| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

सूत उवाच - (अनुष्टुप्)
अथर्ववित्सुमन्तुश्च शिष्यम् अध्यापयत् स्वकाम् । संहितां सोऽपि पथ्याय वेददर्शाय चोक्तवान् ॥ १ ॥
अथर्व-विद् सुमन्तुः च शिष्यम् अध्यापयत् स्वकाम् । संहिताम् सः अपि पथ्याय वेददर्शाय च उक्तवान् ॥ १ ॥
atharva-vid sumantuḥ ca śiṣyam adhyāpayat svakām . saṃhitām saḥ api pathyāya vedadarśāya ca uktavān .. 1 ..
शौक्लायनिर्ब्रह्मबलिः मादोषः पिप्पलायनिः । वेददर्शस्य शिष्यास्ते पथ्यशिष्यानथो श्रृणु । कुमुदः शुनको ब्रह्मन् जाजलिश्चाप्यथर्ववित् ॥ २ ॥
शौक्लायनिः ब्रह्मबलिः मादोषः पिप्पलायनिः । वेददर्शस्य शिष्याः ते पथ्य-शिष्यान् अथो श्रृणु । कुमुदः शुनकः ब्रह्मन् जाजलिः च अपि अथर्व-विद् ॥ २ ॥
śauklāyaniḥ brahmabaliḥ mādoṣaḥ pippalāyaniḥ . vedadarśasya śiṣyāḥ te pathya-śiṣyān atho śrṛṇu . kumudaḥ śunakaḥ brahman jājaliḥ ca api atharva-vid .. 2 ..
बभ्रुः शिष्योऽथांगिरसः सैन्धवायन एव च । अधीयेतां संहिते द्वे सावर्णाद्यास्तथापरे ॥ ३ ॥
बभ्रुः शिष्यः अथ आंगिरसः सैन्धवायनः एव च । अधीयेताम् संहिते द्वे सावर्ण-आद्याः तथा अपरे ॥ ३ ॥
babhruḥ śiṣyaḥ atha āṃgirasaḥ saindhavāyanaḥ eva ca . adhīyetām saṃhite dve sāvarṇa-ādyāḥ tathā apare .. 3 ..
नक्षत्रकल्पः शान्तिश्च कश्यपाङ्गिरसादयः । एते आथर्वणाचार्याः श्रृणु पौराणिकान् मुने ॥ ४ ॥
नक्षत्र-कल्पः शान्तिः च कश्यप-अङ्गिरस-आदयः । एते आथर्वण-आचार्याः श्रृणु पौराणिकान् मुने ॥ ४ ॥
nakṣatra-kalpaḥ śāntiḥ ca kaśyapa-aṅgirasa-ādayaḥ . ete ātharvaṇa-ācāryāḥ śrṛṇu paurāṇikān mune .. 4 ..
त्रय्यारुणिः कश्यपश्च सावर्णिः अकृतव्रणः । वैशंपायनहारीतौ षड् वै पौराणिका इमे ॥ ५ ॥
त्रय्यारुणिः कश्यपः च सावर्णिः अकृतव्रणः । वैशंपायन-हारीतौ षट् वै पौराणिकाः इमे ॥ ५ ॥
trayyāruṇiḥ kaśyapaḥ ca sāvarṇiḥ akṛtavraṇaḥ . vaiśaṃpāyana-hārītau ṣaṭ vai paurāṇikāḥ ime .. 5 ..
अधीयन्त व्यासशिष्यात् संहितां मत्पितुर्मुखात् । एकैकाम् अहमेतेषां शिष्यः सर्वाः समध्यगाम् ॥ ६ ॥
अधीयन्त व्यास-शिष्यात् संहिताम् मद्-पितुः मुखात् । एकैकाम् अहम् एतेषाम् शिष्यः सर्वाः समध्यगाम् ॥ ६ ॥
adhīyanta vyāsa-śiṣyāt saṃhitām mad-pituḥ mukhāt . ekaikām aham eteṣām śiṣyaḥ sarvāḥ samadhyagām .. 6 ..
