| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच – (अनुष्टुप्)
कालस्ते परमाण्वादिः द्विपरार्धावधिर्नृप । कथितो युगमानं च श्रृणु कल्पलयावपि ॥ १ ॥
कालः ते परमाणु-आदिः द्वि-परार्ध-अवधिः नृप । कथितः युग-मानम् च श्रृणु कल्प-लयौ अपि ॥ १ ॥
kālaḥ te paramāṇu-ādiḥ dvi-parārdha-avadhiḥ nṛpa . kathitaḥ yuga-mānam ca śrṛṇu kalpa-layau api .. 1 ..
चतुर्युगसहस्रं तु ब्रह्मणो दिनमुच्यते । स कल्पो यत्र मनवः चतुर्दश विशांपते ॥ २ ॥
चतुर्-युग-सहस्रम् तु ब्रह्मणः दिनम् उच्यते । स कल्पः यत्र मनवः चतुर्दश विशांपते पते ॥ २ ॥
catur-yuga-sahasram tu brahmaṇaḥ dinam ucyate . sa kalpaḥ yatra manavaḥ caturdaśa viśāṃpate pate .. 2 ..
तदन्ते प्रलयस्तावान् ब्राह्मी रात्रिरुदाहृता । त्रयो लोका इमे तत्र कल्पन्ते प्रलयाय हि ॥ ॥
तद्-अन्ते प्रलयः तावान् ब्राह्मी रात्रिः उदाहृता । त्रयः लोकाः इमे तत्र कल्पन्ते प्रलयाय हि ॥ ॥
tad-ante pralayaḥ tāvān brāhmī rātriḥ udāhṛtā . trayaḥ lokāḥ ime tatra kalpante pralayāya hi .. ..
एष नैमित्तिकः प्रोक्तः प्रलयो यत्र विश्वसृक् । शेतेऽनन्तासनो विश्वं आत्मसात् कृत्य चात्मभूः ॥ ४ ॥
एष नैमित्तिकः प्रोक्तः प्रलयः यत्र विश्वसृज् । शेते अनन्त-आसनः विश्वम् आत्मसात् कृत्य च आत्मभूः ॥ ४ ॥
eṣa naimittikaḥ proktaḥ pralayaḥ yatra viśvasṛj . śete ananta-āsanaḥ viśvam ātmasāt kṛtya ca ātmabhūḥ .. 4 ..
द्विपरार्धे त्वतिक्रान्ते ब्रह्मणः परमेष्ठिनः । तदा प्रकृतयः सप्त कल्पन्ते प्रलयाय वै ॥ ५ ॥
द्वि-पर-अर्धे तु अतिक्रान्ते ब्रह्मणः परमेष्ठिनः । तदा प्रकृतयः सप्त कल्पन्ते प्रलयाय वै ॥ ५ ॥
dvi-para-ardhe tu atikrānte brahmaṇaḥ parameṣṭhinaḥ . tadā prakṛtayaḥ sapta kalpante pralayāya vai .. 5 ..
एष प्राकृतिको राजन् प्रलयो यत्र लीयते । अण्डकोषस्तु सङ्घातो विघाट उपसादिते ॥ ६ ॥
एष प्राकृतिकः राजन् प्रलयः यत्र लीयते । अण्डकोषः तु सङ्घातः विघाटः उपसादिते ॥ ६ ॥
eṣa prākṛtikaḥ rājan pralayaḥ yatra līyate . aṇḍakoṣaḥ tu saṅghātaḥ vighāṭaḥ upasādite .. 6 ..
पर्जन्यः शतवर्षाणि भूमौ राजन्न वर्षति । तदा निरन्ने ह्यन्योन्यं भक्ष्यमाणाः क्षुधार्दिताः ॥ ७ ॥
पर्जन्यः शत-वर्षाणि भूमौ राजन् न वर्षति । तदा निरन्ने हि अन्योन्यम् भक्ष्यमाणाः क्षुधा-अर्दिताः ॥ ७ ॥
parjanyaḥ śata-varṣāṇi bhūmau rājan na varṣati . tadā niranne hi anyonyam bhakṣyamāṇāḥ kṣudhā-arditāḥ .. 7 ..
