| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच – (अनुष्टुप्)
ततश्चानुदिनं धर्मः सत्यं शौचं क्षमा दया । कालेन बलिना राजन् नङ्क्ष्यत्यायुर्बलं स्मृतिः ॥ १ ॥
ततस् च अनुदिनम् धर्मः सत्यम् शौचम् क्षमा दया । कालेन बलिना राजन् नङ्क्ष्यति आयुः बलम् स्मृतिः ॥ १ ॥
tatas ca anudinam dharmaḥ satyam śaucam kṣamā dayā . kālena balinā rājan naṅkṣyati āyuḥ balam smṛtiḥ .. 1 ..
वित्तमेव कलौ नॄणां जन्माचारगुणोदयः । धर्मन्याय व्यवस्थायां कारणं बलमेव हि ॥ २ ॥
वित्तम् एव कलौ नॄणाम् जन्म-आचार-गुण-उदयः । धर्म-न्याय-व्यवस्थायाम् कारणम् बलम् एव हि ॥ २ ॥
vittam eva kalau nṝṇām janma-ācāra-guṇa-udayaḥ . dharma-nyāya-vyavasthāyām kāraṇam balam eva hi .. 2 ..
दाम्पत्येऽभिरुचिर्हेतुः मायैव व्यावहारिके । स्त्रीत्वे पुंस्त्वे च हि रतिः विप्रत्वे सूत्रमेव हि ॥ ३ ॥
दाम्पत्ये अभिरुचिः हेतुः माया एव व्यावहारिके । स्त्री-त्वे पुंस्-त्वे च हि रतिः विप्र-त्वे सूत्रम् एव हि ॥ ३ ॥
dāmpatye abhiruciḥ hetuḥ māyā eva vyāvahārike . strī-tve puṃs-tve ca hi ratiḥ vipra-tve sūtram eva hi .. 3 ..
लिङ्गं एवाश्रमख्यातौ अन्योन्यापत्ति कारणम् । अवृत्त्या न्यायदौर्बल्यं पाण्डित्ये चापलं वचः ॥ ४ ॥
लिङ्गम् कारणम् । अवृत्त्या न्याय-दौर्बल्यम् पाण्डित्ये चापलम् वचः ॥ ४ ॥
liṅgam kāraṇam . avṛttyā nyāya-daurbalyam pāṇḍitye cāpalam vacaḥ .. 4 ..
अनाढ्यतैव असाधुत्वे साधुत्वे दंभ एव तु । स्वीकार एव चोद्वाहे स्नानमेव प्रसाधनम् ॥ ५ ॥
अन् आढ्य-ता एव असाधु-त्वे साधु-त्वे दंभः एव तु । स्वीकारे एव च उद्वाहे स्नानम् एव प्रसाधनम् ॥ ५ ॥
an āḍhya-tā eva asādhu-tve sādhu-tve daṃbhaḥ eva tu . svīkāre eva ca udvāhe snānam eva prasādhanam .. 5 ..
दूरे वार्ययनं तीर्थं लावण्यं केशधारणम् । उदरंभरता स्वार्थः सत्यत्वे धार्ष्ट्यमेव हि ॥ ६ ॥
दूरे वारि अयनम् तीर्थम् लावण्यम् केश-धारणम् । उदरंभरता स्व-अर्थः सत्य-त्वे धार्ष्ट्यम् एव हि ॥ ६ ॥
dūre vāri ayanam tīrtham lāvaṇyam keśa-dhāraṇam . udaraṃbharatā sva-arthaḥ satya-tve dhārṣṭyam eva hi .. 6 ..
दाक्ष्यं कुटुंबभरणं यशोऽर्थे धर्मसेवनम् । एवं प्रजाभिर्दुष्टाभिः आकीर्णे क्षितिमण्डले ॥ ७ ॥
दाक्ष्यम् कुटुम्ब-भरणम् यशः-अर्थे धर्म-सेवनम् । एवम् प्रजाभिः दुष्टाभिः आकीर्णे क्षिति-मण्डले ॥ ७ ॥
dākṣyam kuṭumba-bharaṇam yaśaḥ-arthe dharma-sevanam . evam prajābhiḥ duṣṭābhiḥ ākīrṇe kṣiti-maṇḍale .. 7 ..
