| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच – (अनुष्टुप्)
दृष्ट्वाऽऽत्मनि जये व्यग्रान् नृपान् हसति भूरियम् । अहो मा विजिगीषन्ति मृत्योः क्रीडनका नृपाः ॥ १ ॥
dṛṣṭvā''tmani jaye vyagrān nṛpān hasati bhūriyam . aho mā vijigīṣanti mṛtyoḥ krīḍanakā nṛpāḥ .. 1 ..
काम एष नरेन्द्राणां मोघः स्याद् विदुषामपि । येन फेनोपमे पिण्डे येऽतिविश्रम्भिता नृपाः ॥ २ ॥
kāma eṣa narendrāṇāṃ moghaḥ syād viduṣāmapi . yena phenopame piṇḍe ye'tiviśrambhitā nṛpāḥ .. 2 ..
पूर्वं निर्जित्य षड्वर्गं जेष्यामो राजमन्त्रिणः । ततः सचिवपौराप्तकरीन्द्रानस्य कण्टकान् ॥ ३ ॥
pūrvaṃ nirjitya ṣaḍvargaṃ jeṣyāmo rājamantriṇaḥ . tataḥ sacivapaurāptakarīndrānasya kaṇṭakān .. 3 ..
एवं क्रमेण जेष्यामः पृथ्वीं सागरमेखलाम् । इत्याशाबद्धहृदया न पश्यन्त्यन्तिकेऽन्तकम् ॥ ४ ॥
evaṃ krameṇa jeṣyāmaḥ pṛthvīṃ sāgaramekhalām . ityāśābaddhahṛdayā na paśyantyantike'ntakam .. 4 ..
समुद्रावरणां जित्वा मां विशन्त्यब्धिमोजसा । कियदात्मजयस्यैतन्मुक्तिरात्मजये फलम् ॥ ५ ॥
samudrāvaraṇāṃ jitvā māṃ viśantyabdhimojasā . kiyadātmajayasyaitanmuktirātmajaye phalam .. 5 ..
यां विसृज्यैव मनवः तत्सुताश्च कुरूद्वह । गता यथागतं युद्धे तां मां जेष्यन्त्यबुद्धयः ॥ ६ ॥
yāṃ visṛjyaiva manavaḥ tatsutāśca kurūdvaha . gatā yathāgataṃ yuddhe tāṃ māṃ jeṣyantyabuddhayaḥ .. 6 ..
मत्कृते पितृपुत्राणां भ्रातृणां चापि विग्रहः । जायते ह्यसतां राज्ये ममता-बद्धचेतसाम् ॥ ७ ॥
matkṛte pitṛputrāṇāṃ bhrātṛṇāṃ cāpi vigrahaḥ . jāyate hyasatāṃ rājye mamatā-baddhacetasām .. 7 ..
ममैवेयं मही कृत्स्ना न ते मूढेति वादिनः । स्पर्धमाना मिथो घ्नन्ति म्रियन्ते मत्कृते नृपाः ॥ ८ ॥
mamaiveyaṃ mahī kṛtsnā na te mūḍheti vādinaḥ . spardhamānā mitho ghnanti mriyante matkṛte nṛpāḥ .. 8 ..
पृथुः पुरूरवा गाधिः नहुषो भरतोऽर्जुनः । मान्धाता सगरो रामः खट्वाङ्गो धुन्धुहा रघुः ॥ ९ ॥
pṛthuḥ purūravā gādhiḥ nahuṣo bharato'rjunaḥ . māndhātā sagaro rāmaḥ khaṭvāṅgo dhundhuhā raghuḥ .. 9 ..
तृणबिन्दुर्ययातिश्च शर्यातिः शन्तनुर्गयः । भगीरथः कुवलयाश्वः ककुत्स्थो नैषधो नृगः ॥ १० ॥
tṛṇabinduryayātiśca śaryātiḥ śantanurgayaḥ . bhagīrathaḥ kuvalayāśvaḥ kakutstho naiṣadho nṛgaḥ .. 10 ..
हिरण्यकशिपुर्वृत्रो रावणो लोकरावणः । नमुचिः शम्बरो भौमो हिरण्याक्षोऽथ तारकः ॥ ११ ॥
hiraṇyakaśipurvṛtro rāvaṇo lokarāvaṇaḥ . namuciḥ śambaro bhaumo hiraṇyākṣo'tha tārakaḥ .. 11 ..
