| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच – (अनुष्टुप्)
दृष्ट्वाऽऽत्मनि जये व्यग्रान् नृपान् हसति भूरियम् । अहो मा विजिगीषन्ति मृत्योः क्रीडनका नृपाः ॥ १ ॥
दृष्ट्वा आत्मनि जये व्यग्रान् नृपान् हसति भूः इयम् । अहो मा विजिगीषन्ति मृत्योः क्रीडनकाः नृपाः ॥ १ ॥
dṛṣṭvā ātmani jaye vyagrān nṛpān hasati bhūḥ iyam . aho mā vijigīṣanti mṛtyoḥ krīḍanakāḥ nṛpāḥ .. 1 ..
काम एष नरेन्द्राणां मोघः स्याद् विदुषामपि । येन फेनोपमे पिण्डे येऽतिविश्रम्भिता नृपाः ॥ २ ॥
कामः एष नरेन्द्राणाम् मोघः स्यात् विदुषाम् अपि । येन फेन-उपमे पिण्डे ये अति विश्रम्भिताः नृपाः ॥ २ ॥
kāmaḥ eṣa narendrāṇām moghaḥ syāt viduṣām api . yena phena-upame piṇḍe ye ati viśrambhitāḥ nṛpāḥ .. 2 ..
पूर्वं निर्जित्य षड्वर्गं जेष्यामो राजमन्त्रिणः । ततः सचिवपौराप्तकरीन्द्रानस्य कण्टकान् ॥ ३ ॥
पूर्वम् निर्जित्य षड्वर्गम् जेष्यामः राज-मन्त्रिणः । ततस् सचिव-पौर-आप्त-करीन्द्रान् अस्य कण्टकान् ॥ ३ ॥
pūrvam nirjitya ṣaḍvargam jeṣyāmaḥ rāja-mantriṇaḥ . tatas saciva-paura-āpta-karīndrān asya kaṇṭakān .. 3 ..
एवं क्रमेण जेष्यामः पृथ्वीं सागरमेखलाम् । इत्याशाबद्धहृदया न पश्यन्त्यन्तिकेऽन्तकम् ॥ ४ ॥
एवम् क्रमेण जेष्यामः पृथ्वीम् सागर-मेखलाम् । इति आशा-बद्ध-हृदयाः न पश्यन्ति अन्तिके अन्तकम् ॥ ४ ॥
evam krameṇa jeṣyāmaḥ pṛthvīm sāgara-mekhalām . iti āśā-baddha-hṛdayāḥ na paśyanti antike antakam .. 4 ..
समुद्रावरणां जित्वा मां विशन्त्यब्धिमोजसा । कियदात्मजयस्यैतन्मुक्तिरात्मजये फलम् ॥ ५ ॥
समुद्र-आवरणाम् जित्वा माम् विशन्ति अब्धिम् ओजसा । कियत् आत्म-जयस्य एतत् मुक्तिः आत्म-जये फलम् ॥ ५ ॥
samudra-āvaraṇām jitvā mām viśanti abdhim ojasā . kiyat ātma-jayasya etat muktiḥ ātma-jaye phalam .. 5 ..
यां विसृज्यैव मनवः तत्सुताश्च कुरूद्वह । गता यथागतं युद्धे तां मां जेष्यन्त्यबुद्धयः ॥ ६ ॥
याम् विसृज्य एव मनवः तद्-सुताः च कुरु-उद्वह । गताः यथागतम् युद्धे ताम् माम् जेष्यन्ति अबुद्धयः ॥ ६ ॥
yām visṛjya eva manavaḥ tad-sutāḥ ca kuru-udvaha . gatāḥ yathāgatam yuddhe tām mām jeṣyanti abuddhayaḥ .. 6 ..
मत्कृते पितृपुत्राणां भ्रातृणां चापि विग्रहः । जायते ह्यसतां राज्ये ममता-बद्धचेतसाम् ॥ ७ ॥
मद्-कृते पितृ-पुत्राणाम् भ्रातृणाम् च अपि विग्रहः । जायते हि असताम् राज्ये ममता-बद्ध-चेतसाम् ॥ ७ ॥
mad-kṛte pitṛ-putrāṇām bhrātṛṇām ca api vigrahaḥ . jāyate hi asatām rājye mamatā-baddha-cetasām .. 7 ..
