| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

सूत उवाच - (अनुष्टुप्)
नमो धर्माय महते नमः कृष्णाय वेधसे । ब्रह्मणेभ्यो नमस्कृत्य धर्मान् वक्ष्ये सनातनान् ॥ १ ॥
नमः धर्माय महते नमः कृष्णाय वेधसे । ब्रह्मणेभ्यः नमस्कृत्य धर्मान् वक्ष्ये सनातनान् ॥ १ ॥
namaḥ dharmāya mahate namaḥ kṛṣṇāya vedhase . brahmaṇebhyaḥ namaskṛtya dharmān vakṣye sanātanān .. 1 ..
एतद् वः कथितं विप्रा विष्णोश्चरितमद्भुतम् । भवद्भिः यदहं पृष्टो नराणां पुरुषोचितम् ॥ २ ॥
एतत् वः कथितम् विप्राः विष्णोः चरितम् अद्भुतम् । भवद्भिः यत् अहम् पृष्टः नराणाम् पुरुष-उचितम् ॥ २ ॥
etat vaḥ kathitam viprāḥ viṣṇoḥ caritam adbhutam . bhavadbhiḥ yat aham pṛṣṭaḥ narāṇām puruṣa-ucitam .. 2 ..
अत्र सङ्कीर्तितः साक्षात् सर्वपापहरो हरिः । नारायणो हृषीकेशो भगवान् सात्वतां पतिः ॥ ३ ॥
अत्र सङ्कीर्तितः साक्षात् सर्व-पाप-हरः हरिः । ॥ ३ ॥
atra saṅkīrtitaḥ sākṣāt sarva-pāpa-haraḥ hariḥ . .. 3 ..
अत्र ब्रह्म परं गुह्यं जगतः प्रभवाप्ययम् । ज्ञानं च तदुपाख्यानं प्रोक्तं विज्ञानसंयुतम् ॥ ४ ॥
अत्र ब्रह्म परम् गुह्यम् जगतः प्रभव-अप्ययम् । ज्ञानम् च तत् उपाख्यानम् प्रोक्तम् विज्ञान-संयुतम् ॥ ४ ॥
atra brahma param guhyam jagataḥ prabhava-apyayam . jñānam ca tat upākhyānam proktam vijñāna-saṃyutam .. 4 ..
भक्तियोगः समाख्यातो वैराग्यं च तदाश्रयम् । पारीक्षितं उपाख्यानं नारदाख्यानमेव च ॥ ५ ॥
भक्ति-योगः समाख्यातः वैराग्यम् च तद्-आश्रयम् । पारीक्षितम् उपाख्यानम् नारद-आख्यानम् एव च ॥ ५ ॥
bhakti-yogaḥ samākhyātaḥ vairāgyam ca tad-āśrayam . pārīkṣitam upākhyānam nārada-ākhyānam eva ca .. 5 ..
प्रायोपवेशो राजर्षेः विप्रशापात् परीक्षितः । शुकस्य ब्रह्मर्षभस्य संवादश्च परीक्षितः ॥ ६ ॥
प्राय-उपवेशः राजर्षेः विप्र-शापात् परीक्षितः । शुकस्य ब्रह्मर्षभस्य संवादः च परीक्षितः ॥ ६ ॥
prāya-upaveśaḥ rājarṣeḥ vipra-śāpāt parīkṣitaḥ . śukasya brahmarṣabhasya saṃvādaḥ ca parīkṣitaḥ .. 6 ..
योगधारणयोत्क्रान्तिः संवादो नारदाजयोः । अवतारानुगीतं च सर्गः प्राधानिकोऽग्रतः ॥ ७ ॥
योग-धारणया उत्क्रान्तिः संवादः नारद-आजयोः । अवतार-अनुगीतम् च सर्गः प्राधानिकः अग्रतस् ॥ ७ ॥
yoga-dhāraṇayā utkrāntiḥ saṃvādaḥ nārada-ājayoḥ . avatāra-anugītam ca sargaḥ prādhānikaḥ agratas .. 7 ..
विदुरोद्धवसंवादः क्षत्तृमैत्रेययोस्ततः । पुराणसंहिताप्रश्नो महापुरुषसंस्थितिः ॥ ८ ॥
विदुर-उद्धव-संवादः क्षत्तृ-मैत्रेययोः ततस् । ॥ ८ ॥
vidura-uddhava-saṃvādaḥ kṣattṛ-maitreyayoḥ tatas . .. 8 ..
ततः प्राकृतिकः सर्गः सप्त वैकृतिकाश्च ये । ततो ब्रह्माण्डसम्भूतिः वैराजः पुरुषो यतः ॥ ९ ॥
ततस् प्राकृतिकः सर्गः सप्त वैकृतिकाः च ये । ततस् ब्रह्माण्ड-सम्भूतिः वैराजः पुरुषः यतस् ॥ ९ ॥
tatas prākṛtikaḥ sargaḥ sapta vaikṛtikāḥ ca ye . tatas brahmāṇḍa-sambhūtiḥ vairājaḥ puruṣaḥ yatas .. 9 ..
कालस्य स्थूलसूक्ष्मस्य गतिः पद्मसमुद्भवः । भुव उद्धरणेऽम्भोधेः हिरण्याक्षवधो यथा ॥ १० ॥
कालस्य स्थूल-सूक्ष्मस्य गतिः पद्म-समुद्भवः । भुवः उद्धरणे अम्भोधेः हिरण्याक्ष-वधः यथा ॥ १० ॥
kālasya sthūla-sūkṣmasya gatiḥ padma-samudbhavaḥ . bhuvaḥ uddharaṇe ambhodheḥ hiraṇyākṣa-vadhaḥ yathā .. 10 ..
