| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशौनक उवाच – (अनुष्टुप्)
सूत जीव चिरं साधो वद नो वदतां वर । तमस्यपारे भ्रमतां नॄणां त्वं पारदर्शनः ॥ १ ॥
sūta jīva ciraṃ sādho vada no vadatāṃ vara . tamasyapāre bhramatāṃ nṝṇāṃ tvaṃ pāradarśanaḥ .. 1 ..
आहुश्चिरायुषमृषिं मृकण्डुतनयं जनाः । यः कल्पान्ते उर्वरितो येन ग्रस्तमिदं जगत् ॥ २ ॥
āhuścirāyuṣamṛṣiṃ mṛkaṇḍutanayaṃ janāḥ . yaḥ kalpānte urvarito yena grastamidaṃ jagat .. 2 ..
स वा अस्मत् कुलोत्पन्नः कल्पेऽस्मिन् भार्गवर्षभः । नैवाधुनापि भूतानां सम्प्लवः कोऽपि जायते ॥ ३ ॥
sa vā asmat kulotpannaḥ kalpe'smin bhārgavarṣabhaḥ . naivādhunāpi bhūtānāṃ samplavaḥ ko'pi jāyate .. 3 ..
एक एवार्णवे भ्राम्यन् ददर्श पुरुषं किल । वटपत्रपुटे तोकं शयानं त्वेकमद्भुतम् ॥ ४ ॥
eka evārṇave bhrāmyan dadarśa puruṣaṃ kila . vaṭapatrapuṭe tokaṃ śayānaṃ tvekamadbhutam .. 4 ..
एष नः संशयो भूयान् सूत कौतूहलं यतः । तं नश्छिन्धि महायोगिन् पुराणेष्वपि सम्मतः ॥ ५ ॥
eṣa naḥ saṃśayo bhūyān sūta kautūhalaṃ yataḥ . taṃ naśchindhi mahāyogin purāṇeṣvapi sammataḥ .. 5 ..
सूत उवाच -
प्रश्नस्त्वया महर्षेऽयं कृतो लोकभ्रमापहः । नारायणकथा यत्र गीता कलिमलापहा ॥ ६ ॥
praśnastvayā maharṣe'yaṃ kṛto lokabhramāpahaḥ . nārāyaṇakathā yatra gītā kalimalāpahā .. 6 ..
प्राप्तद्विजातिसंस्कारो मार्कण्डेयः पितुः क्रमात् । छन्दांस्यधीत्य धर्मेण तपःस्वाध्यायसंयुतः ॥ ७ ॥
prāptadvijātisaṃskāro mārkaṇḍeyaḥ pituḥ kramāt . chandāṃsyadhītya dharmeṇa tapaḥsvādhyāyasaṃyutaḥ .. 7 ..
बृहद्व्रतधरः शान्तो जटिलो वल्कलाम्बरः । बिभ्रत्कमण्डलुं दण्डमुपवीतं समेखलम् ॥ ८ ॥
bṛhadvratadharaḥ śānto jaṭilo valkalāmbaraḥ . bibhratkamaṇḍaluṃ daṇḍamupavītaṃ samekhalam .. 8 ..
कृष्णाजिनं साक्षसूत्रं कुशांश्च नियमर्द्धये । अग्न्यर्कगुरुविप्रात्मस्वर्चयन् सन्ध्ययोर्हरिम् ॥ ९ ॥
kṛṣṇājinaṃ sākṣasūtraṃ kuśāṃśca niyamarddhaye . agnyarkaguruviprātmasvarcayan sandhyayorharim .. 9 ..
सायं प्रातः स गुरवे भैक्ष्यमाहृत्य वाग्यतः । बुभुजे गुर्वनुज्ञातः सकृन्नो चेदुपोषितः ॥ १० ॥
sāyaṃ prātaḥ sa gurave bhaikṣyamāhṛtya vāgyataḥ . bubhuje gurvanujñātaḥ sakṛnno cedupoṣitaḥ .. 10 ..
एवं तपःस्वाध्यायपरो वर्षाणामयुतायुतम् । आराधयन् हृषीकेशं जिग्ये मृत्युं सुदुर्जयम् ॥ ११ ॥
evaṃ tapaḥsvādhyāyaparo varṣāṇāmayutāyutam . ārādhayan hṛṣīkeśaṃ jigye mṛtyuṃ sudurjayam .. 11 ..