ममैवेयं मही कृत्स्ना न ते मूढेति वादिनः । स्पर्धमाना मिथो घ्नन्ति म्रियन्ते मत्कृते नृपाः ॥ ८ ॥
मम एव इयम् मही कृत्स्ना न ते मूढा इति वादिनः । स्पर्धमानाः मिथस् घ्नन्ति म्रियन्ते मद्-कृते नृपाः ॥ ८ ॥
mama eva iyam mahī kṛtsnā na te mūḍhā iti vādinaḥ . spardhamānāḥ mithas ghnanti mriyante mad-kṛte nṛpāḥ .. 8 ..
पृथुः पुरूरवा गाधिः नहुषो भरतोऽर्जुनः । मान्धाता सगरो रामः खट्वाङ्गो धुन्धुहा रघुः ॥ ९ ॥
पृथुः पुरूरवाः गाधिः नहुषः भरतः अर्जुनः । मान्धाता सगरः रामः खट्वाङ्गः धुन्धुहा रघुः ॥ ९ ॥
pṛthuḥ purūravāḥ gādhiḥ nahuṣaḥ bharataḥ arjunaḥ . māndhātā sagaraḥ rāmaḥ khaṭvāṅgaḥ dhundhuhā raghuḥ .. 9 ..
तृणबिन्दुर्ययातिश्च शर्यातिः शन्तनुर्गयः । भगीरथः कुवलयाश्वः ककुत्स्थो नैषधो नृगः ॥ १० ॥
तृणबिन्दुः ययातिः च शर्यातिः शन्तनुः गयः । भगीरथः कुवलयाश्वः ककुत्स्थः नैषधः नृगः ॥ १० ॥
tṛṇabinduḥ yayātiḥ ca śaryātiḥ śantanuḥ gayaḥ . bhagīrathaḥ kuvalayāśvaḥ kakutsthaḥ naiṣadhaḥ nṛgaḥ .. 10 ..
हिरण्यकशिपुर्वृत्रो रावणो लोकरावणः । नमुचिः शम्बरो भौमो हिरण्याक्षोऽथ तारकः ॥ ११ ॥
हिरण्यकशिपुः वृत्रः रावणः लोक-रावणः । नमुचिः शम्बरः भौमः हिरण्याक्षः अथ तारकः ॥ ११ ॥
hiraṇyakaśipuḥ vṛtraḥ rāvaṇaḥ loka-rāvaṇaḥ . namuciḥ śambaraḥ bhaumaḥ hiraṇyākṣaḥ atha tārakaḥ .. 11 ..
अन्ये च बहवो दैत्या राजानो ये महेश्वराः । सर्वे सर्वविदः शूराः सर्वे सर्वजितोऽजिताः ॥ १२ ॥
अन्ये च बहवः दैत्याः राजानः ये महेश्वराः । सर्वे सर्व-विदः शूराः सर्वे सर्व-जितः अजिताः ॥ १२ ॥
anye ca bahavaḥ daityāḥ rājānaḥ ye maheśvarāḥ . sarve sarva-vidaḥ śūrāḥ sarve sarva-jitaḥ ajitāḥ .. 12 ..
ममतां मय्यवर्तन्त कृत्वोच्चैर्मर्त्यधर्मिणः । कथावशेषाः कालेन ह्यकृतार्थाः कृता विभो ॥ १३ ॥
ममताम् मयि अवर्तन्त कृत्वा उच्चैस् मर्त्य-धर्मिणः । कथा-अवशेषाः कालेन हि अकृतार्थाः कृताः विभो ॥ १३ ॥
mamatām mayi avartanta kṛtvā uccais martya-dharmiṇaḥ . kathā-avaśeṣāḥ kālena hi akṛtārthāḥ kṛtāḥ vibho .. 13 ..
(मिश्र-१२)
कथा इमास्ते कथिता महीयसां विताय लोकेषु यशः परेयुषाम् । विज्ञानवैराग्यविवक्षया विभो वचोविभूतीर्न तु पारमार्थ्यम् ॥ १४ ॥
कथाः इमाः ते कथिताः महीयसाम् विताय लोकेषु यशः परेयुषाम् । विज्ञान-वैराग्य-विवक्षया विभो वचः-विभूतीः न तु पारमार्थ्यम् ॥ १४ ॥
kathāḥ imāḥ te kathitāḥ mahīyasām vitāya lokeṣu yaśaḥ pareyuṣām . vijñāna-vairāgya-vivakṣayā vibho vacaḥ-vibhūtīḥ na tu pāramārthyam .. 14 ..
