| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

सूत उवाच – (अनुष्टुप्)
संस्तुतो भगवानित्थं मार्कण्डेयेन धीमता । नारायणो नरसखः प्रीत आह भृगूद्वहम् ॥ १ ॥
संस्तुतः भगवान् इत्थम् मार्कण्डेयेन धीमता । नारायणः नरसखः प्रीतः आह भृगूद्वहम् ॥ १ ॥
saṃstutaḥ bhagavān ittham mārkaṇḍeyena dhīmatā . nārāyaṇaḥ narasakhaḥ prītaḥ āha bhṛgūdvaham .. 1 ..
श्रीभगवानुवाच -
भो भो ब्रह्मर्षिवर्योऽसि सिद्ध आत्मसमाधिना । मयि भक्त्यानपायिन्या तपःस्वाध्यायसंयमैः ॥ २ ॥
भो भो ब्रह्मर्षि-वर्यः असि सिद्धः आत्म-समाधिना । मयि भक्त्या अनपायिन्या तपः-स्वाध्याय-संयमैः ॥ २ ॥
bho bho brahmarṣi-varyaḥ asi siddhaḥ ātma-samādhinā . mayi bhaktyā anapāyinyā tapaḥ-svādhyāya-saṃyamaiḥ .. 2 ..
वयं ते परितुष्टाः स्म त्वद्बृहद्व्रतचर्यया । वरं प्रतीच्छ भद्रं ते वरदेशादभीप्सितम् ॥ ३ ॥
वयम् ते परितुष्टाः स्म त्वद्-बृहत्-व्रत-चर्यया । वरम् प्रतीच्छ भद्रम् ते वर-देशात् अभीप्सितम् ॥ ३ ॥
vayam te parituṣṭāḥ sma tvad-bṛhat-vrata-caryayā . varam pratīccha bhadram te vara-deśāt abhīpsitam .. 3 ..
श्रीऋषिरुवाच -
जितं ते देवदेवेश प्रपन्नार्तिहराच्युत । वरेणैतावतालं नो यद् भवान् समदृश्यत ॥ ४ ॥
जितम् ते देवदेवेश प्रपन्न-आर्ति-हर अच्युत । वरेण एतावता अलम् नः यत् भवान् समदृश्यत ॥ ४ ॥
jitam te devadeveśa prapanna-ārti-hara acyuta . vareṇa etāvatā alam naḥ yat bhavān samadṛśyata .. 4 ..
गृहीत्वाजादयो यस्य श्रीमत् पादाब्जदर्शनम् । मनसा योगपक्वेन स भवान् मेऽक्षगोचरः ॥ ५ ॥
गृहीत्वा अज-आदयः यस्य श्रीमत् पाद-अब्ज-दर्शनम् । मनसा योग-पक्वेन स भवान् मे अक्ष-गोचरः ॥ ५ ॥
gṛhītvā aja-ādayaḥ yasya śrīmat pāda-abja-darśanam . manasā yoga-pakvena sa bhavān me akṣa-gocaraḥ .. 5 ..
अथाप्यम्बुजपत्राक्ष पुण्यश्लोकशिखामणे । द्रक्ष्ये मायां यया लोकः सपालो वेद सद्भिदाम् ॥ ६ ॥
अथ अपि अम्बुज-पत्र-अक्ष पुण्यश्लोक-शिखामणे । द्रक्ष्ये मायाम् यया लोकः स पालः वेद सत्-भिदाम् ॥ ६ ॥
atha api ambuja-patra-akṣa puṇyaśloka-śikhāmaṇe . drakṣye māyām yayā lokaḥ sa pālaḥ veda sat-bhidām .. 6 ..
सूत उवाच -
इतीडितोऽर्चितः कामम् ऋषिणा भगवान् मुने । तथेति स स्मयन् प्रागाद् बदर्याश्रममीश्वरः ॥ ७ ॥
इति ईडितः अर्चितः कामम् ऋषिणा भगवान् मुने । तथा इति स स्मयन् प्रागात् बदर्याश्रमम् ईश्वरः ॥ ७ ॥
iti īḍitaḥ arcitaḥ kāmam ṛṣiṇā bhagavān mune . tathā iti sa smayan prāgāt badaryāśramam īśvaraḥ .. 7 ..