अन्ये च बहवो दैत्या राजानो ये महेश्वराः । सर्वे सर्वविदः शूराः सर्वे सर्वजितोऽजिताः ॥ १२ ॥
anye ca bahavo daityā rājāno ye maheśvarāḥ . sarve sarvavidaḥ śūrāḥ sarve sarvajito'jitāḥ .. 12 ..
ममतां मय्यवर्तन्त कृत्वोच्चैर्मर्त्यधर्मिणः । कथावशेषाः कालेन ह्यकृतार्थाः कृता विभो ॥ १३ ॥
mamatāṃ mayyavartanta kṛtvoccairmartyadharmiṇaḥ . kathāvaśeṣāḥ kālena hyakṛtārthāḥ kṛtā vibho .. 13 ..
(मिश्र-१२)
कथा इमास्ते कथिता महीयसां विताय लोकेषु यशः परेयुषाम् । विज्ञानवैराग्यविवक्षया विभो वचोविभूतीर्न तु पारमार्थ्यम् ॥ १४ ॥
kathā imāste kathitā mahīyasāṃ vitāya lokeṣu yaśaḥ pareyuṣām . vijñānavairāgyavivakṣayā vibho vacovibhūtīrna tu pāramārthyam .. 14 ..
(इंद्रवज्रा)
यस्तु उत्तमश्लोकगुणानुवादः संगीयतेऽभीक्ष्णममङ्गलघ्नः । तमेव नित्यं श्रृणुयादभीक्ष्णं कृष्णेऽमलां भक्तिमभीप्समानः ॥ १५ ॥
yastu uttamaślokaguṇānuvādaḥ saṃgīyate'bhīkṣṇamamaṅgalaghnaḥ . tameva nityaṃ śrṛṇuyādabhīkṣṇaṃ kṛṣṇe'malāṃ bhaktimabhīpsamānaḥ .. 15 ..
श्रीराजोवाच - (अनुष्टुप्)
केनोपायेन भगवन् कलेर्दोषान् कलौ जनाः । विधमिष्यन्त्युपचितान् तन्मे ब्रूहि यथा मुने ॥ १६ ॥
kenopāyena bhagavan kalerdoṣān kalau janāḥ . vidhamiṣyantyupacitān tanme brūhi yathā mune .. 16 ..
युगानि युगधर्मांश्च मानं प्रलयकल्पयोः । कालस्येश्वररूपस्य गतिं विष्णोर्महात्मनः ॥ १७ ॥
yugāni yugadharmāṃśca mānaṃ pralayakalpayoḥ . kālasyeśvararūpasya gatiṃ viṣṇormahātmanaḥ .. 17 ..
श्रीशुक उवाच -
कृते प्रवर्तते धर्मः चतुष्पात् तज्जनैर्धृतः । सत्यं दया तपो दानं इति पादा विभोर्नृप ॥ १८ ॥
kṛte pravartate dharmaḥ catuṣpāt tajjanairdhṛtaḥ . satyaṃ dayā tapo dānaṃ iti pādā vibhornṛpa .. 18 ..
सन्तुष्टाः करुणा मैत्राः शान्ता दान्ताः तितिक्षवः । आत्मारामाः समदृशः प्रायशः श्रमणा जनाः ॥ १९ ॥
santuṣṭāḥ karuṇā maitrāḥ śāntā dāntāḥ titikṣavaḥ . ātmārāmāḥ samadṛśaḥ prāyaśaḥ śramaṇā janāḥ .. 19 ..
त्रेतायां धर्मपादानां तुर्यांशो हीयते शनैः । अधर्मपादैः अनृत हिंसासंतोषविग्रहैः ॥ २० ॥
tretāyāṃ dharmapādānāṃ turyāṃśo hīyate śanaiḥ . adharmapādaiḥ anṛta hiṃsāsaṃtoṣavigrahaiḥ .. 20 ..
तदा क्रियातपोनिष्ठा नातिहिंस्रा न लम्पटाः । त्रैवर्गिकास्त्रयीवृद्धा वर्णा ब्रह्मोत्तरा नृप ॥ २१ ॥
tadā kriyātaponiṣṭhā nātihiṃsrā na lampaṭāḥ . traivargikāstrayīvṛddhā varṇā brahmottarā nṛpa .. 21 ..