(इंद्रवज्रा)
यस्तु उत्तमश्लोकगुणानुवादः संगीयतेऽभीक्ष्णममङ्गलघ्नः । तमेव नित्यं श्रृणुयादभीक्ष्णं कृष्णेऽमलां भक्तिमभीप्समानः ॥ १५ ॥
यः तु उत्तमश्लोक-गुण-अनुवादः संगीयते अभीक्ष्णम् अमङ्गल-घ्नः । तम् एव नित्यम् श्रृणुयात् अभीक्ष्णम् कृष्णे अमलाम् भक्तिम् अभीप्समानः ॥ १५ ॥
yaḥ tu uttamaśloka-guṇa-anuvādaḥ saṃgīyate abhīkṣṇam amaṅgala-ghnaḥ . tam eva nityam śrṛṇuyāt abhīkṣṇam kṛṣṇe amalām bhaktim abhīpsamānaḥ .. 15 ..
श्रीराजोवाच - (अनुष्टुप्)
केनोपायेन भगवन् कलेर्दोषान् कलौ जनाः । विधमिष्यन्त्युपचितान् तन्मे ब्रूहि यथा मुने ॥ १६ ॥
केन उपायेन भगवन् कलेः दोषान् कलौ जनाः । विधमिष्यन्ति उपचितान् तत् मे ब्रूहि यथा मुने ॥ १६ ॥
kena upāyena bhagavan kaleḥ doṣān kalau janāḥ . vidhamiṣyanti upacitān tat me brūhi yathā mune .. 16 ..
युगानि युगधर्मांश्च मानं प्रलयकल्पयोः । कालस्येश्वररूपस्य गतिं विष्णोर्महात्मनः ॥ १७ ॥
युगानि युग-धर्मान् च मानम् प्रलय-कल्पयोः । कालस्य ईश्वर-रूपस्य गतिम् विष्णोः महात्मनः ॥ १७ ॥
yugāni yuga-dharmān ca mānam pralaya-kalpayoḥ . kālasya īśvara-rūpasya gatim viṣṇoḥ mahātmanaḥ .. 17 ..
श्रीशुक उवाच -
कृते प्रवर्तते धर्मः चतुष्पात् तज्जनैर्धृतः । सत्यं दया तपो दानं इति पादा विभोर्नृप ॥ १८ ॥
कृते प्रवर्तते धर्मः चतुष्पाद् तद्-जनैः धृतः । सत्यम् दया तपः दानम् इति पादाः विभोः नृप ॥ १८ ॥
kṛte pravartate dharmaḥ catuṣpād tad-janaiḥ dhṛtaḥ . satyam dayā tapaḥ dānam iti pādāḥ vibhoḥ nṛpa .. 18 ..
सन्तुष्टाः करुणा मैत्राः शान्ता दान्ताः तितिक्षवः । आत्मारामाः समदृशः प्रायशः श्रमणा जनाः ॥ १९ ॥
सन्तुष्टाः करुणा मैत्राः शान्ताः दान्ताः तितिक्षवः । आत्म-आरामाः समदृशः प्रायशस् श्रमणाः जनाः ॥ १९ ॥
santuṣṭāḥ karuṇā maitrāḥ śāntāḥ dāntāḥ titikṣavaḥ . ātma-ārāmāḥ samadṛśaḥ prāyaśas śramaṇāḥ janāḥ .. 19 ..
त्रेतायां धर्मपादानां तुर्यांशो हीयते शनैः । अधर्मपादैः अनृत हिंसासंतोषविग्रहैः ॥ २० ॥
त्रेतायाम् धर्म-पादानाम् तुर्य-अंशः हीयते शनैस् । अधर्म-पादैः अनृत-हिंसा-संतोष-विग्रहैः ॥ २० ॥
tretāyām dharma-pādānām turya-aṃśaḥ hīyate śanais . adharma-pādaiḥ anṛta-hiṃsā-saṃtoṣa-vigrahaiḥ .. 20 ..
