| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशौनक उवाच – (अनुष्टुप्)
सूत जीव चिरं साधो वद नो वदतां वर । तमस्यपारे भ्रमतां नॄणां त्वं पारदर्शनः ॥ १ ॥
सूत जीव चिरम् साधो वद नः वदताम् वर । तमसि अपारे भ्रमताम् नॄणाम् त्वम् पार-दर्शनः ॥ १ ॥
sūta jīva ciram sādho vada naḥ vadatām vara . tamasi apāre bhramatām nṝṇām tvam pāra-darśanaḥ .. 1 ..
आहुश्चिरायुषमृषिं मृकण्डुतनयं जनाः । यः कल्पान्ते उर्वरितो येन ग्रस्तमिदं जगत् ॥ २ ॥
आहुः चिर-आयुषम् ऋषिम् मृकण्डु-तनयम् जनाः । यः कल्प-अन्ते उर्वरितः येन ग्रस्तम् इदम् जगत् ॥ २ ॥
āhuḥ cira-āyuṣam ṛṣim mṛkaṇḍu-tanayam janāḥ . yaḥ kalpa-ante urvaritaḥ yena grastam idam jagat .. 2 ..
स वा अस्मत् कुलोत्पन्नः कल्पेऽस्मिन् भार्गवर्षभः । नैवाधुनापि भूतानां सम्प्लवः कोऽपि जायते ॥ ३ ॥
स वै अस्मत् कुल-उत्पन्नः कल्पे अस्मिन् भार्गव-ऋषभः । न एव अधुना अपि भूतानाम् सम्प्लवः कः अपि जायते ॥ ३ ॥
sa vai asmat kula-utpannaḥ kalpe asmin bhārgava-ṛṣabhaḥ . na eva adhunā api bhūtānām samplavaḥ kaḥ api jāyate .. 3 ..
एक एवार्णवे भ्राम्यन् ददर्श पुरुषं किल । वटपत्रपुटे तोकं शयानं त्वेकमद्भुतम् ॥ ४ ॥
एकः एवा अर्णवे भ्राम्यन् ददर्श पुरुषम् किल । वट-पत्र-पुटे तोकम् शयानम् तु एकम् अद्भुतम् ॥ ४ ॥
ekaḥ evā arṇave bhrāmyan dadarśa puruṣam kila . vaṭa-patra-puṭe tokam śayānam tu ekam adbhutam .. 4 ..
एष नः संशयो भूयान् सूत कौतूहलं यतः । तं नश्छिन्धि महायोगिन् पुराणेष्वपि सम्मतः ॥ ५ ॥
एष नः संशयः भूयान् सूत कौतूहलम् यतस् । तम् नः छिन्धि महा-योगिन् पुराणेषु अपि सम्मतः ॥ ५ ॥
eṣa naḥ saṃśayaḥ bhūyān sūta kautūhalam yatas . tam naḥ chindhi mahā-yogin purāṇeṣu api sammataḥ .. 5 ..
सूत उवाच -
प्रश्नस्त्वया महर्षेऽयं कृतो लोकभ्रमापहः । नारायणकथा यत्र गीता कलिमलापहा ॥ ६ ॥
प्रश्नः त्वया महा-ऋषे अयम् कृतः लोक-भ्रम-अपहः । नारायण-कथा यत्र गीता कलि-मल-अपहा ॥ ६ ॥
praśnaḥ tvayā mahā-ṛṣe ayam kṛtaḥ loka-bhrama-apahaḥ . nārāyaṇa-kathā yatra gītā kali-mala-apahā .. 6 ..
प्राप्तद्विजातिसंस्कारो मार्कण्डेयः पितुः क्रमात् । छन्दांस्यधीत्य धर्मेण तपःस्वाध्यायसंयुतः ॥ ७ ॥
प्राप्त-द्विजाति-संस्कारः मार्कण्डेयः पितुः क्रमात् । छन्दांसि अधीत्य धर्मेण तपः-स्वाध्याय-संयुतः ॥ ७ ॥
prāpta-dvijāti-saṃskāraḥ mārkaṇḍeyaḥ pituḥ kramāt . chandāṃsi adhītya dharmeṇa tapaḥ-svādhyāya-saṃyutaḥ .. 7 ..