ब्रह्मविट्क्षत्रशूद्राणां यो बली भविता नृपः । प्रजा हि लुब्धै राजन्यैः निर्घृणैः दस्युधर्मभिः ॥ ८ ॥
ब्रह्म-विश्-क्षत्र-शूद्राणाम् यः बली भविता नृपः । प्रजा हि लुब्धैः राजन्यैः निर्घृणैः दस्यु-धर्मभिः ॥ ८ ॥
brahma-viś-kṣatra-śūdrāṇām yaḥ balī bhavitā nṛpaḥ . prajā hi lubdhaiḥ rājanyaiḥ nirghṛṇaiḥ dasyu-dharmabhiḥ .. 8 ..
आच्छिन्नदारद्रविणा यास्यन्ति गिरिकाननम् । शाकमूलामिषक्षौद्र फलपुष्पाष्टिभोजनाः ॥ ९ ॥
आच्छिन्न-दार-द्रविणाः यास्यन्ति गिरि-काननम् । शाक-मूल-आमिष-क्षौद्र-फल-पुष्प-अष्टि-भोजनाः ॥ ९ ॥
ācchinna-dāra-draviṇāḥ yāsyanti giri-kānanam . śāka-mūla-āmiṣa-kṣaudra-phala-puṣpa-aṣṭi-bhojanāḥ .. 9 ..
अनावृष्ट्या विनङ्क्ष्यन्ति दुर्भिक्षकरपीडिताः शीतवातातपप्रावृड् हिमैरन्योन्यतः प्रजाः ॥ १० ॥
अनावृष्ट्या विनङ्क्ष्यन्ति दुर्भिक्ष-कर-पीडिताः शीत-वात-आतप-प्रावृष् हिमैः अन्योन्यतः प्रजाः ॥ १० ॥
anāvṛṣṭyā vinaṅkṣyanti durbhikṣa-kara-pīḍitāḥ śīta-vāta-ātapa-prāvṛṣ himaiḥ anyonyataḥ prajāḥ .. 10 ..
क्षुत्तृड्भ्यां व्याधिभिश्चैव संतप्स्यन्ते च चिन्तया । त्रिंशद्विंशति वर्षाणि परमायुः कलौ नृणाम् ॥ ११ ॥
क्षुत्-तृड्भ्याम् व्याधिभिः च एव संतप्स्यन्ते च चिन्तया । त्रिंशत्-विंशति वर्षाणि परम-आयुः कलौ नृणाम् ॥ ११ ॥
kṣut-tṛḍbhyām vyādhibhiḥ ca eva saṃtapsyante ca cintayā . triṃśat-viṃśati varṣāṇi parama-āyuḥ kalau nṛṇām .. 11 ..
क्षीयमाणेषु देहेषु देहिनां कलिदोषतः । वर्णाश्रमवतां धर्मे नष्टे वेदपथे नृणाम् ॥ १२ ॥
क्षीयमाणेषु देहेषु देहिनाम् कलि-दोषतः । वर्ण-आश्रमवताम् धर्मे नष्टे वेदपथे नृणाम् ॥ १२ ॥
kṣīyamāṇeṣu deheṣu dehinām kali-doṣataḥ . varṇa-āśramavatām dharme naṣṭe vedapathe nṛṇām .. 12 ..
पाषण्डप्रचुरे धर्मे दस्युप्रायेषु राजसु । चौर्यानृतवृथाहिंसा नानावृत्तिषु वै नृषु ॥ १३ ॥
पाषण्ड-प्रचुरे धर्मे दस्यु-प्रायेषु राजसु । चौर्य-अनृत-वृथाहिंसाः नाना वृत्तिषु वै नृषु ॥ १३ ॥
pāṣaṇḍa-pracure dharme dasyu-prāyeṣu rājasu . caurya-anṛta-vṛthāhiṃsāḥ nānā vṛttiṣu vai nṛṣu .. 13 ..
शूद्रप्रायेषु वर्णेषु च्छागप्रायासु धेनुषु । गृहप्रायेष्वाश्रमेषु यौनप्रायेषु बन्धुषु ॥ १४ ॥
शूद्र-प्रायेषु वर्णेषु छाग-प्रायासु धेनुषु । गृह-प्रायेषु आश्रमेषु यौन-प्रायेषु बन्धुषु ॥ १४ ॥
śūdra-prāyeṣu varṇeṣu chāga-prāyāsu dhenuṣu . gṛha-prāyeṣu āśrameṣu yauna-prāyeṣu bandhuṣu .. 14 ..
