| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

सूत उवाच - (अनुष्टुप्)
अथर्ववित्सुमन्तुश्च शिष्यम् अध्यापयत् स्वकाम् । संहितां सोऽपि पथ्याय वेददर्शाय चोक्तवान् ॥ १ ॥
atharvavitsumantuśca śiṣyam adhyāpayat svakām . saṃhitāṃ so'pi pathyāya vedadarśāya coktavān .. 1 ..
शौक्लायनिर्ब्रह्मबलिः मादोषः पिप्पलायनिः । वेददर्शस्य शिष्यास्ते पथ्यशिष्यानथो श्रृणु । कुमुदः शुनको ब्रह्मन् जाजलिश्चाप्यथर्ववित् ॥ २ ॥
śauklāyanirbrahmabaliḥ mādoṣaḥ pippalāyaniḥ . vedadarśasya śiṣyāste pathyaśiṣyānatho śrṛṇu . kumudaḥ śunako brahman jājaliścāpyatharvavit .. 2 ..
बभ्रुः शिष्योऽथांगिरसः सैन्धवायन एव च । अधीयेतां संहिते द्वे सावर्णाद्यास्तथापरे ॥ ३ ॥
babhruḥ śiṣyo'thāṃgirasaḥ saindhavāyana eva ca . adhīyetāṃ saṃhite dve sāvarṇādyāstathāpare .. 3 ..
नक्षत्रकल्पः शान्तिश्च कश्यपाङ्गिरसादयः । एते आथर्वणाचार्याः श्रृणु पौराणिकान् मुने ॥ ४ ॥
nakṣatrakalpaḥ śāntiśca kaśyapāṅgirasādayaḥ . ete ātharvaṇācāryāḥ śrṛṇu paurāṇikān mune .. 4 ..
त्रय्यारुणिः कश्यपश्च सावर्णिः अकृतव्रणः । वैशंपायनहारीतौ षड् वै पौराणिका इमे ॥ ५ ॥
trayyāruṇiḥ kaśyapaśca sāvarṇiḥ akṛtavraṇaḥ . vaiśaṃpāyanahārītau ṣaḍ vai paurāṇikā ime .. 5 ..
अधीयन्त व्यासशिष्यात् संहितां मत्पितुर्मुखात् । एकैकाम् अहमेतेषां शिष्यः सर्वाः समध्यगाम् ॥ ६ ॥
adhīyanta vyāsaśiṣyāt saṃhitāṃ matpiturmukhāt . ekaikām ahameteṣāṃ śiṣyaḥ sarvāḥ samadhyagām .. 6 ..
कश्यपोऽहं च सावर्णी रामशिष्योऽकृतव्रणः । अधीमहि व्यासशिष्यात् चत्वारो मूलसंहिताः ॥ ७ ॥
kaśyapo'haṃ ca sāvarṇī rāmaśiṣyo'kṛtavraṇaḥ . adhīmahi vyāsaśiṣyāt catvāro mūlasaṃhitāḥ .. 7 ..
पुराणलक्षणं ब्रह्मन् ब्रह्मर्षिभिः निरूपितम् । श्रृणुष्व बुद्धिमाश्रित्य वेदशास्त्रानुसारतः ॥ ८ ॥
purāṇalakṣaṇaṃ brahman brahmarṣibhiḥ nirūpitam . śrṛṇuṣva buddhimāśritya vedaśāstrānusārataḥ .. 8 ..
सर्गोऽस्याथ विसर्गश्च वृत्तिरक्षान्तराणि च । वंशो वंशानुचरितं संस्था हेतुरपाश्रयः ॥ ९ ॥
sargo'syātha visargaśca vṛttirakṣāntarāṇi ca . vaṃśo vaṃśānucaritaṃ saṃsthā heturapāśrayaḥ .. 9 ..
दशभिः लक्षणैर्युक्तं पुराणं तद्विदो विदुः । केचित्पञ्चविधं ब्रह्मन् महदल्पव्यवस्थया ॥ १० ॥
daśabhiḥ lakṣaṇairyuktaṃ purāṇaṃ tadvido viduḥ . kecitpañcavidhaṃ brahman mahadalpavyavasthayā .. 10 ..
अव्याकृतगुणक्षोभान् महतस्त्रिवृतोऽहमः । भूतसूक्ष्मेन्द्रियार्थानां संभवः सर्ग उच्यते ॥ ११ ॥
avyākṛtaguṇakṣobhān mahatastrivṛto'hamaḥ . bhūtasūkṣmendriyārthānāṃ saṃbhavaḥ sarga ucyate .. 11 ..
पुरुषानुगृहीतानाम् एतेषां वासनामयः । विसर्गोऽयं समाहारो बीजाद्बीजं चराचरम् ॥ १२ ॥
puruṣānugṛhītānām eteṣāṃ vāsanāmayaḥ . visargo'yaṃ samāhāro bījādbījaṃ carācaram .. 12 ..
वृत्तिर्भूतानि भूतानां चराणाम् अचराणि च । कृता स्वेन नृणां तत्र कामात् चोदनयापि वा ॥ १३ ॥
vṛttirbhūtāni bhūtānāṃ carāṇām acarāṇi ca . kṛtā svena nṛṇāṃ tatra kāmāt codanayāpi vā .. 13 ..