क्षयं यास्यन्ति शनकैः कालेनोपद्रुताः प्रजाः । सामुद्रं दैहिकं भौमं रसं सांवर्तको रविः ॥ ८ ॥
क्षयम् यास्यन्ति शनकैस् कालेन उपद्रुताः प्रजाः । सामुद्रम् दैहिकम् भौमम् रसम् सांवर्तकः रविः ॥ ८ ॥
kṣayam yāsyanti śanakais kālena upadrutāḥ prajāḥ . sāmudram daihikam bhaumam rasam sāṃvartakaḥ raviḥ .. 8 ..
रश्मिभिः पिबते घोरैः सर्वं नैव विमुञ्चति ततः संवर्तको वह्निः सङ्कर्षणमुखोत्थितः ॥ ९ ॥
रश्मिभिः पिबते घोरैः सर्वम् न एव विमुञ्चति ततस् संवर्तकः वह्निः सङ्कर्षण-मुख-उत्थितः ॥ ९ ॥
raśmibhiḥ pibate ghoraiḥ sarvam na eva vimuñcati tatas saṃvartakaḥ vahniḥ saṅkarṣaṇa-mukha-utthitaḥ .. 9 ..
दहत्यनिलवेगोत्थः शून्यान् भूविवरानथ । उपर्यधः समन्ताच्च शिखाभिर्वह्निसूर्ययोः ॥ १० ॥
दहति अनिल-वेग-उत्थः शून्यान् भू-विवरान् अथ । उपरि अधस् समन्तात् च शिखाभिः वह्नि-सूर्ययोः ॥ १० ॥
dahati anila-vega-utthaḥ śūnyān bhū-vivarān atha . upari adhas samantāt ca śikhābhiḥ vahni-sūryayoḥ .. 10 ..
दह्यमानं विभात्यण्डं दग्धगोमयपिण्डवत् । ततः प्रचण्डपवनो वर्षाणामधिकं शतम् ॥ ११ ॥
दह्यमानम् विभाति अण्डम् दग्ध-गोमय-पिण्ड-वत् । ततस् प्रचण्ड-पवनः वर्षाणाम् अधिकम् शतम् ॥ ११ ॥
dahyamānam vibhāti aṇḍam dagdha-gomaya-piṇḍa-vat . tatas pracaṇḍa-pavanaḥ varṣāṇām adhikam śatam .. 11 ..
परः सांवर्तको वाति धूम्रं खं रजसाऽऽवृतम् । ततो मेघकुलान्यङ्ग चित्र वर्णान्यनेकशः ॥ १२ ॥
परः सांवर्तकः वाति धूम्रम् खम् रजसा आवृतम् । ततस् मेघ-कुलानि अङ्ग चित्र वर्णानि अनेकशस् ॥ १२ ॥
paraḥ sāṃvartakaḥ vāti dhūmram kham rajasā āvṛtam . tatas megha-kulāni aṅga citra varṇāni anekaśas .. 12 ..
शतं वर्षाणि वर्षन्ति नदन्ति रभसस्वनैः । तत एकोदकं विश्वं ब्रह्माण्डविवरान्तरम् ॥ १३ ॥
शतम् वर्षाणि वर्षन्ति नदन्ति रभस-स्वनैः । ततस् एकोदकम् विश्वम् ब्रह्माण्ड-विवर-अन्तरम् ॥ १३ ॥
śatam varṣāṇi varṣanti nadanti rabhasa-svanaiḥ . tatas ekodakam viśvam brahmāṇḍa-vivara-antaram .. 13 ..
