| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

सूत उवाच -
यं ब्रह्मा वरुणेन्द्ररुद्रमरुतः स्तुन्वन्ति दिव्यैः स्तवैः वेदैः साङ्गपदक्रमोपनिषदैः गायन्ति यं सामगाः । ध्यानावस्थिततद्गतेन मनसा पश्यन्ति यं योगिनो यस्यान्तं न विदुः सुरासुरगणा देवाय तस्मै नमः ॥ १॥
यम् ब्रह्मा वरुण-इन्द्र-रुद्र-मरुतः स्तुन्वन्ति दिव्यैः स्तवैः वेदैः स अङ्ग-पदक्रम-उपनिषदैः गायन्ति यम् सामगाः । ध्यान-अवस्थित-तद्-गतेन मनसा पश्यन्ति यम् योगिनः यस्य अन्तम् न विदुः सुर-असुर-गणाः देवाय तस्मै नमः ॥ १॥
yam brahmā varuṇa-indra-rudra-marutaḥ stunvanti divyaiḥ stavaiḥ vedaiḥ sa aṅga-padakrama-upaniṣadaiḥ gāyanti yam sāmagāḥ . dhyāna-avasthita-tad-gatena manasā paśyanti yam yoginaḥ yasya antam na viduḥ sura-asura-gaṇāḥ devāya tasmai namaḥ .. 1..
(शार्दूलविक्रीडित)
पृष्ठे भ्राम्यदमन्दमन्दरगिरि ग्रावाग्रकण्डूयनान् निद्रालोः कमठाकृतेर्भगवतः श्वासानिलाः पान्तु वः । यत्संस्कारकलानुवर्तनवशाद् वेलानिभेनाम्भसां यातायातमतन्द्रितं जलनिधेः नाद्यापि विश्राम्यति ॥ २ ॥
पृष्ठे भ्राम्यत्-अमन्द-मन्दर-गिरि ग्राव-अग्र-कण्डूयनात् निद्रालोः कमठ-आकृतेः भगवतः श्वास-अनिलाः पान्तु वः । यत् संस्कार-कला-अनुवर्तन-वशात् वेला-निभेन अम्भसाम् यातायातम् अतन्द्रितम् जलनिधेः न अद्य अपि विश्राम्यति ॥ २ ॥
pṛṣṭhe bhrāmyat-amanda-mandara-giri grāva-agra-kaṇḍūyanāt nidrāloḥ kamaṭha-ākṛteḥ bhagavataḥ śvāsa-anilāḥ pāntu vaḥ . yat saṃskāra-kalā-anuvartana-vaśāt velā-nibhena ambhasām yātāyātam atandritam jalanidheḥ na adya api viśrāmyati .. 2 ..
(अनुष्टुप्)
पुराणसङ्ख्यासंभूतिं अस्य वाच्यप्रयोजने । दानं दानस्य माहात्म्यं पाठादेश्च निबोधत ॥ ३ ॥
पुराण-सङ्ख्या-संभूतिम् अस्य वाच्य-प्रयोजने । दानम् दानस्य माहात्म्यम् पाठादेः च निबोधत ॥ ३ ॥
purāṇa-saṅkhyā-saṃbhūtim asya vācya-prayojane . dānam dānasya māhātmyam pāṭhādeḥ ca nibodhata .. 3 ..
ब्राह्मं दश सहस्राणि पाद्मं पञ्चोनषष्टि च । श्रीवैष्णवं त्रयोविंशत् चतुर्विंशति शैवकम् ॥ ४ ॥
ब्राह्मम् दश सहस्राणि पाद्मम् पञ्चोनषष्टि च । श्रीवैष्णवम् त्रयोविंशत् चतुर्विंशति शैवकम् ॥ ४ ॥
brāhmam daśa sahasrāṇi pādmam pañconaṣaṣṭi ca . śrīvaiṣṇavam trayoviṃśat caturviṃśati śaivakam .. 4 ..