बृहद्व्रतधरः शान्तो जटिलो वल्कलाम्बरः । बिभ्रत्कमण्डलुं दण्डमुपवीतं समेखलम् ॥ ८ ॥
बृहत्-व्रत-धरः शान्तः जटिलः वल्कल-अम्बरः । बिभ्रत् कमण्डलुम् दण्डम् उपवीतम् स मेखलम् ॥ ८ ॥
bṛhat-vrata-dharaḥ śāntaḥ jaṭilaḥ valkala-ambaraḥ . bibhrat kamaṇḍalum daṇḍam upavītam sa mekhalam .. 8 ..
कृष्णाजिनं साक्षसूत्रं कुशांश्च नियमर्द्धये । अग्न्यर्कगुरुविप्रात्मस्वर्चयन् सन्ध्ययोर्हरिम् ॥ ९ ॥
कृष्णाजिनम् स अक्षसूत्रम् कुशान् च नियम-ऋद्धये । अग्नि-अर्क-गुरु-विप्र-आत्मसु अर्चयन् सन्ध्ययोः हरिम् ॥ ९ ॥
kṛṣṇājinam sa akṣasūtram kuśān ca niyama-ṛddhaye . agni-arka-guru-vipra-ātmasu arcayan sandhyayoḥ harim .. 9 ..
सायं प्रातः स गुरवे भैक्ष्यमाहृत्य वाग्यतः । बुभुजे गुर्वनुज्ञातः सकृन्नो चेदुपोषितः ॥ १० ॥
सायम् प्रातर् स गुरवे भैक्ष्यम् आहृत्य वाग्यतः । बुभुजे गुरु-अनुज्ञातः सकृत् नो चेद् उपोषितः ॥ १० ॥
sāyam prātar sa gurave bhaikṣyam āhṛtya vāgyataḥ . bubhuje guru-anujñātaḥ sakṛt no ced upoṣitaḥ .. 10 ..
एवं तपःस्वाध्यायपरो वर्षाणामयुतायुतम् । आराधयन् हृषीकेशं जिग्ये मृत्युं सुदुर्जयम् ॥ ११ ॥
एवम् तपः-स्वाध्याय-परः वर्षाणाम् अयुत-अयुतम् । आराधयन् हृषीकेशम् जिग्ये मृत्युम् सु दुर्जयम् ॥ ११ ॥
evam tapaḥ-svādhyāya-paraḥ varṣāṇām ayuta-ayutam . ārādhayan hṛṣīkeśam jigye mṛtyum su durjayam .. 11 ..
ब्रह्मा भृगुर्भवो दक्षो ब्रह्मपुत्राश्च ये परे । नृदेवपितृभूतानि तेनासन् अतिविस्मिताः ॥ १२ ॥
ब्रह्मा भृगुः भवः दक्षः ब्रह्म-पुत्राः च ये परे । नृ-देव-पितृ-भूतानि तेन आसन् अति विस्मिताः ॥ १२ ॥
brahmā bhṛguḥ bhavaḥ dakṣaḥ brahma-putrāḥ ca ye pare . nṛ-deva-pitṛ-bhūtāni tena āsan ati vismitāḥ .. 12 ..
इत्थं बृहद्व्रतधरः तपःस्वाध्यायसंयमैः । दध्यावधोक्षजं योगी ध्वस्तक्लेशान्तरात्मना ॥ १३ ॥
इत्थम् बृहत्-व्रत-धरः तपः-स्वाध्याय-संयमैः । दध्यौ अधोक्षजम् योगी ध्वस्त-क्लेश-अन्तरात्मना ॥ १३ ॥
ittham bṛhat-vrata-dharaḥ tapaḥ-svādhyāya-saṃyamaiḥ . dadhyau adhokṣajam yogī dhvasta-kleśa-antarātmanā .. 13 ..
तस्यैवं युञ्जतश्चित्तं महायोगेन योगिनः । व्यतीयाय महान् कालो मन्वन्तरषडात्मकः ॥ १४ ॥
तस्य एवम् युञ्जतः चित्तम् महा-योगेन योगिनः । व्यतीयाय महान् कालः मन्वन्तर-षष्-आत्मकः ॥ १४ ॥
tasya evam yuñjataḥ cittam mahā-yogena yoginaḥ . vyatīyāya mahān kālaḥ manvantara-ṣaṣ-ātmakaḥ .. 14 ..