अणुप्रायास्वोषधीषु शमीप्रायेषु स्थास्नुषु । विद्युत्प्रायेषु मेघेषु शून्यप्रायेषु सद्मसु ॥ १५ ॥
अणु-प्रायासु ओषधीषु शमी-प्रायेषु स्थास्नुषु । विद्युत्-प्रायेषु मेघेषु शून्य-प्रायेषु सद्मसु ॥ १५ ॥
aṇu-prāyāsu oṣadhīṣu śamī-prāyeṣu sthāsnuṣu . vidyut-prāyeṣu megheṣu śūnya-prāyeṣu sadmasu .. 15 ..
इत्थं कलौ गतप्राये जने तु खरधर्मिणि । धर्मत्राणाय सत्त्वेन भगवान् अवतरिष्यति ॥ १६ ॥
इत्थम् कलौ गत-प्राये जने तु खर-धर्मिणि । धर्म-त्राणाय सत्त्वेन भगवान् अवतरिष्यति ॥ १६ ॥
ittham kalau gata-prāye jane tu khara-dharmiṇi . dharma-trāṇāya sattvena bhagavān avatariṣyati .. 16 ..
चराचर गुरोर्विष्णोः ईश्वरस्याखिलात्मनः । धर्मत्राणाय साधूनां जन्म कर्मापनुत्तये ॥ १७ ॥
चराचर-गुरोः विष्णोः ईश्वरस्य अखिलात्मनः । धर्म-त्राणाय साधूनाम् जन्म कर्म-अपनुत्तये ॥ १७ ॥
carācara-guroḥ viṣṇoḥ īśvarasya akhilātmanaḥ . dharma-trāṇāya sādhūnām janma karma-apanuttaye .. 17 ..
संभलग्राम मुख्यस्य ब्राह्मणस्य महात्मनः । भवने विष्णुयशसः कल्किः प्रादुर्भविष्यति ॥ १८ ॥
संभलग्राम-मुख्यस्य ब्राह्मणस्य महात्मनः । भवने विष्णुयशसः कल्किः प्रादुर्भविष्यति ॥ १८ ॥
saṃbhalagrāma-mukhyasya brāhmaṇasya mahātmanaḥ . bhavane viṣṇuyaśasaḥ kalkiḥ prādurbhaviṣyati .. 18 ..
अश्वं आशुगमारुह्य देवदत्तं जगत्पतिः । असिनासाधुदमनं अष्टैश्वर्य गुणान्वितः ॥ १९ ॥
अश्वम् आशु-गम् आरुह्य देवदत्तम् जगत्पतिः । असिना असाधु-दमनम् अष्ट-ऐश्वर्य-गुण-अन्वितः ॥ १९ ॥
aśvam āśu-gam āruhya devadattam jagatpatiḥ . asinā asādhu-damanam aṣṭa-aiśvarya-guṇa-anvitaḥ .. 19 ..
विचरन् आशुना क्षौण्यां हयेनाप्रतिमद्युतिः । नृपलिङ्गच्छदो दस्यून् कोटिशो निहनिष्यति ॥ २० ॥
विचरन् आशुना क्षौण्याम् हयेन अप्रतिम-द्युतिः । नृप-लिङ्ग-छदः दस्यून् कोटिशस् निहनिष्यति ॥ २० ॥
vicaran āśunā kṣauṇyām hayena apratima-dyutiḥ . nṛpa-liṅga-chadaḥ dasyūn koṭiśas nihaniṣyati .. 20 ..
अथ तेषां भविष्यन्ति मनांसि विशदानि वै । वासुदेवाङ्गरागाति पुण्यगंधानिलस्पृशाम् । पौरजानपदानां वै हतेष्वखिलदस्युषु ॥ २१ ॥
अथ तेषाम् भविष्यन्ति मनांसि विशदानि वै । पुण्य-गंधा अनिल-स्पृशाम् । पौर-जानपदानाम् वै हतेषु अखिल-दस्युषु ॥ २१ ॥
atha teṣām bhaviṣyanti manāṃsi viśadāni vai . puṇya-gaṃdhā anila-spṛśām . paura-jānapadānām vai hateṣu akhila-dasyuṣu .. 21 ..
तेषां प्रजाविसर्गश्च स्थविष्ठः संभविष्यति । वासुदेवे भगवति सत्त्वमूर्तौ हृदि स्थिते ॥ २२ ॥
तेषाम् प्रजा-विसर्गः च स्थविष्ठः संभविष्यति । वासुदेवे भगवति सत्त्व-मूर्तौ हृदि स्थिते ॥ २२ ॥
teṣām prajā-visargaḥ ca sthaviṣṭhaḥ saṃbhaviṣyati . vāsudeve bhagavati sattva-mūrtau hṛdi sthite .. 22 ..