ऊर्ध्वतिर्यगवाक्सर्गो रुद्रसर्गस्तथैव च । अर्धनारीश्वरस्याथ यतः स्वायंभुवो मनुः ॥ ११ ॥
ऊर्ध्व-तिर्यक्-अवाक् सर्गः रुद्र-सर्गः तथा एव च । अर्धनारीश्वरस्य अथ यतस् स्वायंभुवः मनुः ॥ ११ ॥
ūrdhva-tiryak-avāk sargaḥ rudra-sargaḥ tathā eva ca . ardhanārīśvarasya atha yatas svāyaṃbhuvaḥ manuḥ .. 11 ..
शतरूपा च या स्त्रीणां आद्या प्रकृतिरुत्तमा । सन्तानो धर्मपत्नीनां कर्दमस्य प्रजापतेः ॥ १२ ॥
शत-रूपा च या स्त्रीणाम् आद्या प्रकृतिः उत्तमा । सन्तानः धर्म-पत्नीनाम् कर्दमस्य प्रजापतेः ॥ १२ ॥
śata-rūpā ca yā strīṇām ādyā prakṛtiḥ uttamā . santānaḥ dharma-patnīnām kardamasya prajāpateḥ .. 12 ..
अवतारो भगवतः कपिलस्य महात्मनः । देवहूत्याश्च संवादः कपिलेन च धीमता ॥ १३ ॥
अवतारः भगवतः कपिलस्य महात्मनः । देवहूत्याः च संवादः कपिलेन च धीमता ॥ १३ ॥
avatāraḥ bhagavataḥ kapilasya mahātmanaḥ . devahūtyāḥ ca saṃvādaḥ kapilena ca dhīmatā .. 13 ..
नवब्रह्मसमुत्पत्तिः दक्षयज्ञविनाशनम् । ध्रुवस्य चरितं पश्चात् पृथोः प्राचीनबर्हिषः ॥ १४ ॥
। ध्रुवस्य चरितम् पश्चात् पृथोः प्राचीनबर्हिषः ॥ १४ ॥
. dhruvasya caritam paścāt pṛthoḥ prācīnabarhiṣaḥ .. 14 ..
नारदस्य च संवादः ततः प्रैयव्रतं द्विजाः । नाभेस्ततोऽनुचरितं ऋषभस्य भरतस्य च ॥ १५ ॥
नारदस्य च संवादः ततस् प्रैयव्रतम् द्विजाः । नाभेः ततस् अनुचरितम् ऋषभस्य भरतस्य च ॥ १५ ॥
nāradasya ca saṃvādaḥ tatas praiyavratam dvijāḥ . nābheḥ tatas anucaritam ṛṣabhasya bharatasya ca .. 15 ..
द्वीपवर्षसमुद्राणां गिरिनद्युपवर्णनम् । ज्योतिश्चक्रस्य संस्थानं पातालनरकस्थितिः ॥ १६ ॥
द्वीप-वर्ष-समुद्राणाम् गिरि-नदी-उपवर्णनम् । ज्योतिश्चक्रस्य संस्थानम् पाताल-नरक-स्थितिः ॥ १६ ॥
dvīpa-varṣa-samudrāṇām giri-nadī-upavarṇanam . jyotiścakrasya saṃsthānam pātāla-naraka-sthitiḥ .. 16 ..
दक्षजन्म प्रचेतोभ्यः तत्पुत्रीणां च सन्ततिः । यतो देवासुरनराः तिर्यङ्नगखगादयः ॥ १७ ॥
दक्ष-जन्म प्रचेतोभ्यः तद्-पुत्रीणाम् च सन्ततिः । यतस् देव-असुर-नराः तिर्यक् नग-खग-आदयः ॥ १७ ॥
dakṣa-janma pracetobhyaḥ tad-putrīṇām ca santatiḥ . yatas deva-asura-narāḥ tiryak naga-khaga-ādayaḥ .. 17 ..
त्वाष्ट्रस्य जन्मनिधनं पुत्रयोश्च दितेर्द्विजाः । दैत्येश्वरस्य चरितं प्रह्रादस्य महात्मनः ॥ १८ ॥
त्वाष्ट्रस्य जन्म-निधनम् पुत्रयोः च दितेः द्विजाः । दैत्य-ईश्वरस्य चरितम् प्रह्रादस्य महात्मनः ॥ १८ ॥
tvāṣṭrasya janma-nidhanam putrayoḥ ca diteḥ dvijāḥ . daitya-īśvarasya caritam prahrādasya mahātmanaḥ .. 18 ..
मन्वन्तरानुकथनं गजेन्द्रस्य विमोक्षणम् । मन्वन्तरावताराश्च विष्णोर्हयशिरादयः ॥ १९ ॥
मन्वन्तर-अनुकथनम् गज-इन्द्रस्य विमोक्षणम् । मन्वन्तर-अवताराः च विष्णोः हयशिर-आदयः ॥ १९ ॥
manvantara-anukathanam gaja-indrasya vimokṣaṇam . manvantara-avatārāḥ ca viṣṇoḥ hayaśira-ādayaḥ .. 19 ..
कौर्मं धान्वतरं मात्स्यं वामनं च जगत्पतेः । क्षीरोदमथनं तद्वद् अमृतार्थे दिवौकसाम् ॥ २० ॥
कौर्मम् धान्वतरम् मात्स्यम् वामनम् च जगत्पतेः । क्षीरोद-मथनम् तद्वत् अमृत-अर्थे दिवौकसाम् ॥ २० ॥
kaurmam dhānvataram mātsyam vāmanam ca jagatpateḥ . kṣīroda-mathanam tadvat amṛta-arthe divaukasām .. 20 ..
