः च एव शुचि-मासम् नयन्ति अमी।
vasiṣṭhaḥ varuṇaḥ rambhā sahajanyaḥ tathā huhūḥ. śukraḥ citrasvanaḥ ca eva śuci-māsam nayanti amī.
इन्द्रो विश्वावसुः श्रोता एलापत्रस्तथाङ्गिराः। प्रम्लोचा राक्षसो वर्यो नभोमासं नयन्त्यमी ३७।
इन्द्रः विश्वावसुः श्रोता एलापत्रः तथा अङ्गिराः। प्रम्लोचाः राक्षसः वर्यः नभः-मासम् नयन्ति अमी।
indraḥ viśvāvasuḥ śrotā elāpatraḥ tathā aṅgirāḥ. pramlocāḥ rākṣasaḥ varyaḥ nabhaḥ-māsam nayanti amī.
विवस्वानुग्रसेनश्च व्याघ्र आसारणो भृगुः। अनुम्लोचा शङ्खपालो नभस्याख्यं नयन्त्यमी ३८।
विवस्वान् उग्रसेनः च व्याघ्रः आसारणः भृगुः। अनुम्लोचा शङ्खपालः नभस्य-आख्यम् नयन्ति अमी।
vivasvān ugrasenaḥ ca vyāghraḥ āsāraṇaḥ bhṛguḥ. anumlocā śaṅkhapālaḥ nabhasya-ākhyam nayanti amī.
पूषा धनञ्जयो वातः सुषेणः सुरुचिस्तथा। घृताची गौतमश्चेति तपोमासं नयन्त्यमी ३९।
पूषा धनञ्जयः वातः सुषेणः सुरुचिः तथा। घृताची गौतमः च इति तपः-मासम् नयन्ति अमी।
pūṣā dhanañjayaḥ vātaḥ suṣeṇaḥ suruciḥ tathā. ghṛtācī gautamaḥ ca iti tapaḥ-māsam nayanti amī.
ऋतुर्वर्चा भरद्वाजः पर्जन्यः सेनजित्तथा। विश्व ऐरावतश्चैव तपस्याख्यं नयन्त्यमी ४०।
ऋतुर्वर्चाः भरद्वाजः पर्जन्यः सेनजित् तथा। विश्वः ऐरावतः च एव तपस्य-आख्यम् नयन्ति अमी।
ṛturvarcāḥ bharadvājaḥ parjanyaḥ senajit tathā. viśvaḥ airāvataḥ ca eva tapasya-ākhyam nayanti amī.
अथांशुः कश्यपस्तार्क्ष्य ऋतसेनस्तथोर्वशी। विद्युच्छत्रुर्महाशङ्खः सहोमासं नयन्त्यमी ४१।
अथ अंशुः कश्यपः तार्क्ष्यः ऋतसेनः तथा उर्वशी। विद्युच्छत्रुः महाशङ्खः सहस्-मासम् नयन्ति अमी।
atha aṃśuḥ kaśyapaḥ tārkṣyaḥ ṛtasenaḥ tathā urvaśī. vidyucchatruḥ mahāśaṅkhaḥ sahas-māsam nayanti amī.
भगः स्फूर्जोऽरिष्टनेमिरूर्ण आयुश्च पञ्चमः। कर्कोटकः पूर्वचित्तिः पुष्यमासं नयन्त्यमी ४२।
भगः स्फूर्जः अरिष्टनेमिः ऊर्णः आयुः च पञ्चमः। कर्कोटकः पूर्वचित्तिः पुष्य-मासम् नयन्ति अमी।
bhagaḥ sphūrjaḥ ariṣṭanemiḥ ūrṇaḥ āyuḥ ca pañcamaḥ. karkoṭakaḥ pūrvacittiḥ puṣya-māsam nayanti amī.
त्वष्टा ऋचीकतनयः कम्बलश्च तिलोत्तमा। ब्रह्मापेतोऽथ शतजिद्धृतराष्ट्र इषम्भराः ४३।
त्वष्टा ऋचीक-तनयः कम्बलः च तिलोत्तमा। ब्रह्मापेतः अथ शतजित् धृतराष्ट्रः इषम्भराः।
tvaṣṭā ṛcīka-tanayaḥ kambalaḥ ca tilottamā. brahmāpetaḥ atha śatajit dhṛtarāṣṭraḥ iṣambharāḥ.