कश्यपोऽहं च सावर्णी रामशिष्योऽकृतव्रणः । अधीमहि व्यासशिष्यात् चत्वारो मूलसंहिताः ॥ ७ ॥
कश्यपः अहम् च सावर्णिः राम-शिष्यः अकृतव्रणः । अधीमहि व्यास-शिष्यात् चत्वारः मूलसंहिताः ॥ ७ ॥
kaśyapaḥ aham ca sāvarṇiḥ rāma-śiṣyaḥ akṛtavraṇaḥ . adhīmahi vyāsa-śiṣyāt catvāraḥ mūlasaṃhitāḥ .. 7 ..
पुराणलक्षणं ब्रह्मन् ब्रह्मर्षिभिः निरूपितम् । श्रृणुष्व बुद्धिमाश्रित्य वेदशास्त्रानुसारतः ॥ ८ ॥
पुराण-लक्षणम् ब्रह्मन् ब्रह्मर्षिभिः निरूपितम् । श्रृणुष्व बुद्धिम् आश्रित्य वेद-शास्त्र-अनुसारतः ॥ ८ ॥
purāṇa-lakṣaṇam brahman brahmarṣibhiḥ nirūpitam . śrṛṇuṣva buddhim āśritya veda-śāstra-anusārataḥ .. 8 ..
सर्गोऽस्याथ विसर्गश्च वृत्तिरक्षान्तराणि च । वंशो वंशानुचरितं संस्था हेतुरपाश्रयः ॥ ९ ॥
सर्गः अस्य अथ विसर्गः च वृत्तिः अक्ष-अन्तराणि च । वंशः वंशानुचरितम् संस्था हेतुः अपाश्रयः ॥ ९ ॥
sargaḥ asya atha visargaḥ ca vṛttiḥ akṣa-antarāṇi ca . vaṃśaḥ vaṃśānucaritam saṃsthā hetuḥ apāśrayaḥ .. 9 ..
दशभिः लक्षणैर्युक्तं पुराणं तद्विदो विदुः । केचित्पञ्चविधं ब्रह्मन् महदल्पव्यवस्थया ॥ १० ॥
दशभिः लक्षणैः युक्तम् पुराणम् तद्-विदः विदुः । केचिद् पञ्चविधम् ब्रह्मन् महत्-अल्प-व्यवस्थया ॥ १० ॥
daśabhiḥ lakṣaṇaiḥ yuktam purāṇam tad-vidaḥ viduḥ . kecid pañcavidham brahman mahat-alpa-vyavasthayā .. 10 ..
अव्याकृतगुणक्षोभान् महतस्त्रिवृतोऽहमः । भूतसूक्ष्मेन्द्रियार्थानां संभवः सर्ग उच्यते ॥ ११ ॥
अव्याकृत-गुण-क्षोभात् महतः त्रिवृतः अहमः । भूत-सूक्ष्म-इन्द्रिय-अर्थानाम् संभवः सर्गः उच्यते ॥ ११ ॥
avyākṛta-guṇa-kṣobhāt mahataḥ trivṛtaḥ ahamaḥ . bhūta-sūkṣma-indriya-arthānām saṃbhavaḥ sargaḥ ucyate .. 11 ..
पुरुषानुगृहीतानाम् एतेषां वासनामयः । विसर्गोऽयं समाहारो बीजाद्बीजं चराचरम् ॥ १२ ॥
पुरुष-अनुगृहीतानाम् एतेषाम् वासना-मयः । विसर्गः अयम् समाहारः बीजात् बीजम् चराचरम् ॥ १२ ॥
puruṣa-anugṛhītānām eteṣām vāsanā-mayaḥ . visargaḥ ayam samāhāraḥ bījāt bījam carācaram .. 12 ..