देवासुरमहायुद्धं राजवंशानुकीर्तनम् । इक्ष्वाकुजन्म तद्वंशः सुद्युम्नस्य महात्मनः ॥ २१ ॥
। इक्ष्वाकु-जन्म तद्-वंशः सुद्युम्नस्य महात्मनः ॥ २१ ॥
. ikṣvāku-janma tad-vaṃśaḥ sudyumnasya mahātmanaḥ .. 21 ..
इलोपाख्यानमत्रोक्तं तारोपाख्यानमेव च । सूर्यवंशानुकथनं शशादाद्या नृगादयः ॥ २२ ॥
इल-उपाख्यानम् अत्र उक्तम् तार-उपाख्यानम् एव च । सूर्यवंश-अनुकथनम् शशाद-आद्याः नृग-आदयः ॥ २२ ॥
ila-upākhyānam atra uktam tāra-upākhyānam eva ca . sūryavaṃśa-anukathanam śaśāda-ādyāḥ nṛga-ādayaḥ .. 22 ..
सौकन्यं चाथ शर्यातेः ककुत्स्थस्य च धीमतः । खट्वाङ्गस्य च मान्धातुः सौभरेः सगरस्य च ॥ २३ ॥
सौकन्यम् च अथ शर्यातेः ककुत्स्थस्य च धीमतः । खट्वाङ्गस्य च मान्धातुः सौभरेः सगरस्य च ॥ २३ ॥
saukanyam ca atha śaryāteḥ kakutsthasya ca dhīmataḥ . khaṭvāṅgasya ca māndhātuḥ saubhareḥ sagarasya ca .. 23 ..
रामस्य कोशलेन्द्रस्य चरितं किल्बिषापहम् । निमेरङ्गपरित्यागो जनकानां च सम्भवः ॥ २४ ॥
रामस्य कोशल-इन्द्रस्य चरितम् किल्बिष-अपहम् । निमेः अङ्ग-परित्यागः जनकानाम् च सम्भवः ॥ २४ ॥
rāmasya kośala-indrasya caritam kilbiṣa-apaham . nimeḥ aṅga-parityāgaḥ janakānām ca sambhavaḥ .. 24 ..
रामस्य भार्गवेन्द्रस्य निःक्षतृईकरणं भुवः । ऐलस्य सोमवंशस्य ययातेर्नहुषस्य च ॥ २५ ॥
रामस्य भार्गव-इन्द्रस्य निःक्षतृईकरणम् भुवः । ऐलस्य सोम-वंशस्य ययातेः नहुषस्य च ॥ २५ ॥
rāmasya bhārgava-indrasya niḥkṣatṛīkaraṇam bhuvaḥ . ailasya soma-vaṃśasya yayāteḥ nahuṣasya ca .. 25 ..
दौष्मन्तेर्भरतस्यापि शान्तनोस्तत्सुतस्य च । ययातेर्ज्येष्ठपुत्रस्य यदोर्वंशोऽनुकीर्तितः ॥ २६ ॥
दौष्मन्तेः भरतस्य अपि शान्तनोः तद्-सुतस्य च । ययातेः ज्येष्ठ-पुत्रस्य यदोः वंशः अनुकीर्तितः ॥ २६ ॥
dauṣmanteḥ bharatasya api śāntanoḥ tad-sutasya ca . yayāteḥ jyeṣṭha-putrasya yadoḥ vaṃśaḥ anukīrtitaḥ .. 26 ..
यत्रावतीर्णो भगवान् कृष्णाख्यो जगदीश्वरः । वसुदेवगृहे जन्म ततो वृद्धिश्च गोकुले ॥ २७ ॥
यत्र अवतीर्णः भगवान् कृष्ण-आख्यः जगत्-ईश्वरः । वसुदेव-गृहे जन्म ततस् वृद्धिः च गोकुले ॥ २७ ॥
yatra avatīrṇaḥ bhagavān kṛṣṇa-ākhyaḥ jagat-īśvaraḥ . vasudeva-gṛhe janma tatas vṛddhiḥ ca gokule .. 27 ..
तस्य कर्माण्यपाराणि कीर्तितान्यसुरद्विषः । पूतनासुपयःपानं शकटोच्चाटनं शिशोः ॥ २८ ॥
तस्य कर्माणि अपाराणि कीर्तितानि असुरद्विषः । पूतना-सु पयः-पानम् शकट-उच्चाटनम् शिशोः ॥ २८ ॥
tasya karmāṇi apārāṇi kīrtitāni asuradviṣaḥ . pūtanā-su payaḥ-pānam śakaṭa-uccāṭanam śiśoḥ .. 28 ..
तृणावर्तस्य निष्पेषः तथैव बकवत्सयोः । धेनुकस्य सहभ्रातुः प्रलम्बस्य च संक्षयः ॥ २९ ॥
तृणावर्तस्य निष्पेषः तथा एव बक-वत्सयोः । धेनुकस्य सहभ्रातुः प्रलम्बस्य च संक्षयः ॥ २९ ॥
tṛṇāvartasya niṣpeṣaḥ tathā eva baka-vatsayoḥ . dhenukasya sahabhrātuḥ pralambasya ca saṃkṣayaḥ .. 29 ..