तदा भूमेर्गन्धगुणं ग्रसन्त्याप उदप्लवे । ग्रस्तगन्धा तु पृथिवी प्रलयत्वाय कल्पते ॥ १४ ॥
तदा भूमेः गन्ध-गुणम् ग्रसन्ति आपः उदप्लवे । ग्रस्त-गन्धा तु पृथिवी प्रलय-त्वाय कल्पते ॥ १४ ॥
tadā bhūmeḥ gandha-guṇam grasanti āpaḥ udaplave . grasta-gandhā tu pṛthivī pralaya-tvāya kalpate .. 14 ..
अपां रसमथो तेजः ता लीयन्तेऽथ नीरसाः । ग्रसते तेजसो रूपं वायुस्तद्रहितं तदा ॥ १५ ॥
अपाम् रसम् अथो तेजः ताः लीयन्ते अथ नीरसाः । ग्रसते तेजसः रूपम् वायुः तद्-रहितम् तदा ॥ १५ ॥
apām rasam atho tejaḥ tāḥ līyante atha nīrasāḥ . grasate tejasaḥ rūpam vāyuḥ tad-rahitam tadā .. 15 ..
लीयते चानिले तेजो वायोः खं ग्रसते गुणम् । स वै विशति खं राजन् ततश्च नभसो गुणम् ॥ १६ ॥
लीयते च अनिले तेजः वायोः खम् ग्रसते गुणम् । स वै विशति खम् राजन् ततस् च नभसः गुणम् ॥ १६ ॥
līyate ca anile tejaḥ vāyoḥ kham grasate guṇam . sa vai viśati kham rājan tatas ca nabhasaḥ guṇam .. 16 ..
शब्दं ग्रसति भूतादिः नभस्तमनु लीयते । तैजसश्चेन्द्रियाण्यङ्ग देवान्वैकारिको गुणैः ॥ १७ ॥
शब्दम् ग्रसति भूतादिः नभः तम् अनु लीयते । तैजसः च इन्द्रियाणि अङ्ग देवान् वैकारिकः गुणैः ॥ १७ ॥
śabdam grasati bhūtādiḥ nabhaḥ tam anu līyate . taijasaḥ ca indriyāṇi aṅga devān vaikārikaḥ guṇaiḥ .. 17 ..
महान् ग्रसत्यहङ्कारं गुणाः सत्त्वादयश्च तम् । ग्रसतेऽव्याकृतं राजन् गुणान् कालेन चोदितम् ॥ १८ ॥
महान् ग्रसति अहङ्कारम् गुणाः सत्त्व-आदयः च तम् । ग्रसते अव्याकृतम् राजन् गुणान् कालेन चोदितम् ॥ १८ ॥
mahān grasati ahaṅkāram guṇāḥ sattva-ādayaḥ ca tam . grasate avyākṛtam rājan guṇān kālena coditam .. 18 ..
न तस्य कालावयवैः परिणामादयो गुणाः । अनाद्यनन्तमव्यक्तं नित्यं कारणमव्ययम् ॥ १९ ॥
न तस्य काल-अवयवैः परिणाम-आदयः गुणाः । अनादि-अनन्तम् अव्यक्तम् नित्यम् कारणम् अव्ययम् ॥ १९ ॥
na tasya kāla-avayavaiḥ pariṇāma-ādayaḥ guṇāḥ . anādi-anantam avyaktam nityam kāraṇam avyayam .. 19 ..
(मिश्र-११)
न यत्र वाचो न मनो न सत्त्वं तमो रजो वा महदादयोऽमी । न प्राणबुद्धीन्द्रियदेवता वा न सन्निवेशः खलु लोककल्पः ॥ २० ॥
न यत्र वाचः न मनः न सत्त्वम् तमः रजः वा महत्-आदयः अमी । न प्राण-बुद्धीन्द्रिय-देवताः वा न सन्निवेशः खलु लोक-कल्पः ॥ २० ॥
na yatra vācaḥ na manaḥ na sattvam tamaḥ rajaḥ vā mahat-ādayaḥ amī . na prāṇa-buddhīndriya-devatāḥ vā na sanniveśaḥ khalu loka-kalpaḥ .. 20 ..