यदावतीर्णो भगवान् कल्किर्धर्मपतिर्हरिः । कृतं भविष्यति तदा प्रजासूतिश्च सात्त्विकी ॥ २३ ॥
यदा अवतीर्णः भगवान् कल्किः धर्मपतिः हरिः । कृतम् भविष्यति तदा प्रजा-सूतिः च सात्त्विकी ॥ २३ ॥
yadā avatīrṇaḥ bhagavān kalkiḥ dharmapatiḥ hariḥ . kṛtam bhaviṣyati tadā prajā-sūtiḥ ca sāttvikī .. 23 ..
यदा चन्द्रश्च सूर्यश्च तथा तिष्यबृहस्पती । एकराशौ समेष्यन्ति भविष्यति तदा कृतम् ॥ २४ ॥
यदा चन्द्रः च सूर्यः च तथा तिष्य-बृहस्पती । एक-राशौ समेष्यन्ति भविष्यति तदा कृतम् ॥ २४ ॥
yadā candraḥ ca sūryaḥ ca tathā tiṣya-bṛhaspatī . eka-rāśau sameṣyanti bhaviṣyati tadā kṛtam .. 24 ..
येऽतीता वर्तमाना ये भविष्यन्ति च पार्थिवाः । ते ते उद्देशतः प्रोक्ता वंशीयाः सोमसूर्ययोः ॥ २५ ॥
ये अतीताः वर्तमानाः ये भविष्यन्ति च पार्थिवाः । ते ते उद्देशतः प्रोक्ताः वंशीयाः सोम-सूर्ययोः ॥ २५ ॥
ye atītāḥ vartamānāḥ ye bhaviṣyanti ca pārthivāḥ . te te uddeśataḥ proktāḥ vaṃśīyāḥ soma-sūryayoḥ .. 25 ..
आरभ्य भवतो जन्म यावत् नन्दाभिषेचनम् । एतद् वर्षसहस्रं तु शतं पञ्चदशोत्तरम् ॥ २६ ॥
आरभ्य भवतः जन्म यावत् नन्द-अभिषेचनम् । एतत् वर्ष-सहस्रम् तु शतम् पञ्चदश-उत्तरम् ॥ २६ ॥
ārabhya bhavataḥ janma yāvat nanda-abhiṣecanam . etat varṣa-sahasram tu śatam pañcadaśa-uttaram .. 26 ..
सप्तर्षीणां तु यौ पूर्वौ दृश्येते उदितौ दिवि । तयोस्तु मध्ये नक्षत्रं दृश्यते यत्समं निशि ॥ २७ ॥
सप्तर्षीणाम् तु यौ पूर्वौ दृश्येते उदितौ दिवि । तयोः तु मध्ये नक्षत्रम् दृश्यते यत् समम् निशि ॥ २७ ॥
saptarṣīṇām tu yau pūrvau dṛśyete uditau divi . tayoḥ tu madhye nakṣatram dṛśyate yat samam niśi .. 27 ..
तेनैव ऋषयो युक्ताः तिष्ठन्त्यब्दशतं नृणाम् । ते त्वदीये द्विजाः काले अधुना चाश्रिता मघाः ॥ २८ ॥
तेन एव ऋषयः युक्ताः तिष्ठन्ति अब्द-शतम् नृणाम् । ते त्वदीये द्विजाः काले अधुना च आश्रिताः मघाः ॥ २८ ॥
tena eva ṛṣayaḥ yuktāḥ tiṣṭhanti abda-śatam nṛṇām . te tvadīye dvijāḥ kāle adhunā ca āśritāḥ maghāḥ .. 28 ..
विष्णोर्भगवतो भानुः कृष्णाख्योऽसौ दिवं गतः । तदाविशत् कलिर्लोकं पापे यद् रमते जनः ॥ २९ ॥
विष्णोः भगवतः भानुः कृष्ण-आख्यः असौ दिवम् गतः । तदा अविशत् कलिः लोकम् पापे यत् रमते जनः ॥ २९ ॥
viṣṇoḥ bhagavataḥ bhānuḥ kṛṣṇa-ākhyaḥ asau divam gataḥ . tadā aviśat kaliḥ lokam pāpe yat ramate janaḥ .. 29 ..