गोपानां च परित्राणं दावाग्नेः परिसर्पतः । दमनं कालियस्याहेः महाहेर्नन्दमोक्षणम् ॥ ३० ॥
गोपानाम् च परित्राणम् दाव-अग्नेः परिसर्पतः । दमनम् कालियस्य अहेः महा-अहेः नन्द-मोक्षणम् ॥ ३० ॥
gopānām ca paritrāṇam dāva-agneḥ parisarpataḥ . damanam kāliyasya aheḥ mahā-aheḥ nanda-mokṣaṇam .. 30 ..
व्रतचर्या तु कन्यानां यत्र तुष्टोऽच्युतो व्रतैः । प्रसादो यज्ञपत्नीभ्यो विप्राणां चानुतापनम् ॥ ३१ ॥
व्रत-चर्या तु कन्यानाम् यत्र तुष्टः अच्युतः व्रतैः । प्रसादः यज्ञ-पत्नीभ्यः विप्राणाम् च अनुतापनम् ॥ ३१ ॥
vrata-caryā tu kanyānām yatra tuṣṭaḥ acyutaḥ vrataiḥ . prasādaḥ yajña-patnībhyaḥ viprāṇām ca anutāpanam .. 31 ..
गोवर्धनोद्धारणं च शक्रस्य सुरभेरथ । यज्ञभिषेकं कृष्णस्य स्त्रीभिः क्रीडा च रात्रिषु ॥ ३२ ॥
गोवर्धन-उद्धारणम् च शक्रस्य सुरभेः अथ । यज्ञ-अभिषेकम् कृष्णस्य स्त्रीभिः क्रीडा च रात्रिषु ॥ ३२ ॥
govardhana-uddhāraṇam ca śakrasya surabheḥ atha . yajña-abhiṣekam kṛṣṇasya strībhiḥ krīḍā ca rātriṣu .. 32 ..
शङ्खचूडस्य दुर्बुद्धेः वधोऽरिष्टस्य केशिनः । अक्रूरागमनं पश्चात् प्रस्थानं रामकृष्णयोः ॥ ३३ ॥
शङ्खचूडस्य दुर्बुद्धेः वधः अरिष्टस्य केशिनः । अक्रूर-आगमनम् पश्चात् प्रस्थानम् राम-कृष्णयोः ॥ ३३ ॥
śaṅkhacūḍasya durbuddheḥ vadhaḥ ariṣṭasya keśinaḥ . akrūra-āgamanam paścāt prasthānam rāma-kṛṣṇayoḥ .. 33 ..
व्रजस्त्रीणां विलापश्च मथुरालोकनं ततः । गजमुष्टिकचाणूर कंसादीनां तथा वधः ॥ ३४ ॥
व्रज-स्त्रीणाम् विलापः च मथुरा-आलोकनम् ततस् । गज-मुष्टिक-चाणूर कंस-आदीनाम् तथा वधः ॥ ३४ ॥
vraja-strīṇām vilāpaḥ ca mathurā-ālokanam tatas . gaja-muṣṭika-cāṇūra kaṃsa-ādīnām tathā vadhaḥ .. 34 ..
मृतस्यानयनं सूनोः पुनः सान्दीपनेर्गुरोः । मथुरायां निवसता यदुचक्रस्य यत्प्रियम् । कृतमुद्धवरामाभ्यां युतेन हरिणा द्विजाः ॥ ३५ ॥
मृतस्य आनयनम् सूनोः पुनर् सान्दीपनेः गुरोः । मथुरायाम् निवसता यदु-चक्रस्य यत् प्रियम् । कृतम् उद्धव-रामाभ्याम् युतेन हरिणा द्विजाः ॥ ३५ ॥
mṛtasya ānayanam sūnoḥ punar sāndīpaneḥ guroḥ . mathurāyām nivasatā yadu-cakrasya yat priyam . kṛtam uddhava-rāmābhyām yutena hariṇā dvijāḥ .. 35 ..
जरासन्धसमानीत सैन्यस्य बहुशो वधः । घातनं यवनेन्द्रस्य कुशस्थल्या निवेशनम् ॥ ३६ ॥
जरासन्ध-समानीत सैन्यस्य बहुशस् वधः । घातनम् यवन-इन्द्रस्य कुशस्थल्याः निवेशनम् ॥ ३६ ॥
jarāsandha-samānīta sainyasya bahuśas vadhaḥ . ghātanam yavana-indrasya kuśasthalyāḥ niveśanam .. 36 ..
आदानं पारिजातस्य सुधर्मायाः सुरालयात् । रुक्मिण्या हरणं युद्धे प्रमथ्य द्विषतो हरेः ॥ ३७ ॥
आदानम् पारिजातस्य सुधर्मायाः सुरालयात् । रुक्मिण्याः हरणम् युद्धे प्रमथ्य द्विषतः हरेः ॥ ३७ ॥
ādānam pārijātasya sudharmāyāḥ surālayāt . rukmiṇyāḥ haraṇam yuddhe pramathya dviṣataḥ hareḥ .. 37 ..
हरस्य जृम्भणं युद्धे बाणस्य भुजकृन्तनम् । प्राग्ज्योतिषपतिं हत्वा कन्यानां हरणं च यत् ॥ ३८ ॥
हरस्य जृम्भणम् युद्धे बाणस्य भुज-कृन्तनम् । प्राग्ज्योतिष-पतिम् हत्वा कन्यानाम् हरणम् च यत् ॥ ३८ ॥
harasya jṛmbhaṇam yuddhe bāṇasya bhuja-kṛntanam . prāgjyotiṣa-patim hatvā kanyānām haraṇam ca yat .. 38 ..