न स्वप्नजाग्रन्न च तत्सुषुप्तं न खं जलं भूरनिलोऽग्निरर्कः । संसुप्तवत् शून्यवदप्रतर्क्यं तन्मूलभूतं पदमामनन्ति ॥ २१ ॥
न स्वप्न-जाग्रत् न च तत् सुषुप्तम् न खम् जलम् भूः अनिलः अग्निः अर्कः । संसुप्त-वत् शून्य-वत् अप्रतर्क्यम् तद्-मूल-भूतम् पदम् आमनन्ति ॥ २१ ॥
na svapna-jāgrat na ca tat suṣuptam na kham jalam bhūḥ anilaḥ agniḥ arkaḥ . saṃsupta-vat śūnya-vat apratarkyam tad-mūla-bhūtam padam āmananti .. 21 ..
(अनुष्टुप्)
लयः प्राकृतिको ह्येष पुरुषाव्यक्तयोर्यदा । शक्तयः सम्प्रलीयन्ते विवशाः कालविद्रुताः ॥ २२ ॥
लयः प्राकृतिकः हि एष पुरुष-अव्यक्तयोः यदा । शक्तयः सम्प्रलीयन्ते विवशाः काल-विद्रुताः ॥ २२ ॥
layaḥ prākṛtikaḥ hi eṣa puruṣa-avyaktayoḥ yadā . śaktayaḥ sampralīyante vivaśāḥ kāla-vidrutāḥ .. 22 ..
बुद्धीन्द्रियार्थरूपेण ज्ञानं भाति तदाश्रयम् । दृश्यत्वाव्यतिरेकाभ्यां आद्यन्तवदवस्तु यत् ॥ २३ ॥
बुद्धीन्द्रिय-अर्थ-रूपेण ज्ञानम् भाति तद्-आश्रयम् । दृश्य-त्व-अव्यतिरेकाभ्याम् आदि-अन्तवत् अवस्तु यत् ॥ २३ ॥
buddhīndriya-artha-rūpeṇa jñānam bhāti tad-āśrayam . dṛśya-tva-avyatirekābhyām ādi-antavat avastu yat .. 23 ..
दीपश्चक्षुश्च रूपं च ज्योतिषो न पृथग्भवेत् । एवं धीः खानि मात्राश्च न स्युरन्यतमादृतात् ॥ २४ ॥
दीपः चक्षुः च रूपम् च ज्योतिषः न पृथक् भवेत् । एवम् धीः खानि मात्राः च न स्युः अन्यतमात् ऋतात् ॥ २४ ॥
dīpaḥ cakṣuḥ ca rūpam ca jyotiṣaḥ na pṛthak bhavet . evam dhīḥ khāni mātrāḥ ca na syuḥ anyatamāt ṛtāt .. 24 ..
बुद्धेर्जागरणं स्वप्नः सुषुप्तिरिति चोच्यते । मायामात्रमिदं राजन् नानात्वं प्रत्यगात्मनि ॥ २५ ॥
बुद्धेः जागरणम् स्वप्नः सुषुप्तिः इति च उच्यते । माया-मात्रम् इदम् राजन् नानात्वम् प्रत्यगात्मनि ॥ २५ ॥
buddheḥ jāgaraṇam svapnaḥ suṣuptiḥ iti ca ucyate . māyā-mātram idam rājan nānātvam pratyagātmani .. 25 ..
यथा जलधरा व्योम्नि भवन्ति न भवन्ति च । ब्रह्मणीदं तथा विश्वमवयव्युदयाप्ययात् ॥ २६ ॥
यथा जलधराः व्योम्नि भवन्ति न भवन्ति च । ब्रह्मणि इदम् तथा विश्वम् अवयवि-उदय-अप्ययात् ॥ २६ ॥
yathā jaladharāḥ vyomni bhavanti na bhavanti ca . brahmaṇi idam tathā viśvam avayavi-udaya-apyayāt .. 26 ..