एतत् पुरन्दरो ज्ञात्वा सप्तमेऽस्मिन् किलान्तरे । तपोविशङ्कितो ब्रह्मन् आरेभे तद्विघातनम् ॥ १५ ॥
एतत् पुरन्दरः ज्ञात्वा सप्तमे अस्मिन् किल अन्तरे । तपः-विशङ्कितः ब्रह्मन् आरेभे तद्-विघातनम् ॥ १५ ॥
etat purandaraḥ jñātvā saptame asmin kila antare . tapaḥ-viśaṅkitaḥ brahman ārebhe tad-vighātanam .. 15 ..
गन्धर्वाप्सरसः कामं वसन्तमलयानिलौ । मुनये प्रेषयामास रजस्तोकमदौ तथा ॥ १६ ॥
गन्धर्व-अप्सरसः कामम् वसन्त-मलय-अनिलौ । मुनये प्रेषयामास रजः-तोक-मदौ तथा ॥ १६ ॥
gandharva-apsarasaḥ kāmam vasanta-malaya-anilau . munaye preṣayāmāsa rajaḥ-toka-madau tathā .. 16 ..
ते वै तदाश्रमं जग्मुः हिमाद्रेः पार्श्व उत्तरे । पुष्पभद्रा नदी यत्र चित्राख्या च शिला विभो ॥ १७ ॥
ते वै तद्-आश्रमम् जग्मुः हिमाद्रेः पार्श्वे उत्तरे । पुष्पभद्रा नदी यत्र चित्र-आख्या च शिला विभो ॥ १७ ॥
te vai tad-āśramam jagmuḥ himādreḥ pārśve uttare . puṣpabhadrā nadī yatra citra-ākhyā ca śilā vibho .. 17 ..
तदाश्रमपदं पुण्यं पुण्यद्रुमलताञ्चितम् । पुण्यद्विजकुलाकीर्णं पुण्यामलजलाशयम् ॥ १८ ॥
तद्-आश्रम-पदम् पुण्यम् पुण्य-द्रुम-लता-आञ्चितम् । पुण्य-द्विज-कुल-आकीर्णम् पुण्य-अमल-जलाशयम् ॥ १८ ॥
tad-āśrama-padam puṇyam puṇya-druma-latā-āñcitam . puṇya-dvija-kula-ākīrṇam puṇya-amala-jalāśayam .. 18 ..
मत्तभ्रमरसङ्गीतं मत्तकोकिलकूजितम् । मत्तबर्हिनटाटोपं मत्तद्विजकुलाकुलम् ॥ १९ ॥
मत्त-भ्रमर-सङ्गीतम् मत्त-कोकिल-कूजितम् । मत्त-बर्हि-नट-आटोपम् मत्त-द्विज-कुल-आकुलम् ॥ १९ ॥
matta-bhramara-saṅgītam matta-kokila-kūjitam . matta-barhi-naṭa-āṭopam matta-dvija-kula-ākulam .. 19 ..
वायुः प्रविष्ट आदाय हिमनिर्झरशीकरान् । सुमनोभिः परिष्वक्तो ववावुत्तम्भयन् स्मरम् ॥ २० ॥
वायुः प्रविष्टः आदाय हिम-निर्झर-शीकरान् । सुमनोभिः परिष्वक्तः ववौ उत्तम्भयन् स्मरम् ॥ २० ॥
vāyuḥ praviṣṭaḥ ādāya hima-nirjhara-śīkarān . sumanobhiḥ pariṣvaktaḥ vavau uttambhayan smaram .. 20 ..
उद्यच्चन्द्रनिशावक्त्रः प्रवालस्तबकालिभिः । गोपद्रुमलताजालैः तत्रासीत् कुसुमाकरः ॥ २१ ॥
उद्यत्-चन्द्र-निशा-वक्त्रः प्रवाल-स्तबक-आलिभिः । गोप-द्रुम-लता-जालैः तत्र आसीत् कुसुमाकरः ॥ २१ ॥
udyat-candra-niśā-vaktraḥ pravāla-stabaka-ālibhiḥ . gopa-druma-latā-jālaiḥ tatra āsīt kusumākaraḥ .. 21 ..