तदा क्रियातपोनिष्ठा नातिहिंस्रा न लम्पटाः । त्रैवर्गिकास्त्रयीवृद्धा वर्णा ब्रह्मोत्तरा नृप ॥ २१ ॥
तदा क्रिया-तपः-निष्ठाः न अति हिंस्राः न लम्पटाः । त्रैवर्गिकाः त्रयी-वृद्धाः वर्णाः ब्रह्म-उत्तराः नृप ॥ २१ ॥
tadā kriyā-tapaḥ-niṣṭhāḥ na ati hiṃsrāḥ na lampaṭāḥ . traivargikāḥ trayī-vṛddhāḥ varṇāḥ brahma-uttarāḥ nṛpa .. 21 ..
तपःसत्यदयादानेषु अर्धं ह्रस्वति द्वापरे । हिंसातुष्ट्यनृतद्वेषैः धर्मस्याधर्मलक्षणैः ॥ २२ ॥
तपः-सत्य-दया-दानेषु अर्धम् ह्रस्वति द्वापरे । हिंसा-तुष्टि-अनृत-द्वेषैः धर्मस्य अधर्म-लक्षणैः ॥ २२ ॥
tapaḥ-satya-dayā-dāneṣu ardham hrasvati dvāpare . hiṃsā-tuṣṭi-anṛta-dveṣaiḥ dharmasya adharma-lakṣaṇaiḥ .. 22 ..
यशस्विनो महाशीलाः स्वाध्यायाध्ययने रताः । आढ्याः कुटुम्बिनो हृष्टा वर्णाः क्षत्रद्विजोत्तराः ॥ २३ ॥
यशस्विनः महा-शीलाः स्वाध्याय-अध्ययने रताः । आढ्याः कुटुम्बिनः हृष्टाः वर्णाः क्षत्र-द्विजोत्तराः ॥ २३ ॥
yaśasvinaḥ mahā-śīlāḥ svādhyāya-adhyayane ratāḥ . āḍhyāḥ kuṭumbinaḥ hṛṣṭāḥ varṇāḥ kṣatra-dvijottarāḥ .. 23 ..
कलौ तु धर्महेतूनां तुर्यांशोऽधर्महेतुभिः । एधमानैः क्षीयमाणो ह्यन्ते सोऽपि विनङ्क्ष्यति ॥ २४ ॥
कलौ तु धर्म-हेतूनाम् तुर्य-अंशः अधर्म-हेतुभिः । एधमानैः क्षीयमाणः हि अन्ते सः अपि विनङ्क्ष्यति ॥ २४ ॥
kalau tu dharma-hetūnām turya-aṃśaḥ adharma-hetubhiḥ . edhamānaiḥ kṣīyamāṇaḥ hi ante saḥ api vinaṅkṣyati .. 24 ..
तस्मिन् लुब्धा दुराचारा निर्दयाः शुष्कवैरिणः । दुर्भगा भूरितर्षाश्च शूद्रदासोत्तराः प्रजाः ॥ २५ ॥
तस्मिन् लुब्धाः दुराचाराः निर्दयाः शुष्क-वैरिणः । दुर्भगाः भूरि-तर्षाः च शूद्र-दास-उत्तराः प्रजाः ॥ २५ ॥
tasmin lubdhāḥ durācārāḥ nirdayāḥ śuṣka-vairiṇaḥ . durbhagāḥ bhūri-tarṣāḥ ca śūdra-dāsa-uttarāḥ prajāḥ .. 25 ..
सत्त्वं रजस्तम इति दृश्यन्ते पुरुषे गुणाः । कालसञ्चोदितास्ते वै परिवर्तन्त आत्मनि ॥ २६ ॥
सत्त्वम् रजः तमः इति दृश्यन्ते पुरुषे गुणाः । काल-सञ्चोदिताः ते वै परिवर्तन्ते आत्मनि ॥ २६ ॥
sattvam rajaḥ tamaḥ iti dṛśyante puruṣe guṇāḥ . kāla-sañcoditāḥ te vai parivartante ātmani .. 26 ..
प्रभवन्ति यदा सत्त्वे मनोबुद्धीन्द्रियाणि च । तदा कृतयुगं विद्यात् ज्ञाने तपसि यद्रुचिः ॥ २७ ॥
प्रभवन्ति यदा सत्त्वे मनः-बुद्धि-इन्द्रियाणि च । तदा कृत-युगम् विद्यात् ज्ञाने तपसि यद्-रुचिः ॥ २७ ॥
prabhavanti yadā sattve manaḥ-buddhi-indriyāṇi ca . tadā kṛta-yugam vidyāt jñāne tapasi yad-ruciḥ .. 27 ..