तमेव चिन्तयन्नर्थम् ऋषिः स्वाश्रम एव सः । वसन् अग्न्यर्कसोमाम्बु भूवायुवियदात्मसु ॥ ८ ॥
तम् एव चिन्तयन् अर्थम् ऋषिः स्व-आश्रमे एव सः । वसन् अग्नि-अर्क-सोम-अम्बु भू-वायु-वियत्-आत्मसु ॥ ८ ॥
tam eva cintayan artham ṛṣiḥ sva-āśrame eva saḥ . vasan agni-arka-soma-ambu bhū-vāyu-viyat-ātmasu .. 8 ..
ध्यायन् सर्वत्र च हरिं भावद्रव्यैरपूजयत् । क्वचित् पूजां विसस्मार प्रेमप्रसरसम्प्लुतः ॥ ९ ॥
ध्यायन् सर्वत्र च हरिम् भाव-द्रव्यैः अपूजयत् । क्वचिद् पूजाम् विसस्मार प्रेम-प्रसर-सम्प्लुतः ॥ ९ ॥
dhyāyan sarvatra ca harim bhāva-dravyaiḥ apūjayat . kvacid pūjām visasmāra prema-prasara-samplutaḥ .. 9 ..
तस्यैकदा भृगुश्रेष्ठ पुष्पभद्रातटे मुनेः । उपासीनस्य सन्ध्यायां ब्रह्मन् वायुरभून्महान् ॥ १० ॥
तस्य एकदा भृगु-श्रेष्ठ पुष्पभद्रा-तटे मुनेः । उपासीनस्य सन्ध्यायाम् ब्रह्मन् वायुः अभूत् महान् ॥ १० ॥
tasya ekadā bhṛgu-śreṣṭha puṣpabhadrā-taṭe muneḥ . upāsīnasya sandhyāyām brahman vāyuḥ abhūt mahān .. 10 ..
(मिश्र-११)
तं चण्डशब्दं समुदीरयन्तं बलाहका अन्वभवन् करालाः । अक्षस्थविष्ठा मुमुचुस्तडिद्भिः स्वनन्त उच्चैरभिवर्षधाराः ॥ ११ ॥
तम् चण्ड-शब्दम् समुदीरयन्तम् बलाहकाः अन्वभवन् करालाः । अक्ष-स्थविष्ठाः मुमुचुः तडिद्भिः स्वनन्तः उच्चैस् अभिवर्ष-धाराः ॥ ११ ॥
tam caṇḍa-śabdam samudīrayantam balāhakāḥ anvabhavan karālāḥ . akṣa-sthaviṣṭhāḥ mumucuḥ taḍidbhiḥ svanantaḥ uccais abhivarṣa-dhārāḥ .. 11 ..
ततो व्यदृश्यन्त चतुःसमुद्राः समन्ततः क्ष्मातलमाग्रसन्तः । समीरवेगोर्मिभिरुग्रनक्र- महाभयावर्तगभीरघोषाः ॥ १२ ॥
ततस् व्यदृश्यन्त चतुर्-समुद्राः समन्ततः क्ष्मा-तलम् आग्रसन्तः । समीर-वेग-ऊर्मिभिः उग्र-नक्र-महा-भय-आवर्त-गभीर-घोषाः ॥ १२ ॥
tatas vyadṛśyanta catur-samudrāḥ samantataḥ kṣmā-talam āgrasantaḥ . samīra-vega-ūrmibhiḥ ugra-nakra-mahā-bhaya-āvarta-gabhīra-ghoṣāḥ .. 12 ..
