न यद्वचश्चित्रपदं हरेर्यशो जगत्पवित्रं प्रगृणीत कर्हिचित् । तद् ध्वाङ्क्षतीर्थं न तु हंससेवितं यत्राच्युतस्तत्र हि साधवोऽमलाः ॥ ५० ॥
PADACHEDA
न यत् वचः चित्र-पदम् हरेः यशः जगत्-पवित्रम् प्रगृणीत कर्हिचित् । तत् ध्वाङ्क्षतीर्थम् न तु हंस-सेवितम् यत्र अच्युतः तत्र हि साधवः अमलाः ॥ ५० ॥
TRANSLITERATION
na yat vacaḥ citra-padam hareḥ yaśaḥ jagat-pavitram pragṛṇīta karhicit . tat dhvāṅkṣatīrtham na tu haṃsa-sevitam yatra acyutaḥ tatra hi sādhavaḥ amalāḥ .. 50 ..
नैष्कर्म्यमप्यच्युत भाववर्जितं न शोभते ज्ञानमलं निरञ्जनम् । कुतः पुनः शश्वदभद्रमीश्वरे न ह्यर्पितं कर्म यदप्यनुत्तमम् ॥ ५२ ॥
PADACHEDA
नैष्कर्म्यम् अपि अच्युत भाव-वर्जितम् न शोभते ज्ञान-मलम् निरञ्जनम् । कुतस् पुनर् शश्वत् अभद्रम् ईश्वरे न हि अर्पितम् कर्म यत् अपि अनुत्तमम् ॥ ५२ ॥
TRANSLITERATION
naiṣkarmyam api acyuta bhāva-varjitam na śobhate jñāna-malam nirañjanam . kutas punar śaśvat abhadram īśvare na hi arpitam karma yat api anuttamam .. 52 ..
Participate in traditional Shiva Pūjā performed with authentic mantras, their meanings, and prescribed rituals for matrimony harmony, stability and longevity.