| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच – (अनुष्टुप्)
अत्रानुवर्ण्यतेऽभीक्ष्णं विश्वात्मा भगवान् हरिः । यस्य प्रसादजो ब्रह्मा रुद्रः क्रोधसमुद्भवः ॥ १ ॥
अत्र अनुवर्ण्यते अभीक्ष्णम् विश्वात्मा भगवान् हरिः । यस्य प्रसाद-जः ब्रह्मा रुद्रः क्रोध-समुद्भवः ॥ १ ॥
atra anuvarṇyate abhīkṣṇam viśvātmā bhagavān hariḥ . yasya prasāda-jaḥ brahmā rudraḥ krodha-samudbhavaḥ .. 1 ..
त्वं तु राजन् मरिष्येति पशुबुद्धिमिमां जहि । न जातः प्रागभूतोऽद्य देहवत्त्वं न नङ्क्ष्यसि ॥ २ ॥
त्वम् तु राजन् मरिष्य इति पशु-बुद्धिम् इमाम् जहि । न जातः प्राक् अभूतः अद्य देहवत् त्वम् न नङ्क्ष्यसि ॥ २ ॥
tvam tu rājan mariṣya iti paśu-buddhim imām jahi . na jātaḥ prāk abhūtaḥ adya dehavat tvam na naṅkṣyasi .. 2 ..
न भविष्यसि भूत्वा त्वं पुत्रपौत्रादिरूपवान् । बीजाङ्कुरवद् देहादेः व्यतिरिक्तो यथानलः ॥ ३ ॥
न भविष्यसि भूत्वा त्वम् पुत्र-पौत्र-आदि-रूपवान् । बीज-अङ्कुर-वत् देह-आदेः व्यतिरिक्तः यथा अनलः ॥ ३ ॥
na bhaviṣyasi bhūtvā tvam putra-pautra-ādi-rūpavān . bīja-aṅkura-vat deha-ādeḥ vyatiriktaḥ yathā analaḥ .. 3 ..
ChatCompletion(id='chatcmpl-9RO4xQGFHJoidLBjZ1Jjn1yYwpQpk', choices=[Choice(finish_reason='stop', index=0, logprobs=None, message=ChatCompletionMessage(content='Sure! Here is the word by word meaning and the complete meaning of the provided shloka:\n\nWord by word meaning:\n- न - not\n- भविष्यसि - you will be\n- भूत्वा - having become\n- त्वं - you\n- पुत्रपौत्रादिरूपवान् - e endowed with sons and grandsons, etc.\n- बीजाङ्\u200cकुरवत् - like a seed\n- देहादेः - from the body, etc.\n- व्यतिरिक्तः - distinct\n- यथा - like\n- अनलः - fire\n\nComplete Meaning:\nO Huma an, you will not exist having become endowed with sons, grandsons, etc., just like a seed distinct from the body, etc., is separate like fire.', role='assistant', function_call=None, tool_calls=None))], created=1716314443, model='gpt-3.5-turbo-0125', object='chat.completion', system_fingerprint=None, usage=CompletionUsage(completion_tokens=212, prompt_tokens=151, total_tokens=363))
स्वप्ने यथा शिरश्छेदं पञ्चत्वाद्यात्मनः स्वयम् । यस्मात्पश्यति देहस्य तत आत्मा ह्यजोऽमरः ॥ ४ ॥
स्वप्ने यथा शिरः-छेदम् पञ्चत्व-आदि-आत्मनः स्वयम् । यस्मात् पश्यति देहस्य ततस् आत्मा हि अजः अमरः ॥ ४ ॥
svapne yathā śiraḥ-chedam pañcatva-ādi-ātmanaḥ svayam . yasmāt paśyati dehasya tatas ātmā hi ajaḥ amaraḥ .. 4 ..
घटे भिन्ने घटाकाश आकाशः स्याद् यथा पुरा । एवं देहे मृते जीवो ब्रह्म सम्पद्यते पुनः ॥ ५ ॥
घटे भिन्ने घट-आकाशे आकाशः स्यात् यथा पुरा । एवम् देहे मृते जीवः ब्रह्म सम्पद्यते पुनर् ॥ ५ ॥
ghaṭe bhinne ghaṭa-ākāśe ākāśaḥ syāt yathā purā . evam dehe mṛte jīvaḥ brahma sampadyate punar .. 5 ..
मनः सृजति वै देहान् गुणान् कर्माणि चात्मनः । तन्मनः सृजते माया ततो जीवस्य संसृतिः ॥ ६ ॥
मनः सृजति वै देहान् गुणान् कर्माणि च आत्मनः । तत् मनः सृजते माया ततस् जीवस्य संसृतिः ॥ ६ ॥
manaḥ sṛjati vai dehān guṇān karmāṇi ca ātmanaḥ . tat manaḥ sṛjate māyā tatas jīvasya saṃsṛtiḥ .. 6 ..