ब्रह्मा भृगुर्भवो दक्षो ब्रह्मपुत्राश्च ये परे । नृदेवपितृभूतानि तेनासन् अतिविस्मिताः ॥ १२ ॥
brahmā bhṛgurbhavo dakṣo brahmaputrāśca ye pare . nṛdevapitṛbhūtāni tenāsan ativismitāḥ .. 12 ..
इत्थं बृहद्व्रतधरः तपःस्वाध्यायसंयमैः । दध्यावधोक्षजं योगी ध्वस्तक्लेशान्तरात्मना ॥ १३ ॥
itthaṃ bṛhadvratadharaḥ tapaḥsvādhyāyasaṃyamaiḥ . dadhyāvadhokṣajaṃ yogī dhvastakleśāntarātmanā .. 13 ..
तस्यैवं युञ्जतश्चित्तं महायोगेन योगिनः । व्यतीयाय महान् कालो मन्वन्तरषडात्मकः ॥ १४ ॥
tasyaivaṃ yuñjataścittaṃ mahāyogena yoginaḥ . vyatīyāya mahān kālo manvantaraṣaḍātmakaḥ .. 14 ..
एतत् पुरन्दरो ज्ञात्वा सप्तमेऽस्मिन् किलान्तरे । तपोविशङ्कितो ब्रह्मन् आरेभे तद्विघातनम् ॥ १५ ॥
etat purandaro jñātvā saptame'smin kilāntare . tapoviśaṅkito brahman ārebhe tadvighātanam .. 15 ..
गन्धर्वाप्सरसः कामं वसन्तमलयानिलौ । मुनये प्रेषयामास रजस्तोकमदौ तथा ॥ १६ ॥
gandharvāpsarasaḥ kāmaṃ vasantamalayānilau . munaye preṣayāmāsa rajastokamadau tathā .. 16 ..
ते वै तदाश्रमं जग्मुः हिमाद्रेः पार्श्व उत्तरे । पुष्पभद्रा नदी यत्र चित्राख्या च शिला विभो ॥ १७ ॥
te vai tadāśramaṃ jagmuḥ himādreḥ pārśva uttare . puṣpabhadrā nadī yatra citrākhyā ca śilā vibho .. 17 ..
तदाश्रमपदं पुण्यं पुण्यद्रुमलताञ्चितम् । पुण्यद्विजकुलाकीर्णं पुण्यामलजलाशयम् ॥ १८ ॥
tadāśramapadaṃ puṇyaṃ puṇyadrumalatāñcitam . puṇyadvijakulākīrṇaṃ puṇyāmalajalāśayam .. 18 ..
मत्तभ्रमरसङ्गीतं मत्तकोकिलकूजितम् । मत्तबर्हिनटाटोपं मत्तद्विजकुलाकुलम् ॥ १९ ॥
mattabhramarasaṅgītaṃ mattakokilakūjitam . mattabarhinaṭāṭopaṃ mattadvijakulākulam .. 19 ..
वायुः प्रविष्ट आदाय हिमनिर्झरशीकरान् । सुमनोभिः परिष्वक्तो ववावुत्तम्भयन् स्मरम् ॥ २० ॥
vāyuḥ praviṣṭa ādāya himanirjharaśīkarān . sumanobhiḥ pariṣvakto vavāvuttambhayan smaram .. 20 ..
उद्यच्चन्द्रनिशावक्त्रः प्रवालस्तबकालिभिः । गोपद्रुमलताजालैः तत्रासीत् कुसुमाकरः ॥ २१ ॥
udyaccandraniśāvaktraḥ pravālastabakālibhiḥ . gopadrumalatājālaiḥ tatrāsīt kusumākaraḥ .. 21 ..
अन्वीयमानो गन्धर्वैः गीतवादित्रयूथकैः । अदृश्यतात्तचापेषुः स्वःस्त्रीयूथपतिः स्मरः ॥ २२ ॥
anvīyamāno gandharvaiḥ gītavāditrayūthakaiḥ . adṛśyatāttacāpeṣuḥ svaḥstrīyūthapatiḥ smaraḥ .. 22 ..