(मिश्र-१२)
अन्तर्बहिश्चाद्भिरतिद्युभिः खरैः शतह्रदाभिरुपतापितं जगत् । चतुर्विधं वीक्ष्य सहात्मना मुनिः जलाप्लुतां क्ष्मां विमनाः समत्रसत् ॥ १३ ॥
अन्तर् बहिस् च अद्भिः अतिद्युभिः खरैः शतह्रदाभिः उपतापितम् जगत् । चतुर्विधम् वीक्ष्य सह आत्मना मुनिः जल-आप्लुताम् क्ष्माम् विमनाः समत्रसत् ॥ १३ ॥
antar bahis ca adbhiḥ atidyubhiḥ kharaiḥ śatahradābhiḥ upatāpitam jagat . caturvidham vīkṣya saha ātmanā muniḥ jala-āplutām kṣmām vimanāḥ samatrasat .. 13 ..
तस्यैवमुद्वीक्षत ऊर्मिभीषणः प्रभञ्जनाघूर्णितवार्महार्णवः । आपूर्यमाणो वरषद्भिरम्बुदैः क्ष्मामप्यधाद् द्वीपवर्षाद्रिभिः समम् ॥ १४ ॥
तस्य एवम् उद्वीक्षतः ऊर्मि-भीषणः प्रभञ्जन-आघूर्णित-वार्-महा-अर्णवः । आपूर्यमाणः क्ष्माम् अपि अधात् द्वीप-वर्ष-अद्रिभिः समम् ॥ १४ ॥
tasya evam udvīkṣataḥ ūrmi-bhīṣaṇaḥ prabhañjana-āghūrṇita-vār-mahā-arṇavaḥ . āpūryamāṇaḥ kṣmām api adhāt dvīpa-varṣa-adribhiḥ samam .. 14 ..
सक्ष्मान्तरिक्षं सदिवं सभागणं त्रैलोक्यमासीत् सह दिग्भिराप्लुतम् । स एक एवोर्वरितो महामुनिः बभ्राम विक्षिप्य जटा जडान्धवत् ॥ १५ ॥
सक्ष्मा अन्तरिक्षम् स दिवम् स भा-गणम् त्रैलोक्यम् आसीत् सह दिग्भिः आप्लुतम् । सः एकः एवा उर्वरितः महा-मुनिः बभ्राम विक्षिप्य जटाः जड-अन्ध-वत् ॥ १५ ॥
sakṣmā antarikṣam sa divam sa bhā-gaṇam trailokyam āsīt saha digbhiḥ āplutam . saḥ ekaḥ evā urvaritaḥ mahā-muniḥ babhrāma vikṣipya jaṭāḥ jaḍa-andha-vat .. 15 ..
क्षुत्तृट्परीतो मकरैस्तिमिङ्गिलैः उपद्रुतो वीचिनभस्वताहतः । तमस्यपारे पतितो भ्रमन् दिशो न वेद खं गां च परिश्रमेषितः ॥ १६ ॥
क्षुध्-तृष्-परीतः मकरैः तिमिङ्गिलैः उपद्रुतः वीचि-नभस्वता आहतः । तमसि अपारे पतितः भ्रमन् दिशः न वेद खम् गाम् च परिश्रम-इषितः ॥ १६ ॥
kṣudh-tṛṣ-parītaḥ makaraiḥ timiṅgilaiḥ upadrutaḥ vīci-nabhasvatā āhataḥ . tamasi apāre patitaḥ bhraman diśaḥ na veda kham gām ca pariśrama-iṣitaḥ .. 16 ..
(अनुष्टुप्)
क्वचिद् गतो महावर्ते तरलैस्ताडितः क्वचित् । यादोभिर्भक्ष्यते क्वापि स्वयं अन्योन्यघातिभिः ॥ १७ ॥
क्वचिद् गतः महा-आवर्ते तरलैः ताडितः क्वचिद् । यादोभिः भक्ष्यते क्वापि स्वयम् अन्योन्य-घातिभिः ॥ १७ ॥
kvacid gataḥ mahā-āvarte taralaiḥ tāḍitaḥ kvacid . yādobhiḥ bhakṣyate kvāpi svayam anyonya-ghātibhiḥ .. 17 ..