यदा धर्मार्थ कामेषु भक्तिर्यशसि देहिनाम् । तदा त्रेता रजोवृत्तिः इति जानीहि बुद्धिमन् ॥ २८ ॥
यदा धर्म-अर्थ कामेषु भक्तिः यशसि देहिनाम् । तदा त्रेता रजः-वृत्तिः इति जानीहि बुद्धिमन् ॥ २८ ॥
yadā dharma-artha kāmeṣu bhaktiḥ yaśasi dehinām . tadā tretā rajaḥ-vṛttiḥ iti jānīhi buddhiman .. 28 ..
यदा लोभस्तु असन्तोषो मानो दम्भोऽथ मत्सरः । कर्मणां चापि काम्यानां द्वापरं तद् रजस्तमः ॥ २९ ॥
यदा लोभः तु असन्तोषः मानः दम्भः अथ मत्सरः । कर्मणाम् च अपि काम्यानाम् द्वापरम् तत् रजः-तमः ॥ २९ ॥
yadā lobhaḥ tu asantoṣaḥ mānaḥ dambhaḥ atha matsaraḥ . karmaṇām ca api kāmyānām dvāparam tat rajaḥ-tamaḥ .. 29 ..
यदा मायानृतं तन्द्रा निद्रा हिंसा विषादनम् । शोकमोहौ भयं दैन्यं स कलिस्तामसः स्मृतः ॥ ३० ॥
यदा माया अनृतम् तन्द्रा निद्रा हिंसा विषादनम् । शोक-मोहौ भयम् दैन्यम् स कलिः तामसः स्मृतः ॥ ३० ॥
yadā māyā anṛtam tandrā nidrā hiṃsā viṣādanam . śoka-mohau bhayam dainyam sa kaliḥ tāmasaḥ smṛtaḥ .. 30 ..
यस्मात् क्षुद्रदृशो मर्त्याः क्षुद्रभाग्या महाशनाः । कामिनो वित्तहीनाश्च स्वैरिण्यश्च स्त्रियोऽसतीः ॥ ३१ ॥
यस्मात् क्षुद्र-दृशः मर्त्याः क्षुद्र-भाग्याः महा-अशनाः । कामिनः वित्त-हीनाः च स्वैरिण्यः च स्त्रियः असतीः ॥ ३१ ॥
yasmāt kṣudra-dṛśaḥ martyāḥ kṣudra-bhāgyāḥ mahā-aśanāḥ . kāminaḥ vitta-hīnāḥ ca svairiṇyaḥ ca striyaḥ asatīḥ .. 31 ..
दस्यूत्कृष्टा जनपदा वेदाः पाषण्डदूषिताः । राजानश्च प्रजाभक्षाः शिश्नोदरपरा द्विजाः ॥ ३२ ॥
दस्यु-उत्कृष्टाः जनपदाः वेदाः पाषण्ड-दूषिताः । राजानः च प्रजा-भक्षाः शिश्न-उदर-पराः द्विजाः ॥ ३२ ॥
dasyu-utkṛṣṭāḥ janapadāḥ vedāḥ pāṣaṇḍa-dūṣitāḥ . rājānaḥ ca prajā-bhakṣāḥ śiśna-udara-parāḥ dvijāḥ .. 32 ..
अव्रता वटवोऽशौचा भिक्षवश्च कुटुम्बिनः । तपस्विनो ग्रामवासा न्यासिनोऽत्यर्थलोलुपाः ॥ ३३ ॥
अव्रताः वटवः अशौचाः भिक्षवः च कुटुम्बिनः । तपस्विनः ग्राम-वासाः न्यासिनः अत्यर्थ-लोलुपाः ॥ ३३ ॥
avratāḥ vaṭavaḥ aśaucāḥ bhikṣavaḥ ca kuṭumbinaḥ . tapasvinaḥ grāma-vāsāḥ nyāsinaḥ atyartha-lolupāḥ .. 33 ..