हुत्वाग्निं समुपासीनं ददृशुः शक्रकिङ्कराः । मीलिताक्षं दुराधर्षं मूर्तिमन्तमिवानलम् ॥ २३ ॥
hutvāgniṃ samupāsīnaṃ dadṛśuḥ śakrakiṅkarāḥ . mīlitākṣaṃ durādharṣaṃ mūrtimantamivānalam .. 23 ..
ननृतुस्तस्य पुरतः स्त्रियोऽथो गायका जगुः । मृदङ्गवीणापणवैः वाद्यं चक्रुर्मनोरमम् ॥ २४ ॥
nanṛtustasya purataḥ striyo'tho gāyakā jaguḥ . mṛdaṅgavīṇāpaṇavaiḥ vādyaṃ cakrurmanoramam .. 24 ..
सन्दधेऽस्त्रं स्वधनुषि कामः पञ्चमुखं तदा । मधुर्मनो रजस्तोक इन्द्रभृत्या व्यकम्पयन् ॥ २५ ॥
sandadhe'straṃ svadhanuṣi kāmaḥ pañcamukhaṃ tadā . madhurmano rajastoka indrabhṛtyā vyakampayan .. 25 ..
क्रीडन्त्याः पुञ्जिकस्थल्याः कन्दुकैः स्तनगौरवात् । भृशमुद्विग्नमध्यायाः केशविस्रंसितस्रजः ॥ २६ ॥
krīḍantyāḥ puñjikasthalyāḥ kandukaiḥ stanagauravāt . bhṛśamudvignamadhyāyāḥ keśavisraṃsitasrajaḥ .. 26 ..
इतस्ततो भ्रमद्दृष्टेः चलन्त्या अनु कन्दुकम् । वायुर्जहार तद्वासः सूक्ष्मं त्रुटितमेखलम् ॥ २७ ॥
itastato bhramaddṛṣṭeḥ calantyā anu kandukam . vāyurjahāra tadvāsaḥ sūkṣmaṃ truṭitamekhalam .. 27 ..
विससर्ज तदा बाणं मत्वा तं स्वजितं स्मरः । सर्वं तत्राभवन् मोघमनीशस्य यथोद्यमः ॥ २८ ॥
visasarja tadā bāṇaṃ matvā taṃ svajitaṃ smaraḥ . sarvaṃ tatrābhavan moghamanīśasya yathodyamaḥ .. 28 ..
त इत्थमपकुर्वन्तो मुनेस्तत्तेजसा मुने । दह्यमाना निववृतुः प्रबोध्याहिमिवार्भकाः ॥ २९ ॥
ta itthamapakurvanto munestattejasā mune . dahyamānā nivavṛtuḥ prabodhyāhimivārbhakāḥ .. 29 ..
इतीन्द्रानुचरैर्ब्रह्मन् धर्षितोऽपि महामुनिः । यन्नागादहमो भावं न तच्चित्रं महत्सु हि ॥ ३० ॥
itīndrānucarairbrahman dharṣito'pi mahāmuniḥ . yannāgādahamo bhāvaṃ na taccitraṃ mahatsu hi .. 30 ..
दृष्ट्वा निस्तेजसं कामं सगणं भगवान् स्वराट् । श्रुत्वानुभावं ब्रह्मर्षेः विस्मयं समगात् परम् ॥ ३१ ॥
dṛṣṭvā nistejasaṃ kāmaṃ sagaṇaṃ bhagavān svarāṭ . śrutvānubhāvaṃ brahmarṣeḥ vismayaṃ samagāt param .. 31 ..
तस्यैवं युञ्जतश्चित्तं तपःस्वाध्यायसंयमैः । अनुग्रहायाविरासीत् नरनारायणो हरिः ॥ ३२ ॥
tasyaivaṃ yuñjataścittaṃ tapaḥsvādhyāyasaṃyamaiḥ . anugrahāyāvirāsīt naranārāyaṇo hariḥ .. 32 ..
(मिश्र-१२)
तौ शुक्लकृष्णौ नवकञ्जलोचनौ चतुर्भुजौ रौरववल्कलाम्बरौ । पवित्रपाणी उपवीतकं त्रिवृत् कमण्डलुं दण्डमृजुं च वैणवम् ॥ ३३ ॥
tau śuklakṛṣṇau navakañjalocanau caturbhujau rauravavalkalāmbarau . pavitrapāṇī upavītakaṃ trivṛt kamaṇḍaluṃ daṇḍamṛjuṃ ca vaiṇavam .. 33 ..