सत्यं ह्यवयवः प्रोक्तः सर्वावयविनामिह । विनार्थेन प्रतीयेरन् पटस्येवाङ्ग तन्तवः ॥ २७ ॥
सत्यम् हि अवयवः प्रोक्तः सर्व-अवयविनाम् इह । विना अर्थेन प्रतीयेरन् पटस्य इव अङ्ग तन्तवः ॥ २७ ॥
satyam hi avayavaḥ proktaḥ sarva-avayavinām iha . vinā arthena pratīyeran paṭasya iva aṅga tantavaḥ .. 27 ..
यत्सामान्यविशेषाभ्यां उपलभ्येत स भ्रमः । अन्योन्यापाश्रयात् सर्वमाद्यन्तवदवस्तु यत् ॥ २८ ॥
यत् सामान्य-विशेषाभ्याम् उपलभ्येत स भ्रमः । अन्योन्य-अपाश्रयात् सर्वम् आदि-अन्तवत् अवस्तु यत् ॥ २८ ॥
yat sāmānya-viśeṣābhyām upalabhyeta sa bhramaḥ . anyonya-apāśrayāt sarvam ādi-antavat avastu yat .. 28 ..
विकारः ख्यायमानोऽपि प्रत्यगात्मानमन्तरा । न निरूप्योऽस्त्यणुरपि स्याच्चेच्चित्सम आत्मवत् ॥ २९ ॥
विकारः ख्यायमानः अपि प्रत्यगात्मानम् अन्तरा । न निरूप्यः अस्ति अणुः अपि स्यात् चेद् चित्-समः आत्म-वत् ॥ २९ ॥
vikāraḥ khyāyamānaḥ api pratyagātmānam antarā . na nirūpyaḥ asti aṇuḥ api syāt ced cit-samaḥ ātma-vat .. 29 ..
न हि सत्यस्य नानात्वमविद्वान्यदि मन्यते । नानात्वं छिद्रयोर्यद्वत् ज्योतिषोर्वातयोरिव ॥ ३० ॥
न हि सत्यस्य नानात्वम् अविद्वान् यदि मन्यते । नानात्वम् छिद्रयोः यद्वत् ज्योतिषोः वातयोः इव ॥ ३० ॥
na hi satyasya nānātvam avidvān yadi manyate . nānātvam chidrayoḥ yadvat jyotiṣoḥ vātayoḥ iva .. 30 ..
(मिश्र-१२)
यथा हिरण्यं बहुधा समीयते नृभिः क्रियाभिर्व्यवहारवर्त्मसु । एवं वचोभिर्भगवानधोक्षजो व्याख्यायते लौकिकवैदिकैर्जनैः ॥ ३१ ॥
यथा हिरण्यम् बहुधा समीयते नृभिः क्रियाभिः व्यवहार-वर्त्मसु । एवम् वचोभिः भगवान् अधोक्षजः व्याख्यायते लौकिक-वैदिकैः जनैः ॥ ३१ ॥
yathā hiraṇyam bahudhā samīyate nṛbhiḥ kriyābhiḥ vyavahāra-vartmasu . evam vacobhiḥ bhagavān adhokṣajaḥ vyākhyāyate laukika-vaidikaiḥ janaiḥ .. 31 ..
यथा घनोऽर्कप्रभवोऽर्कदर्शितो ह्यर्कांशभूतस्य च चक्षुषस्तमः । एवं त्वहं ब्रह्मगुणस्तदीक्षितो ब्रह्मांशकस्यात्मन आत्मबन्धनः ॥ ३२ ॥
यथा घनः अर्क-प्रभवः अर्क-दर्शितः हि अर्क-अंश-भूतस्य च चक्षुषः तमः । एवम् तु अहम् ब्रह्म-गुणः तद्-ईक्षितः ब्रह्म-अंशकस्य आत्मनः आत्म-बन्धनः ॥ ३२ ॥
yathā ghanaḥ arka-prabhavaḥ arka-darśitaḥ hi arka-aṃśa-bhūtasya ca cakṣuṣaḥ tamaḥ . evam tu aham brahma-guṇaḥ tad-īkṣitaḥ brahma-aṃśakasya ātmanaḥ ātma-bandhanaḥ .. 32 ..