तपःसत्यदयादानेषु अर्धं ह्रस्वति द्वापरे । हिंसातुष्ट्यनृतद्वेषैः धर्मस्याधर्मलक्षणैः ॥ २२ ॥
tapaḥsatyadayādāneṣu ardhaṃ hrasvati dvāpare . hiṃsātuṣṭyanṛtadveṣaiḥ dharmasyādharmalakṣaṇaiḥ .. 22 ..
यशस्विनो महाशीलाः स्वाध्यायाध्ययने रताः । आढ्याः कुटुम्बिनो हृष्टा वर्णाः क्षत्रद्विजोत्तराः ॥ २३ ॥
yaśasvino mahāśīlāḥ svādhyāyādhyayane ratāḥ . āḍhyāḥ kuṭumbino hṛṣṭā varṇāḥ kṣatradvijottarāḥ .. 23 ..
कलौ तु धर्महेतूनां तुर्यांशोऽधर्महेतुभिः । एधमानैः क्षीयमाणो ह्यन्ते सोऽपि विनङ्क्ष्यति ॥ २४ ॥
kalau tu dharmahetūnāṃ turyāṃśo'dharmahetubhiḥ . edhamānaiḥ kṣīyamāṇo hyante so'pi vinaṅkṣyati .. 24 ..
तस्मिन् लुब्धा दुराचारा निर्दयाः शुष्कवैरिणः । दुर्भगा भूरितर्षाश्च शूद्रदासोत्तराः प्रजाः ॥ २५ ॥
tasmin lubdhā durācārā nirdayāḥ śuṣkavairiṇaḥ . durbhagā bhūritarṣāśca śūdradāsottarāḥ prajāḥ .. 25 ..
सत्त्वं रजस्तम इति दृश्यन्ते पुरुषे गुणाः । कालसञ्चोदितास्ते वै परिवर्तन्त आत्मनि ॥ २६ ॥
sattvaṃ rajastama iti dṛśyante puruṣe guṇāḥ . kālasañcoditāste vai parivartanta ātmani .. 26 ..
प्रभवन्ति यदा सत्त्वे मनोबुद्धीन्द्रियाणि च । तदा कृतयुगं विद्यात् ज्ञाने तपसि यद्रुचिः ॥ २७ ॥
prabhavanti yadā sattve manobuddhīndriyāṇi ca . tadā kṛtayugaṃ vidyāt jñāne tapasi yadruciḥ .. 27 ..
यदा धर्मार्थ कामेषु भक्तिर्यशसि देहिनाम् । तदा त्रेता रजोवृत्तिः इति जानीहि बुद्धिमन् ॥ २८ ॥
yadā dharmārtha kāmeṣu bhaktiryaśasi dehinām . tadā tretā rajovṛttiḥ iti jānīhi buddhiman .. 28 ..
यदा लोभस्तु असन्तोषो मानो दम्भोऽथ मत्सरः । कर्मणां चापि काम्यानां द्वापरं तद् रजस्तमः ॥ २९ ॥
yadā lobhastu asantoṣo māno dambho'tha matsaraḥ . karmaṇāṃ cāpi kāmyānāṃ dvāparaṃ tad rajastamaḥ .. 29 ..
यदा मायानृतं तन्द्रा निद्रा हिंसा विषादनम् । शोकमोहौ भयं दैन्यं स कलिस्तामसः स्मृतः ॥ ३० ॥
yadā māyānṛtaṃ tandrā nidrā hiṃsā viṣādanam . śokamohau bhayaṃ dainyaṃ sa kalistāmasaḥ smṛtaḥ .. 30 ..
यस्मात् क्षुद्रदृशो मर्त्याः क्षुद्रभाग्या महाशनाः । कामिनो वित्तहीनाश्च स्वैरिण्यश्च स्त्रियोऽसतीः ॥ ३१ ॥
yasmāt kṣudradṛśo martyāḥ kṣudrabhāgyā mahāśanāḥ . kāmino vittahīnāśca svairiṇyaśca striyo'satīḥ .. 31 ..
दस्यूत्कृष्टा जनपदा वेदाः पाषण्डदूषिताः । राजानश्च प्रजाभक्षाः शिश्नोदरपरा द्विजाः ॥ ३२ ॥
dasyūtkṛṣṭā janapadā vedāḥ pāṣaṇḍadūṣitāḥ . rājānaśca prajābhakṣāḥ śiśnodaraparā dvijāḥ .. 32 ..