पद्माक्षमालामुत जन्तुमार्जनं वेदं च साक्षात् तप एव रूपिणौ । तपत् तडिद्वर्णपिशङ्गरोचिषा प्रांशू दधानौ विबुधर्षभार्चितौ ॥ ३४ ॥
padmākṣamālāmuta jantumārjanaṃ vedaṃ ca sākṣāt tapa eva rūpiṇau . tapat taḍidvarṇapiśaṅgarociṣā prāṃśū dadhānau vibudharṣabhārcitau .. 34 ..
(अनुष्टुप्)
ते वै भगवतो रूपे नरनारायणौ ऋषी । दृष्ट्वोत्थायादरेणोच्चैः ननामाङ्गेन दण्डवत् ॥ ३५ ॥
te vai bhagavato rūpe naranārāyaṇau ṛṣī . dṛṣṭvotthāyādareṇoccaiḥ nanāmāṅgena daṇḍavat .. 35 ..
स तत् सन्दर्शनानन्द निर्वृतात्मेन्द्रियाशयः । हृष्टरोमाश्रुपूर्णाक्षो न सेहे तावुदीक्षितुम् ॥ ३६ ॥
sa tat sandarśanānanda nirvṛtātmendriyāśayaḥ . hṛṣṭaromāśrupūrṇākṣo na sehe tāvudīkṣitum .. 36 ..
उत्थाय प्राञ्जलिः प्रह्व औत्सुक्यादाश्लिषन्निव । नमो नम इतीशानौ बभाषे गद्गदाक्षरम् ॥ ३७ ॥
utthāya prāñjaliḥ prahva autsukyādāśliṣanniva . namo nama itīśānau babhāṣe gadgadākṣaram .. 37 ..
तयोरासनमादाय पादयोरवनिज्य च । अर्हणेनानुलेपेन धूपमाल्यैरपूजयत् ॥ ३८ ॥
tayorāsanamādāya pādayoravanijya ca . arhaṇenānulepena dhūpamālyairapūjayat .. 38 ..
सुखमासनमासीनौ प्रसादाभिमुखौ मुनी । पुनरानम्य पादाभ्यां गरिष्ठाविदमब्रवीत् ॥ ३९ ॥
sukhamāsanamāsīnau prasādābhimukhau munī . punarānamya pādābhyāṃ gariṣṭhāvidamabravīt .. 39 ..
श्रीमार्कण्डेय उवाच - (वसंततिलका)
किं वर्णये तव विभो यदुदीरितोऽसुः संस्पन्दते तमनु वाङ्मन इन्द्रियाणि । स्पन्दन्ति वै तनुभृतामजशर्वयोश्च स्वस्याप्यथापि भजतामसि भावबन्धुः ॥ ४० ॥
kiṃ varṇaye tava vibho yadudīrito'suḥ saṃspandate tamanu vāṅmana indriyāṇi . spandanti vai tanubhṛtāmajaśarvayośca svasyāpyathāpi bhajatāmasi bhāvabandhuḥ .. 40 ..
मूर्ती इमे भगवतो भगवन् त्रिलोक्याः क्षेमाय तापविरमाय च मृत्युजित्यै । नाना बिभर्ष्यवितुमन्यतनूर्यथेदं सृष्ट्वा पुनर्ग्रससि सर्वमिवोर्णनाभिः ॥ ४१ ॥
mūrtī ime bhagavato bhagavan trilokyāḥ kṣemāya tāpaviramāya ca mṛtyujityai . nānā bibharṣyavitumanyatanūryathedaṃ sṛṣṭvā punargrasasi sarvamivorṇanābhiḥ .. 41 ..
तस्यावितुः स्थिरचरेशितुरङ्घ्रिमूलं यत्स्थं न कर्मगुणकालरुजः स्पृशन्ति । यद्वै स्तुवन्ति निनमन्ति यजन्त्यभीक्ष्णं ध्यायन्ति वेदहृदया मुनयस्तदाप्त्यै ॥ ४२ ॥
tasyāvituḥ sthiracareśituraṅghrimūlaṃ yatsthaṃ na karmaguṇakālarujaḥ spṛśanti . yadvai stuvanti ninamanti yajantyabhīkṣṇaṃ dhyāyanti vedahṛdayā munayastadāptyai .. 42 ..