चैद्यपौण्ड्रकशाल्वानां दन्तवक्रस्य दुर्मतेः । शम्बरो द्विविदः पीठो मुरः पञ्चजनादयः ॥ ३९ ॥
चैद्य-पौण्ड्रक-शाल्वानाम् दन्तवक्रस्य दुर्मतेः । ॥ ३९ ॥
caidya-pauṇḍraka-śālvānām dantavakrasya durmateḥ . .. 39 ..
माहात्म्यं च वधस्तेषां वाराणस्याश्च दाहनम् । भारावतरणं भूमेः निमित्तीकृत्य पाण्डवान् ॥ ४० ॥
माहात्म्यम् च वधः तेषाम् वाराणस्याः च दाहनम् । भार-अवतरणम् भूमेः निमित्तीकृत्य पाण्डवान् ॥ ४० ॥
māhātmyam ca vadhaḥ teṣām vārāṇasyāḥ ca dāhanam . bhāra-avataraṇam bhūmeḥ nimittīkṛtya pāṇḍavān .. 40 ..
विप्रशापापदेशेन संहारः स्वकुलस्य च । उद्धवस्य च संवादो वसुदेवस्य चाद्भुतः ॥ ४१ ॥
विप्र-शाप-अपदेशेन संहारः स्व-कुलस्य च । उद्धवस्य च संवादः वसुदेवस्य च अद्भुतः ॥ ४१ ॥
vipra-śāpa-apadeśena saṃhāraḥ sva-kulasya ca . uddhavasya ca saṃvādaḥ vasudevasya ca adbhutaḥ .. 41 ..
यत्रात्मविद्या ह्यखिला प्रोक्ता धर्मविनिर्णयः । ततो मर्त्यपरित्याग आत्मयोगानुभावतः ॥ ४२ ॥
यत्र आत्म-विद्या हि अखिला प्रोक्ता धर्म-विनिर्णयः । ततस् मर्त्य-परित्यागः आत्म-योग-अनुभावतः ॥ ४२ ॥
yatra ātma-vidyā hi akhilā proktā dharma-vinirṇayaḥ . tatas martya-parityāgaḥ ātma-yoga-anubhāvataḥ .. 42 ..
युगलक्षणवृत्तिश्च कलौ नॄणामुपप्लवः । चतुर्विधश्च प्रलय उत्पत्तिस्त्रिविधा तथा ॥ ४३ ॥
युग-लक्षण-वृत्तिः च कलौ नॄणाम् उपप्लवः । चतुर्विधः च प्रलयः उत्पत्तिः त्रिविधा तथा ॥ ४३ ॥
yuga-lakṣaṇa-vṛttiḥ ca kalau nṝṇām upaplavaḥ . caturvidhaḥ ca pralayaḥ utpattiḥ trividhā tathā .. 43 ..
देहत्यागश्च राजर्षेः विष्णुरातस्य धीमतः । शाखाप्रणयनं ऋषेः मार्कण्डेयस्य सत्कथा ॥ महापुरुषविन्यासः सूर्यस्य जगदात्मनः ॥ ४४ ॥
देहत्यागः च राजर्षेः विष्णुरातस्य धीमतः । शाखा-प्रणयनम् ऋषेः मार्कण्डेयस्य सत्-कथा ॥ महापुरुष-विन्यासः सूर्यस्य जगदात्मनः ॥ ४४ ॥
dehatyāgaḥ ca rājarṣeḥ viṣṇurātasya dhīmataḥ . śākhā-praṇayanam ṛṣeḥ mārkaṇḍeyasya sat-kathā .. mahāpuruṣa-vinyāsaḥ sūryasya jagadātmanaḥ .. 44 ..
इति चोक्तं द्विजश्रेष्ठा यत्पृष्टोऽहं इहास्मि वः । लीलावतारकर्माणि कीर्तितानीह सर्वशः ॥ ४५ ॥
इति च उक्तम् द्विजश्रेष्ठाः यत् पृष्टः अहम् इह अस्मि वः । लीलावतार-कर्माणि कीर्तितानि इह सर्वशस् ॥ ४५ ॥
iti ca uktam dvijaśreṣṭhāḥ yat pṛṣṭaḥ aham iha asmi vaḥ . līlāvatāra-karmāṇi kīrtitāni iha sarvaśas .. 45 ..
पतितः स्खलितश्चार्तः क्षुत्त्वा वा विवशो ब्रुवन् । हरये नम इत्युच्चैः मुच्यते सर्वपातकात् ॥ ४६ ॥
पतितः स्खलितः च आर्तः क्षुत्त्वा वा विवशः ब्रुवन् । हरये नमः इति उच्चैस् मुच्यते सर्व-पातकात् ॥ ४६ ॥
patitaḥ skhalitaḥ ca ārtaḥ kṣuttvā vā vivaśaḥ bruvan . haraye namaḥ iti uccais mucyate sarva-pātakāt .. 46 ..
(उपेंद्रवज्रा)
सङ्कीर्त्यमानो भगवान् अनन्तः श्रुतानुभावो व्यसनं हि पुंसाम् । प्रविश्य चित्तं विधुनोत्यशेषं यथा तमोऽर्कोऽभ्रमिवातिवातः ॥ ४७ ॥
सङ्कीर्त्यमानः भगवान् अनन्तः श्रुत-अनुभावः व्यसनम् हि पुंसाम् । प्रविश्य चित्तम् विधुनोति अशेषम् यथा तमः अर्कः अभ्रम् इव अति वातः ॥ ४७ ॥
saṅkīrtyamānaḥ bhagavān anantaḥ śruta-anubhāvaḥ vyasanam hi puṃsām . praviśya cittam vidhunoti aśeṣam yathā tamaḥ arkaḥ abhram iva ati vātaḥ .. 47 ..