अन्वीयमानो गन्धर्वैः गीतवादित्रयूथकैः । अदृश्यतात्तचापेषुः स्वःस्त्रीयूथपतिः स्मरः ॥ २२ ॥
अन्वीयमानः गन्धर्वैः गीत-वादित्र-यूथकैः । अदृश्यत आत्त-चाप-इषुः स्वर् स्त्री-यूथ-पतिः स्मरः ॥ २२ ॥
anvīyamānaḥ gandharvaiḥ gīta-vāditra-yūthakaiḥ . adṛśyata ātta-cāpa-iṣuḥ svar strī-yūtha-patiḥ smaraḥ .. 22 ..
हुत्वाग्निं समुपासीनं ददृशुः शक्रकिङ्कराः । मीलिताक्षं दुराधर्षं मूर्तिमन्तमिवानलम् ॥ २३ ॥
हुत्वा अग्निम् समुपासीनम् ददृशुः शक्र-किङ्कराः । मीलित-अक्षम् दुराधर्षम् मूर्तिमन्तम् इव अनलम् ॥ २३ ॥
hutvā agnim samupāsīnam dadṛśuḥ śakra-kiṅkarāḥ . mīlita-akṣam durādharṣam mūrtimantam iva analam .. 23 ..
ननृतुस्तस्य पुरतः स्त्रियोऽथो गायका जगुः । मृदङ्गवीणापणवैः वाद्यं चक्रुर्मनोरमम् ॥ २४ ॥
ननृतुः तस्य पुरतस् स्त्रियः अथो गायकाः जगुः । मृदङ्ग-वीणा-पणवैः वाद्यम् चक्रुः मनोरमम् ॥ २४ ॥
nanṛtuḥ tasya puratas striyaḥ atho gāyakāḥ jaguḥ . mṛdaṅga-vīṇā-paṇavaiḥ vādyam cakruḥ manoramam .. 24 ..
सन्दधेऽस्त्रं स्वधनुषि कामः पञ्चमुखं तदा । मधुर्मनो रजस्तोक इन्द्रभृत्या व्यकम्पयन् ॥ २५ ॥
सन्दधे अस्त्रम् स्व-धनुषि कामः पञ्चमुखम् तदा । मधुः मनः रजः-तोके इन्द्र-भृत्याः व्यकम्पयन् ॥ २५ ॥
sandadhe astram sva-dhanuṣi kāmaḥ pañcamukham tadā . madhuḥ manaḥ rajaḥ-toke indra-bhṛtyāḥ vyakampayan .. 25 ..
क्रीडन्त्याः पुञ्जिकस्थल्याः कन्दुकैः स्तनगौरवात् । भृशमुद्विग्नमध्यायाः केशविस्रंसितस्रजः ॥ २६ ॥
क्रीडन्त्याः पुञ्जिक-स्थल्याः कन्दुकैः स्तन-गौरवात् । भृशम् उद्विग्न-मध्यायाः केश-विस्रंसित-स्रजः ॥ २६ ॥
krīḍantyāḥ puñjika-sthalyāḥ kandukaiḥ stana-gauravāt . bhṛśam udvigna-madhyāyāḥ keśa-visraṃsita-srajaḥ .. 26 ..
इतस्ततो भ्रमद्दृष्टेः चलन्त्या अनु कन्दुकम् । वायुर्जहार तद्वासः सूक्ष्मं त्रुटितमेखलम् ॥ २७ ॥
इतस् ततस् भ्रमत्-दृष्टेः चलन्त्याः अनु कन्दुकम् । वायुः जहार तत् वासः सूक्ष्मम् त्रुटित-मेखलम् ॥ २७ ॥
itas tatas bhramat-dṛṣṭeḥ calantyāḥ anu kandukam . vāyuḥ jahāra tat vāsaḥ sūkṣmam truṭita-mekhalam .. 27 ..
विससर्ज तदा बाणं मत्वा तं स्वजितं स्मरः । सर्वं तत्राभवन् मोघमनीशस्य यथोद्यमः ॥ २८ ॥
विससर्ज तदा बाणम् मत्वा तम् स्व-जितम् स्मरः । सर्वम् तत्र अभवत् मोघम् अनीशस्य यथा उद्यमः ॥ २८ ॥
visasarja tadā bāṇam matvā tam sva-jitam smaraḥ . sarvam tatra abhavat mogham anīśasya yathā udyamaḥ .. 28 ..