क्वचिच्छोकं क्वचिन्मोहं क्वचिद् दुखं सुखं भयम् । क्वचित् मृत्युमवाप्नोति व्याध्यादिभिरुतार्दितः ॥ १८ ॥
क्वचिद् शोकम् क्वचिद् मोहम् क्वचिद् दुखम् सुखम् भयम् । क्वचिद् मृत्युम् अवाप्नोति व्याधि-आदिभिः उत अर्दितः ॥ १८ ॥
kvacid śokam kvacid moham kvacid dukham sukham bhayam . kvacid mṛtyum avāpnoti vyādhi-ādibhiḥ uta arditaḥ .. 18 ..
अयुतायतवर्षाणां सहस्राणि शतानि च । व्यतीयुर्भ्रमतः तस्मिन् विष्णुमायावृतात्मनः ॥ १९ ॥
अयुत-आयत-वर्षाणाम् सहस्राणि शतानि च । व्यतीयुः भ्रमतः तस्मिन् विष्णु-माया-आवृत-आत्मनः ॥ १९ ॥
ayuta-āyata-varṣāṇām sahasrāṇi śatāni ca . vyatīyuḥ bhramataḥ tasmin viṣṇu-māyā-āvṛta-ātmanaḥ .. 19 ..
स कदाचिद् भ्रमन् तस्मिन् पृथिव्याः ककुदि द्विजः । न्याग्रोधपोतं ददृशे फलपल्लवशोभितम् ॥ २० ॥
स कदाचिद् भ्रमन् तस्मिन् पृथिव्याः ककुदि द्विजः । न्याग्रोध-पोतम् ददृशे फल-पल्लव-शोभितम् ॥ २० ॥
sa kadācid bhraman tasmin pṛthivyāḥ kakudi dvijaḥ . nyāgrodha-potam dadṛśe phala-pallava-śobhitam .. 20 ..
प्रागुत्तरस्यां शाखायां तस्यापि ददृशे शिशुम् । शयानं पर्णपुटके ग्रसन्तं प्रभया तमः ॥ २१ ॥
प्रागुत्तरस्याम् शाखायाम् तस्य अपि ददृशे शिशुम् । शयानम् पर्ण-पुटके ग्रसन्तम् प्रभया तमः ॥ २१ ॥
prāguttarasyām śākhāyām tasya api dadṛśe śiśum . śayānam parṇa-puṭake grasantam prabhayā tamaḥ .. 21 ..
महामरकतश्यामं श्रीमद्वदनपङ्कजम् । कम्बुग्रीवं महोरस्कं सुनासं सुन्दरभ्रुवम् ॥ २२ ॥
महा-मरकत-श्यामम् श्रीमत्-वदन-पङ्कजम् । कम्बु-ग्रीवम् महा-उरस्कम् सु नासम् सुन्दर-भ्रुवम् ॥ २२ ॥
mahā-marakata-śyāmam śrīmat-vadana-paṅkajam . kambu-grīvam mahā-uraskam su nāsam sundara-bhruvam .. 22 ..
श्वासैजदलकाभातं कम्बुश्रीकर्णदाडिमम् । विद्रुमाधरभासेषत् शोणायित सुधास्मितम् ॥ २३ ॥
। विद्रुम-अधर-भासा ईषत् सुधा-स्मितम् ॥ २३ ॥
. vidruma-adhara-bhāsā īṣat sudhā-smitam .. 23 ..
पद्मगर्भारुणापाङ्गं हृद्यहासावलोकनम् । श्वासैजद्बलिसंविग्ननिम्ननाभिदलोदरम् ॥ २४ ॥
। श्वास-एजत्-बलि-संविग्न-निम्न-नाभि-दल-उदरम् ॥ २४ ॥
. śvāsa-ejat-bali-saṃvigna-nimna-nābhi-dala-udaram .. 24 ..