नान्यं तवाङ्घ्र्युपनयादपवर्गमूर्तेः क्षेमं जनस्य परितोभिय ईश विद्मः । ब्रह्मा बिभेत्यलमतो द्विपरार्धधिष्ण्यः कालस्य ते किमुत तत्कृतभौतिकानाम् ॥ ४३ ॥
nānyaṃ tavāṅghryupanayādapavargamūrteḥ kṣemaṃ janasya paritobhiya īśa vidmaḥ . brahmā bibhetyalamato dviparārdhadhiṣṇyaḥ kālasya te kimuta tatkṛtabhautikānām .. 43 ..
तद् वै भजाम्यृतधियस्तव पादमूलं हित्वेदमात्मच्छदि चात्मगुरोः परस्य । देहाद्यपार्थमसदन्त्यमभिज्ञमात्रं विन्देत ते तर्हि सर्वमनीषितार्थम् ॥ ४४ ॥
tad vai bhajāmyṛtadhiyastava pādamūlaṃ hitvedamātmacchadi cātmaguroḥ parasya . dehādyapārthamasadantyamabhijñamātraṃ vindeta te tarhi sarvamanīṣitārtham .. 44 ..
सत्त्वं रजस्तम इतीश तवात्मबन्धो मायामयाः स्थितिलयोदयहेतवोऽस्य । लीला धृता यदपि सत्त्वमयी प्रशान्त्यै नान्ये नृणां व्यसनमोहभियश्च याभ्याम् ॥ ४५ ॥
sattvaṃ rajastama itīśa tavātmabandho māyāmayāḥ sthitilayodayahetavo'sya . līlā dhṛtā yadapi sattvamayī praśāntyai nānye nṛṇāṃ vyasanamohabhiyaśca yābhyām .. 45 ..
तस्मात्तवेह भगवन्नथ तावकानां शुक्लां तनुं स्वदयितां कुशला भजन्ति । यत्सात्वताः पुरुषरूपमुशन्ति सत्त्वं लोको यतोऽभयमुतात्मसुखं न चान्यत् ॥ ४६ ॥
tasmāttaveha bhagavannatha tāvakānāṃ śuklāṃ tanuṃ svadayitāṃ kuśalā bhajanti . yatsātvatāḥ puruṣarūpamuśanti sattvaṃ loko yato'bhayamutātmasukhaṃ na cānyat .. 46 ..
तस्मै नमो भगवते पुरुषाय भूम्ने विश्वाय विश्वगुरवे परदैवतायै । नारायणाय ऋषये च नरोत्तमाय हंसाय संयतगिरे निगमेश्वराय ॥ ४७ ॥
tasmai namo bhagavate puruṣāya bhūmne viśvāya viśvagurave paradaivatāyai . nārāyaṇāya ṛṣaye ca narottamāya haṃsāya saṃyatagire nigameśvarāya .. 47 ..
यं वै न वेद वितथाक्षपथैर्भ्रमद्धीः सन्तं स्वखेष्वसुषु हृद्यपि दृक्पथेषु । तन्माययावृतमतिः स उ एव साक्षाद् आद्यस्तवाखिलगुरोरुपसाद्य वेदम् ॥ ४८ ॥
yaṃ vai na veda vitathākṣapathairbhramaddhīḥ santaṃ svakheṣvasuṣu hṛdyapi dṛkpatheṣu . tanmāyayāvṛtamatiḥ sa u eva sākṣād ādyastavākhilagurorupasādya vedam .. 48 ..
यद्दर्शनं निगम आत्मरहःप्रकाशं मुह्यन्ति यत्र कवयोऽजपरा यतन्तः । तं सर्ववादविषयप्रतिरूपशीलं वन्दे महापुरुषमात्मनिगूढबोधम् ॥ ४९ ॥
yaddarśanaṃ nigama ātmarahaḥprakāśaṃ muhyanti yatra kavayo'japarā yatantaḥ . taṃ sarvavādaviṣayapratirūpaśīlaṃ vande mahāpuruṣamātmanigūḍhabodham .. 49 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वादशस्कन्धे अष्टमोऽध्यायः ॥ ८ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ dvādaśaskandhe aṣṭamo'dhyāyaḥ .. 8 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ oṃ tatsat śrīkṛṣṇārpaṇamastu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In