त इत्थमपकुर्वन्तो मुनेस्तत्तेजसा मुने । दह्यमाना निववृतुः प्रबोध्याहिमिवार्भकाः ॥ २९ ॥
ते इत्थम् अपकुर्वन्तः मुनेः तद्-तेजसा मुने । दह्यमानाः निववृतुः प्रबोध्य अहिम् इव अर्भकाः ॥ २९ ॥
te ittham apakurvantaḥ muneḥ tad-tejasā mune . dahyamānāḥ nivavṛtuḥ prabodhya ahim iva arbhakāḥ .. 29 ..
इतीन्द्रानुचरैर्ब्रह्मन् धर्षितोऽपि महामुनिः । यन्नागादहमो भावं न तच्चित्रं महत्सु हि ॥ ३० ॥
इति इन्द्र-अनुचरैः ब्रह्मन् धर्षितः अपि महा-मुनिः । यत् नागात् अहमः भावम् न तत् चित्रम् महत्सु हि ॥ ३० ॥
iti indra-anucaraiḥ brahman dharṣitaḥ api mahā-muniḥ . yat nāgāt ahamaḥ bhāvam na tat citram mahatsu hi .. 30 ..
दृष्ट्वा निस्तेजसं कामं सगणं भगवान् स्वराट् । श्रुत्वानुभावं ब्रह्मर्षेः विस्मयं समगात् परम् ॥ ३१ ॥
दृष्ट्वा निस्तेजसम् कामम् स गणम् भगवान् स्वराज् । श्रुत्वा अनुभावम् ब्रह्मर्षेः विस्मयम् समगात् परम् ॥ ३१ ॥
dṛṣṭvā nistejasam kāmam sa gaṇam bhagavān svarāj . śrutvā anubhāvam brahmarṣeḥ vismayam samagāt param .. 31 ..
तस्यैवं युञ्जतश्चित्तं तपःस्वाध्यायसंयमैः । अनुग्रहायाविरासीत् नरनारायणो हरिः ॥ ३२ ॥
तस्य एवम् युञ्जतः चित्तम् तपः-स्वाध्याय-संयमैः । अनुग्रहाय आविरासीत् नर-नारायणः हरिः ॥ ३२ ॥
tasya evam yuñjataḥ cittam tapaḥ-svādhyāya-saṃyamaiḥ . anugrahāya āvirāsīt nara-nārāyaṇaḥ hariḥ .. 32 ..
(मिश्र-१२)
तौ शुक्लकृष्णौ नवकञ्जलोचनौ चतुर्भुजौ रौरववल्कलाम्बरौ । पवित्रपाणी उपवीतकं त्रिवृत् कमण्डलुं दण्डमृजुं च वैणवम् ॥ ३३ ॥
तौ शुक्ल-कृष्णौ नव-कञ्ज-लोचनौ चतुर्-भुजौ रौरव-वल्कल-अम्बरौ । पवित्र-पाणी उपवीतकम् त्रिवृत् कमण्डलुम् दण्डम् ऋजुम् च वैणवम् ॥ ३३ ॥
tau śukla-kṛṣṇau nava-kañja-locanau catur-bhujau raurava-valkala-ambarau . pavitra-pāṇī upavītakam trivṛt kamaṇḍalum daṇḍam ṛjum ca vaiṇavam .. 33 ..
पद्माक्षमालामुत जन्तुमार्जनं वेदं च साक्षात् तप एव रूपिणौ । तपत् तडिद्वर्णपिशङ्गरोचिषा प्रांशू दधानौ विबुधर्षभार्चितौ ॥ ३४ ॥
पद्म-अक्ष-मालाम् उत जन्तुमार्जनम् वेदम् च साक्षात् तपः एव रूपिणौ । तपत् तडित्-वर्ण-पिशङ्ग-रोचिषा प्रांशू दधानौ विबुध-ऋषभ-अर्चितौ ॥ ३४ ॥
padma-akṣa-mālām uta jantumārjanam vedam ca sākṣāt tapaḥ eva rūpiṇau . tapat taḍit-varṇa-piśaṅga-rociṣā prāṃśū dadhānau vibudha-ṛṣabha-arcitau .. 34 ..