विष्णुरश्वतरो रम्भा सूर्यवर्चाश्च सत्यजित्। विश्वामित्रो मखापेत ऊर्जमासं नयन्त्यमी ४४।
विष्णुः अश्वतरः रम्भा सूर्यवर्चाः च सत्यजित्। विश्वामित्रः मख-अपेतः ऊर्ज-मासम् नयन्ति अमी।
viṣṇuḥ aśvataraḥ rambhā sūryavarcāḥ ca satyajit. viśvāmitraḥ makha-apetaḥ ūrja-māsam nayanti amī.
एता भगवतो विष्णोरादित्यस्य विभूतयः। स्मरतां सन्ध्ययोर्नॄणां हरन्त्यंहो दिने दिने ४५।
एताः भगवतः विष्णोः आदित्यस्य विभूतयः। स्मरताम् सन्ध्ययोः नॄणाम् हरन्ति अंहः दिने दिने।
etāḥ bhagavataḥ viṣṇoḥ ādityasya vibhūtayaḥ. smaratām sandhyayoḥ nṝṇām haranti aṃhaḥ dine dine.
द्वादशस्वपि मासेषु देवोऽसौ षड्भिरस्य वै। चरन्समन्तात्तनुते परत्रेह च सन्मतिम् ४६।
द्वादशसु अपि मासेषु देवः असौ षड्भिः अस्य वै। चरन् समन्तात् तनुते परत्र इह च सत्-मतिम्।
dvādaśasu api māseṣu devaḥ asau ṣaḍbhiḥ asya vai. caran samantāt tanute paratra iha ca sat-matim.
सामर्ग्यजुर्भिस्तल्लिङ्गैरृषयः संस्तुवन्त्यमुम्। गन्धर्वास्तं प्रगायन्ति नृत्यन्त्यप्सरसोऽग्रतः ४७।
साम-ऋच्-यजुर्भिः तद्-लिङ्गैः ऋषयः संस्तुवन्ति अमुम्। गन्धर्वाः तम् प्रगायन्ति नृत्यन्ति अप्सरसः अग्रतस्।
sāma-ṛc-yajurbhiḥ tad-liṅgaiḥ ṛṣayaḥ saṃstuvanti amum. gandharvāḥ tam pragāyanti nṛtyanti apsarasaḥ agratas.
उन्नह्यन्ति रथं नागा ग्रामण्यो रथयोजकाः। चोदयन्ति रथं पृष्ठे नैरृता बलशालिनः ४८।
उन्नह्यन्ति रथम् नागाः ग्रामण्यः रथ-योजकाः। चोदयन्ति रथम् पृष्ठे नैरृताः बल-शालिनः।
unnahyanti ratham nāgāḥ grāmaṇyaḥ ratha-yojakāḥ. codayanti ratham pṛṣṭhe nairṛtāḥ bala-śālinaḥ.
वालखिल्याः सहस्राणि षष्टिर्ब्रह्मर्षयोऽमलाः। पुरतोऽभिमुखं यान्ति स्तुवन्ति स्तुतिभिर्विभुम् ४९।
वालखिल्याः सहस्राणि षष्टिः ब्रह्मर्षयः अमलाः। पुरतस् अभिमुखम् यान्ति स्तुवन्ति स्तुतिभिः विभुम्।
vālakhilyāḥ sahasrāṇi ṣaṣṭiḥ brahmarṣayaḥ amalāḥ. puratas abhimukham yānti stuvanti stutibhiḥ vibhum.
एवं ह्यनादिनिधनो भगवान्हरिरीश्वरः। कल्पे कल्पे स्वमात्मानं व्यूह्य लोकानवत्यजः ५०।
एवम् हि अनादिनिधनः भगवान् हरिः ईश्वरः। कल्पे कल्पे स्वम् आत्मानम् व्यूह्य लोकान् अवत्यजः।
evam hi anādinidhanaḥ bhagavān hariḥ īśvaraḥ. kalpe kalpe svam ātmānam vyūhya lokān avatyajaḥ.
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वादशस्कन्धे आदित्यव्यूहविवरणं नामैकादशोऽध्यायः
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् द्वादश-स्कन्धे आदित्यव्यूहविवरणम् नाम एकादशः अध्यायः
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām dvādaśa-skandhe ādityavyūhavivaraṇam nāma ekādaśaḥ adhyāyaḥ

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In