दशाष्टौ श्रीभागवतं नारदं पञ्चविंशति । मार्कण्डं नव वाह्नं च दशपञ्च चतुःशतम् ॥ ५ ॥
दश अष्टौ श्रीभागवतम् नारदम् पञ्चविंशति । मार्कण्डम् नव च दश-पञ्च चतुःशतम् ॥ ५ ॥
daśa aṣṭau śrībhāgavatam nāradam pañcaviṃśati . mārkaṇḍam nava ca daśa-pañca catuḥśatam .. 5 ..
चतुर्दश भविष्यं स्यात् तथा पञ्चशतानि च । दशाष्टौ ब्रह्मवैवर्तं लैङ्गमेकादशैव तु ॥ ६ ॥
चतुर्दश भविष्यम् स्यात् तथा पञ्चशतानि च । दश अष्टौ ब्रह्मवैवर्तम् लैङ्गम् एकादश एव तु ॥ ६ ॥
caturdaśa bhaviṣyam syāt tathā pañcaśatāni ca . daśa aṣṭau brahmavaivartam laiṅgam ekādaśa eva tu .. 6 ..
चतुर्विंशति वाराहं एकाशीतिसहस्रकम् । स्कान्दं शतं तथा चैकं वामनं दश कीर्तितम् ॥ ७ ॥
चतुर्विंशति वाराहम् एकाशीति-सहस्रकम् । स्कान्दम् शतम् तथा च एकम् वामनम् दश कीर्तितम् ॥ ७ ॥
caturviṃśati vārāham ekāśīti-sahasrakam . skāndam śatam tathā ca ekam vāmanam daśa kīrtitam .. 7 ..
कौर्मं सप्तदशाख्यातं मात्स्यं तत्तु चतुर्दश । एकोनविंशत् सौपर्णं ब्रह्माण्डं द्वादशैव तु ॥ ८ ॥
कौर्मम् सप्तदश-आख्यातम् मात्स्यम् तत् तु चतुर्दश । एकोनविंशत् सौपर्णम् ब्रह्माण्डम् द्वादश एव तु ॥ ८ ॥
kaurmam saptadaśa-ākhyātam mātsyam tat tu caturdaśa . ekonaviṃśat sauparṇam brahmāṇḍam dvādaśa eva tu .. 8 ..
एवं पुराणसन्दोहः चतुर्लक्ष उदाहृतः । तत्राष्टदशसाहस्रं श्रीभागवतं इष्यते ॥ ९ ॥
एवम् पुराण-सन्दोहः चतुर्-लक्षः उदाहृतः । तत्र अष्टदश-साहस्रम् श्रीभागवतम् इष्यते ॥ ९ ॥
evam purāṇa-sandohaḥ catur-lakṣaḥ udāhṛtaḥ . tatra aṣṭadaśa-sāhasram śrībhāgavatam iṣyate .. 9 ..
इदं भगवता पूर्वं ब्रह्मणे नाभिपङ्कजे । स्थिताय भवभीताय कारुण्यात् संप्रकाशितम् ॥ १० ॥
इदम् भगवता पूर्वम् ब्रह्मणे नाभि-पङ्कजे । स्थिताय भव-भीताय कारुण्यात् संप्रकाशितम् ॥ १० ॥
idam bhagavatā pūrvam brahmaṇe nābhi-paṅkaje . sthitāya bhava-bhītāya kāruṇyāt saṃprakāśitam .. 10 ..
आदिमध्यावसानेषु वैराग्याख्यानसंयुतम् । हरिलीलाकथाव्रात अमृतानन्दितसत्सुरम् ॥ ११ ॥
आदि-मध्य-अवसानेषु वैराग्य-आख्यान-संयुतम् । ॥ ११ ॥
ādi-madhya-avasāneṣu vairāgya-ākhyāna-saṃyutam . .. 11 ..