(अनुष्टुप्)
ते वै भगवतो रूपे नरनारायणौ ऋषी । दृष्ट्वोत्थायादरेणोच्चैः ननामाङ्गेन दण्डवत् ॥ ३५ ॥
ते वै भगवतः रूपे नर-नारायणौ ऋषी । दृष्ट्वा उत्थाय आदरेण उच्चैस् ननाम अङ्गेन दण्ड-वत् ॥ ३५ ॥
te vai bhagavataḥ rūpe nara-nārāyaṇau ṛṣī . dṛṣṭvā utthāya ādareṇa uccais nanāma aṅgena daṇḍa-vat .. 35 ..
स तत् सन्दर्शनानन्द निर्वृतात्मेन्द्रियाशयः । हृष्टरोमाश्रुपूर्णाक्षो न सेहे तावुदीक्षितुम् ॥ ३६ ॥
स तत् सन्दर्शन-आनन्द-निर्वृत-आत्म-इन्द्रिय-आशयः । हृष्ट-रोम-अश्रु-पूर्ण-अक्षः न सेहे तौ उदीक्षितुम् ॥ ३६ ॥
sa tat sandarśana-ānanda-nirvṛta-ātma-indriya-āśayaḥ . hṛṣṭa-roma-aśru-pūrṇa-akṣaḥ na sehe tau udīkṣitum .. 36 ..
उत्थाय प्राञ्जलिः प्रह्व औत्सुक्यादाश्लिषन्निव । नमो नम इतीशानौ बभाषे गद्गदाक्षरम् ॥ ३७ ॥
उत्थाय प्राञ्जलिः प्रह्वः औत्सुक्यात् आश्लिषन् इव । नमः नमः इति ईशानौ बभाषे गद्गद-अक्षरम् ॥ ३७ ॥
utthāya prāñjaliḥ prahvaḥ autsukyāt āśliṣan iva . namaḥ namaḥ iti īśānau babhāṣe gadgada-akṣaram .. 37 ..
तयोरासनमादाय पादयोरवनिज्य च । अर्हणेनानुलेपेन धूपमाल्यैरपूजयत् ॥ ३८ ॥
तयोः आसनम् आदाय पादयोः अवनिज्य च । अर्हणेन अनुलेपेन धूप-माल्यैः अपूजयत् ॥ ३८ ॥
tayoḥ āsanam ādāya pādayoḥ avanijya ca . arhaṇena anulepena dhūpa-mālyaiḥ apūjayat .. 38 ..
सुखमासनमासीनौ प्रसादाभिमुखौ मुनी । पुनरानम्य पादाभ्यां गरिष्ठाविदमब्रवीत् ॥ ३९ ॥
सुखम् आसनम् आसीनौ प्रसाद-अभिमुखौ मुनी । पुनर् आनम्य पादाभ्याम् गरिष्ठौ इदम् अब्रवीत् ॥ ३९ ॥
sukham āsanam āsīnau prasāda-abhimukhau munī . punar ānamya pādābhyām gariṣṭhau idam abravīt .. 39 ..
श्रीमार्कण्डेय उवाच - (वसंततिलका)
किं वर्णये तव विभो यदुदीरितोऽसुः संस्पन्दते तमनु वाङ्मन इन्द्रियाणि । स्पन्दन्ति वै तनुभृतामजशर्वयोश्च स्वस्याप्यथापि भजतामसि भावबन्धुः ॥ ४० ॥
किम् वर्णये तव विभो यत् उदीरितः असुः संस्पन्दते तम् अनु वाच्-मनः इन्द्रियाणि । स्पन्दन्ति वै तनुभृताम् अज-शर्वयोः च स्वस्य अपि अथा अपि भजताम् असि भाव-बन्धुः ॥ ४० ॥
kim varṇaye tava vibho yat udīritaḥ asuḥ saṃspandate tam anu vāc-manaḥ indriyāṇi . spandanti vai tanubhṛtām aja-śarvayoḥ ca svasya api athā api bhajatām asi bhāva-bandhuḥ .. 40 ..