चार्वङ्गुलिभ्यां पाणिभ्याम् उन्नीय चरणाम्बुजम् । मुखे निधाय विप्रेन्द्रो धयन्तं वीक्ष्य विस्मितः ॥ २५ ॥
चारु-अङ्गुलिभ्याम् पाणिभ्याम् उन्नीय चरण-अम्बुजम् । मुखे निधाय विप्र-इन्द्रः धयन्तम् वीक्ष्य विस्मितः ॥ २५ ॥
cāru-aṅgulibhyām pāṇibhyām unnīya caraṇa-ambujam . mukhe nidhāya vipra-indraḥ dhayantam vīkṣya vismitaḥ .. 25 ..
(मिश्र-१२)
तद्दर्शनाद् वीतपरिश्रमो मुदा प्रोत्फुल्लहृत्पद्मविलोचनाम्बुजः । प्रहृष्टरोमाद्भुतभावशङ्कितः प्रष्टुं पुरस्तं प्रससार बालकम् ॥ २६ ॥
तद्-दर्शनात् वीत-परिश्रमः मुदा प्रोत्फुल्ल-हृद्-पद्म-विलोचन-अम्बुजः । प्रहृष्ट-रोम-अद्भुत-भाव-शङ्कितः प्रष्टुम् पुरस् तम् प्रससार बालकम् ॥ २६ ॥
tad-darśanāt vīta-pariśramaḥ mudā protphulla-hṛd-padma-vilocana-ambujaḥ . prahṛṣṭa-roma-adbhuta-bhāva-śaṅkitaḥ praṣṭum puras tam prasasāra bālakam .. 26 ..
तावच्छिशोर्वै श्वसितेन भार्गवः सोऽन्तः शरीरं मशको यथाविशत् । तत्राप्यदो न्यस्तमचष्ट कृत्स्नशो यथा पुरामुह्यदतीव विस्मितः ॥ २७ ॥
तावत् शिशोः वै श्वसितेन भार्गवः सः अन्तर् शरीरम् मशकः यथा आविशत् । तत्र अपि अदः न्यस्तम् अचष्ट कृत्स्नशस् यथा पुरा अमुह्यत् अतीव विस्मितः ॥ २७ ॥
tāvat śiśoḥ vai śvasitena bhārgavaḥ saḥ antar śarīram maśakaḥ yathā āviśat . tatra api adaḥ nyastam acaṣṭa kṛtsnaśas yathā purā amuhyat atīva vismitaḥ .. 27 ..
खं रोदसी भागणानद्रिसागरान् द्वीपान् सवर्षान् ककुभः सुरासुरान् । वनानि देशान् सरितः पुराकरान् खेटान् व्रजानाश्रमवर्णवृत्तयः ॥ २८ ॥
खम् रोदसी भागणान् अद्रि-सागरान् द्वीपान् स वर्षान् ककुभः सुर-असुरान् । वनानि देशान् सरितः पुर-आकरान् खेटान् व्रजान् आश्रम-वर्ण-वृत्तयः ॥ २८ ॥
kham rodasī bhāgaṇān adri-sāgarān dvīpān sa varṣān kakubhaḥ sura-asurān . vanāni deśān saritaḥ pura-ākarān kheṭān vrajān āśrama-varṇa-vṛttayaḥ .. 28 ..
महान्ति भूतान्यथ भौतिकान्यसौ कालं च नानायुग कल्पकल्पनम् । यत्किञ्चिदन्यद् व्यवहारकारणं ददर्श विश्वं सदिवावभासितम् ॥ २९ ॥
महान्ति भूतानि अथ भौतिकानि असौ कालम् च नाना युग कल्प-कल्पनम् । यत् किञ्चिद् अन्यत् व्यवहार-कारणम् ददर्श विश्वम् सत् इव अवभासितम् ॥ २९ ॥
mahānti bhūtāni atha bhautikāni asau kālam ca nānā yuga kalpa-kalpanam . yat kiñcid anyat vyavahāra-kāraṇam dadarśa viśvam sat iva avabhāsitam .. 29 ..