सर्ववेदान्तसारं यद् ब्रह्मात्मैकत्वलक्षणम् । वस्तु अद्वितीयं तन्निष्ठं कैवल्यैकप्रयोजनम् ॥ १२ ॥
sarvavedāntasāraṃ yad brahmātmaikatvalakṣaṇam | vastu advitīyaṃ tanniṣṭhaṃ kaivalyaikaprayojanam || 12 ||
sarvavedāntasāraṃ yad brahmātmaikatvalakṣaṇam | vastu advitīyaṃ tanniṣṭhaṃ kaivalyaikaprayojanam || 12 ||
प्रौष्ठपद्यां पौर्णमास्यां हेमसिंहसमन्वितम् । ददाति यो भागवतं स याति परमां गतिम् ॥ १३ ॥
प्रौष्ठपद्याम् पौर्णमास्याम् हेमसिंह-समन्वितम् । ददाति यः भागवतम् स याति परमाम् गतिम् ॥ १३ ॥
prauṣṭhapadyām paurṇamāsyām hemasiṃha-samanvitam . dadāti yaḥ bhāgavatam sa yāti paramām gatim .. 13 ..
राजन्ते तावदन्यानि पुराणानि सतां गणे । यावद् न दृष्यते साक्षात् श्रीमद् भागवतं परम् ॥ १४ ॥
राजन्ते तावत् अन्यानि पुराणानि सताम् गणे । यावत् न दृष्यते साक्षात् श्रीमत् भागवतम् परम् ॥ १४ ॥
rājante tāvat anyāni purāṇāni satām gaṇe . yāvat na dṛṣyate sākṣāt śrīmat bhāgavatam param .. 14 ..
सर्ववेदान्तसारं हि श्रीभागवतमिष्यते । तद् रसामृततृप्तस्य नान्यत्र स्याद् रतिः क्वचित् ॥ १५ ॥
सर्व-वेदान्त-सारम् हि श्रीभागवतम् इष्यते । तत् रस-अमृत-तृप्तस्य न अन्यत्र स्यात् रतिः क्वचिद् ॥ १५ ॥
sarva-vedānta-sāram hi śrībhāgavatam iṣyate . tat rasa-amṛta-tṛptasya na anyatra syāt ratiḥ kvacid .. 15 ..
निम्नगानां यथा गङ्गा देवानामच्युतो यथा । वैष्णवानां यथा शम्भुः पुराणानां इदं तथा ॥ १६ ॥
निम्नगानाम् यथा गङ्गा देवानाम् अच्युतः यथा । वैष्णवानाम् यथा शम्भुः पुराणानाम् इदम् तथा ॥ १६ ॥
nimnagānām yathā gaṅgā devānām acyutaḥ yathā . vaiṣṇavānām yathā śambhuḥ purāṇānām idam tathā .. 16 ..
क्षेत्राणां चैव सर्वेषां यथा काशी ह्यनुत्तमा । तथा पुराणव्रातानां श्रीमद्भागवतं द्विजाः ॥ १७ ॥
क्षेत्राणाम् च एव सर्वेषाम् यथा काशी हि अनुत्तमा । तथा पुराण-व्रातानाम् श्रीमत्-भागवतम् द्विजाः ॥ १७ ॥
kṣetrāṇām ca eva sarveṣām yathā kāśī hi anuttamā . tathā purāṇa-vrātānām śrīmat-bhāgavatam dvijāḥ .. 17 ..
(शार्दूलविक्रीडित)
श्रीमद्भागवतं पुराणममलं यद्वैष्णवानां प्रियं यस्मिन् पारमहंस्यमेकममलं ज्ञानं परं गीयते । तत्र ज्ञानविरागभक्तिसहितं नैष्कर्म्यमाविस्कृतं तत् श्रृण्वन् विपठन् विचारणपरो भक्त्या विमुच्येन्नरः ॥ १८ ॥
श्रीमत्-भागवतम् पुराणम् अमलम् यत् वैष्णवानाम् प्रियम् यस्मिन् पारमहंस्यम् एकम् अमलम् ज्ञानम् परम् गीयते । तत्र ज्ञान-विराग-भक्ति-सहितम् नैष्कर्म्यम् आविस्कृतम् तत् श्रृण्वन् विपठन् विचारण-परः भक्त्या विमुच्येत् नरः ॥ १८ ॥
śrīmat-bhāgavatam purāṇam amalam yat vaiṣṇavānām priyam yasmin pāramahaṃsyam ekam amalam jñānam param gīyate . tatra jñāna-virāga-bhakti-sahitam naiṣkarmyam āviskṛtam tat śrṛṇvan vipaṭhan vicāraṇa-paraḥ bhaktyā vimucyet naraḥ .. 18 ..