मूर्ती इमे भगवतो भगवन् त्रिलोक्याः क्षेमाय तापविरमाय च मृत्युजित्यै । नाना बिभर्ष्यवितुमन्यतनूर्यथेदं सृष्ट्वा पुनर्ग्रससि सर्वमिवोर्णनाभिः ॥ ४१ ॥
मूर्ती इमे भगवतः भगवन् त्रिलोक्याः क्षेमाय ताप-विरमाय च मृत्यु-जित्यै । नाना बिभर्षि अवितुम् अन्य-तनूः यथा इदम् सृष्ट्वा पुनर् ग्रससि सर्वम् इव ऊर्णनाभिः ॥ ४१ ॥
mūrtī ime bhagavataḥ bhagavan trilokyāḥ kṣemāya tāpa-viramāya ca mṛtyu-jityai . nānā bibharṣi avitum anya-tanūḥ yathā idam sṛṣṭvā punar grasasi sarvam iva ūrṇanābhiḥ .. 41 ..
तस्यावितुः स्थिरचरेशितुरङ्घ्रिमूलं यत्स्थं न कर्मगुणकालरुजः स्पृशन्ति । यद्वै स्तुवन्ति निनमन्ति यजन्त्यभीक्ष्णं ध्यायन्ति वेदहृदया मुनयस्तदाप्त्यै ॥ ४२ ॥
तस्य अवितुः स्थिर-चर-ईशितुः अङ्घ्रि-मूलम् यद्-स्थम् न कर्म-गुण-काल-रुजः स्पृशन्ति । यत् वै स्तुवन्ति निनमन्ति यजन्ति अभीक्ष्णम् ध्यायन्ति वेद-हृदयाः मुनयः तद्-आप्त्यै ॥ ४२ ॥
tasya avituḥ sthira-cara-īśituḥ aṅghri-mūlam yad-stham na karma-guṇa-kāla-rujaḥ spṛśanti . yat vai stuvanti ninamanti yajanti abhīkṣṇam dhyāyanti veda-hṛdayāḥ munayaḥ tad-āptyai .. 42 ..
नान्यं तवाङ्घ्र्युपनयादपवर्गमूर्तेः क्षेमं जनस्य परितोभिय ईश विद्मः । ब्रह्मा बिभेत्यलमतो द्विपरार्धधिष्ण्यः कालस्य ते किमुत तत्कृतभौतिकानाम् ॥ ४३ ॥
न अन्यम् तव अङ्घ्रि-उपनयात् अपवर्ग-मूर्तेः क्षेमम् जनस्य परितस् भियः ईश विद्मः । ब्रह्मा बिभेति अलम् अतस् द्वि-परार्ध-धिष्ण्यः कालस्य ते किम् उत तद्-कृत-भौतिकानाम् ॥ ४३ ॥
na anyam tava aṅghri-upanayāt apavarga-mūrteḥ kṣemam janasya paritas bhiyaḥ īśa vidmaḥ . brahmā bibheti alam atas dvi-parārdha-dhiṣṇyaḥ kālasya te kim uta tad-kṛta-bhautikānām .. 43 ..
तद् वै भजाम्यृतधियस्तव पादमूलं हित्वेदमात्मच्छदि चात्मगुरोः परस्य । देहाद्यपार्थमसदन्त्यमभिज्ञमात्रं विन्देत ते तर्हि सर्वमनीषितार्थम् ॥ ४४ ॥
तत् वै भजामि ऋत-धियः तव पाद-मूलम् हित्वा इदम् आत्मच्छदि च आत्म-गुरोः परस्य । देह-आदि-अपार्थम् असत्-अन्त्यम् अभिज्ञ-मात्रम् विन्देत ते तर्हि सर्व-मनीषित-अर्थम् ॥ ४४ ॥
tat vai bhajāmi ṛta-dhiyaḥ tava pāda-mūlam hitvā idam ātmacchadi ca ātma-guroḥ parasya . deha-ādi-apārtham asat-antyam abhijña-mātram vindeta te tarhi sarva-manīṣita-artham .. 44 ..
सत्त्वं रजस्तम इतीश तवात्मबन्धो मायामयाः स्थितिलयोदयहेतवोऽस्य । लीला धृता यदपि सत्त्वमयी प्रशान्त्यै नान्ये नृणां व्यसनमोहभियश्च याभ्याम् ॥ ४५ ॥
सत्त्वम् रजः तमः इति ईश तव आत्म-बन्धो माया-मयाः स्थिति-लय-उदय-हेतवः अस्य । लीला धृता यत् अपि सत्त्व-मयी प्रशान्त्यै न अन्ये नृणाम् व्यसन-मोह-भियः च याभ्याम् ॥ ४५ ॥
sattvam rajaḥ tamaḥ iti īśa tava ātma-bandho māyā-mayāḥ sthiti-laya-udaya-hetavaḥ asya . līlā dhṛtā yat api sattva-mayī praśāntyai na anye nṛṇām vyasana-moha-bhiyaḥ ca yābhyām .. 45 ..