ह्रस्वकाया महाहारा भूर्यपत्या गतह्रियः । शश्वत्कटुकभाषिण्यः चौर्यमायोरुसाहसाः ॥ ३४ ॥
ह्रस्व-कायाः महा-आहाराः भूरि-अपत्याः गत-ह्रियः । शश्वत् कटुक-भाषिण्यः चौर्य-माया-उरु-साहसाः ॥ ३४ ॥
hrasva-kāyāḥ mahā-āhārāḥ bhūri-apatyāḥ gata-hriyaḥ . śaśvat kaṭuka-bhāṣiṇyaḥ caurya-māyā-uru-sāhasāḥ .. 34 ..
पणयिष्यन्ति वै क्षुद्राः किराटाः कूटकारिणः । अनापद्यपि मंस्यन्ते वार्तां साधु जुगुप्सिताम् ॥ ३५ ॥
पणयिष्यन्ति वै क्षुद्राः किराटाः कूट-कारिणः । अनापदि अपि मंस्यन्ते वार्ताम् साधु जुगुप्सिताम् ॥ ३५ ॥
paṇayiṣyanti vai kṣudrāḥ kirāṭāḥ kūṭa-kāriṇaḥ . anāpadi api maṃsyante vārtām sādhu jugupsitām .. 35 ..
पतिं त्यक्ष्यन्ति निर्द्रव्यं भृत्याप्यखिलोत्तमम् । भृत्यं विपन्नं पतयः कौलं गाश्चापयस्विनीः ॥ ३६ ॥
पतिम् त्यक्ष्यन्ति निर्द्रव्यम् भृत्या अपि अखिल-उत्तमम् । भृत्यम् विपन्नम् पतयः कौलम् गाः च अ पयस्विनीः ॥ ३६ ॥
patim tyakṣyanti nirdravyam bhṛtyā api akhila-uttamam . bhṛtyam vipannam patayaḥ kaulam gāḥ ca a payasvinīḥ .. 36 ..
पितृभ्रातृसुहृत्ज्ञातीन् हित्वा सौरतसौहृदाः । ननान्दृश्यालसंवादा दीनाः स्त्रैणाः कलौ नराः ॥ ३७ ॥
पितृ-भ्रातृ-सुहृद्-ज्ञातीन् हित्वा सौरत-सौहृदाः । दीनाः स्त्रैणाः कलौ नराः ॥ ३७ ॥
pitṛ-bhrātṛ-suhṛd-jñātīn hitvā saurata-sauhṛdāḥ . dīnāḥ straiṇāḥ kalau narāḥ .. 37 ..
शूद्राः प्रतिग्रहीष्यन्ति तपोवेषोपजीविनः । धर्मं वक्ष्यन्त्यधर्मज्ञा अधिरुह्योत्तमासनम् ॥ ३८ ॥
शूद्राः प्रतिग्रहीष्यन्ति तपः-वेष-उपजीविनः । धर्मम् वक्ष्यन्ति अधर्म-ज्ञाः अधिरुह्य उत्तम-आसनम् ॥ ३८ ॥
śūdrāḥ pratigrahīṣyanti tapaḥ-veṣa-upajīvinaḥ . dharmam vakṣyanti adharma-jñāḥ adhiruhya uttama-āsanam .. 38 ..
नित्यमुद्विग्नमनसो दुर्भिक्षकरकर्शिताः । निरन्ने भूतले राजन् अनावृष्टिभयातुराः ॥ ३९ ॥
नित्यम् उद्विग्न-मनसः दुर्भिक्ष-कर-कर्शिताः । निरन्ने भू-तले राजन् अनावृष्टि-भय-आतुराः ॥ ३९ ॥
nityam udvigna-manasaḥ durbhikṣa-kara-karśitāḥ . niranne bhū-tale rājan anāvṛṣṭi-bhaya-āturāḥ .. 39 ..
वासोऽन्नपानशयनव्यवायस्नानभूषणैः । हीनाः पिशाचसन्दर्शा भविष्यन्ति कलौ प्रजाः ॥ ४० ॥
वासः-अन्न-पान-शयन-व्यवाय-स्नान-भूषणैः । हीनाः पिशाच-सन्दर्शाः भविष्यन्ति कलौ प्रजाः ॥ ४० ॥
vāsaḥ-anna-pāna-śayana-vyavāya-snāna-bhūṣaṇaiḥ . hīnāḥ piśāca-sandarśāḥ bhaviṣyanti kalau prajāḥ .. 40 ..