वृत्तिर्भूतानि भूतानां चराणाम् अचराणि च । कृता स्वेन नृणां तत्र कामात् चोदनयापि वा ॥ १३ ॥
वृत्तिः भूतानि भूतानाम् चराणाम् अचराणि च । कृता स्वेन नृणाम् तत्र कामात् चोदनया अपि वा ॥ १३ ॥
vṛttiḥ bhūtāni bhūtānām carāṇām acarāṇi ca . kṛtā svena nṛṇām tatra kāmāt codanayā api vā .. 13 ..
रक्षाच्युतावतारेहा विश्वस्यानु युगे युगे । तिर्यङ्मर्त्यर्षिदेवेषु हन्यन्ते यैस्त्रयीद्विषः ॥ १४ ॥
रक्षा अच्युत-अवतार-ईहा विश्वस्य अनु युगे युगे । तिर्यक्-मर्त्य-ऋषि-देवेषु हन्यन्ते यैः त्रयी-द्विषः ॥ १४ ॥
rakṣā acyuta-avatāra-īhā viśvasya anu yuge yuge . tiryak-martya-ṛṣi-deveṣu hanyante yaiḥ trayī-dviṣaḥ .. 14 ..
मन्वन्तरं मनुर्देवा मनुपुत्राः सुरेश्वराः । ऋषयोंऽशावताराश्च हरेः षड्विधमुच्यते ॥ १५ ॥
मन्वन्तरम् मनुः देवाः मनु-पुत्राः सुर-ईश्वराः । ऋषयः ॐऽश-अवताराः च हरेः षड्विधम् उच्यते ॥ १५ ॥
manvantaram manuḥ devāḥ manu-putrāḥ sura-īśvarāḥ . ṛṣayaḥ oṃ'śa-avatārāḥ ca hareḥ ṣaḍvidham ucyate .. 15 ..
राज्ञां ब्रह्मप्रसूतानां वंशस्त्रैकालिकोऽन्वयः । वंशानुचरितं तेषां वृत्तं वंशधराश्च ये ॥ १६ ॥
राज्ञाम् ब्रह्म-प्रसूतानाम् वंशः त्रैकालिकः अन्वयः । वंशानुचरितम् तेषाम् वृत्तम् वंश-धराः च ये ॥ १६ ॥
rājñām brahma-prasūtānām vaṃśaḥ traikālikaḥ anvayaḥ . vaṃśānucaritam teṣām vṛttam vaṃśa-dharāḥ ca ye .. 16 ..
नैमित्तिकः प्राकृतिको नित्य आत्यन्तिको लयः । संस्थेति कविभिः प्रोक्तः चतुर्धास्य स्वभावतः ॥ १७ ॥
नैमित्तिकः प्राकृतिकः नित्यः आत्यन्तिकः लयः । संस्था इति कविभिः प्रोक्तः चतुर्धा अस्य स्वभावतः ॥ १७ ॥
naimittikaḥ prākṛtikaḥ nityaḥ ātyantikaḥ layaḥ . saṃsthā iti kavibhiḥ proktaḥ caturdhā asya svabhāvataḥ .. 17 ..
हेतुर्जीवोऽस्य सर्गादेः अविद्याकर्मकारकः । यं चानुशायिनं प्राहुः अव्याकृतमुतापरे ॥ १८ ॥
हेतुः जीवः अस्य सर्ग-आदेः अविद्या-कर्म-कारकः । यम् च अनुशायिनम् प्राहुः अव्याकृतम् उत अपरे ॥ १८ ॥
hetuḥ jīvaḥ asya sarga-ādeḥ avidyā-karma-kārakaḥ . yam ca anuśāyinam prāhuḥ avyākṛtam uta apare .. 18 ..
व्यतिरेकान्वयो यस्य जाग्रत् स्वप्नसुषुप्तिषु । मायामयेषु तद्ब्रह्म जीववृत्तिष्वपाश्रयः ॥ १९ ॥
व्यतिरेक-अन्वयः यस्य जाग्रत् स्वप्न-सुषुप्तिषु । माया-मयेषु तत् ब्रह्म जीव-वृत्तिषु अपाश्रयः ॥ १९ ॥
vyatireka-anvayaḥ yasya jāgrat svapna-suṣuptiṣu . māyā-mayeṣu tat brahma jīva-vṛttiṣu apāśrayaḥ .. 19 ..