(मिश्र-१२)
मृषा गिरस्ता ह्यसतीरसत्कथा न कथ्यते यद्भगवानधोक्षजः । तदेव सत्यं तदुहैव मङ्गलं तदेव पुण्यं भगवद्गुणोदयम् ॥ ४८ ॥
मृषा गिरः ताः हि असतीः असत्-कथाः न कथ्यते यत् भगवान् अधोक्षजः । तत् एव सत्यम् मङ्गलम् तत् एव पुण्यम् भगवत्-गुण-उदयम् ॥ ४८ ॥
mṛṣā giraḥ tāḥ hi asatīḥ asat-kathāḥ na kathyate yat bhagavān adhokṣajaḥ . tat eva satyam maṅgalam tat eva puṇyam bhagavat-guṇa-udayam .. 48 ..
तदेव रम्यं रुचिरं नवं नवं तदेव शश्वन्मनसो महोत्सवम् । तदेव शोकार्णवशोषणं नृणां यदुत्तमःश्लोकयशोऽनुगीयते ॥ ४९ ॥
तत् एव रम्यम् रुचिरम् नवम् नवम् तत् एव शश्वत् मनसः महा-उत्सवम् । तत् एव शोक-अर्णव-शोषणम् नृणाम् यत् उत्तमःश्लोक-यशः अनुगीयते ॥ ४९ ॥
tat eva ramyam ruciram navam navam tat eva śaśvat manasaḥ mahā-utsavam . tat eva śoka-arṇava-śoṣaṇam nṛṇām yat uttamaḥśloka-yaśaḥ anugīyate .. 49 ..
न यद्वचश्चित्रपदं हरेर्यशो जगत्पवित्रं प्रगृणीत कर्हिचित् । तद् ध्वाङ्क्षतीर्थं न तु हंससेवितं यत्राच्युतस्तत्र हि साधवोऽमलाः ॥ ५० ॥
न यत् वचः चित्र-पदम् हरेः यशः जगत्-पवित्रम् प्रगृणीत कर्हिचित् । तत् ध्वाङ्क्षतीर्थम् न तु हंस-सेवितम् यत्र अच्युतः तत्र हि साधवः अमलाः ॥ ५० ॥
na yat vacaḥ citra-padam hareḥ yaśaḥ jagat-pavitram pragṛṇīta karhicit . tat dhvāṅkṣatīrtham na tu haṃsa-sevitam yatra acyutaḥ tatra hi sādhavaḥ amalāḥ .. 50 ..
तद्वाग्विसर्गो जनताघसंप्लवो यस्मिन् प्रतिश्लोकमबद्धवत्यपि । नामान्यनन्तस्य यशोऽङ्कितानि यत् श्रृण्वन्ति गायन्ति गृणन्ति साधवः ॥ ५१ ॥
तद्-वाग्विसर्गः जनता-अघ-संप्लवः यस्मिन् प्रतिश्लोकम् अबद्धवती अपि । नामानि अनन्तस्य यशः-अङ्कितानि यत् श्रृण्वन्ति गायन्ति गृणन्ति साधवः ॥ ५१ ॥
tad-vāgvisargaḥ janatā-agha-saṃplavaḥ yasmin pratiślokam abaddhavatī api . nāmāni anantasya yaśaḥ-aṅkitāni yat śrṛṇvanti gāyanti gṛṇanti sādhavaḥ .. 51 ..
नैष्कर्म्यमप्यच्युत भाववर्जितं न शोभते ज्ञानमलं निरञ्जनम् । कुतः पुनः शश्वदभद्रमीश्वरे न ह्यर्पितं कर्म यदप्यनुत्तमम् ॥ ५२ ॥
नैष्कर्म्यम् अपि अच्युत भाव-वर्जितम् न शोभते ज्ञान-मलम् निरञ्जनम् । कुतस् पुनर् शश्वत् अभद्रम् ईश्वरे न हि अर्पितम् कर्म यत् अपि अनुत्तमम् ॥ ५२ ॥
naiṣkarmyam api acyuta bhāva-varjitam na śobhate jñāna-malam nirañjanam . kutas punar śaśvat abhadram īśvare na hi arpitam karma yat api anuttamam .. 52 ..
यशःश्रियामेव परिश्रमः परो वर्णाश्रमाचारतपःश्रुतादिषु । अविस्मृतिः श्रीधरपादपद्मयोः गुणानुवादश्रवणादरादिभिर्हरेः ॥ ५३ ॥
यशः-श्रियाम् एव परिश्रमः परः वर्ण-आश्रम-आचार-तपः-श्रुत-आदिषु । अ विस्मृतिः श्रीधर-पाद-पद्मयोः गुण-अनुवाद-श्रवण-आदर-आदिभिः हरेः ॥ ५३ ॥
yaśaḥ-śriyām eva pariśramaḥ paraḥ varṇa-āśrama-ācāra-tapaḥ-śruta-ādiṣu . a vismṛtiḥ śrīdhara-pāda-padmayoḥ guṇa-anuvāda-śravaṇa-ādara-ādibhiḥ hareḥ .. 53 ..