स्नेहाधिष्ठानवर्त्यग्नि संयोगो यावदीयते । ततो दीपस्य दीपत्वं एवं देहकृतो भवः । रजःसत्त्वतमोवृत्त्या जायतेऽथ विनश्यति ॥ ७ ॥
स्नेह-अधिष्ठान-वर्ति-अग्नि संयोगः यावत् ईयते । ततस् दीपस्य दीप-त्वम् एवम् देह-कृतः भवः । रजः-सत्त्व-तमः-वृत्त्या जायते अथ विनश्यति ॥ ७ ॥
sneha-adhiṣṭhāna-varti-agni saṃyogaḥ yāvat īyate . tatas dīpasya dīpa-tvam evam deha-kṛtaḥ bhavaḥ . rajaḥ-sattva-tamaḥ-vṛttyā jāyate atha vinaśyati .. 7 ..
न तत्रात्मा स्वयंज्योतिः यो व्यक्ताव्यक्तयोः परः । आकाश इव चाधारो ध्रुवोऽनन्तोपमस्ततः ॥ ८ ॥
न तत्र आत्मा स्वयम् ज्योतिः यः व्यक्त-अव्यक्तयोः परः । आकाशः इव च आधारः ध्रुवः अनन्त-उपमः ततस् ॥ ८ ॥
na tatra ātmā svayam jyotiḥ yaḥ vyakta-avyaktayoḥ paraḥ . ākāśaḥ iva ca ādhāraḥ dhruvaḥ ananta-upamaḥ tatas .. 8 ..
एवमात्मानमात्मस्थम् आत्मनैवामृश प्रभो । बुद्ध्यानुमानगर्भिण्या वासुदेवानुचिन्तया ॥ ९ ॥
एवम् आत्मानम् आत्म-स्थम् आत्मना एव आमृश प्रभो । बुद्ध्या अनुमान-गर्भिण्या वासुदेव-अनुचिन्तया ॥ ९ ॥
evam ātmānam ātma-stham ātmanā eva āmṛśa prabho . buddhyā anumāna-garbhiṇyā vāsudeva-anucintayā .. 9 ..
चोदितो विप्रवाक्येन न त्वां धक्ष्यति तक्षकः । मृत्यवो नोपधक्ष्यन्ति मृत्यूनां मृत्युमीश्वरम् ॥ १० ॥
चोदितः विप्र-वाक्येन न त्वाम् धक्ष्यति तक्षकः । मृत्यवः न उपधक्ष्यन्ति मृत्यूनाम् मृत्युम् ईश्वरम् ॥ १० ॥
coditaḥ vipra-vākyena na tvām dhakṣyati takṣakaḥ . mṛtyavaḥ na upadhakṣyanti mṛtyūnām mṛtyum īśvaram .. 10 ..
अहं ब्रह्म परं धाम ब्रह्माहं परमं पदम् । एवं समीक्ष्य चात्मानम् आत्मन्याधाय निष्कले ॥ ११ ॥
अहम् ब्रह्म परम् धाम ब्रह्म अहम् परमम् पदम् । एवम् समीक्ष्य च आत्मानम् आत्मनि आधाय निष्कले ॥ ११ ॥
aham brahma param dhāma brahma aham paramam padam . evam samīkṣya ca ātmānam ātmani ādhāya niṣkale .. 11 ..
दशन्तं तक्षकं पादे लेलिहानं विषाननैः । न द्रक्ष्यसि शरीरं च विश्वं च पृथगात्मनः ॥ १२ ॥
दशन्तम् तक्षकम् पादे लेलिहानम् विष-आननैः । न द्रक्ष्यसि शरीरम् च विश्वम् च पृथक् आत्मनः ॥ १२ ॥
daśantam takṣakam pāde lelihānam viṣa-ānanaiḥ . na drakṣyasi śarīram ca viśvam ca pṛthak ātmanaḥ .. 12 ..
एतत्ते कथितं तात यदात्मा पृष्टवान् नृप । हरेर्विश्वात्मनश्चेष्टां किं भूयः श्रोतुमिच्छसि ॥ १३ ॥
एतत् ते कथितम् तात यदा आत्मा पृष्टवान् नृप । हरेः विश्वात्मनः चेष्टाम् किम् भूयस् श्रोतुम् इच्छसि ॥ १३ ॥
etat te kathitam tāta yadā ātmā pṛṣṭavān nṛpa . hareḥ viśvātmanaḥ ceṣṭām kim bhūyas śrotum icchasi .. 13 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वादशस्कन्धे ब्रह्मोपदेशो नाम पंचमोऽध्यायः ॥ ५ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् द्वादश-स्कन्धे ब्रह्मोपदेशः नाम पंचमः अध्यायः ॥ ५ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām dvādaśa-skandhe brahmopadeśaḥ nāma paṃcamaḥ adhyāyaḥ .. 5 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In