पदार्थेषु यथा द्रव्यं सन्मात्रं रूपनामसु । बीजादिपञ्चतान्तासु ह्यवस्थासु युतायुतम् ॥ २० ॥
पदार्थेषु यथा द्रव्यम् सत्-मात्रम् रूप-नामसु । बीज-आदि-पञ्चता-अन्तासु हि अवस्थासु युत-अयुतम् ॥ २० ॥
padārtheṣu yathā dravyam sat-mātram rūpa-nāmasu . bīja-ādi-pañcatā-antāsu hi avasthāsu yuta-ayutam .. 20 ..
विरमेत यदा चित्तं हित्वा वृत्तित्रयं स्वयम् । योगेन वा तदात्मानं वेदेहाया निवर्तते ॥ २१ ॥
विरमेत यदा चित्तम् हित्वा वृत्ति-त्रयम् स्वयम् । योगेन वा तदा आत्मानम् वेद इहायाः निवर्तते ॥ २१ ॥
virameta yadā cittam hitvā vṛtti-trayam svayam . yogena vā tadā ātmānam veda ihāyāḥ nivartate .. 21 ..
एवं लक्षणलक्ष्याणि पुराणानि पुराविदः । मुनयोऽष्टादश प्राहुः क्षुल्लकानि महान्ति च ॥ २२ ॥
एवम् लक्षण-लक्ष्याणि पुराणानि पुराविदः । मुनयः अष्टादश प्राहुः क्षुल्लकानि महान्ति च ॥ २२ ॥
evam lakṣaṇa-lakṣyāṇi purāṇāni purāvidaḥ . munayaḥ aṣṭādaśa prāhuḥ kṣullakāni mahānti ca .. 22 ..
ब्राह्मं पाद्मं वैष्णवं च शैवं लैङ्गं सगारुडं । नारदीयं भागवतं आग्नेयं स्कान्दसंज्ञितम् ॥ २३ ॥
ब्राह्मम् पाद्मम् वैष्णवम् च शैवम् लैङ्गम् स गारुडम् । नारदीयम् भागवतम् आग्नेयम् स्कान्द-संज्ञितम् ॥ २३ ॥
brāhmam pādmam vaiṣṇavam ca śaivam laiṅgam sa gāruḍam . nāradīyam bhāgavatam āgneyam skānda-saṃjñitam .. 23 ..
भविष्यं ब्रह्मवैवर्तं मार्कण्डेयं सवामनम् । वाराहं मात्स्यं कौर्मं च ब्रह्माण्डाख्यमिति त्रिषट् ॥ २४ ॥
भविष्यम् ब्रह्मवैवर्तम् मार्कण्डेयम् स वामनम् । वाराहम् मात्स्यम् कौर्मम् च ब्रह्माण्ड-आख्यम् इति त्रि-षष् ॥ २४ ॥
bhaviṣyam brahmavaivartam mārkaṇḍeyam sa vāmanam . vārāham mātsyam kaurmam ca brahmāṇḍa-ākhyam iti tri-ṣaṣ .. 24 ..
ब्रह्मन्निदं समाख्यातं शाखाप्रणयनं मुनेः । शिष्यशिष्यप्रशिष्याणां ब्रह्मतेजोविवर्धनम् ॥ २५ ॥
ब्रह्मन् इदम् समाख्यातम् शाखा-प्रणयनम् मुनेः । शिष्य-शिष्य-प्रशिष्याणाम् ब्रह्म-तेजः-विवर्धनम् ॥ २५ ॥
brahman idam samākhyātam śākhā-praṇayanam muneḥ . śiṣya-śiṣya-praśiṣyāṇām brahma-tejaḥ-vivardhanam .. 25 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वादशस्कन्धे सप्तमोऽध्यायः ॥ ७ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् द्वादश-स्कन्धे सप्तमः अध्यायः ॥ ७ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām dvādaśa-skandhe saptamaḥ adhyāyaḥ .. 7 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In