(मिश्र-११,१२)
अविस्मृतिः कृष्णपदारविन्दयोः क्षिणोत्यभद्राणि च शं तनोति च । सत्त्वस्य शुद्धिं परमात्मभक्तिं ज्ञानं च विज्ञानविरागयुक्तम् ॥ ५४ ॥
अ विस्मृतिः कृष्ण-पद-अरविन्दयोः क्षिणोति अभद्राणि च शम् तनोति च । सत्त्वस्य शुद्धिम् परम-आत्म-भक्तिम् ज्ञानम् च विज्ञान-विराग-युक्तम् ॥ ५४ ॥
a vismṛtiḥ kṛṣṇa-pada-aravindayoḥ kṣiṇoti abhadrāṇi ca śam tanoti ca . sattvasya śuddhim parama-ātma-bhaktim jñānam ca vijñāna-virāga-yuktam .. 54 ..
(इंद्रवज्रा)
यूयं द्विजाग्र्या बत भूरिभागा यच्छश्वदात्मन्यखिलात्मभूतम् । नारायणं देवमदेवमीशं अजस्रभावा भजताविवेश्य ॥ ५५ ॥
यूयम् द्विजाग्र्याः बत भूरि-भागाः यत् शश्वत् आत्मनि अखिलात्म-भूतम् । नारायणम् देवम् अदेवम् ईशम् अजस्र-भावाः भजत आविवेश्य ॥ ५५ ॥
yūyam dvijāgryāḥ bata bhūri-bhāgāḥ yat śaśvat ātmani akhilātma-bhūtam . nārāyaṇam devam adevam īśam ajasra-bhāvāḥ bhajata āviveśya .. 55 ..
(मिश्र-११,१२)
अहं च संस्मारित आत्मतत्त्वं श्रुतं पुरा मे परमर्षिवक्त्रात् । प्रायोपवेशे नृपतेः परीक्षितः सदस्यृषीणां महतां च श्रृण्वताम् ॥ ५६ ॥
अहम् च संस्मारितः आत्म-तत्त्वम् श्रुतम् पुरा मे परम-ऋषि-वक्त्रात् । प्राय-उपवेशे नृपतेः परीक्षितः सदसि ऋषीणाम् महताम् च श्रृण्वताम् ॥ ५६ ॥
aham ca saṃsmāritaḥ ātma-tattvam śrutam purā me parama-ṛṣi-vaktrāt . prāya-upaveśe nṛpateḥ parīkṣitaḥ sadasi ṛṣīṇām mahatām ca śrṛṇvatām .. 56 ..
(अनुष्टुप्)
एतद्वः कथितं विप्राः कथनीयोरुकर्मणः । माहात्म्यं वासुदेवस्य सर्वाशुभविनाशनम् ॥ ५७ ॥
एतत् वः कथितम् विप्राः कथनीया उरु-कर्मणः । माहात्म्यम् वासुदेवस्य सर्व-अशुभ-विनाशनम् ॥ ५७ ॥
etat vaḥ kathitam viprāḥ kathanīyā uru-karmaṇaḥ . māhātmyam vāsudevasya sarva-aśubha-vināśanam .. 57 ..
य एतत्श्रावयेन्नित्यं यामक्षणमनन्यधीः । श्रद्धावान् योऽनुश्रृणुयात् पुनात्यात्मानमेव सः ॥ ५८ ॥
यः एतत् श्रावयेत् नित्यम् याम् अक्षणम् अनन्य-धीः । श्रद्धावान् यः अनुश्रृणुयात् पुनाति आत्मानम् एव सः ॥ ५८ ॥
yaḥ etat śrāvayet nityam yām akṣaṇam ananya-dhīḥ . śraddhāvān yaḥ anuśrṛṇuyāt punāti ātmānam eva saḥ .. 58 ..
द्वादश्यामेकादश्यां वा श्रृण्वन्नायुष्यवान् भवेत् । पठत्यनश्नन् प्रयतः ततो भवत्यपातकी ॥ ५९ ॥
द्वादश्याम् एकादश्याम् वा श्रृण्वन् आयुष्यवान् भवेत् । पठति अन् अश्नन् प्रयतः ततस् भवति अपातकी ॥ ५९ ॥
dvādaśyām ekādaśyām vā śrṛṇvan āyuṣyavān bhavet . paṭhati an aśnan prayataḥ tatas bhavati apātakī .. 59 ..
पुष्करे मथुरायां च द्वारवत्यां यतात्मवान् । उपोष्य संहितामेतां पठित्वा मुच्यते भयात् ॥ ६० ॥
पुष्करे मथुरायाम् च द्वारवत्याम् यत-आत्मवान् । उपोष्य संहिताम् एताम् पठित्वा मुच्यते भयात् ॥ ६० ॥
puṣkare mathurāyām ca dvāravatyām yata-ātmavān . upoṣya saṃhitām etām paṭhitvā mucyate bhayāt .. 60 ..
देवता मुनयः सिद्धाः पितरो मनवो नृपाः । यच्छन्ति कामान् गृणतः श्रृण्वतो यस्य कीर्तनात् ॥ ६१ ॥
देवताः मुनयः सिद्धाः पितरः मनवः नृपाः । यच्छन्ति कामान् गृणतः श्रृण्वतः यस्य कीर्तनात् ॥ ६१ ॥
devatāḥ munayaḥ siddhāḥ pitaraḥ manavaḥ nṛpāḥ . yacchanti kāmān gṛṇataḥ śrṛṇvataḥ yasya kīrtanāt .. 61 ..
ऋचो यजूंषि सामानि द्विजोऽधीत्यानुविन्दते । मधुकुल्या घृतकुल्याः पयःकुल्याश्च तत्फलम् ॥ ६२ ॥
ऋचः यजूंषि सामानि द्विजः अधीत्य अनुविन्दते । मधुकुल्याः घृतकुल्याः पयःकुल्याः च तद्-फलम् ॥ ६२ ॥
ṛcaḥ yajūṃṣi sāmāni dvijaḥ adhītya anuvindate . madhukulyāḥ ghṛtakulyāḥ payaḥkulyāḥ ca tad-phalam .. 62 ..