घनो यदार्कप्रभवो विदीर्यते चक्षुः स्वरूपं रविमीक्षते तदा । यदा ह्यहङ्कार उपाधिरात्मनो जिज्ञासया नश्यति तर्ह्यनुस्मरेत् ॥ ३३ ॥
घनः यदा अर्क-प्रभवः विदीर्यते चक्षुः स्व-रूपम् रविम् ईक्षते तदा । यदा हि अहङ्कारः उपाधिः आत्मनः जिज्ञासया नश्यति तर्हि अनुस्मरेत् ॥ ३३ ॥
ghanaḥ yadā arka-prabhavaḥ vidīryate cakṣuḥ sva-rūpam ravim īkṣate tadā . yadā hi ahaṅkāraḥ upādhiḥ ātmanaḥ jijñāsayā naśyati tarhi anusmaret .. 33 ..
यदैवमेतेन विवेकहेतिना मायामयाहङ्करणात्मबन्धनम् । छित्त्वाच्युतात्मानुभवोऽवतिष्ठते तमाहुरात्यन्तिकमङ्ग सम्प्लवम् ॥ ३४ ॥
यदा एवम् एतेन विवेक-हेतिना माया-मय-अहङ्करण-आत्म-बन्धनम् । छित्त्वा अच्युत-आत्म-अनुभवः अवतिष्ठते तम् आहुः आत्यन्तिकम् अङ्ग सम्प्लवम् ॥ ३४ ॥
yadā evam etena viveka-hetinā māyā-maya-ahaṅkaraṇa-ātma-bandhanam . chittvā acyuta-ātma-anubhavaḥ avatiṣṭhate tam āhuḥ ātyantikam aṅga samplavam .. 34 ..
(अनुष्टुप्)
नित्यदा सर्वभूतानां ब्रह्मादीनां परन्तप । उत्पत्तिप्रलयौ एके सूक्ष्मज्ञाः सम्प्रचक्षते ॥ ३५ ॥
नित्यदा सर्व-भूतानाम् ब्रह्म-आदीनाम् परन्तप । उत्पत्ति-प्रलयौ एके सूक्ष्म-ज्ञाः सम्प्रचक्षते ॥ ३५ ॥
nityadā sarva-bhūtānām brahma-ādīnām parantapa . utpatti-pralayau eke sūkṣma-jñāḥ sampracakṣate .. 35 ..
कालस्रोतोजवेनाशु ह्रियमाणस्य नित्यदा । परिणामिनामवस्थास्ता जन्मप्रलयहेतवः ॥ ३६ ॥
काल-स्रोतः-जवेन आशु ह्रियमाणस्य नित्यदा । परिणामिनाम् अवस्थाः ताः जन्म-प्रलय-हेतवः ॥ ३६ ॥
kāla-srotaḥ-javena āśu hriyamāṇasya nityadā . pariṇāminām avasthāḥ tāḥ janma-pralaya-hetavaḥ .. 36 ..
अनाद्यन्तवतानेन कालेनेश्वरमूर्तिना । अवस्था नैव दृश्यन्ते वियति ज्योतिषामिव ॥ ३७ ॥
अनादि-अन्तवता अनेन कालेन ईश्वर-मूर्तिना । अवस्थाः ना एव दृश्यन्ते वियति ज्योतिषाम् इव ॥ ३७ ॥
anādi-antavatā anena kālena īśvara-mūrtinā . avasthāḥ nā eva dṛśyante viyati jyotiṣām iva .. 37 ..
नित्यो नैमित्तिकश्चैव तथा प्राकृतिको लयः । आत्यन्तिकश्च कथितः कालस्य गतिरीदृशी ॥ ३८ ॥
नित्यः नैमित्तिकः च एव तथा प्राकृतिकः लयः । आत्यन्तिकः च कथितः कालस्य गतिः ईदृशी ॥ ३८ ॥
nityaḥ naimittikaḥ ca eva tathā prākṛtikaḥ layaḥ . ātyantikaḥ ca kathitaḥ kālasya gatiḥ īdṛśī .. 38 ..