यावत् स पादपद्माभ्यां स्पृशनास्ते रमापतिः । तावत् कलिर्वै पृथिवीं पराक्रान्तुं न चाशकत् ॥ ३० ॥
यावत् स पाद-पद्माभ्याम् स्पृशन् आस्ते रमापतिः । तावत् कलिः वै पृथिवीम् पराक्रान्तुम् न च अशकत् ॥ ३० ॥
yāvat sa pāda-padmābhyām spṛśan āste ramāpatiḥ . tāvat kaliḥ vai pṛthivīm parākrāntum na ca aśakat .. 30 ..
यदा देवर्षयः सप्त मघासु विचरन्ति हि । तदा प्रवृत्तस्तु कलिः द्वादशाब्द शतात्मकः ॥ ३१ ॥
यदा देवर्षयः सप्त मघासु विचरन्ति हि । तदा प्रवृत्तः तु कलिः द्वादश-अब्द-शत-आत्मकः ॥ ३१ ॥
yadā devarṣayaḥ sapta maghāsu vicaranti hi . tadā pravṛttaḥ tu kaliḥ dvādaśa-abda-śata-ātmakaḥ .. 31 ..
यदा मघाभ्यो यास्यन्ति पूर्वाषाढां महर्षयः । तदा नन्दात् प्रभृत्येष कलिर्वृद्धिं गमिष्यति ॥ ३२ ॥
यदा मघाभ्यः यास्यन्ति पूर्वाषाढाम् महा-ऋषयः । तदा नन्दात् प्रभृति एष कलिः वृद्धिम् गमिष्यति ॥ ३२ ॥
yadā maghābhyaḥ yāsyanti pūrvāṣāḍhām mahā-ṛṣayaḥ . tadā nandāt prabhṛti eṣa kaliḥ vṛddhim gamiṣyati .. 32 ..
यस्मिन् कृष्णो दिवं यातः तस्मिन् एव तदाहनि । प्रतिपन्नं कलियुगं इति प्राहुः पुराविदः ॥ ३३ ॥
यस्मिन् कृष्णः दिवम् यातः तस्मिन् एव तदा अहनि । प्रतिपन्नम् कलि-युगम् इति प्राहुः ॥ ३३ ॥
yasmin kṛṣṇaḥ divam yātaḥ tasmin eva tadā ahani . pratipannam kali-yugam iti prāhuḥ .. 33 ..
दिव्याब्दानां सहस्रान्ते चतुर्थे तु पुनः कृतम् । भविष्यति तदा नॄणां मन आत्मप्रकाशकम् ॥ ३४ ॥
दिव्य-अब्दानाम् सहस्र-अन्ते चतुर्थे तु पुनर् कृतम् । भविष्यति तदा नॄणाम् मनः आत्म-प्रकाशकम् ॥ ३४ ॥
divya-abdānām sahasra-ante caturthe tu punar kṛtam . bhaviṣyati tadā nṝṇām manaḥ ātma-prakāśakam .. 34 ..
इत्येष मानवो वंशो यथा सङ्ख्यायते भुवि । तथा विट्शूद्रविप्राणां तास्ता ज्ञेया युगे युगे ॥ ३५ ॥
इति एष मानवः वंशः यथा सङ्ख्यायते भुवि । तथा विश्-शूद्र-विप्राणाम् ताः ताः ज्ञेयाः युगे युगे ॥ ३५ ॥
iti eṣa mānavaḥ vaṃśaḥ yathā saṅkhyāyate bhuvi . tathā viś-śūdra-viprāṇām tāḥ tāḥ jñeyāḥ yuge yuge .. 35 ..
एतेषां नामलिङ्गानां पुरुषाणां महात्मनाम् । कथामात्रावशिष्टानां कीर्तिरेव स्थिता भुवि ॥ ३६ ॥
एतेषाम् नाम-लिङ्गानाम् पुरुषाणाम् महात्मनाम् । कथा-मात्र-अवशिष्टानाम् कीर्तिः एव स्थिता भुवि ॥ ३६ ॥
eteṣām nāma-liṅgānām puruṣāṇām mahātmanām . kathā-mātra-avaśiṣṭānām kīrtiḥ eva sthitā bhuvi .. 36 ..
देवापिः शान्तनोर्भ्राता मरुश्चेक्ष्वाकुवंशजः । कलापग्राम आसाते महायोगबलान्वितौ ॥ ३७ ॥
देवापिः शान्तनोः भ्राता मरुः च इक्ष्वाकु-वंश-जः । कलाप-ग्रामे आसाते महा-योग-बल-अन्वितौ ॥ ३७ ॥
devāpiḥ śāntanoḥ bhrātā maruḥ ca ikṣvāku-vaṃśa-jaḥ . kalāpa-grāme āsāte mahā-yoga-bala-anvitau .. 37 ..