रक्षाच्युतावतारेहा विश्वस्यानु युगे युगे । तिर्यङ्मर्त्यर्षिदेवेषु हन्यन्ते यैस्त्रयीद्विषः ॥ १४ ॥
rakṣācyutāvatārehā viśvasyānu yuge yuge . tiryaṅmartyarṣideveṣu hanyante yaistrayīdviṣaḥ .. 14 ..
मन्वन्तरं मनुर्देवा मनुपुत्राः सुरेश्वराः । ऋषयोंऽशावताराश्च हरेः षड्विधमुच्यते ॥ १५ ॥
manvantaraṃ manurdevā manuputrāḥ sureśvarāḥ . ṛṣayoṃ'śāvatārāśca hareḥ ṣaḍvidhamucyate .. 15 ..
राज्ञां ब्रह्मप्रसूतानां वंशस्त्रैकालिकोऽन्वयः । वंशानुचरितं तेषां वृत्तं वंशधराश्च ये ॥ १६ ॥
rājñāṃ brahmaprasūtānāṃ vaṃśastraikāliko'nvayaḥ . vaṃśānucaritaṃ teṣāṃ vṛttaṃ vaṃśadharāśca ye .. 16 ..
नैमित्तिकः प्राकृतिको नित्य आत्यन्तिको लयः । संस्थेति कविभिः प्रोक्तः चतुर्धास्य स्वभावतः ॥ १७ ॥
naimittikaḥ prākṛtiko nitya ātyantiko layaḥ . saṃstheti kavibhiḥ proktaḥ caturdhāsya svabhāvataḥ .. 17 ..
हेतुर्जीवोऽस्य सर्गादेः अविद्याकर्मकारकः । यं चानुशायिनं प्राहुः अव्याकृतमुतापरे ॥ १८ ॥
heturjīvo'sya sargādeḥ avidyākarmakārakaḥ . yaṃ cānuśāyinaṃ prāhuḥ avyākṛtamutāpare .. 18 ..
व्यतिरेकान्वयो यस्य जाग्रत् स्वप्नसुषुप्तिषु । मायामयेषु तद्ब्रह्म जीववृत्तिष्वपाश्रयः ॥ १९ ॥
vyatirekānvayo yasya jāgrat svapnasuṣuptiṣu . māyāmayeṣu tadbrahma jīvavṛttiṣvapāśrayaḥ .. 19 ..
पदार्थेषु यथा द्रव्यं सन्मात्रं रूपनामसु । बीजादिपञ्चतान्तासु ह्यवस्थासु युतायुतम् ॥ २० ॥
padārtheṣu yathā dravyaṃ sanmātraṃ rūpanāmasu . bījādipañcatāntāsu hyavasthāsu yutāyutam .. 20 ..
विरमेत यदा चित्तं हित्वा वृत्तित्रयं स्वयम् । योगेन वा तदात्मानं वेदेहाया निवर्तते ॥ २१ ॥
virameta yadā cittaṃ hitvā vṛttitrayaṃ svayam . yogena vā tadātmānaṃ vedehāyā nivartate .. 21 ..
एवं लक्षणलक्ष्याणि पुराणानि पुराविदः । मुनयोऽष्टादश प्राहुः क्षुल्लकानि महान्ति च ॥ २२ ॥
evaṃ lakṣaṇalakṣyāṇi purāṇāni purāvidaḥ . munayo'ṣṭādaśa prāhuḥ kṣullakāni mahānti ca .. 22 ..
ब्राह्मं पाद्मं वैष्णवं च शैवं लैङ्गं सगारुडं । नारदीयं भागवतं आग्नेयं स्कान्दसंज्ञितम् ॥ २३ ॥
brāhmaṃ pādmaṃ vaiṣṇavaṃ ca śaivaṃ laiṅgaṃ sagāruḍaṃ . nāradīyaṃ bhāgavataṃ āgneyaṃ skāndasaṃjñitam .. 23 ..
भविष्यं ब्रह्मवैवर्तं मार्कण्डेयं सवामनम् । वाराहं मात्स्यं कौर्मं च ब्रह्माण्डाख्यमिति त्रिषट् ॥ २४ ॥
bhaviṣyaṃ brahmavaivartaṃ mārkaṇḍeyaṃ savāmanam . vārāhaṃ mātsyaṃ kaurmaṃ ca brahmāṇḍākhyamiti triṣaṭ .. 24 ..
ब्रह्मन्निदं समाख्यातं शाखाप्रणयनं मुनेः । शिष्यशिष्यप्रशिष्याणां ब्रह्मतेजोविवर्धनम् ॥ २५ ॥
brahmannidaṃ samākhyātaṃ śākhāpraṇayanaṃ muneḥ . śiṣyaśiṣyapraśiṣyāṇāṃ brahmatejovivardhanam .. 25 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वादशस्कन्धे सप्तमोऽध्यायः ॥ ७ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ dvādaśaskandhe saptamo'dhyāyaḥ .. 7 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ oṃ tatsat śrīkṛṣṇārpaṇamastu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In