पुराणसंहितां एतां अधीत्य प्रयतो द्विजः । प्रोक्तं भगवता यत्तु तत्पदं परमं व्रजेत् ॥ ६३ ॥
पुराण-संहिताम् एताम् अधीत्य प्रयतः द्विजः । प्रोक्तम् भगवता यत् तु तत् पदम् परमम् व्रजेत् ॥ ६३ ॥
purāṇa-saṃhitām etām adhītya prayataḥ dvijaḥ . proktam bhagavatā yat tu tat padam paramam vrajet .. 63 ..
विप्रोऽधीत्याप्नुयात् प्रज्ञां राजन्योदधिमेखलाम् । वैश्यो निधिपतित्वं च शूद्रः शुध्येत पातकात् ॥ ६४ ॥
विप्रः अधीत्य आप्नुयात् प्रज्ञाम् राजन्य-उदधि-मेखलाम् । वैश्यः निधि-पति-त्वम् च शूद्रः शुध्येत पातकात् ॥ ६४ ॥
vipraḥ adhītya āpnuyāt prajñām rājanya-udadhi-mekhalām . vaiśyaḥ nidhi-pati-tvam ca śūdraḥ śudhyeta pātakāt .. 64 ..
कलिमलसंहतिकालनोऽखिलेशो हरिरितरत्र न गीयते ह्यभीक्ष्णम् । इह तु पुनर्भगवानशेषमूर्तिः परिपठितोऽनुपदं कथाप्रसङ्गैः ॥ ६५ ॥
कलि-मल-संहति-कालनः अखिल-ईशः हरिः इतरत्र न गीयते हि अभीक्ष्णम् । इह तु पुनर् भगवान् अशेष-मूर्तिः परिपठितः अनुपदम् कथा-प्रसङ्गैः ॥ ६५ ॥
kali-mala-saṃhati-kālanaḥ akhila-īśaḥ hariḥ itaratra na gīyate hi abhīkṣṇam . iha tu punar bhagavān aśeṣa-mūrtiḥ paripaṭhitaḥ anupadam kathā-prasaṅgaiḥ .. 65 ..
(पुष्पिताग्रा)
तमहमजमनन्तमात्मतत्त्वं जगदुदयस्थितिसंयमात्मशक्तिम् । द्युपतिभिरजशक्रशङ्कराद्यैः दुरवसितस्तवमच्युतं नतोऽस्मि ॥ ६६ ॥
तम् अहम् अजम् अनन्तम् आत्म-तत्त्वम् जगत्-उदय-स्थिति-संयम-आत्म-शक्तिम् । द्युपतिभिः अज-शक्र-शङ्कर-आद्यैः दुरवसित-स्तवम् अच्युतम् नतः अस्मि ॥ ६६ ॥
tam aham ajam anantam ātma-tattvam jagat-udaya-sthiti-saṃyama-ātma-śaktim . dyupatibhiḥ aja-śakra-śaṅkara-ādyaiḥ duravasita-stavam acyutam nataḥ asmi .. 66 ..
उपचितनवशक्तिभिः स्व आत्मनि उपरचितस्थिरजङ्गमालयाय । भगवत उपलब्धिमात्रधाम्ने सुरऋषभाय नमः सनातनाय ॥ ६७ ॥
उपचित-नव-शक्तिभिः स्वे आत्मनि उपरचित-स्थिर-जङ्गम-आलयाय । भगवतः उपलब्धि-मात्र-धाम्ने सुर-ऋषभाय नमः सनातनाय ॥ ६७ ॥
upacita-nava-śaktibhiḥ sve ātmani uparacita-sthira-jaṅgama-ālayāya . bhagavataḥ upalabdhi-mātra-dhāmne sura-ṛṣabhāya namaḥ sanātanāya .. 67 ..
(मालिनी)
स्वसुखनिभृतचेतास्तद्व्युदस्तान्यभावोऽपि अजितरुचिरलीलाकृष्टसारस्तदीयम् । व्यतनुत कृपया यः तत्त्वदीपं पुराणं तमखिलवृजिनघ्नं व्याससूनुं नतोऽस्मि ॥ ६८ ॥
स्व-सुख-निभृत-चेताः तद्-व्युदस्त-अन्य-भावः अपि अजित-रुचिर-लीला-आकृष्ट-सारः तदीयम् । व्यतनुत कृपया यः तत्त्व-दीपम् पुराणम् तम् अखिल-वृजिन-घ्नम् व्यास-सूनुम् नतः अस्मि ॥ ६८ ॥
sva-sukha-nibhṛta-cetāḥ tad-vyudasta-anya-bhāvaḥ api ajita-rucira-līlā-ākṛṣṭa-sāraḥ tadīyam . vyatanuta kṛpayā yaḥ tattva-dīpam purāṇam tam akhila-vṛjina-ghnam vyāsa-sūnum nataḥ asmi .. 68 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वादशस्कन्धे द्वादशस्कन्धार्थनिरूपणं नाम द्वादशोऽध्यायः ॥ १२ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् द्वादश-स्कन्धे द्वादशस्कन्धार्थनिरूपणम् नाम द्वादशः अध्यायः ॥ १२ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām dvādaśa-skandhe dvādaśaskandhārthanirūpaṇam nāma dvādaśaḥ adhyāyaḥ .. 12 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In