अव्रता वटवोऽशौचा भिक्षवश्च कुटुम्बिनः । तपस्विनो ग्रामवासा न्यासिनोऽत्यर्थलोलुपाः ॥ ३३ ॥
avratā vaṭavo'śaucā bhikṣavaśca kuṭumbinaḥ . tapasvino grāmavāsā nyāsino'tyarthalolupāḥ .. 33 ..
ह्रस्वकाया महाहारा भूर्यपत्या गतह्रियः । शश्वत्कटुकभाषिण्यः चौर्यमायोरुसाहसाः ॥ ३४ ॥
hrasvakāyā mahāhārā bhūryapatyā gatahriyaḥ . śaśvatkaṭukabhāṣiṇyaḥ cauryamāyorusāhasāḥ .. 34 ..
पणयिष्यन्ति वै क्षुद्राः किराटाः कूटकारिणः । अनापद्यपि मंस्यन्ते वार्तां साधु जुगुप्सिताम् ॥ ३५ ॥
paṇayiṣyanti vai kṣudrāḥ kirāṭāḥ kūṭakāriṇaḥ . anāpadyapi maṃsyante vārtāṃ sādhu jugupsitām .. 35 ..
पतिं त्यक्ष्यन्ति निर्द्रव्यं भृत्याप्यखिलोत्तमम् । भृत्यं विपन्नं पतयः कौलं गाश्चापयस्विनीः ॥ ३६ ॥
patiṃ tyakṣyanti nirdravyaṃ bhṛtyāpyakhilottamam . bhṛtyaṃ vipannaṃ patayaḥ kaulaṃ gāścāpayasvinīḥ .. 36 ..
पितृभ्रातृसुहृत्ज्ञातीन् हित्वा सौरतसौहृदाः । ननान्दृश्यालसंवादा दीनाः स्त्रैणाः कलौ नराः ॥ ३७ ॥
pitṛbhrātṛsuhṛtjñātīn hitvā sauratasauhṛdāḥ . nanāndṛśyālasaṃvādā dīnāḥ straiṇāḥ kalau narāḥ .. 37 ..
शूद्राः प्रतिग्रहीष्यन्ति तपोवेषोपजीविनः । धर्मं वक्ष्यन्त्यधर्मज्ञा अधिरुह्योत्तमासनम् ॥ ३८ ॥
śūdrāḥ pratigrahīṣyanti tapoveṣopajīvinaḥ . dharmaṃ vakṣyantyadharmajñā adhiruhyottamāsanam .. 38 ..
नित्यमुद्विग्नमनसो दुर्भिक्षकरकर्शिताः । निरन्ने भूतले राजन् अनावृष्टिभयातुराः ॥ ३९ ॥
nityamudvignamanaso durbhikṣakarakarśitāḥ . niranne bhūtale rājan anāvṛṣṭibhayāturāḥ .. 39 ..
वासोऽन्नपानशयनव्यवायस्नानभूषणैः । हीनाः पिशाचसन्दर्शा भविष्यन्ति कलौ प्रजाः ॥ ४० ॥
vāso'nnapānaśayanavyavāyasnānabhūṣaṇaiḥ . hīnāḥ piśācasandarśā bhaviṣyanti kalau prajāḥ .. 40 ..
कलौ काकिणिकेऽप्यर्थे विगृह्य त्यक्तसौहृदाः । त्यक्ष्यन्ति च प्रियान्प्राणान् हनिष्यन्ति स्वकानपि ॥ ४१ ॥
kalau kākiṇike'pyarthe vigṛhya tyaktasauhṛdāḥ . tyakṣyanti ca priyānprāṇān haniṣyanti svakānapi .. 41 ..
न रक्षिष्यन्ति मनुजाः स्थविरौ पितरौ अपि । पुत्रान् सर्वार्थकुशलान् क्षुद्राः शिश्नोदरम्भराः ॥ ४२ ॥
na rakṣiṣyanti manujāḥ sthavirau pitarau api . putrān sarvārthakuśalān kṣudrāḥ śiśnodarambharāḥ .. 42 ..
(मिश्र-१२)
कलौ न राजन् जगतां परं गुरुं त्रिलोकनाथानतपादपङ्कजम् । प्रायेण मर्त्या भगवन्तमच्युतं यक्ष्यन्ति पाषण्डविभिन्नचेतसः ॥ ४३ ॥
kalau na rājan jagatāṃ paraṃ guruṃ trilokanāthānatapādapaṅkajam . prāyeṇa martyā bhagavantamacyutaṃ yakṣyanti pāṣaṇḍavibhinnacetasaḥ .. 43 ..