ताविहैत्य कलेरन्ते वासुदेवानुशिक्षितौ । वर्णाश्रमयुतं धर्मं पूर्ववत् प्रथयिष्यतः ॥ ३८ ॥
तौ इह एत्य कलेः अन्ते वासुदेव-अनुशिक्षितौ । वर्ण-आश्रम-युतम् धर्मम् पूर्ववत् प्रथयिष्यतः ॥ ३८ ॥
tau iha etya kaleḥ ante vāsudeva-anuśikṣitau . varṇa-āśrama-yutam dharmam pūrvavat prathayiṣyataḥ .. 38 ..
कृतं त्रेता द्वापरं च कलिश्चेति चतुर्युगम् । अनेन क्रमयोगेन भुवि प्राणिषु वर्तते ॥ ३९ ॥
कृतम् त्रेता द्वापरम् च कलिः च इति चतुर्युगम् । अनेन क्रम-योगेन भुवि प्राणिषु वर्तते ॥ ३९ ॥
kṛtam tretā dvāparam ca kaliḥ ca iti caturyugam . anena krama-yogena bhuvi prāṇiṣu vartate .. 39 ..
राजन् एते मया प्रोक्ता नरदेवास्तथापरे । भूमौ ममत्वं कृत्वान्ते हित्वेमां निधनं गताः ॥ ४० ॥
राजन् एते मया प्रोक्ताः नरदेवाः तथा अपरे । भूमौ ममत्वम् कृत्वा अन्ते हित्वा इमाम् निधनम् गताः ॥ ४० ॥
rājan ete mayā proktāḥ naradevāḥ tathā apare . bhūmau mamatvam kṛtvā ante hitvā imām nidhanam gatāḥ .. 40 ..
कृमिविड् भस्मसंज्ञान्ते राजनाम्नोऽपि यस्य च । भूतध्रुक् तत्कृते स्वार्थं किं वेद निरयो यतः ॥ ४१ ॥
कृमि-विश् भस्म-संज्ञा-अन्ते राज-नाम्नः अपि यस्य च । तद्-कृते स्व-अर्थम् किम् वेद निरयः यतस् ॥ ४१ ॥
kṛmi-viś bhasma-saṃjñā-ante rāja-nāmnaḥ api yasya ca . tad-kṛte sva-artham kim veda nirayaḥ yatas .. 41 ..
कथं सेयमखण्डा भूः पूर्वैर्मे पुरुषैर्धृता । मत्पुत्रस्य च पौत्रस्य मत्पूर्वा वंशजस्य वा ॥ ४२ ॥
कथम् सा इयम् अखण्डा भूः पूर्वैः मे पुरुषैः धृता । मद्-पुत्रस्य च पौत्रस्य मद्-पूर्वाः वंश-जस्य वा ॥ ४२ ॥
katham sā iyam akhaṇḍā bhūḥ pūrvaiḥ me puruṣaiḥ dhṛtā . mad-putrasya ca pautrasya mad-pūrvāḥ vaṃśa-jasya vā .. 42 ..
तेजोऽबन्नमयं कायं गृहीत्वाऽऽत्मतयाबुधाः । महीं ममतया चोभौ हित्वान्तेऽदर्शनं गताः ॥ ४३ ॥
कायम् गृहीत्वा आत्म-तया अबुधाः । महीम् ममतया च उभौ हित्वा अन्ते अदर्शनम् गताः ॥ ४३ ॥
kāyam gṛhītvā ātma-tayā abudhāḥ . mahīm mamatayā ca ubhau hitvā ante adarśanam gatāḥ .. 43 ..
ये ये भूपतयो राजन् भुंजते भुवमोजसा । कालेन ते कृताः सर्वे कथामात्राः कथासु च ॥ ४४ ॥
ये ये भूपतयः राजन् भुंजते भुवम् ओजसा । कालेन ते कृताः सर्वे कथामात्राः कथासु च ॥ ४४ ॥
ye ye bhūpatayaḥ rājan bhuṃjate bhuvam ojasā . kālena te kṛtāḥ sarve kathāmātrāḥ kathāsu ca .. 44 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वादशस्कन्धे द्वितीयोऽध्यायः ॥ २ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् द्वादश-स्कन्धे द्वितीयः अध्यायः ॥ २ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām dvādaśa-skandhe dvitīyaḥ adhyāyaḥ .. 2 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In