तस्मात्तवेह भगवन्नथ तावकानां शुक्लां तनुं स्वदयितां कुशला भजन्ति । यत्सात्वताः पुरुषरूपमुशन्ति सत्त्वं लोको यतोऽभयमुतात्मसुखं न चान्यत् ॥ ४६ ॥
तस्मात् तव इह भगवन् अथ तावकानाम् शुक्लाम् तनुम् स्व-दयिताम् कुशलाः भजन्ति । यत् सात्वताः पुरुष-रूपम् उशन्ति सत्त्वम् लोकः यतस् अभयम् उत आत्म-सुखम् न च अन्यत् ॥ ४६ ॥
tasmāt tava iha bhagavan atha tāvakānām śuklām tanum sva-dayitām kuśalāḥ bhajanti . yat sātvatāḥ puruṣa-rūpam uśanti sattvam lokaḥ yatas abhayam uta ātma-sukham na ca anyat .. 46 ..
तस्मै नमो भगवते पुरुषाय भूम्ने विश्वाय विश्वगुरवे परदैवतायै । नारायणाय ऋषये च नरोत्तमाय हंसाय संयतगिरे निगमेश्वराय ॥ ४७ ॥
तस्मै नमः भगवते पुरुषाय भूम्ने विश्वाय विश्व-गुरवे पर-दैवतायै । नारायणाय ऋषये च नरोत्तमाय हंसाय संयत-गिरे निगम-ईश्वराय ॥ ४७ ॥
tasmai namaḥ bhagavate puruṣāya bhūmne viśvāya viśva-gurave para-daivatāyai . nārāyaṇāya ṛṣaye ca narottamāya haṃsāya saṃyata-gire nigama-īśvarāya .. 47 ..
यं वै न वेद वितथाक्षपथैर्भ्रमद्धीः सन्तं स्वखेष्वसुषु हृद्यपि दृक्पथेषु । तन्माययावृतमतिः स उ एव साक्षाद् आद्यस्तवाखिलगुरोरुपसाद्य वेदम् ॥ ४८ ॥
यम् वै न वेद वितथ-अक्ष-पथैः भ्रमत्-धीः सन्तम् स्व-खेषु असुषु हृदि अपि दृक्पथेषु । तद्-मायया आवृत-मतिः सः उ एव साक्षात् आद्यः तव अखिल-गुरोः उपसाद्य वेदम् ॥ ४८ ॥
yam vai na veda vitatha-akṣa-pathaiḥ bhramat-dhīḥ santam sva-kheṣu asuṣu hṛdi api dṛkpatheṣu . tad-māyayā āvṛta-matiḥ saḥ u eva sākṣāt ādyaḥ tava akhila-guroḥ upasādya vedam .. 48 ..
यद्दर्शनं निगम आत्मरहःप्रकाशं मुह्यन्ति यत्र कवयोऽजपरा यतन्तः । तं सर्ववादविषयप्रतिरूपशीलं वन्दे महापुरुषमात्मनिगूढबोधम् ॥ ४९ ॥
यत् दर्शनम् निगमे आत्म-रहः-प्रकाशम् मुह्यन्ति यत्र कवयः अज-पराः यतन्तः । तम् सर्व-वाद-विषय-प्रतिरूप-शीलम् वन्दे महापुरुषम् आत्म-निगूढ-बोधम् ॥ ४९ ॥
yat darśanam nigame ātma-rahaḥ-prakāśam muhyanti yatra kavayaḥ aja-parāḥ yatantaḥ . tam sarva-vāda-viṣaya-pratirūpa-śīlam vande mahāpuruṣam ātma-nigūḍha-bodham .. 49 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वादशस्कन्धे अष्टमोऽध्यायः ॥ ८ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् द्वादश-स्कन्धे अष्टमः अध्यायः ॥ ८ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām dvādaśa-skandhe aṣṭamaḥ adhyāyaḥ .. 8 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In