यन्नामधेयं म्रियमाण आतुरः पतन् स्खलन् वा विवशो गृणन् पुमान् । विमुक्तकर्मार्गल उत्तमां गतिं प्राप्नोति यक्ष्यन्ति न तं कलौ जनाः ॥ ४४ ॥
yannāmadheyaṃ mriyamāṇa āturaḥ patan skhalan vā vivaśo gṛṇan pumān . vimuktakarmārgala uttamāṃ gatiṃ prāpnoti yakṣyanti na taṃ kalau janāḥ .. 44 ..
(अनुष्टुप्)
पुंसां कलिकृतान् दोषान् द्रव्यदेशात्मसंभवान् । सर्वान् हरति चित्तस्थो भगवान् पुरुषोत्तमः ॥ ४५ ॥
puṃsāṃ kalikṛtān doṣān dravyadeśātmasaṃbhavān . sarvān harati cittastho bhagavān puruṣottamaḥ .. 45 ..
श्रुतः सङ्कीर्तितो ध्यातः पूजितश्चादृतोऽपि वा । नृणां धुनोति भगवान् हृत्स्थो जन्मायुताशुभम् ॥ ४६ ॥
śrutaḥ saṅkīrtito dhyātaḥ pūjitaścādṛto'pi vā . nṛṇāṃ dhunoti bhagavān hṛtstho janmāyutāśubham .. 46 ..
यथा हेम्नि स्थितो वह्निः दुर्वर्णं हन्ति धातुजम् । एवं आत्मगतो विष्णुः योगिनां अशुभाशयम् ॥ ४७ ॥
yathā hemni sthito vahniḥ durvarṇaṃ hanti dhātujam . evaṃ ātmagato viṣṇuḥ yogināṃ aśubhāśayam .. 47 ..
(इंद्रवज्रा)
विद्यातपःप्राणनिरोधमैत्री तीर्थाभिषेकव्रतदानजप्यैः । नात्यन्तशुद्धिं लभतेऽन्तरात्मा यथा हृदिस्थे भगवत्यनन्ते ॥ ४८ ॥
vidyātapaḥprāṇanirodhamaitrī tīrthābhiṣekavratadānajapyaiḥ . nātyantaśuddhiṃ labhate'ntarātmā yathā hṛdisthe bhagavatyanante .. 48 ..
(अनुष्टुप्)
तस्मात् सर्वात्मना राजन् हृदिस्थं कुरु केशवम् । म्रियमाणो ह्यवहितः ततो यासि परां गतिम् ॥ ४९ ॥
tasmāt sarvātmanā rājan hṛdisthaṃ kuru keśavam . mriyamāṇo hyavahitaḥ tato yāsi parāṃ gatim .. 49 ..
म्रियमाणैरभिध्येयो भगवान् परमेश्वरः । आत्मभावं नयत्यङ्ग सर्वात्मा सर्वसंश्रयः ॥ ५० ॥
mriyamāṇairabhidhyeyo bhagavān parameśvaraḥ . ātmabhāvaṃ nayatyaṅga sarvātmā sarvasaṃśrayaḥ .. 50 ..
कलेर्दोषनिधे राजन् अस्ति ह्येको महान् गुणः । कीर्तनात् एव कृष्णस्य मुक्तसङ्गः परं व्रजेत् ॥ ५१ ॥
kalerdoṣanidhe rājan asti hyeko mahān guṇaḥ . kīrtanāt eva kṛṣṇasya muktasaṅgaḥ paraṃ vrajet .. 51 ..
कृते यद् ध्यायतो विष्णुं त्रेतायां यजतो मखैः । द्वापरे परिचर्यायां कलौ तद् हरिकीर्तनात् ॥ ५२ ॥
kṛte yad dhyāyato viṣṇuṃ tretāyāṃ yajato makhaiḥ . dvāpare paricaryāyāṃ kalau tad harikīrtanāt .. 52 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वादशस्कन्धे तृतीयोऽध्यायः ॥ २ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ dvādaśaskandhe tṛtīyo'dhyāyaḥ .. 2 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ oṃ tatsat śrīkṛṣṇārpaṇamastu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In