कलौ काकिणिकेऽप्यर्थे विगृह्य त्यक्तसौहृदाः । त्यक्ष्यन्ति च प्रियान्प्राणान् हनिष्यन्ति स्वकानपि ॥ ४१ ॥
कलौ काकिणिके अपि अर्थे विगृह्य त्यक्त-सौहृदाः । त्यक्ष्यन्ति च प्रियान् प्राणान् हनिष्यन्ति स्वकान् अपि ॥ ४१ ॥
kalau kākiṇike api arthe vigṛhya tyakta-sauhṛdāḥ . tyakṣyanti ca priyān prāṇān haniṣyanti svakān api .. 41 ..
न रक्षिष्यन्ति मनुजाः स्थविरौ पितरौ अपि । पुत्रान् सर्वार्थकुशलान् क्षुद्राः शिश्नोदरम्भराः ॥ ४२ ॥
न रक्षिष्यन्ति मनुजाः स्थविरौ पितरौ अपि । पुत्रान् सर्व-अर्थ-कुशलान् क्षुद्राः शिश्न-उदरम्भराः ॥ ४२ ॥
na rakṣiṣyanti manujāḥ sthavirau pitarau api . putrān sarva-artha-kuśalān kṣudrāḥ śiśna-udarambharāḥ .. 42 ..
(मिश्र-१२)
कलौ न राजन् जगतां परं गुरुं त्रिलोकनाथानतपादपङ्कजम् । प्रायेण मर्त्या भगवन्तमच्युतं यक्ष्यन्ति पाषण्डविभिन्नचेतसः ॥ ४३ ॥
कलौ न राजन् जगताम् परम् गुरुम् त्रिलोक-नाथ-आनत-पाद-पङ्कजम् । प्रायेण मर्त्याः भगवन्तम् अच्युतम् यक्ष्यन्ति पाषण्ड-विभिन्न-चेतसः ॥ ४३ ॥
kalau na rājan jagatām param gurum triloka-nātha-ānata-pāda-paṅkajam . prāyeṇa martyāḥ bhagavantam acyutam yakṣyanti pāṣaṇḍa-vibhinna-cetasaḥ .. 43 ..
यन्नामधेयं म्रियमाण आतुरः पतन् स्खलन् वा विवशो गृणन् पुमान् । विमुक्तकर्मार्गल उत्तमां गतिं प्राप्नोति यक्ष्यन्ति न तं कलौ जनाः ॥ ४४ ॥
यद्-नामधेयम् म्रियमाणः आतुरः पतन् स्खलन् वा विवशः गृणन् पुमान् । विमुक्त-कर्म-अर्गलः उत्तमाम् गतिम् प्राप्नोति यक्ष्यन्ति न तम् कलौ जनाः ॥ ४४ ॥
yad-nāmadheyam mriyamāṇaḥ āturaḥ patan skhalan vā vivaśaḥ gṛṇan pumān . vimukta-karma-argalaḥ uttamām gatim prāpnoti yakṣyanti na tam kalau janāḥ .. 44 ..
(अनुष्टुप्)
पुंसां कलिकृतान् दोषान् द्रव्यदेशात्मसंभवान् । सर्वान् हरति चित्तस्थो भगवान् पुरुषोत्तमः ॥ ४५ ॥
पुंसाम् कलि-कृतान् दोषान् द्रव्य-देश-आत्म-संभवान् । सर्वान् हरति चित्त-स्थः भगवान् पुरुषोत्तमः ॥ ४५ ॥
puṃsām kali-kṛtān doṣān dravya-deśa-ātma-saṃbhavān . sarvān harati citta-sthaḥ bhagavān puruṣottamaḥ .. 45 ..
श्रुतः सङ्कीर्तितो ध्यातः पूजितश्चादृतोऽपि वा । नृणां धुनोति भगवान् हृत्स्थो जन्मायुताशुभम् ॥ ४६ ॥
श्रुतः सङ्कीर्तितः ध्यातः पूजितः च आदृतः अपि वा । नृणाम् धुनोति भगवान् हृद्-स्थः जन्म-अयुत-अशुभम् ॥ ४६ ॥
śrutaḥ saṅkīrtitaḥ dhyātaḥ pūjitaḥ ca ādṛtaḥ api vā . nṛṇām dhunoti bhagavān hṛd-sthaḥ janma-ayuta-aśubham .. 46 ..