कस्मै येन विभासितोऽयमतुलो ज्ञानप्रदीपः पुरा तद् रूपेण च नारदाय मुनये कृष्णाय तद् रूपिणा । योगीन्द्राय तदात्मनाथ भगवत् राताय कारुण्यतः तच्छुद्धं विमलं विशोकममृतं सत्यं परं धीमहि ॥ १९ ॥
कस्मै येन विभासितः अयम् अतुलः ज्ञान-प्रदीपः पुरा तद्-रूपेण च नारदाय मुनये कृष्णाय तद्-रूपिणा । योगि-इन्द्राय तद्-आत्मनाथ भगवत् राताय कारुण्यतः तत् शुद्धम् विमलम् विशोकम् अमृतम् सत्यम् परम् धीमहि ॥ १९ ॥
kasmai yena vibhāsitaḥ ayam atulaḥ jñāna-pradīpaḥ purā tad-rūpeṇa ca nāradāya munaye kṛṣṇāya tad-rūpiṇā . yogi-indrāya tad-ātmanātha bhagavat rātāya kāruṇyataḥ tat śuddham vimalam viśokam amṛtam satyam param dhīmahi .. 19 ..
(अनुष्टुप्)
नमस्तस्मै भगवते वासुदेवाय साक्षिणे । य इदं कृपया कस्मै व्याचचक्षे मुमुक्षवे ॥ २० ॥
नमः तस्मै भगवते वासुदेवाय साक्षिणे । यः इदम् कृपया कस्मै व्याचचक्षे मुमुक्षवे ॥ २० ॥
namaḥ tasmai bhagavate vāsudevāya sākṣiṇe . yaḥ idam kṛpayā kasmai vyācacakṣe mumukṣave .. 20 ..
योगीन्द्राय नमस्तस्मै शुकाय ब्रह्मरूपिणे । संसारसर्पदष्टं यो विष्णुरातममूमुचत् ॥ २१ ॥
योगि-इन्द्राय नमः तस्मै शुकाय ब्रह्म-रूपिणे । संसार-सर्प-दष्टम् यः विष्णुरातम् अमूमुचत् ॥ २१ ॥
yogi-indrāya namaḥ tasmai śukāya brahma-rūpiṇe . saṃsāra-sarpa-daṣṭam yaḥ viṣṇurātam amūmucat .. 21 ..
भवे भवे यथा भक्तिः पादयोस्तव जायते । तथा कुरुष्व देवेश नाथस्त्वं नो यतः प्रभो ॥ २२ ॥
भवे भवे यथा भक्तिः पादयोः तव जायते । तथा कुरुष्व देवेश नाथः त्वम् नः यतस् प्रभो ॥ २२ ॥
bhave bhave yathā bhaktiḥ pādayoḥ tava jāyate . tathā kuruṣva deveśa nāthaḥ tvam naḥ yatas prabho .. 22 ..
नामसङ्कीर्तनं यस्य सर्वपाप प्रणाशनम् । प्रणामो दुःखशमनः त नमामि हरिं परम् ॥ २३ ॥
नाम-सङ्कीर्तनम् यस्य सर्व-पाप प्रणाशनम् । प्रणामः दुःख-शमनः नमामि हरिम् परम् ॥ २३ ॥
nāma-saṅkīrtanam yasya sarva-pāpa praṇāśanam . praṇāmaḥ duḥkha-śamanaḥ namāmi harim param .. 23 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वादशस्कन्धे त्रयोदशोऽध्यायः ॥ १३ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् द्वादश-स्कन्धे त्रयोदशः अध्यायः ॥ १३ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām dvādaśa-skandhe trayodaśaḥ adhyāyaḥ .. 13 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In