(मिश्र-११)
एताः कुरुश्रेष्ठ जगद्विधातुः नारायणस्याखिलसत्त्वधाम्नः । लीलाकथास्ते कथिताः समासतः कार्त्स्न्येन नाजोऽप्यभिधातुमीशः ॥ ३९ ॥
एताः कुरुश्रेष्ठ जगत्-विधातुः नारायणस्य अखिल-सत्त्व-धाम्नः । लीला-कथाः ते कथिताः समासतस् कार्त्स्न्येन न अजः अपि अभिधातुम् ईशः ॥ ३९ ॥
etāḥ kuruśreṣṭha jagat-vidhātuḥ nārāyaṇasya akhila-sattva-dhāmnaḥ . līlā-kathāḥ te kathitāḥ samāsatas kārtsnyena na ajaḥ api abhidhātum īśaḥ .. 39 ..
(वसंततिलका)
संसारसिन्धुमतिदुस्तरमुत्तितीर्षोः नान्यः प्लवो भगवतः पुरुषोत्तमस्य । लीलाकथारसनिषेवणमन्तरेण पुंसो भवेद्विविधदुःखदवार्दितस्य ॥ ४० ॥
संसार-सिन्धुम् अति दुस्तरम् उत्तितीर्षोः न अन्यः प्लवः भगवतः पुरुषोत्तमस्य । लीला-कथा-रस-निषेवणम् अन्तरेण पुंसः भवेत् विविध-दुःख-दव-अर्दितस्य ॥ ४० ॥
saṃsāra-sindhum ati dustaram uttitīrṣoḥ na anyaḥ plavaḥ bhagavataḥ puruṣottamasya . līlā-kathā-rasa-niṣevaṇam antareṇa puṃsaḥ bhavet vividha-duḥkha-dava-arditasya .. 40 ..
(अनुष्टुप्)
पुराणसंहितामेताम् ऋषिर्नारायणोऽव्ययः । नारदाय पुरा प्राह कृष्णद्वैपायनाय सः ॥ ४१ ॥
पुराण-संहिताम् एताम् ऋषिः नारायणः अव्ययः । नारदाय पुरा प्राह कृष्णद्वैपायनाय सः ॥ ४१ ॥
purāṇa-saṃhitām etām ṛṣiḥ nārāyaṇaḥ avyayaḥ . nāradāya purā prāha kṛṣṇadvaipāyanāya saḥ .. 41 ..
स वै मह्यं महाराज भगवान् बादरायणः । इमां भागवतीं प्रीतः संहितां वेदसम्मिताम् ॥ ४२ ॥
स वै मह्यम् महा-राज भगवान् बादरायणः । इमाम् भागवतीम् प्रीतः संहिताम् वेद-सम्मिताम् ॥ ४२ ॥
sa vai mahyam mahā-rāja bhagavān bādarāyaṇaḥ . imām bhāgavatīm prītaḥ saṃhitām veda-sammitām .. 42 ..
इमां वक्ष्यत्यसौ सूत ऋषिभ्यो नैमिषालये । दीर्घसत्रे कुरुश्रेष्ठ सम्पृष्टः शौनकादिभिः ॥ ४३ ॥
इमाम् वक्ष्यति असौ सूतः ऋषिभ्यः नैमिष-आलये । दीर्घ-सत्रे कुरुश्रेष्ठ सम्पृष्टः शौनक-आदिभिः ॥ ४३ ॥
imām vakṣyati asau sūtaḥ ṛṣibhyaḥ naimiṣa-ālaye . dīrgha-satre kuruśreṣṭha sampṛṣṭaḥ śaunaka-ādibhiḥ .. 43 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वादशस्कन्धे चतुर्थोऽध्यायः ॥ ४ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् द्वादश-स्कन्धे चतुर्थः अध्यायः ॥ ४ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām dvādaśa-skandhe caturthaḥ adhyāyaḥ .. 4 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In