(मिश्र ११-१२)
हिमालयं पुष्पवहां च तां नदीं निजाश्रमं तत्र ऋषीन् अपश्यत । विश्वं विपश्यञ्छ्वसिताच्छिशोर्वै बहिर्निरस्तो न्यपतल्लयाब्धौ ॥ ३० ॥
हिमालयम् पुष्प-वहाम् च ताम् नदीम् निज-आश्रमम् तत्र ऋषीन् अपश्यत । विश्वम् विपश्यन् श्वसितात् शिशोः वै बहिस् निरस्तः न्यपतत् लय-अब्धौ ॥ ३० ॥
himālayam puṣpa-vahām ca tām nadīm nija-āśramam tatra ṛṣīn apaśyata . viśvam vipaśyan śvasitāt śiśoḥ vai bahis nirastaḥ nyapatat laya-abdhau .. 30 ..
(मिश्र-११)
तस्मिन् पृथिव्याः ककुदि प्ररूढं वटं च तत्पर्णपुटे शयानम् । तोकं च तत्प्रेमसुधास्मितेन निरीक्षितोऽपाङ्गनिरीक्षणेन ॥ ३१ ॥
तस्मिन् पृथिव्याः ककुदि प्ररूढम् वटम् च तद्-पर्ण-पुटे शयानम् । तोकम् च तद्-प्रेम-सुधा-स्मितेन निरीक्षितः अपाङ्ग-निरीक्षणेन ॥ ३१ ॥
tasmin pṛthivyāḥ kakudi prarūḍham vaṭam ca tad-parṇa-puṭe śayānam . tokam ca tad-prema-sudhā-smitena nirīkṣitaḥ apāṅga-nirīkṣaṇena .. 31 ..
(अनुष्टुप्)
अथ तं बालकं वीक्ष्य नेत्राभ्यां धिष्ठितं हृदि । अभ्ययादतिसङ्क्लिष्टः परिष्वक्तुं अधोक्षजम् ॥ ३२ ॥
अथ तम् बालकम् वीक्ष्य नेत्राभ्याम् धिष्ठितम् हृदि । अभ्ययात् अति सङ्क्लिष्टः परिष्वक्तुम् अधोक्षजम् ॥ ३२ ॥
atha tam bālakam vīkṣya netrābhyām dhiṣṭhitam hṛdi . abhyayāt ati saṅkliṣṭaḥ pariṣvaktum adhokṣajam .. 32 ..
तावत्स भगवान् साक्षात् योगाधीशो गुहाशयः । अन्तर्दधे ऋषेः सद्यो यथेहानीशनिर्मिता ॥ ३३ ॥
तावत् स भगवान् साक्षात् योग-अधीशः गुहा-आशयः । अन्तर्दधे ऋषेः सद्यस् यथा इह अनीश-निर्मिता ॥ ३३ ॥
tāvat sa bhagavān sākṣāt yoga-adhīśaḥ guhā-āśayaḥ . antardadhe ṛṣeḥ sadyas yathā iha anīśa-nirmitā .. 33 ..
तमन्वथ वटो ब्रह्मन् सलिलं लोकसम्प्लवः । तिरोधायि क्षणादस्य स्वाश्रमे पूर्ववन् स्थितः ॥ ३४ ॥
तम् अनु अथ वटः ब्रह्मन् सलिलम् लोक-सम्प्लवः । तिरोधायि क्षणादस्य स्व-आश्रमे पूर्ववत् स्थितः ॥ ३४ ॥
tam anu atha vaṭaḥ brahman salilam loka-samplavaḥ . tirodhāyi kṣaṇādasya sva-āśrame pūrvavat sthitaḥ .. 34 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वादशस्कन्धे मायादर्शनं नाम नवमोऽध्यायः ॥ ९ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् द्वादश-स्कन्धे मायादर्शनम् नाम नवमः अध्यायः ॥ ९ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām dvādaśa-skandhe māyādarśanam nāma navamaḥ adhyāyaḥ .. 9 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In