यथा हेम्नि स्थितो वह्निः दुर्वर्णं हन्ति धातुजम् । एवं आत्मगतो विष्णुः योगिनां अशुभाशयम् ॥ ४७ ॥
यथा हेम्नि स्थितः वह्निः दुर्वर्णम् हन्ति धातु-जम् । एवम् आत्म-गतः विष्णुः योगिनाम् अशुभ-आशयम् ॥ ४७ ॥
yathā hemni sthitaḥ vahniḥ durvarṇam hanti dhātu-jam . evam ātma-gataḥ viṣṇuḥ yoginām aśubha-āśayam .. 47 ..
(इंद्रवज्रा)
विद्यातपःप्राणनिरोधमैत्री तीर्थाभिषेकव्रतदानजप्यैः । नात्यन्तशुद्धिं लभतेऽन्तरात्मा यथा हृदिस्थे भगवत्यनन्ते ॥ ४८ ॥
विद्या-तपः-प्राण-निरोध-मैत्री तीर्थ-अभिषेक-व्रत-दान-जप्यैः । न अत्यन्त-शुद्धिम् लभते अन्तरात्मा यथा हृदिस्थे भगवति अनन्ते ॥ ४८ ॥
vidyā-tapaḥ-prāṇa-nirodha-maitrī tīrtha-abhiṣeka-vrata-dāna-japyaiḥ . na atyanta-śuddhim labhate antarātmā yathā hṛdisthe bhagavati anante .. 48 ..
(अनुष्टुप्)
तस्मात् सर्वात्मना राजन् हृदिस्थं कुरु केशवम् । म्रियमाणो ह्यवहितः ततो यासि परां गतिम् ॥ ४९ ॥
तस्मात् सर्व-आत्मना राजन् हृदिस्थम् कुरु केशवम् । म्रियमाणः हि अवहितः ततस् यासि पराम् गतिम् ॥ ४९ ॥
tasmāt sarva-ātmanā rājan hṛdistham kuru keśavam . mriyamāṇaḥ hi avahitaḥ tatas yāsi parām gatim .. 49 ..
म्रियमाणैरभिध्येयो भगवान् परमेश्वरः । आत्मभावं नयत्यङ्ग सर्वात्मा सर्वसंश्रयः ॥ ५० ॥
म्रियमाणैः अभिध्येयः भगवान् परमेश्वरः । आत्म-भावम् नयति अङ्ग सर्व-आत्मा सर्व-संश्रयः ॥ ५० ॥
mriyamāṇaiḥ abhidhyeyaḥ bhagavān parameśvaraḥ . ātma-bhāvam nayati aṅga sarva-ātmā sarva-saṃśrayaḥ .. 50 ..
कलेर्दोषनिधे राजन् अस्ति ह्येको महान् गुणः । कीर्तनात् एव कृष्णस्य मुक्तसङ्गः परं व्रजेत् ॥ ५१ ॥
कलेः दोष-निधे राजन् अस्ति हि एकः महान् गुणः । कीर्तनात् एव कृष्णस्य मुक्त-सङ्गः परम् व्रजेत् ॥ ५१ ॥
kaleḥ doṣa-nidhe rājan asti hi ekaḥ mahān guṇaḥ . kīrtanāt eva kṛṣṇasya mukta-saṅgaḥ param vrajet .. 51 ..
कृते यद् ध्यायतो विष्णुं त्रेतायां यजतो मखैः । द्वापरे परिचर्यायां कलौ तद् हरिकीर्तनात् ॥ ५२ ॥
कृते यत् ध्यायतः विष्णुम् त्रेतायाम् यजतः मखैः । द्वापरे परिचर्यायाम् कलौ तत् हरि-कीर्तनात् ॥ ५२ ॥
kṛte yat dhyāyataḥ viṣṇum tretāyām yajataḥ makhaiḥ . dvāpare paricaryāyām kalau tat hari-kīrtanāt .. 52 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वादशस्कन्धे तृतीयोऽध्यायः ॥ २ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् द्वादश-स्कन्धे तृतीयः अध्यायः ॥ २ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām dvādaśa-skandhe tṛtīyaḥ adhyāyaḥ .. 2 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In